विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः / तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात् अभ्त्_१. नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् / मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् अभ्त्_१. नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते / प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् अभ्त्_१. दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् / स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् अभ्त्_१. स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः / तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् अभ्त्_१. तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव / देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् अभ्त्_१. रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति / कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः अभ्त्_१. त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः / पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः अभ्त्_१. जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः / तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च अभ्त्_१. श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः / जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः अभ्त्_१. तदास्वादभरावेशबृंहितां मतिषट्पदीम् / गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः अभ्त्_१. यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः / स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः अभ्त्_१. जयताज्जगदुद्धृतिक्षमो@सौ भगवत्या सह शंभुनाथ एकः / यदुदीरितशासनांशुभिर्मे प्रकटो@यं गहनो@पि शास्त्रमार्गः अभ्त्_१. सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा / अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते अभ्त्_१. इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः / अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् अभ्त्_१. श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या / बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलो@भिनवगुप्त इदं करोति अभ्त्_१. न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे / देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः अभ्त्_१. दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः / तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् अभ्त्_१. अतो@त्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः / अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् अभ्त्_१. अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या / त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति अभ्त्_१. श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् / अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः अभ्त्_१. आदिवाक्यं इह तावत्समस्तेषु शास्त्रेषु परिगीयते / अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् अभ्त्_१. मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् / इति प्रोक्तं तथा व श्रीमलिनीविजयोत्तरे अभ्त्_१. विशेषणेन बुद्धिस्थे संसारोत्तरकालिके / संभावनां निरस्यैतदभावे मोक्षमब्रवीत् अभ्त्_१. अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः / स हि लोष्टादिके@प्यस्ति न च तस्यास्ति संसृतिः अभ्त्_१. अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् / ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् अभ्त्_१. चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः / संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः अभ्त्_१. चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् / अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने अभ्त्_१. द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा / ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते अभ्त्_१. द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते / तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् अभ्त्_१. स्वतन्त्रात्मातिरिक्तस्तु तुच्छो@ तुच्छो@पि कश्चन / न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते अभ्त्_१. यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् / तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् अभ्त्_१. रागाद्यकलुषो@स्म्यन्तःशून्यो@हं कर्तृतोज्झितः / इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः अभ्त्_१. तस्मान्मुक्तो@प्यवच्छेदादवच्छेदान्तरस्थितेः / अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः अभ्त्_१. यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् / अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् अभ्त्_१. ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः / द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने अभ्त्_१. तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय / स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् अभ्त्_१. संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् / तदज्ञानं न बुद्घ्यंशो@ध्यवसायाद्यभावतः अभ्त्_१. अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी / षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा अभ्त्_१. धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् / बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृच अभ्त्_१. क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः / विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् अभ्त्_१. विकस्वराविकल्पात्मज्ञानौचित्येन यावसा / तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च अभ्त्_१. तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि / तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् अभ्त्_१. बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् / विलीयते तदा जीवन्मुक्तिः करतले स्थिता अभ्त्_१. दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका / तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता अभ्त्_१. ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ / मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः अभ्त्_१. तथाविधावसायात्मबौद्धविज्ञानसम्पदे / शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् अभ्त्_१. दीक्षया गलिते@प्यन्तरज्ञाने पौरुषात्मनि / धीगतस्यानिवृत्तत्वाद्विकल्पो@पि हि संभवेत अभ्त्_१. देहसद्भावपर्यन्तमात्मभावो यतो धियि / देहान्ते@पि न मोक्षः स्यात्पौरुषाज्ञानहानितः अभ्त्_१. बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् / तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने अभ्त्_१. विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत् / इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः अभ्त्_१. ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः / नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा अभ्त्_१. अवस्तुतापि भावानां चमत्कारैकगोचरा / यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि अभ्त्_१. प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते / अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः अभ्त्_१. प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते / तेषामपि परो जीवः स एव परमेश्वरः अभ्त्_१. सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते / ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते अभ्त्_१. अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् / यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते अभ्त्_१. [ मिस्सिन्ग्] अभ्त्_१. कामिके तत एवोक्तं हेतुवादविवर्जितम् / तस्य देवातिदेवस्य परापेक्षा न विद्यते अभ्त्_१. परस्य तदपेक्षत्वात्स्वतन्त्रो@यमतः स्थितः / अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः अभ्त्_१. नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः / विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः अभ्त्_१. विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः / ततो@स्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके अभ्त्_१. भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च / बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते अभ्त्_१. यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते / व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः अभ्त्_१. विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् / अनवच्छिन्नतारूढाववच्छेदलये@स्य च अभ्त्_१. उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः / जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् अभ्त्_१. न चास्य विमुताद्यो@यं धर्मो@न्योन्यं विभिद्यते / एक एवास्य धर्मो@सौ सर्वाक्षेपेण वर्तते अभ्त्_१. तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः / बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता अभ्त्_१. शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् / तेनाद्वयः स एवापि शक्तिमत्परिकल्पने अभ्त्_१. मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् / को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव अभ्त्_१. न वासौ परमार्थेन न किंचिद्भासनादृते / नह्यस्ति किंचित्तच्छक्तितद्वद्भेदो@पि वास्तवः अभ्त्_१. स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् / शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी अभ्त्_१. शिवश्चालुप्तविभवस्तथा सृष्टो@वभासते / स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु अभ्त्_१. तस्माद्येन मुखेनैष भात्यनंशो@पि तत्तथा / शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः अभ्त्_१. श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् / अनुभावो विकल्पो@पि मानसो न मनः शिवे अभ्त्_१. अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् / क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः अभ्त्_१. रसाद्यनध्यक्षत्वे@पि रूपादेव यथा तरुम् / विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् अभ्त्_१. बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् / कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः अभ्त्_१. सृष्टिस्थितितिरोधानसंहारानुग्रहादि च / तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् अभ्त्_१. जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि / तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः अभ्त्_१. महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः / अकलौ सकलश्चेति शिवस्यैव विभूतयः अभ्त्_१. तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् / आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते अभ्त्_१. हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् / सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् अभ्त्_१. आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः / प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः अभ्त्_१. स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति / विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः अभ्त्_१. ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति / ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः अभ्त्_१. गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे / धावनं प्लवनं चैव आयासः शक्तिवेदनम् अभ्त्_१. बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः / एष रामो व्यापको@त्र शिवः परमकारणम् अभ्त्_१. कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् / ध्यायते परमं ध्येयं गमागमपदे स्थितम् अभ्त्_१. परं शिवं तु व्रजति भैरवाख्यं जपादपि / तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः अभ्त्_१. तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः / दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया अभ्त्_१. एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् / केन नाम न रूपेण भासते परमेश्वरः अभ्त्_१. निरावरणमाभाति भात्याबृतनिजात्मकः / आवृतानावृतो भाति बहुधा भेदसंगमात् अभ्त्_१. इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् / इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् अभ्त्_१. देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते / महाभैरवदेवो@यं पतिर्यः परमः शिवः अभ्त्_१. विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते / सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च अभ्त्_१. संसारभीतिजनिताद्रवात्परामर्शतो@पि हृदि जातः / प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन अभ्त्_१. नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च / कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः अभ्त्_१. संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् / अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि अभ्त्_१. तस्य स्वामी संसारवृत्तिविघटनमहाभीमः / भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे अभ्त्_१. हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् / क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् अभ्त्_१. व्यवहरणमभिन्ने@पि स्वात्मनि भेदेन संजल्पः / निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् अभ्त्_१. तत्प्रवणमात्मलाभात्प्रभृति समस्ते@पि कर्तव्ये / बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः अभ्त्_१. इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः / शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते / तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र अभ्त्_१. ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन / तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् अभ्त्_१. इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया / मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् अभ्त्_१. तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः / सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः अभ्त्_१. तावान्पूर्णस्वभावो@सौ परमः शिव उच्यते / तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः अभ्त्_१. तासामपि च भेदांशन्यूनाधिक्यादियोजनम् / तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् अभ्त्_१. एकवीरो यामलो@थ त्रिशक्तिश्चतुरात्मकः / पञ्चमूर्तिः षडात्मायं सप्तको@ष्टकभूषितः अभ्त्_१. नवात्मा दशदिक्छक्तिरेकादशकलात्मकः / द्वादशारमहाचक्रनायको भैरवस्त्विति अभ्त्_१. एवं यावत्सहस्रारे निःसंख्यारे@पि वा प्रभुः / विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते अभ्त्_१. तेषामपि च चक्राणा स्ववर्गानुगमात्मना / ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः अभ्त्_१. चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते / षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः अभ्त्_१. नामानि चक्रदेवीनां तत्र कृत्यविभेदतः / सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् अभ्त्_१. एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः / सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते अभ्त्_१. अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् / ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः अभ्त्_१. स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा / पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् अभ्त्_१. अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते / ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा अभ्त्_१. दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह / तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् अभ्त्_१. पुष्टिं कुरु रसेनैनमाप्यायय तरामिति / संजल्पो@पि विकल्पात्मा किं तामेव न पूरयेत् अभ्त्_१. अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् / तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् अभ्त्_१. तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते / अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः अभ्त्_१. ये@प्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् / ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः अभ्त्_१. ते@पि वेद्यं विविञ्चाना बोधाभेदेन मन्वते / तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः अभ्त्_१. स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः / वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता अभ्त्_१. अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका / विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका अभ्त्_१. तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः / अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् अभ्त्_१. उन्मग्नामेव पश्यन्तस्तं विदन्तो@पि नो विदुः / तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते अभ्त्_१. चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या / देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत अभ्त्_१. निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् / विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् अभ्त्_१. सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः / स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः अभ्त्_१. याजमानी संविदेव याज्या नान्येति चोदितम् / न त्वाकृतिः कुतो@प्यन्या देवता न हि सोचिता अभ्त्_१. विधिश्च नोक्तः को@प्यत्र मन्त्रादि वृत्तिधाम वा / सो@यमात्मानमावृत्य स्थितो जडपदं गतः अभ्त्_१. आवृतानावृतात्मा तु देवादिस्थावरान्तगः / जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता अभ्त्_१. तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् / तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् १३६च् / अभ्त्_१. तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः / अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् अभ्त्_१. संविद्रूपे न भेदो@स्ति वास्तवो यद्यपि ध्रुवे / तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते अभ्त्_१. तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये / समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते अभ्त्_१. अतः कंचित्प्रमातारं प्रति प्रथयते विभुः / पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् अभ्त्_१. विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् / अणूनां तत्परं ज्ञानं तदन्यदपरं बहु अभ्त्_१. तच्च साक्षादुपायेन तदुपायादिनापि च / प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते अभ्त्_१. तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः / व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते अभ्त्_१. ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते / ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् अभ्त्_१. उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः / एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् अभ्त्_१. तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि / यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् अभ्त्_१. यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् / भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता अभ्त्_१. भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् / यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः अभ्त्_१. यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम् / क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः अभ्त्_१. यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा / रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने अभ्त्_१. योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः / स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते अभ्त्_१. स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः / तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका अभ्त्_१. सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी / क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ अभ्त्_१. लोके@पि किल गच्छामीत्येवमन्तः स्फुरैव या / सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया अभ्त्_१. तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः / ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् अभ्त्_१. मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः / स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः अभ्त्_१. क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि / असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् अभ्त्_१. परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् / शक्तीनां धर्मरूपाणामाश्रयः को@पि कथ्यते अभ्त्_१. ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा / एकः शिव इतीयं वाग्वस्तुशून्यैव जायते अभ्त्_१. तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् / विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु अभ्त्_१. यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् / नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते अभ्त्_१. यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता / न सा मुख्या ततो नायं प्रसंग इति निश्चितम् अभ्त्_१. एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि / यतो वहति तेनास्यां चित्रता दृश्यतां किल अभ्त्_१. क्रियोपाये@भ्युपायानां ग्राह्यबाह्यविभेदिनाम् / भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् अभ्त्_१. अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे / उपायभेदान्मोक्षे@पि भेदः स्यादिति सूरयः अभ्त्_१. मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः / हेतुभेदे@पि नो भिन्ना घटध्वंसादिवृत्तिवत् अभ्त्_१. तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि / आदेशि परमेशित्रा समावेशविनिर्णये अभ्त्_१. अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः / उत्पद्यते य आवेशः शाम्भवो@साविदीरितः अभ्त्_१. उच्चाररहितं वस्तु चेतसैव विचिन्तयन् / यं समावेशमाप्नोति शाक्तः सो@त्राभिधीयते अभ्त्_१. उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः / यो भवेत्स समावेशः सम्यगाणव उच्यते अभ्त्_१. अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता / तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते अभ्त्_१. सा कथं भवतीत्याह गुरुणातिगरीयसा / ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना अभ्त्_१. तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः / आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् अभ्त्_१. परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः / तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् अभ्त्_१. विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् / मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् अभ्त्_१. आस्ते हृदयनैर्मल्यातिशये तारतम्यतः / ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् अभ्त्_१. इतरत्तु तथा सत्यं तद्विभागो@यमीदृशः / जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः अभ्त्_१. चैतन्येन समावेशस्तादात्म्यं नापरं किल / तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी अभ्त्_१. शिवतादात्म्यमापन्ना समावेशो@त्र शांभवः / तत्प्रसादात्पुनः पश्चाद्भाविनो@त्र विनिश्चयाः अभ्त्_१. सन्तु तादात्म्यमापन्ना न तु तेषामुपायता / विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् अभ्त्_१. प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते / गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा अभ्त्_१. गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते / अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः अभ्त्_१. सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् / केवलं संविदः सो@यं नैर्मल्येतरविश्रमः अभ्त्_१. यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि / निशीथे@पि मणिज्ञानी विद्युत्कालप्रदर्शितान् अभ्त्_१. तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि / नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो अभ्त्_१. अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते / पञ्चाशद्विधता चास्य समावेशस्य वर्णिता अभ्त्_१. तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः / एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् अभ्त्_१. अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् / पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः अभ्त्_१. अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल / अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथो@पि तत् अभ्त्_१. भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः / तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि अभ्त्_१. सर्वप्रतीतिसद्भावगोचरं भूतमेव हि / विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् अभ्त्_१. रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते / को@वकाशो भवेत्तत्र भौतावेशादिवर्णने अभ्त्_१. प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् / नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः अभ्त्_१. उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता / भूतादीनां यथा सात्र न तथा द्वयवर्जिते अभ्त्_१. यावान्षट्त्रिंशकः सो@यं यदन्यदपि किंचन / एतावती महादेवी रुद्रशक्तिरनर्गला अभ्त्_१. तत एव द्वितीये@स्मिन्नधिकारे न्यरूप्यत / धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः अभ्त्_१. तस्माद्यथा पुरस्थे@र्थे गुणाद्यंशांशिकामुखात् / निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् अभ्त्_१. अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः / अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः अभ्त्_१. सर्वशो@प्यथ वांशेन तं विभुं परमेश्वरम् / उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् अभ्त्_१. ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् / धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते अभ्त्_१. ऊचिवानत एव श्रीविद्याधिपतिरादरात् / त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् / अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः अभ्त्_१. तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् / अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः अभ्त्_१. तस्यां दिवि सुदीप्तात्मा निष्कम्पो@चलमूर्तिमान् / काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका अभ्त्_१. प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा / आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते अभ्त्_१. तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् / तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः अभ्त्_१. त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः / आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये अभ्त्_१. तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा / आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः अभ्त्_१. तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता / भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः अभ्त्_१. सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः / शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः अभ्त्_१. इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः / इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् अभ्त्_१. अविकल्पपथारूढो येन येन पथा विशेत् / धरासदाशिवान्तेन तेन तेन शिवीभवेत् अभ्त्_१. निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि / प्रकाशे तन्मुखेनैव संवित्परशिवात्मता अभ्त्_१. एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः / शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः अभ्त्_१. शाक्तो@थ भण्यते चेतोधी-मनोहंकृति स्फुटम् / सविकल्पतया मायामयमिच्छादि वस्तुतः अभ्त्_१. अभिमानेन संकल्पाध्यवसायक्रमेण यः / शाक्तः स मायोपायो@पि तदन्ते निर्विकल्पकः अभ्त्_१. पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् / अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा अभ्त्_१. एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने / यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः अभ्त्_१. तथा संकोचसंभारविलायनपरस्य तु / सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला अभ्त्_१. ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा / अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् अभ्त्_१. उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः / शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता अभ्त्_१. अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः / विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः अभ्त्_१. ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् / नाधोवर्तितया तेन कथितं कथमीदृशम् अभ्त्_१. उच्यते वस्तुतो@स्माकं शिव एव तथाविधः / स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा अभ्त्_१. द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् / अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः अभ्त्_१. येन बुद्धि-मनोभूमावपि भाति परं पदम् अभ्त्_१. द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति / प्रयात एव तद्रूढिं विना नैव हि किंचन अभ्त्_१. संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतो@ब्रवीत् / कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् अभ्त्_१. विकल्पापेक्षया यो@पि प्रामाण्यं प्राह तन्मते / तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता अभ्त्_१. रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् / अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते अभ्त्_१. अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते / भेदाभेदात्मकोपायं भेदोपायं तदाणवम् अभ्त्_१. अन्ते ज्ञाने@त्र सोपाये समस्तः कर्मविस्तरः / प्रस्फुटेनैव रूपेण भावी सो@न्तर्भविष्यति अभ्त्_१. क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् / उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् अभ्त्_१. सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् / यतो हि कल्पनामात्रं स्वपरादिविभूतयः अभ्त्_१. तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः / गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते अभ्त्_१. यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः / सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः अभ्त्_१. तत एव स्वसंतानं ज्ञानी तारयतीत्यदः / युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः अभ्त्_१. तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता / दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् अभ्त्_१. ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् / अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् / इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् अभ्त्_१. मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् / तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् अभ्त्_१. तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् / मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् अभ्त्_१. एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् / मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् अभ्त्_१. ततो@पि परमं ज्ञानमुपायादिविवर्जितम् / आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते अभ्त्_१. तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः / अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते अभ्त्_१. मालिन्यां सूचितं चैतत्पटले@ष्टादशे स्फुटम् / न चैतदप्रसन्नेन शंकरेणेति वाक्यतः अभ्त्_१. इत्यनेनैव पाठेन मालिनीविजयोत्तरे / इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् / तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने अभ्त्_१. तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते / अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते अभ्त्_१. तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा / संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा अभ्त्_१. एतत्किमिति मुख्ये@स्मिन्नेतदंशः सुनिश्चितः / संशयो@स्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः अभ्त्_१. किमित्येतस्य शब्दस्य नाधिको@र्थः प्रकाशते / किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् अभ्त्_१. स्थाणुर्वा पुरुषो वेति न मुख्यो@स्त्येष संशयः / भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि अभ्त्_१. आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः / संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः अभ्त्_१. तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् / प्रथमं स इहोद्देशः प्रश्नः संशय एव च अभ्त्_१. तथानुद्घाटिताकारभावप्रसरवर्त्मना / प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता अभ्त्_१. तथान्तरपरामर्शनिश्चयात्मतिरोहितेः / प्रसरानन्तरोद्भूतसंहारोदयभागपि अभ्त्_१. यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि / अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते अभ्त्_१. स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः / गुरुशिष्यपदे@प्येष देहभेदो ह्यतात्त्विकः अभ्त्_१. बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः / बहिराभासयत्येव द्राक्सामान्यविशेषतः अभ्त्_१. स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् / धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका अभ्त्_१. स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा / निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः अभ्त्_१. तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् / उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः अभ्त्_१. निर्णीततावद्धर्मांशपृष्ठपातितया पुनः / भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् अभ्त्_१. दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः / उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् अभ्त्_१. निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः / परीक्षणं तथाध्यक्षे विकल्पानां परम्परा अभ्त्_१. नगो@यमिति चोद्देशो धूमित्वादग्निमानिति / लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् अभ्त्_१. उद्देशो@यमिति प्राच्यो गोतुल्यो गवयाभिधः / इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् अभ्त्_१. स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् / अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी अभ्त्_१. विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः / वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता अभ्त्_१. तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता / यतो ह्यकालकलिता संधत्ते सार्वकालिकम् अभ्त्_१. स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः / अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते अभ्त्_१. तत्पृष्ठपातिभूयोंशसृष्टिसंहारविश्रमाः / परीक्षा कथ्यते मातृरुचिता कल्पितावधिः अभ्त्_१. प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः / परा परापरा देवी चरमा त्वपरात्मिका अभ्त्_१. इच्छादि शक्तित्रितयमिदमेव निगद्यते / एतत्प्राणित एवायं व्यवहारः प्रतायते अभ्त्_१. एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने / परसंबन्धरूपत्वमभिसंबन्धपञ्चके अभ्त्_१. यथोक्तं रत्नमालायां सर्वः परकलात्मकः / महानवान्तरो दिव्यो मिश्रो@न्यो@न्यस्तु पञ्चमः अभ्त्_१. भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते / संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी अभ्त्_१. अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् / शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः अभ्त्_१. इत्थं संविदियं देवी स्वभावादेव सर्वदा / उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी अभ्त्_१. तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् / विज्ञानभिद्गतोपायः परोपायस्तृतीयकः अभ्त्_१. शाक्तोपायो नरोपायः कालोपायो@थ सप्तमः / चक्रोदयो@थ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् अभ्त्_१. कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती / दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ अभ्त्_१. प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः / तुलादीक्षाथ पारोक्षी लिङ्गोद्धारो@भिषेचनम् अभ्त्_१. अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् / लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् अभ्त्_१. रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः / एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् अभ्त्_१. आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् / इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः अभ्त्_१. आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् / सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् अभ्त्_१. किं चित्रमणवो@प्यस्य दृशा भैरवतामियुः / इत्येष पूर्वजोद्देशः कथ्यते त्वनुजो@धुना अभ्त्_१. विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् / द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता अभ्त्_१. विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः / मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते अभ्त्_१. विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् / योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः अभ्त्_१. संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् / निषेधविधितुल्यत्वं शाक्तोपाये@त्र चर्च्यते अभ्त्_१. बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता / उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् अभ्त्_१. करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते / चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् अभ्त्_१. संहारचित्रता वर्णोदयः कालाध्वकल्पने / चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् अभ्त्_१. परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् / एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये अभ्त्_१. कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् / वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् अभ्त्_१. प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते / कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् अभ्त्_१. वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् / कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते अभ्त्_१. अभेदभावनाकम्पहासौ त्वध्वोपयोजने / संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता अभ्त्_१. अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता / शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः अभ्त्_१. तिरोभावव्यपगमो ज्ञानेन परिपूर्णता / उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् अभ्त्_१. शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् / सामान्यन्यासभेदो@र्घपात्रं चैतत्प्रयोजनम् अभ्त्_१. द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् / प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् अभ्त्_१. विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् / देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने अभ्त्_१. अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः / क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः अभ्त्_१. अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् / तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया अभ्त्_१. शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम् / स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः अभ्त्_१. समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके / मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः अभ्त्_१. अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः / अध्वन्यासविधिः शोध्यशोधकादिविचित्रता अभ्त्_१. दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् / भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके अभ्त्_१. सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहो@थ योजनम् / अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ अभ्त्_१. जननादिविहीनत्वं मन्त्रभेदो@थ सुस्फुटः / इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके अभ्त्_१. कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः / ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे अभ्त्_१. अधिकारपरीक्षान्तःसंस्कारो@थ तुलाविधिः / इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके अभ्त्_१. मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः / बलाबलविचारश्चेत्येकविंशाह्निके विधिः अभ्त्_१. श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः / शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे अभ्त्_१. परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः / तद्विभागः साधकत्वमभिषेकविधौ त्वियत् अभ्त्_१. अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः / चतुर्विंशे@न्त्ययागाख्ये वक्तव्यं परिचर्च्यते अभ्त्_१. प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः / पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः अभ्त्_१. प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा / लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् अभ्त्_१. पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने / नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः अभ्त्_१. पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् / गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् अभ्त्_१. मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा / व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् अभ्त्_१. नैमित्तिकप्रकाशाख्ये @प्यष्टाविंशाह्निके स्थितम् / अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः अभ्त्_१. अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः / दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके अभ्त्_१. मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् / शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् अभ्त्_१. विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके / गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् अभ्त्_१. कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने / द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः अभ्त्_१. न भेदो@स्ति ततो नोक्तमुद्देशान्तरमत्र तत् / मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः अभ्त्_१. इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे / अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् अभ्त्_१. आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः / आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः अभ्त्_१. मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम / यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का अभ्त्_१. भावव्रात? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे / यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्ये@मुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् अभ्त्_१. इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते / गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा अभ्त्_१. यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं / तन्निर्णेतुं प्रकरणमिदमारभे@हं द्वितीयम् अभ्त्_२. अनुपायं हि यद्रूपं को@र्थो देशनयात्र वै / सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते अभ्त्_२. अनुपायमिदं तत्त्वमित्युपायं विना कुतः / स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति अभ्त्_२. यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ / स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः अभ्त्_२. एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते / के@प्यंशांशिकया तेन विशन्त्यन्ये निरंशतः अभ्त्_२. तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः / उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता अभ्त्_२. तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् / निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते अभ्त्_२. तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति / स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते अभ्त्_२. ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते / प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् अभ्त्_२. संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः / तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् अभ्त्_२. यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन / स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् अभ्त्_२. त्यजावधानानि ननु क्व नाम धत्से@वधानं विचिनु स्वयं तत् / पूर्णे@वधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् अभ्त्_२. तेनावधानप्राणस्य भावनादेः परे पथि / भैरवीये कथंकारं भवेत्साक्षादुपायता अभ्त्_२. ये@पि साक्षादुपायेन तद्रूपं प्रविविञ्चते / नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः अभ्त्_२. किं च यावदिदं बाह्यमान्तरोपायसंमतम् / तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः अभ्त्_२. नीलं पीतं सुखमिति प्रकाशः केवलः शिवः / अमुष्मिन्परमाद्वैते प्रकाशात्मनि को@परः अभ्त्_२. उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः अभ्त्_२. इदं द्वैतम@यं भेद इदमद्वैतमित्यपि / प्रकाशवपुरेवायं भासते परमेश्वरः अभ्त्_२. अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः / घटकुम्भवदेकार्थाः शब्दास्ते@प्येकमेव च अभ्त्_२. प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् / प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः अभ्त्_२. अप्रकाशे@थ तस्मिन्वा वस्तुता कथमुच्यते / न प्रकाशविशेषत्वमत एवोपपद्यते अभ्त्_२. अत एकप्रकाशो@यमिति वादे@त्र सुस्थिते / दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः अभ्त्_२. प्रकाशमात्रमुदितमप्रकाशनिषेधनात् / एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् अभ्त्_२. नैष शक्तिर्महादेवी न परत्राश्रितो यतः / न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः अभ्त्_२. नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् / न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः अभ्त्_२. न मन्त्रो न च मन्त्र्यो@सौ न च मन्त्रयिता प्रभुः / न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः अभ्त्_२. स्थानासननिरोधार्घसंघानावाहनादिकम् / विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते अभ्त्_२. न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् / दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् अभ्त्_२. अयमित्यवभासो हि यो भावो@वच्छिदात्मकः / स एव घटवल्लोके संस्तथा नैष भैरवः अभ्त्_२. असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता / विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः अभ्त्_२. आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः / सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् अभ्त्_२. श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् / शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् अभ्त्_२. न भावो नाप्यभावो न द्वयं वाचामगोचरात् / अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् अभ्त्_२. इति ये रूढसंवित्तिपरमार्थपवित्रिताः / अनुत्तरपथे रूढास्ते@भ्युपायानियन्त्रिताः अभ्त्_२. तेषामिदं समाभाति सर्वतो भावमण्डलम् / पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् अभ्त्_२. एतेषां सुखदुःखांशशंकातंकविकल्पनाः / निर्विकल्पपरावेशमात्रशेषत्वमागताः अभ्त्_२. एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना / न समय्यादिकाचार्यपर्यन्तः को@पि विश्रमः अभ्त्_२. समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः / नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् अभ्त्_२. स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् / यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् अभ्त्_२. तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः / ते@पि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता अभ्त्_२. एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते / दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते अभ्त्_२. स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः / पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा अभ्त्_२. ततो@पि योगजं रूपं ततो@पि ज्ञानमुत्तरम् / ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति अभ्त्_२. सो@पि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् / अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् अभ्त्_२. अनुग्राह्यानुसारेण विचित्रः स च कथ्यते / परापराद्युपायौघसंकीर्णत्वविभेदतः अभ्त्_२. तदर्थमेव चास्यापि परमेश्वररूपिणः / तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः अभ्त्_२. नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना / नानिर्मलचितः पुंसो@नुग्रहस्त्वनुपायकः अभ्त्_२. श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके / इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः अभ्त्_२. गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् / विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः अभ्त्_२. इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् अभ्त्_२. अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः ०ब् अभ्त्_३. प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः / तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते अभ्त्_३. यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति / न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते अभ्त्_३. अतो@सौ परमेशानः स्वात्मव्योमन्यनर्गलः / इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः अभ्त्_३. निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः / अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः अभ्त्_३. सदृशं भाति नयनदर्पणाम्बरवारिषु / तथा हि निर्मले रूपे रूपमेवावभासते अभ्त्_३. प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् / दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति अभ्त्_३. न हि स्पर्शो@स्य विमलो रूपमेव तथा यतः / नैर्मल्यं चातिनिविडसजातीयैकसंगतिः अभ्त्_३. स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या / अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् अभ्त्_३. नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः / अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया अभ्त्_३. भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् / तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् अभ्त्_३. तदेवमुभयाकारमवभासं प्रकाशयन् / विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले अभ्त्_३. यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् / विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते अभ्त्_३. देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः / तेनैव तेजसा ज्ञत्वे को@र्थः स्याद्दर्पणेन तु अभ्त्_३. विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः / रूपं दृश्येत वदने निजे न मकुरान्तरे अभ्त्_३. स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् / न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः अभ्त्_३. रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः / न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् अभ्त्_३. न्यग्भावो ग्राह्यताभावात्तदभावो@प्रमाणतः / स चार्थसंगमाभावात्सो@प्यादर्शे@नवस्थितेः अभ्त्_३. अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते / नह्यादर्शे संस्थितो@सौ तद्दृष्टौ स उपायकः अभ्त्_३. तस्मात्तु नैष भेदेन यद्भाति तत उच्यते / आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् अभ्त्_३. दीपचक्षुर्विबोधानां काठिन्याभावतः परम् / सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् अभ्त्_३. एतच्च देवदेवेन दर्शितं बोधवृद्धये / मूढानां वस्तु भवति ततो@प्यन्यत्र नाप्यलम् अभ्त्_३. प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न / स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना अभ्त्_३. न देशों नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न घनता / न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः अभ्त्_३. इत्थं प्रदर्शिते@मुत्र प्रतिबिम्बनवर्त्मनि / शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते अभ्त्_३. न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् / तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि अभ्त्_३. पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ / चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् अभ्त्_३. इदमन्यस्य वेद्यस्य रूपमित्यवभासते / यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति अभ्त्_३. नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः / तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् अभ्त्_३. मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् / स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः अभ्त्_३. सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः अभ्त्_३. अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् / वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् अभ्त्_३. यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् / तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् अभ्त्_३. शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् / अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके अभ्त्_३. क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका / तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः अभ्त्_३. इत्थं प्रदर्शिते@मुत्र प्रतिबिम्बसतत्त्वके / प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति अभ्त्_३. शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः / स्पर्शो@न्यो@पि दृढाघातशूलशीतादिकोद्भवः / परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः अभ्त्_३. न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् अभ्त्_३. एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः अभ्त्_३. यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते / तथा रसस्पर्शनसौरभादिकं न लक्ष्यते@क्षेण विना स्थितं त्वपि अभ्त्_३. न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः अभ्त्_३. अतो@न्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता / तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् अभ्त्_३. न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः / अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः अभ्त्_३. असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा / करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि नाडिसंततौ अभ्त्_३. तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् / नाथस्य वदते@मुष्य विमलां विश्वरूपताम् अभ्त्_३. यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः / तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् अभ्त्_३. तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् / प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् अभ्त्_३. यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् / प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि अभ्त्_३. अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् / अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् अभ्त्_३. प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते / तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् अभ्त्_३. यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते / तदपि प्रतिबिम्बत्वमेति बोधे@न्यथा त्वसत् अभ्त्_३. इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् / साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते अभ्त्_३. ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् / किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् अभ्त्_३. नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते / अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा अभ्त्_३. स्वरूपानपहानेन पररूपसदृक्षताम् / प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् अभ्त्_३. उक्तं च सति बाह्ये@पि धीरेकानेकवेदनात् / अनेकसदृशाकारा न त्वनेकेति सौगतैः अभ्त्_३. नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते / अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् / प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा अभ्त्_३. बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् / परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते अभ्त्_३. लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् / प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ अभ्त्_३. ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः / किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न अभ्त्_३. अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे / न हानिर्हेतुमात्रे तु प्रश्नो@यं पर्यवस्यति अभ्त्_३. तत्रापि च निमित्ताख्ये नोपादाने कथंचन / निमित्तकारणानां च कदाचित्क्वापि संभवः अभ्त्_३. अत एव पुरोवर्तिन्यालोके स्मरणादिना / निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः अभ्त्_३. अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी / कस्माद्भाति न वै संविद् विच्छेदं पुरतो गता अभ्त्_३. अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् / यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने अभ्त्_३. अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे / इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे / प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः अभ्त्_३. अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः / तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् अभ्त्_३. अकुलस्यास्य देवस्य कुलप्रथनशालिनी / कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः अभ्त्_३. तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः / आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते अभ्त्_३. परापरात्परं तत्त्वं सैषा देवी निगद्यते / तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः अभ्त्_३. देवीयामलशास्त्रे सा कथिता कालकर्षिणी / महाडामरके यागे श्रीपरा मस्तके तथा अभ्त्_३. श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता / संघट्टे@स्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् अभ्त्_३. इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः / सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते अभ्त्_३. तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः / स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः अभ्त्_३. ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः / इयं परापरा देवी घोरां या मातृमण्डलीम् अभ्त्_३. सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् / ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः अभ्त्_३. ऊनताभासनं संविन्मात्रत्वे जायते तदा / रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते अभ्त्_३. रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः / इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः अभ्त्_३. इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या / इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् अभ्त्_३. अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया / इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना अभ्त्_३. उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा / तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः अभ्त्_३. इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् / क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् अभ्त्_३. प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता / क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि अभ्त्_३. क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः / अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता अभ्त्_३. क्षोभो@तदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः / यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् अभ्त्_३. क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः / संविदामीषणादीनामनुद्भिन्नविशेषकम् अभ्त्_३. यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे / तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः / यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः अभ्त्_३. एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् / हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् अभ्त्_३. जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः / कृतार्था जायते क्षोभाधारो@त्रैतत्प्रकीर्तितम् अभ्त्_३. ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति / विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति अभ्त्_३. क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया / श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः अभ्त्_३. प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् / नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति अभ्त्_३. आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् / इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् अभ्त्_३. उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् / यो@नुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् अभ्त्_३. ताविच्छोन्मेषसंघट्टाद्गच्छतो@तिविचित्रताम् / अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते अभ्त्_३. त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् / अनुत्तरानन्दशक्ती तत्र रूढिमुपागते अभ्त्_३. त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् / त एवोन्मेषयोगे@पि पुनस्तन्मयतां गते अभ्त्_३. क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् / इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि अभ्त्_३. ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते / नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ अभ्त्_३. कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ / शृणु तावदयं संविन्नाथो@परिमितात्मकः अभ्त्_३. अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः / अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः अभ्त्_३. महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् / परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् अभ्त्_३. जडाद्विलक्षणो बोधो यतो न परिमीयते / तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः अभ्त्_३. आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् / स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् अभ्त्_३. एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः / अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके अभ्त्_३. त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने / निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः अभ्त्_३. शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् / इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते अभ्त्_३. तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् / एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा अभ्त्_३. न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः / लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् / यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः अभ्त्_३. इत्थं परामृतपदादारभ्याष्टकमीदृशम् / ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् अभ्त्_३. अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् / कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी अभ्त्_३. उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि / अविभागः प्रकाशो यः स बिन्दुः परमो हि नः अभ्त्_३. तत्त्वरक्षाविधाने च तदुक्तं परमेशिना / हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः अभ्त्_३. बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः / यो@सौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः अभ्त्_३. अध+ऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते / ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् अभ्त्_३. स्वयं तन्निरपेक्षो@सौ प्रकाशो गुरुराह च / यन्न सूर्यो न वा सोमो नाग्निर्भासयते@पि च अभ्त्_३. न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः / किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते अभ्त्_३. स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः / प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् अभ्त्_३. दुर्दर्शनो@पि घर्मांशुः पतितः पाथसां पथि / नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् अभ्त्_३. सूर्यादिषु प्रकाशो@सावुपाधिकलुषीकृतः / संवित्प्रकाशं माहेशमत एव ह्यपेक्षते अभ्त्_३. प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् / प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते अभ्त्_३. सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते / अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ अभ्त्_३. भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् / ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः अभ्त्_३. यो@यं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् / संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी अभ्त्_३. स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः / सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः अभ्त्_३. तत एवाग्निरुदितश्चित्रभानुर्महेशिना / ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः अभ्त्_३. स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः / अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः अभ्त्_३. न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते / तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् अभ्त्_३. मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता / उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् अभ्त्_३. उदितैव सती पूर्णा मातृमेयादिरूपिणी / पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता अभ्त्_३. मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते / इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता अभ्त्_३. अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते / एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते अभ्त्_३. क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते / यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् अभ्त्_३. प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः / अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति अभ्त्_३. उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः / मकारादन्य एवायं तच्छायामात्रधृद्यथा अभ्त्_३. रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः / इकार एव रेफांशच्छाययान्यो यथा स्वरः अभ्त्_३. तथैव महलेशादः सो@न्यो द्वेधास्वरो@पि सन् / अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा अभ्त्_३. सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् / उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने अभ्त्_३. कला सप्तदशी तस्मादमृताकाररूपिणी / परापरस्वस्वरूपबिन्दुगत्या विसर्पिता अभ्त्_३. प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा / शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा अभ्त्_३. विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च / शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते अभ्त्_३. विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः / स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः अभ्त्_३. विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः / हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते अभ्त्_३. अनुत्तरं परं धाम तदेवाकुलमुच्यते / विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते अभ्त्_३. विसर्गता च सैवास्या यदानन्दोदयक्रमात् / स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः अभ्त्_३. विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः / इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः अभ्त्_३. अत एव विसर्गो@यमव्यक्तहकलात्मकः / कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते अभ्त्_३. यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् / ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् अभ्त्_३. तत्र चित्तं समाधाय वशयेद्युगपज्जगत् / अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः अभ्त्_३. तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः / अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् अभ्त्_३. पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः / इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः अभ्त्_३. चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः / या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः अभ्त्_३. द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् / उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते अभ्त्_३. ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् / ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् अभ्त्_३. इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः / सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् अभ्त्_३. सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता / विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति अभ्त्_३. तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा / वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् अभ्त्_३. इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः / वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा अभ्त्_३. इदं चतुष्कमन्तःस्थमत एव निगद्यते / इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः अभ्त्_३. सजातीयकशक्तीनामिच्छाद्यानां च योजनम् / क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि अभ्त्_३. अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः / अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये अभ्त्_३. प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः / अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये अभ्त्_३. न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता / इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता अभ्त्_३. शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता / अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् अभ्त्_३. इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः / तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना अभ्त्_३. बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् / तत एव सकारे@स्मिन्स्फुटं विश्वं प्रकाशते अभ्त्_३. अमृतं च परं धाम योगिनस्तत्प्रचक्षते / क्षोभाद्यन्तविरामेषु तदेव च परामृतम् अभ्त्_३. सीत्कारसुखसद्भावसमावेशसमाधिषु / तदेव ब्रह्म परममविभक्तं प्रचक्षते अभ्त्_३. उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे / शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके अभ्त्_३. काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् / विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् अभ्त्_३. कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते / विषस्य चामृतं तत्त्वं छाद्यत्वे@णोश्च्युते सति अभ्त्_३. व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः / निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् अभ्त्_३. क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः / इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् अभ्त्_३. एतत्त्रयसमावेशः शिवो भैरव उच्यते / अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः अभ्त्_३. विषतत्त्वे संप्रविश्य न भूतं न विषं न च / ग्रहः केवल एवाहमिति भावनया स्फुरेत् अभ्त्_३. नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता / कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता अभ्त्_३. तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता / सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् अभ्त्_३. यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः / भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् अभ्त्_३. ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः / षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः अभ्त्_३. एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् / ऊष्मेति कथितं नाम भैरवेणामलात्मना अभ्त्_३. कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः / योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् अभ्त्_३. तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता / पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् अभ्त्_३. चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् / आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् अभ्त्_३. भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् / इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा अभ्त्_३. व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल / स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ अभ्त्_३. षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः / सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः अभ्त्_३. अतो@त्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः / चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् अभ्त्_३. भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः / घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् अभ्त्_३. अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते / अनुत्तरं परामृश्यपरामर्शकभावतः अभ्त्_३. संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा / अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते अभ्त्_३. संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते / अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते अभ्त्_३. इच्छादिकं भोग्यमेव तत एवास्य शक्तिता / भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः अभ्त्_३. अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् / तदेव त्रितयं प्राहुर्भैरवस्य परं महः अभ्त्_३. तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते / तेनाक्षिप्तं यतो विश्वमतो@स्मिन्समुपासिते अभ्त्_३. विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् / इत्येष महिमैतावानिति तावन्न शक्यते अभ्त्_३. अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् / तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः अभ्त्_३. विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः / एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः अभ्त्_३. विमर्शात्मैक एवान्याः शक्तयो@त्रैव निष्ठिताः / एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते अभ्त्_३. एकामर्शस्वभावत्वे शब्दराशिः स भैरवः / आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका अभ्त्_३. सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी / प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी अभ्त्_३. एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका / इत्थं नादानुवेधेन परामर्शस्वभावकः अभ्त्_३. शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः / विसर्ग एव शाक्तो@यं शिवबिन्दुतया पुनः अभ्त्_३. गर्भीकृतानन्तविश्वः श्रयते@नुत्तरात्मताम् / अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः अभ्त्_३. परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः / अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि अभ्त्_३. परामर्शो निर्भरत्वादहमित्युच्यते विभोः / अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी अभ्त्_३. प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते / तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे अभ्त्_३. तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः / तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः अभ्त्_३. संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा / तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् अभ्त्_३. एकमेव परं रूपं भैरवस्याहमात्मकम् / विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते अभ्त्_३. तत एवसमस्तो@यमानन्दरसविभ्रमः / तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके अभ्त्_३. माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता / आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः अभ्त्_३. पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले / चित्तविश्रान्तिसंज्ञो@यमाणवस्तदनन्तरम् अभ्त्_३. दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि / चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः अभ्त्_३. तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि / रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे अभ्त्_३. प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् / चित्तप्रलयनामासौ विसर्गः शाम्भवः परः अभ्त्_३. तत्त्वरक्षाविधाने@तो विसर्गत्रैधमुच्यते / हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते अभ्त्_३. विसर्गो@न्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः / द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः अभ्त्_३. एकीभूतं विभात्यत्र जगदेतच्चराचरम् / ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा अभ्त्_३. तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः / ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः अभ्त्_३. तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः / एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः अभ्त्_३. निरूपितो@यमर्थः श्रीसिद्धयोगीश्वरीमते / सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका अभ्त्_३. तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः / आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला अभ्त्_३. ककारादिसकारान्ता विसर्गात्पञ्चधा स च / बहिश्चान्तश्च हृदये नादे@थ परमे पदे अभ्त्_३. बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः / आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् अभ्त्_३. गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् / पूज्यः सो@हमिव ज्ञानी भैरवो देवतात्मकः अभ्त्_३. श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः / तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति अभ्त्_३. विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता / ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् अभ्त्_३. यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् / अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् अभ्त्_३. तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् / भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् अभ्त्_३. शब्दो@पि मधुरो यस्माद्वीर्योपचयकारकः / तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् अभ्त्_३. तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता / तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते अभ्त्_३. यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः / वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता अभ्त्_३. शब्दराशिः स एवोक्तो मातृका साच कीर्तिता / क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते अभ्त्_३. बीजयोनिसमापत्तिविसर्गोदयसुन्दरा / मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी अभ्त्_३. एषा वस्तुत एकैव परा कालस्य कर्षिणी / शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते अभ्त्_३. तस्य प्रत्यवमर्शो यः परिपूर्णो@हमात्मकः / स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् अभ्त्_३. विभागाभासने चास्य त्रिधा वपुरुदाहृतम् / पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् अभ्त्_३. तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः / तत्र या स्वरसन्दर्भसुभगा नादरूपिणी अभ्त्_३. सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः / अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते अभ्त्_३. स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी / तदस्यां नादरूपायां संवित्सविधवृत्तितः अभ्त्_३. साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते / येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् अभ्त्_३. अविदन्तो मग्नसंविन्मानास्त्वहृदया इति / यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः अभ्त्_३. स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी / मध्यायाश्चाविभागांशसद्भाव इति रक्तता अभ्त्_३. अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् / अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः अभ्त्_३. किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति / या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् अभ्त्_३. सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा / अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् अभ्त्_३. पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते / षड्जं करोमि मधुरं वादयामि ब्रुवे वचः अभ्त्_३. पृथगेवानुसन्धानत्रयं संवेद्यते किल / एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् अभ्त्_३. तत्परं त्रितयं तत्र शिवः परचिदात्मकः / विभागाभासनायां च मुख्यास्तिस्रो@त्र शक्तयः अभ्त्_३. अनुत्तरा परेच्छा च परापरतया स्थिता / उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते अभ्त्_३. क्षोभरूपात्पुनस्तासामुक्ताः षट् संविदो@मलाः / आसामेव समावेशात्क्रियाशक्तितयोदितात् अभ्त्_३. संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते / एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् अभ्त्_३. एतावता देवदेवः पूर्णशक्तिः स भैरवः / परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः अभ्त्_३. इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् / श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् अभ्त्_३. पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् / ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् अभ्त्_३. एकारतः समारभ्य सहस्रारं प्रवर्तते / तासां च कृत्यभेदेन नामानि बहुधागमे अभ्त्_३. उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः / श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु अभ्त्_३. इह नो लिखितं व्यासभयाच्चानुपयोगतः / ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः अभ्त्_३. घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः / सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये अभ्त्_३. तासामेव स्थितं रूपं बहुधा प्रविभज्यते / उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः अभ्त्_३. अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः / प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु अभ्त्_३. अलं ग्रासरसाख्येन सततं ज्वलनात्मना / हठपाकप्रशमनं यत्तृतीयं तदेव च / उपदेशाय युज्येत भेदेन्धनविदाहकम् अभ्त्_३. निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः / विजहति भेदविभागं निजशक्त्या तं समिन्धानाः अभ्त्_३. हठपाकेन भावानां रूपे भिन्ने विलापिते / अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः अभ्त्_३. तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम् / चिद्व्योमभैरवं देवमभेदेनाधिशेरते अभ्त्_३. एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः / आसां बहुविधं रूपमभेदे@प्यवभासते अभ्त्_३. आसामेव च देवीनामावापोद्वापयोगतः / एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः अभ्त्_३. रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः / अलमन्येन बहुना प्रकृते@थ नियुज्यते अभ्त्_३. संविदात्मनि विश्वो@यं भाववर्गः प्रपञ्चवान् / प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः अभ्त्_३. एवमात्मनि यस्येदृगविकल्पः सदोदयः / परामर्शः स एवासौ शांभवोपायमुद्रितः अभ्त्_३. पूर्णाहन्तापरामर्शो यो@स्यायं प्रविवेचितः / मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन अभ्त्_३. भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः / अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् अभ्त्_३. इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते / यत्र सूत्रणयापीयमुपायोपेयकल्पना अभ्त्_३. प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो / तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः अभ्त्_३. निर्विकल्पे परामर्शे शाम्भवोपायनामनि / पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः अभ्त्_३. धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् / पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः अभ्त्_३. यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् / व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् अभ्त्_३. तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् / पश्यन्विकल्पविकलो भैरवीभवति स्वयम् अभ्त्_३. यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा / तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः अभ्त्_३. तद्वद्धरादिकैकैकसंघातसमुदायतः / परामृशन्स्वमात्मानं पूर्ण एवावभासते अभ्त्_३. मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् / मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः अभ्त्_३. सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् / यत्र स्थितं यतश्चेति तदाह स्पन्दशासने अभ्त्_३. एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम् / विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् अभ्त्_३. स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् / स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता अभ्त्_३. षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् / स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता अभ्त्_३. सदोदितमहाबोधज्वालाजटिलतात्मनि / विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति अभ्त्_३. अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः / प्लोषकः शिव एवाहमित्युल्लासी हुताशनः अभ्त्_३. जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र न परः / तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदभितः अभ्त्_३. तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि / के@प्येव यान्ति विश्वासं पस्मेशेन भाविताः अभ्त्_३. स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना / अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः अभ्त्_३. इत्यादिकल्पना कापि नात्र भेदेन युज्यते / परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् अभ्त्_३. यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति / अथासौ तादृशो न स्याद्भवभक्त्या च भावितः अभ्त्_३. तं चाराधयते भावितादृशानुग्रहेरितः / तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः अभ्त्_३. भाविन्यो@पि ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम् / एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् अभ्त्_३. इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् २९४अ अभ्त्_३. अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे १ब् अभ्त्_४. अनन्तराह्निकोक्ते@स्मिन्स्वभावे पारमेश्वरे / प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा अभ्त्_४. विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् / स्वतुल्यं सो@पि सो@प्यन्यं सो@प्यन्यं सदृशात्मकम् अभ्त्_४. चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ / अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः अभ्त्_४. ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् / अस्फुटादौ विकल्पे च भेदो@प्यस्त्यान्तरालिकः अभ्त्_४. ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता / संविदभ्येति विमलामविकल्पस्वरूपताम् अभ्त्_४. अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् / भूयो भूयो विमृशतां जायते तत्स्फुटात्मता अभ्त्_४. ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः / परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा अभ्त्_४. उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा / नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा अभ्त्_४. किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ / स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः अभ्त्_४. अनावृत्ते स्वरूपे@पि यदात्माच्छादनं विभोः / सैव माया यतो भेद एतावान्विश्ववृत्तिकः अभ्त्_४. तथाभासनमेवास्य द्वैतमुक्तं महेशितुः / तद्द्वयापासनेनायं परामर्शो@भिधीयते अभ्त्_४. दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः / धारारूढेन सत्तर्ककुठारेणेति निश्चयः अभ्त्_४. तामेनां भावनामाहुः सर्वकामदुघां बुधाः / स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि अभ्त्_४. श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् / हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते अभ्त्_४. मार्गे चेतः स्थिरीभूतं हेये@पि विषयेच्छया / प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् अभ्त्_४. मार्गो@त्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः / विषिणोति निबध्नाति येच्छा नियतिसंगतम् अभ्त्_४. रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते / यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे अभ्त्_४. भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षे@पि रागतः / स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् अभ्त्_४. सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः / शिवशासनमाहात्म्यं विदन्नप्यत एव हि अभ्त्_४. वैष्णवाध्येषु रज्येत मूढो रागेण रञ्जितः / यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी अभ्त्_४. पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते / दृष्टाः साम्राज्यसंभोगं निन्दन्तः के@पि वालिशाः अभ्त्_४. न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् / एवंचिद्भैरवावेशनिन्दातत्परमानसाः अभ्त्_४. भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः / तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे अभ्त्_४. आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् / श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् अभ्त्_४. वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः / ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः अभ्त्_४. बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः / मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते अभ्त्_४. रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् / मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति अभ्त्_४. मोक्षो@पि वैष्णवादेर्यः स्वसंकल्पेन भावितः / परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता अभ्त्_४. विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः / स सवेद्यापवेद्यात्मप्रलयाकलतामयः अभ्त्_४. तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः / तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः अभ्त्_४. मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् / एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् अभ्त्_४. तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः / असद्गुरौ रूढचित्स मायापाशेन रञ्जितः अभ्त्_४. सो@पि सत्तर्कयोगेन नीयते सद्गुरुं प्रति / सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः अभ्त्_४. श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया / भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति अभ्त्_४. शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते / स्थित्वा यो@सद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः अभ्त्_४. गुरुशास्त्रगते सत्त्वे@सत्त्वे चात्र विभेदकम् / शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते अभ्त्_४. उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः / सर्वान्भ्रमयते माया सामोक्षे मोक्षलिप्सया अभ्त्_४. यस्तु रूढो@पि तत्रोद्यत्परामर्शविशारदः / स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः अभ्त्_४. आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः / स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते अभ्त्_४. स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः / किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः अभ्त्_४. तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः / यस्य स्वतो@यं सत्तर्कः सर्वत्रैवाधिकारवान् अभ्त्_४. अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः / स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः अभ्त्_४. तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता / स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते अभ्त्_४. शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् / सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते अभ्त्_४. इति श्रीपूववाक्ये तद्+अकस्मादिति-शब्दतः / लोकाप्रसिद्धो यो हेतुः सो@कस्मादिति कथ्यते अभ्त्_४. स चैष परमेशानशुद्धविद्याविजृम्भतम् / अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः अभ्त्_४. सर्वगो@ंशगतः सो@पि मुख्यामुख्यांशनिष्ठितः / भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः अभ्त्_४. अदृष्टमण्डलो@प्येवं यः कश्चिद्वेत्ति तत्त्वतः / स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः अभ्त्_४. एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी / दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने अभ्त्_४. अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः / यस्तु तद्रूपभागात्मभावनातः परं विना अभ्त्_४. शास्त्रवित्स गुरुः शास्त्रे प्रोक्तो@कल्पितकल्पकः / तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः अभ्त्_४. भावनातो@थ वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः / प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः अभ्त्_४. श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले / श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् अभ्त्_४. तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते / कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा अभ्त्_४. ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा / एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः अभ्त्_४. संसारिणो@नुगृह्णाति विश्वस्य जगतः पतिः / मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये अभ्त्_४. ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात् / संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् अभ्त्_४. तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते / स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् अभ्त्_४. तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले / तत्रैव चोक्तं सेवायां कृतायामविकल्पतः अभ्त्_४. साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते / आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् अभ्त्_४. सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति / अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् अभ्त्_४. उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः / तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि अभ्त्_४. विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते / पक्षेण साधको@र्धार्धात्पुत्रकः समयी तथा अभ्त्_४. दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः / गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् अभ्त्_४. मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः / उक्तो यस्तेन तद्दोषाभावे@सौ न निषिद्धता अभ्त्_४. मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते / पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः अभ्त्_४. तामसाः परहिंसादि वश्यादि च चरन्त्यलम् / न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् अभ्त्_४. पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् / यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् अभ्त्_४. गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् / येन केनाप्युपायेन गुरुमाराध्य भक्तितः अभ्त्_४. तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः / अभिषेकं समासाद्य यो भवेत्स तु कल्पितः अभ्त्_४. सन्नप्यशेषपाशौघविनिवर्तनकोविदः / यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि अभ्त्_४. आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः / तस्य यो@कल्पितो भागः स तु श्रेष्ठमः स्मृतः अभ्त्_४. उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः / यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः अभ्त्_४. तथा सांसिद्धिकज्ञानादाहृतज्ञानिनो@धमाः / तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् अभ्त्_४. किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् / यस्त्वकल्पितरूपो@पि संवाददृढताकृते अभ्त्_४. अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः / यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् अभ्त्_४. आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते / तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः अभ्त्_४. त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने / तत्संघातविपर्यासविग्रहैर्भासते तथा अभ्त्_४. करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् / कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते अभ्त्_४. तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः / इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः अभ्त्_४. न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् / प्रमात्राश्वासपर्यन्तो यतो@धिगम उच्यते अभ्त्_४. आश्वासश्च विचित्रो@सौ शक्तिपातवशात्तथा / प्रमिते@पि प्रमाणानामवकाशो@स्त्यतः स्फुटः अभ्त्_४. दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा / प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति अभ्त्_४. इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः / न व्यर्थता नानवस्था नान्योन्याश्रयतापि च अभ्त्_४. एवं योगाङ्गमियति तर्क एव न चापरम् / अन्तरन्तः परामर्शपाटवातिशयाय सः अभ्त्_४. अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः / इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः अभ्त्_४. तपःप्रभृतयो ये च नियमा यत्तथासनम् / प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् अभ्त्_४. श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके / चित्तप्रलयबन्धेन प्रलीने शशिभास्करे अभ्त्_४. प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके / मोक्षः स एव कथितः प्राणायामो निरर्थकः अभ्त्_४. प्राणायामो न कर्तव्यः शरीरं येन पीड्यते / रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः अभ्त्_४. प्रत्याहारश्च नामायमर्थेभ्यो@क्षधियां हि यः / अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् अभ्त्_४. चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् / तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् अभ्त्_४. यदा तु ज्ञेयतादात्म्यमेव संविदि जायते / ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः अभ्त्_४. तदेषा धारणाध्यानसमाधित्रितयी पराम् / संविदं प्रति नो कंचिदुपयोगं समश्नुते अभ्त्_४. योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते / स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः अभ्त्_४. अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः / बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि अभ्त्_४. अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् / सर्वात्मकत्वात्तत्रस्थो@प्यभ्यासो@न्यव्यपोहनम् अभ्त्_४. देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् / उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् अभ्त्_४. गुरुवाक्यपरामर्शसदृशे स्वविमर्शने / प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने अभ्त्_४. नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा / धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् अभ्त्_४. अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि / तादात्म्यभावनायोगो न फलाय न भण्यते अभ्त्_४. संकेतानादरे शब्दनिष्ठमामर्शनं पठिः / तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् अभ्त्_४. तदद्वयायां संवित्तावभ्यासो@नुपयोगवान् / केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः अभ्त्_४. द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् / तत्तर्कसाधनायास्तु यमादेरप्युपायता अभ्त्_४. उक्तं श्रीपूर्वशस्त्रे च न द्वैतं नापि चाद्वयम् / लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना अभ्त्_४. विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा / प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः अभ्त्_४. तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् / किं त्वेतदत्र देवेशि नियमेन विधीयते अभ्त्_४. तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति / एवं द्वैतपरामर्शनाशाय परमेश्वरः अभ्त्_४. क्वचित्स्वभावममलमामृशन्ननिशं स्थितः / यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः अभ्त्_४. विनैव तन्मुखो@न्यो वा स्वातन्त्र्यात्तद्विकल्पनम् / तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् अभ्त्_४. भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते / तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् अभ्त्_४. शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् / इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् अभ्त्_४. प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् / शुद्धविद्यापरामर्शो यः स एव त्वनेकधा अभ्त्_४. स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः / विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् अभ्त्_४. आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम् / उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते अभ्त्_४. सितभस्मनि देहस्य मज्जनं स्नानमुच्यते / इत्थं च विहितस्नानस्तर्पितानन्तदेवतः अभ्त्_४. ततो@पि देहारम्भीणि तत्त्वानि परिशोधयेत् / शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी अभ्त्_४. सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् / एवं स्वदेहं बोधैकपात्रं गलितभेदकम् अभ्त्_४. पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः / यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ अभ्त्_४. योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत् / पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः अभ्त्_४. स्वतन्त्रविमलानन्तभैरवीयचिदात्मना / तथाहि संविदेवेयमन्तर्बाह्योभयात्मना अभ्त्_४. स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी / स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः अभ्त्_४. सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः / कलाद्वादशकात्मैव तत्संवित्परमार्थतः अभ्त्_४. सा च मातरि विज्ञाने माने करणगोचरे / मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा अभ्त्_४. शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी / करणे ग्रहणाकारा यतः श्रीयोगसंचरे अभ्त्_४. ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि / षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् अभ्त्_४. प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते / द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले अभ्त्_४. तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे / चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये अभ्त्_४. मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि / संमीलनोन्मीलनं ते अन्योन्यं विदधातके अभ्त्_४. यथा योनिश्च लिङ्गं च संयोगात्स्रवतो@मृतम् / तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः अभ्त्_४. तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् / तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते अभ्त्_४. सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम् / ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् अभ्त्_४. तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः / सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् अभ्त्_४. षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः / एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् अभ्त्_४. सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः / तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् अभ्त्_४. सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते / पञ्चारे सविकारो@थ भूत्वा सोमस्रुतामृतात् अभ्त्_४. धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः / यतो जातं जगल्लीनं यत्र च स्वकलीलया अभ्त्_४. तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः / तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् अभ्त्_४. अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् / अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि अभ्त्_४. तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः / अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् अभ्त्_४. गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता / सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् अभ्त्_४. एवं श्रोत्रे@पि विज्ञेयं यावत्पादान्तगोचरम् / पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् अभ्त्_४. इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् / ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः अभ्त्_४. अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् / एकैकत्र यतस्तेन द्वादशात्मकतोदिता अभ्त्_४. न व्याख्यातं तु निर्भज्य यतो@तिसरहस्यकम् / मेये@पि देवी तिष्ठन्ती मासराश्यादिरूपिणी अभ्त्_४. अत एषा स्थिता संविदन्तर्बाह्योभयात्मना / स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते अभ्त्_४. ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका / सृष्टिं कलयते देवी तन्नाम्नागम उच्यते अभ्त्_४. तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी / स्ववृत्तिचक्रेण समं ततो@पि कलयन्त्यलम् अभ्त्_४. स्थितिरेषैव भावस्य तामन्तर्मुखतारसात् / संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते अभ्त्_४. ततो@पि संहाररसे पूर्णे विघ्नकरीं स्वयम् / शङ्कां यमात्मिकां भागे सूते संहरते@पि च अभ्त्_४. संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले / संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् अभ्त्_४. विलापनात्मिकां तां च भावसंहृतिमात्मनि / आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् अभ्त्_४. संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः / निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते अभ्त्_४. विलापिते@पि भावौघे कंचिद्भावं तदैव सा / आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः अभ्त्_४. शुभाशुभतया सो@यं सोष्यते फलसंपदम् / पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते अभ्त्_४. अन्यदाश्यानितमपि तदैव द्रावयेदियम् / प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् अभ्त्_४. रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः / तदपि द्रावयेदेव तदप्याश्यानयेदथ अभ्त्_४. इत्थं भोग्ये@पि संभुक्ते सति तत्करणान्यपि / संहरन्ती कलयते द्वादशैवाहमात्मनि अभ्त्_४. कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः / प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते अभ्त्_४. अहंकारस्तु करणमभिमानैकसाधनम् / अविच्छिन्नपरामर्शी लीयते तेन तत्र सः अभ्त्_४. यथाहि खङ्गपाशादेः करणस्य विभेदिनः / अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः अभ्त्_४. तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् / संविद्देवी स्वतन्त्रत्वात्कल्पिते@हंकृतात्मनि अभ्त्_४. स एव परमादित्यः पूर्णकल्पस्त्रयोदशः / करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् अभ्त्_४. कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः / कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः अभ्त्_४. कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता / कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः अभ्त्_४. संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः / अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते अभ्त्_४. सो@पि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि / विकासिनि महाकाले लीयते@हमिदंमये अभ्त्_४. एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः / इति प्रविकसद्रूपा संवित्तिरवभासते अभ्त्_४. ततो@न्तःस्थितसर्वात्मभावभोगोपरागिणी / परिपूर्णापि संवित्तिरकुले धाम्नि लीयते अभ्त्_४. प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः / मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् अभ्त्_४. इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः / स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी अभ्त्_४. इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः / क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् अभ्त्_४. स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् / ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् अभ्त्_४. गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् / नादः स्वात्मपरामर्शशेषता तद्विलोपनात् अभ्त्_४. इति पञ्चविधामेनां कलनां कुर्वती परा / देवी काली तथा कालकर्षिणी चेति कथ्यते अभ्त्_४. मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु / एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् अभ्त्_४. वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे / इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु अभ्त्_४. एकैवेति न को@प्यस्याः क्रमस्य नियमः क्वचित् / क्रमाभावान्न युगपत्तदभावात्क्रमो@पि न अभ्त्_४. क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् / तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् अभ्त्_४. तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते / परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः अभ्त्_४. सदोदितः स एवोक्तः परमं हृदयं महत् / हृदये स्वविमर्शो@सौ द्राविताशेषविश्वकः अभ्त्_४. भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः / स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः अभ्त्_४. किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् / ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना अभ्त्_४. निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता / सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् अभ्त्_४. तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् / तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् अभ्त्_४. इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते / तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि अभ्त्_४. विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते / एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् अभ्त्_४. विसर्गं परबोधेन समाक्षिप्यैव वर्तते / तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् अभ्त्_४. अन्तर्नदत्परामर्शशेषीभूतं ततो@प्यलम् / खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् अभ्त्_४. वेदनात्मकतामेत्य संहारात्मनि लीयते / इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् अभ्त्_४. एतद्रूपपरामर्शमकृत्रिममनाबिलम् / अहमित्याहुरेषैव प्रकाशस्य प्रकाशता अभ्त्_४. एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् / विनानेन जडास्ते स्युर्जीवा इव विना हृदा अभ्त्_४. अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् / प्राण्याद्वा मृशते वापि स सर्वो@स्य जपो मतः अभ्त्_४. यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा / निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् अभ्त्_४. निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति / फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता अभ्त्_४. यथा ह्यभेदात्पूर्णे@पि भावे जलमुपाहरन् / अन्याकृत्यपहानेन घटमर्थयते रसात् अभ्त्_४. तथैव परमेशाननियतिप्रविजृम्भणात् / काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् अभ्त्_४. यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति / तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् अभ्त्_४. कुले योगिन उद्रिक्तभैरवीयपरासवात् / घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा अभ्त्_४. अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः / जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी अभ्त्_४. बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः / उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् अभ्त्_४. यं कंचित्परमेशानशक्तिपातपवित्रितम् / पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः अभ्त्_४. जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि / उदेति रूढिः परमा तथापीत्थं निरूपितम् अभ्त्_४. यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु / चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् अभ्त्_४. तथा संविद्विचित्राभिः शान्तघोरतरादिभिः / भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते अभ्त्_४. यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् / भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः अभ्त्_४. तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि / आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् अभ्त्_४. तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि / पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् अभ्त्_४. फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् / अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् अभ्त्_४. एष यागविधिः को@पि कस्यापि हृदि वर्तते / यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः अभ्त्_४. अत्र यागे गतो रूढिं कैवल्यमधिगच्छति / लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः अभ्त्_४. अत्र नाथः समाचारं पटले@ष्टादशे@भ्यधात् / नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् अभ्त्_४. न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च / न चापि तत्परित्यागो निष्परिग्रहतापि वा अभ्त्_४. सपरिग्रहता वापि जटाभस्मादिसंग्रहः / तत्त्यागो न व्रतादीनां चरणाचरणं च यत् अभ्त्_४. क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् / परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् अभ्त्_४. नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते / विहितं सर्वमेवात्र प्रतिषिद्धमथापि च अभ्त्_४. किं त्वेतदत्र देवेशि नियमेन विधीयते / तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना अभ्त्_४. तच्च यस्य यथैव स्यात्स तथैव समाचरेत् / तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि अभ्त्_४. न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा / विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि अभ्त्_४. विषं न मुह्यते तेन तद्वद्योगी महामतिः / अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् अभ्त्_४. प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः / अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् अभ्त्_४. अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि / पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा अभ्त्_४. अन्योन्याश्रयता सेयमशुद्धत्वे@प्ययं क्रमः / अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् अभ्त्_४. वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः / बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता अभ्त्_४. मन्त्राः स्वभावतः शुद्धा यदि ते@पि न किं तथा / शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् अभ्त्_४. शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् / ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता अभ्त्_४. योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता / ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः अभ्त्_४. इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता / का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् अभ्त्_४. वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् / सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः अभ्त्_४. अपवादेन कर्तव्यः सामान्यविहिते विधौ / शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि अभ्त्_४. पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् / नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् अभ्त्_४. अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् / व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति अभ्त्_४. अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः / शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति अभ्त्_४. इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः / तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः अभ्त्_४. अर्थवादो@पि यत्रान्यविध्यादिमुखमीक्षते / तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः अभ्त्_४. विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा / न निरर्थकं एवायं संनिधेर्गजडादिवत् अभ्त्_४. स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते / तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः अभ्त्_४. युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता / या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी अभ्त्_४. मृतदेहे@थ देहोत्थे या चाशुद्धिः प्रकीर्तिता / अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् अभ्त्_४. संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् / श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे अभ्त्_४. सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् / यत्किंचिज्जीवरहितमशुद्धं तद्विजानत अभ्त्_४. तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत् / अविकल्पेन भावेन मुनयो@पि तथाभवन् अभ्त्_४. लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् / बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् अभ्त्_४. प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् / यदि वा वस्तुधर्मो@पि मात्रपेक्षानिबन्धनः अभ्त्_४. सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः / अनेन चोदनानां च स्ववाक्यैरपि बाधनम् अभ्त्_४. क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् / भक्ष्यादिविधयो@प्येनं न्यायमाश्रित्य चर्चिताः अभ्त्_४. सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः / नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् अभ्त्_४. उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् / न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन अभ्त्_४. वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् / बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् अभ्त्_४. तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् / नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् अभ्त्_४. यतो यद्यपि देवेन वेदाद्यपि निरूपितम् / तथापि किल संकोचभावाभावविकल्पतः अभ्त्_४. संकोचतारतम्येन पाशवं ज्ञानमीरितम् / विकासतारतम्येन पतिज्ञानं तु बाधकम् अभ्त्_४. इदं द्वैतमिदं नेति परस्परनिषेधतः / मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् अभ्त्_४. उक्तं भर्गशिखायां च मृत्युकालकलादिकम् / द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति अभ्त्_४. सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे / कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे अभ्त्_४. इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने / नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये अभ्त्_४. जटादि कौले त्यागो@स्य सुखोपायोपदेशतः / व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये अभ्त्_४. तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये / क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये अभ्त्_४. मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते / क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा अभ्त्_४. वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् / समयाचारसद्भावः पाल्यत्वेनोपदिश्यते अभ्त्_४. भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये / समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते अभ्त्_४. निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति / परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् अभ्त्_४. ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् / आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते अभ्त्_४. नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा / गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः अभ्त्_४. श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता / इत्थमर्धचतस्रो@त्र मठिकाः शांकरे क्रमे अभ्त्_४. युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः / आदिशब्देन च घरं पल्ली पीठोपपीठकम् अभ्त्_४. मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् / तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् अभ्त्_४. भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि / एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः अभ्त्_४. अखण्डे@पि परे तत्त्वे भेदेनानेन जायते / एवं क्षेत्रप्रवेशादि संताननियमान्ततः अभ्त्_४. नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे / न तस्य च निषोधो य न्न तत्तत्त्वस्य खण्डनम् अभ्त्_४. विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ / विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने अभ्त्_४. परतत्त्वप्रवेशे तु यमेव निकटं यदा / उपायं वेत्ति स ग्राह्यस्तदा त्याज्यो@थ वा क्वचित् अभ्त्_४. न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने / समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः अभ्त्_४. आगमनां गतीनां च सर्वं शिवमयं यतः / स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति अभ्त्_४. यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते / केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका / भैरवीयपरमाद्वयार्चने को@पि रज्यति महेशचोदितः अभ्त्_४. अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः / हिमानीव महाग्रीष्मे स्वयमेव विलीयते अभ्त्_४. अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते / योग्यो@भिनवगुप्तो@स्मिन्को@पि यागविधौ बुधः अभ्त्_४. इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् २७९अ अभ्त्_४. आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् १ब् अभ्त्_५. विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि / अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः अभ्त्_५. विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः / उपायान्तरसापेक्ष्यवियोगेनैव जायते अभ्त्_५. कस्यचित्तु विकल्पो@सौ स्वात्मसंस्करणं प्रति / उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः अभ्त्_५. विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः / तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः अभ्त्_५. निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः / अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः अभ्त्_५. तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि / अपारमार्थिके@प्यस्मिन् परमार्थः प्रकाशते अभ्त्_५. यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् / तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः अभ्त्_५. उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना / जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा अभ्त्_५. स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा / तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् अभ्त्_५. पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् / तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् अभ्त्_५. विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् / बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् अभ्त्_५. सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः / विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते अभ्त्_५. निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः / अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि अभ्त्_५. प्राणे देहे@थवा कस्मात्संक्रामेत्केन वा कथम् / तथापि निर्विकल्पे@स्मिन्विकल्पो नास्ति तं विना अभ्त्_५. दृष्टे@प्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः / बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा अभ्त्_५. विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् / बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः अभ्त्_५. उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः / आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् अभ्त्_५. शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः / तत्र ध्यानमयं तावदनुत्तरमिहोच्यते अभ्त्_५. यः प्रकाशः स्वतन्त्रो@यं चित्स्वभावो हृदि स्थितः / सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते अभ्त्_५. कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् / ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् अभ्त्_५. सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः / तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् अभ्त्_५. हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् / तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः अभ्त्_५. मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् / वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् अभ्त्_५. परा परापरा चेयमपरा च सदोदिता / सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा अभ्त्_५. चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् / एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः अभ्त्_५. एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् / एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः अभ्त्_५. व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे / तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् अभ्त्_५. सोमसूर्याग्निभासात्म रूपं समवतिष्ठते / एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना अभ्त्_५. चक्रेणानेन पतता तादात्म्यं परिभावयेत् / अनेन क्रमयोगेन यत्र यत्र पतत्यदः अभ्त्_५. चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् / इत्थं विश्वाध्वपटलमयत्नेनैव लीयते अभ्त्_५. भैरवीयमहाचक्रे संवित्तिपरिवारिते / ततः संस्कारमात्रेण विश्वस्यापि परिक्षये अभ्त्_५. स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् / ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् अभ्त्_५. प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् / अनेन ध्यानयोगेन विश्वं चक्रे विलीयते अभ्त्_५. तत्संविदि ततः संविद्विलीनार्थैव भासते / चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी अभ्त्_५. एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् / विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् अभ्त्_५. एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् / पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् अभ्त्_५. चतुष्षष्टिशतारं वा सहस्रारमथापि वा / असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः अभ्त्_५. संविन्नाथस्य महतो देवस्योल्लासिसंविदः / नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः अभ्त्_५. शक्तयो@स्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः / इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् अभ्त्_५. इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् / श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः अभ्त्_५. अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् / अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना अभ्त्_५. अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता / तदुपायतया ब्रूमो@नुत्तरप्रविकासनम् अभ्त्_५. निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः / शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् अभ्त्_५. प्राणोदये प्रमेये तु परानन्दं विभावयेत् / तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः अभ्त्_५. परानन्दगतस्तिष्ठेदपानशशिशोभितः / ततो@नन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः अभ्त्_५. समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् / ततो@पि मानमेयौघकलनाग्रासतत्परः अभ्त्_५. उदानवह्नौ विश्रान्तो महानन्दं विभावयत् / तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि अभ्त्_५. निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता / तदा खलु चिदानन्दो यो जडानुपबृंहितः अभ्त्_५. नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः / यत्र को@पि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् अभ्त्_५. यदनाहतसंवित्ति परमामृतबृंहितम् / यत्रास्ति भावनादीनां न मुख्या कापि संगतिः अभ्त्_५. तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् / तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः अभ्त्_५. या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः / इत्येतद्धृदयाद्येकस्वभावे@पि स्वधामनि अभ्त्_५. षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते / प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः अभ्त्_५. चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् / त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् अभ्त्_५. इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः / एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् अभ्त्_५. श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् / तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः अभ्त्_५. विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि / रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् अभ्त्_५. विकाससंकोचमयं प्रविश्य हृदि हृष्यति / तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् अभ्त्_५. श्रयेद्विकाससंकोचरूढभैरवयामलाम् / एकीकृतमहामूलशूलवैसर्गिके हृदि अभ्त्_५. परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः / अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् अभ्त्_५. प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् / अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते अभ्त्_५. चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् / तत उद्योगसक्तेन स द्वादशकलात्मना अभ्त्_५. सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् / अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः अभ्त्_५. संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् / इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् अभ्त्_५. तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् / विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि अभ्त्_५. विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् / यतो@नुत्तरनाथस्य विसर्गः कुलनायिका / तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः अभ्त्_५. अंअ इति कुलेश्वर्या सहितो हि कुलेशिता / परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते अभ्त्_५. वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् / अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् अभ्त्_५. आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः / एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते अभ्त्_५. शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे / व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः अभ्त्_५. सोमसूर्यकलाजालपरस्परनिघर्षतः / अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् अभ्त्_५. अलं रहस्यकथया गुप्तमेतत्स्वभावतः / योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः अभ्त्_५. हानादानतिरस्कारवृत्तौ रूढिमुपागतः / अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः अभ्त्_५. अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि / खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् अभ्त्_५. वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् / संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् अभ्त्_५. तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते / विलीनं तत् त्रिकोणे@स्मिञ्शक्तिवह्नौ विलीयते अभ्त्_५. तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः / संहारबीजविश्रान्तो योगी परमयो भवेत् अभ्त्_५. अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः / संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् अभ्त्_५. असंकोचविकासो@पि तदाभासनतस्तथा / अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते अभ्त्_५. ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति / विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः अभ्त्_५. तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले / शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः अभ्त्_५. दिव्यो यश्चाक्षसंघो@यं बोधस्वातन्त्र्यसंज्ञकः / सो@निमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् अभ्त्_५. महासाहससंयोगविलीनाखिलवृत्तिकः / पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति अभ्त्_५. अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् / यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः अभ्त्_५. तदुक्तं परमेशेन त्रिशिरोभैरवागमे / शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् अभ्त्_५. मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् / विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् अभ्त्_५. अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् / महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् अभ्त्_५. अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् / निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका अभ्त्_५. चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला / तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् अभ्त्_५. खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति / खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः अभ्त्_५. भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः / भावाभावगती रुद्ध्वा भावाभावावरोधदृक् अभ्त्_५. आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः / शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् अभ्त्_५. एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् / धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् अभ्त्_५. धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु / तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् अभ्त्_५. भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः / इति प्रवेशोपायो@यमाणवः परिकीर्तितः अभ्त्_५. श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः / श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः अभ्त्_५. स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च / सर्वतश्च विभुर्यो@सौ विभुत्वपददायकः अभ्त्_५. जितरावो महायोगी संक्रामेत्परदेहगः / परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् अभ्त्_५. तावद्यावदरावे सा रावाल्लीयेत राविणी / अत्र भावनया देहगतोपायैः परे पथि अभ्त्_५. विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते / ततो@पि विद्युदापातसदृशे देहवर्जिते अभ्त्_५. धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः / जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः अभ्त्_५. स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् / गलिते देहतादात्म्यनिश्चये@न्तर्भुखत्वतः अभ्त्_५. निद्रायते पुरा यावन्न रूढः संविदात्मनि / ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् अभ्त्_५. संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता / आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि अभ्त्_५. आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः / आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि अभ्त्_५. आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते / आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् अभ्त्_५. इत्युक्तमत एव श्रीमालिनीविजयोत्तरे / प्रदर्शिते@स्मिन्नानन्दप्रभृतौ पञ्चके यदा अभ्त्_५. योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् / यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् अभ्त्_५. किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् / तथैव चक्रे कुत्रापि प्रवेशात्को@पि संभवेत् अभ्त्_५. आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते / कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली अभ्त्_५. एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते / एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् अभ्त्_५. यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् / अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते अभ्त्_५. इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः / देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः अभ्त्_५. अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च / व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् अभ्त्_५. नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् / यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् अभ्त्_५. विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् / व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च / अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा अभ्त्_५. आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः / व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् अभ्त्_५. तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये / अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा अभ्त्_५. एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः / अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः अभ्त्_५. योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् / बीजयोनिसमापत्त्या सूते कामपि संविदम् अभ्त्_५. अत्र प्रयासविरहात्सर्वो@सौ देवतागणः / आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः अभ्त्_५. अत्र भैरवनाथस्य ससंकोचविकासिका / भासते दुर्घटा शक्तिरसंकोचविकासिनः अभ्त्_५. एतल्लिङ्गसमापत्तिविसर्गानन्दधारया / सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते अभ्त्_५. अनुत्तरे@भ्युपायो@त्र ताद्रूप्यादेव वर्णितः / ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते अभ्त्_५. अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् / अनाविशन्तो@पि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः अभ्त्_५. सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गे@पि च / सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् अभ्त्_५. इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते / तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् अभ्त्_५. ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः / करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् अभ्त्_५. तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता / गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् अभ्त्_५. तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते / उक्तो य एष उच्चारस्तत्र यो@सौ स्फुरन् स्थितः अभ्त्_५. अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते / सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः अभ्त्_५. तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् / तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः अभ्त्_५. स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते / बाह्यार्थसमयापेक्षा घटाद्या ध्वनयो@पि ये अभ्त्_५. ते@प्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि / तदुक्तं परमेशेन भैरवो व्यापको@खिले अभ्त्_५. इति भैरवशब्दस्य संततोच्चारणाच्छिवः / श्रीमत्त्रैशिरसे@प्युक्तं मन्त्रोद्धारस्य पूर्वतः अभ्त्_५. स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः / मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् अभ्त्_५. स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका / अनेकाकाररूपेण सर्वत्रावस्थितेन तु अभ्त्_५. स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः / व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा अभ्त्_५. किं पुनः समयापेक्षां विना ये बीजपिण्डकाः / संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् अभ्त्_५. वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः / प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता अभ्त्_५. सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः / संवेदनं हि प्रथमं स्पर्शो@नुत्तरसंविदः अभ्त्_५. हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि / चतुर्दशः प्रवेशो य एकीकृततदात्मकः अभ्त्_५. ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ / हृदयेन सहैकध्यं नयते जपतत्परः अभ्त्_५. कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः / आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् अभ्त्_५. संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि / तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः अभ्त्_५. इत्येनया बुधो युक्त्या वर्णजप्यपरायणः / अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः अभ्त्_५. वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा / संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् अभ्त्_५. हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ / विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् अभ्त्_५. जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् / दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् अभ्त्_५. स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः / शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् अभ्त्_५. उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् / यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् अभ्त्_५. तत् संविदाधिक्यवशादभौतिकमिव स्थितम् / अतस्तथाविधे रूपे रूढो रोहति संविदि अभ्त्_५. अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः / नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् अभ्त्_५. गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता / उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः अभ्त्_५. अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः / अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः अभ्त्_५. ध्याने तदपि चोच्चारे करणे सो@पि तद्ध्वनौ / स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् अभ्त्_५. लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु / वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् / मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना अभ्त्_५. इत्याणवे@नुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः १५९अ अभ्त्_५. स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्यो@भ्युपायः प्रविविच्यते@थ १ब् अभ्त्_६. स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा / प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः अभ्त्_६. मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् / लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च अभ्त्_६. इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत् / तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते अभ्त्_६. अध्वा समस्त एवायं षड्विधो@प्यतिविस्तृतः / यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः अभ्त्_६. अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् / क्रमाक्रमौ हि चित्रैककलना भावगोचरे अभ्त्_६. क्रमाक्रमात्मा कालश्च परः संविदि वर्तते / काली नाम परा शक्तिः सैव देवस्य गीयते अभ्त्_६. सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ / स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता अभ्त्_६. संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् / तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः अभ्त्_६. तदेव शून्यरूपत्वं संविदः परिगीयते / नेति नेति विमर्शेन योगिनां सा परा दशा अभ्त्_६. स एव खात्मा मेये@स्मिन्भेदिते स्वीक्रियोन्मुखः / पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः अभ्त्_६. तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा / अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः अभ्त्_६. इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा / स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता अभ्त्_६. सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् / देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते अभ्त्_६. प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् / चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते अभ्त्_६. तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् / मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः अभ्त्_६. तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम् / तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् अभ्त्_६. तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् / बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् अभ्त्_६. अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः / अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः अभ्त्_६. अतद्रूढान्यजनताकर्तव्यपरिलोपनात् / नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् अभ्त्_६. अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते / यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः अभ्त्_६. द्विधा च सो@ध्वा क्रियया मूर्त्या च प्रविभज्यते / प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा अभ्त्_६. बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका / यतो@होरात्रमध्ये@स्याश्चतुर्विंशतिधा गतिः अभ्त्_६. प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा / क्षपा शशी तथापानो नाद एकत्र तिष्ठति अभ्त्_६. जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् / ऊर्ध्ववक्त्रो रविश्चन्द्रो@धोमुखो वह्निरन्तरे अभ्त्_६. माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः / अनस्तमितसारो हि जन्तुचक्रप्रबोधकः अभ्त्_६. बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति / महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता अभ्त्_६. एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका / अतः संविदि सर्वो@यमध्वा विश्रम्य तिष्ठति अभ्त्_६. अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः / मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः अभ्त्_६. अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् / द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतो@द्यते अभ्त्_६. इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः / उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता अभ्त्_६. नैमित्तिकी प्रसिद्धा च तथान्या पारिभाषिकी / पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः अभ्त्_६. अतो@ध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत् / क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके अभ्त्_६. तत्र क्रियाभासनं यत्सो@ध्वा कालाह्व उच्यते / वर्णमन्त्रपदाभिख्यमत्रास्ते@ध्वत्रयं स्फुटम् अभ्त्_६. यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते / कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् अभ्त्_६. त्रिकद्वये@त्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः / यतो@स्ति तेन सर्वो@यमध्वा षड्विध उच्यते अभ्त्_६. षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः / एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः अभ्त्_६. तत्तवमध्यस्थितात्कालादन्यो@यं काल उच्यते / एष कालो हि देवस्य विश्वाभासनकारिणी अभ्त्_६. क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः / एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते अभ्त्_६. उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः / एतदीश्वररूपत्वं परमात्मनि यत्किल अभ्त्_६. तत्प्रमातरि मायीये कालतत्त्वं निगद्यते / शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः अभ्त्_६. तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत् / अनाश्रितं यतो माया कलाविद्ये सदाशिवः अभ्त्_६. ईश्वरः कालनियती सद्विद्या राग उच्यते / अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः अभ्त्_६. ईश्वरः प्राणमाता च विद्या देहप्रमातृता / अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता अभ्त्_६. विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता / तेन प्राणपथे विश्वाकलनेयं विराजते अभ्त्_६. येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् / द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः अभ्त्_६. ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः / यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः अभ्त्_६. संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः / स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् अभ्त्_६. संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः / प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः अभ्त्_६. कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते / स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् अभ्त्_६. तत्रापि तु प्रयत्नो@सौ न संवेद्यतया स्थितः / वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते अभ्त्_६. प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका / सतदन्यतमावात्मप्राणौ यत्नविधायिनौ अभ्त्_६. प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे / आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा अभ्त्_६. प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम् / त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् अभ्त्_६. अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् / विपर्ययो@पि प्राणात्मशक्तीनां मुख्यतां प्रति अभ्त्_६. वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी / ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका अभ्त्_६. वामा संसारवमना ज्येष्ठा शिवमयी यतः / द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् अभ्त्_६. सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् / उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् अभ्त्_६. उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः / न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः अभ्त्_६. सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः / स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः अभ्त्_६. हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः / षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् अभ्त्_६. क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि / वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः अभ्त्_६. षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् / नालिकातिथिमासाब्दतत्सङ्घ्रो@त्र स्फुटं स्थितः अभ्त्_६. तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन् / निःश्वसंश्चात्र चषकः सपञ्चांशे@ङ्गुले@ङ्गुले अभ्त्_६. श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते / नवाङ्गुलाम्बुधितुटौ प्रहरास्ते@ब्धयो दिनम् अभ्त्_६. निर्गमे@न्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले / केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः अभ्त्_६. प्रहरद्वयमन्येषां ग्रहाणामुदयो@न्तरा / सिद्धिर्दवीयसी मोक्षो@भिचारः पारलौकिकी अभ्त्_६. ऐहिकी दूरनैकट्यातिशया प्रहराष्टके / मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा अभ्त्_६. नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् / नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः अभ्त्_६. प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः / सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा अभ्त्_६. शक्तयः पारमेश्वर्यो वामशा वीरनायकाः / अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः अभ्त्_६. स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके / दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् अभ्त्_६. क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता / दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः अभ्त्_६. ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले / सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे अभ्त्_६. क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः / अहोरात्रः प्राणचारे कथितो मास उच्यते अभ्त्_६. दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् / याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे अभ्त्_६. तयोस्तु विश्रमो@र्धे@र्धे तिथ्यः पञ्चदशेतराः / सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते अभ्त्_६. प्रकाशविश्रमवशात्तावेव हि दिनक्षपे / संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी अभ्त्_६. तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे / यावत्येव हि संवित्तिरुदितोदितसुस्फुटा अभ्त्_६. तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि / यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः अभ्त्_६. तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् / वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते अभ्त्_६. सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा / वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः अभ्त्_६. पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः / जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः अभ्त्_६. परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् / कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् अभ्त्_६. वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता / वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु अभ्त्_६. न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः / स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका अभ्त्_६. इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् / यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् अभ्त्_६. तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् / श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः अभ्त्_६. दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् / श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः अभ्त्_६. हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् / तदसत्सितपक्षे@न्तः प्रवेशोल्लासभागिनि अभ्त्_६. अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् / अलं वानेन नेदं वा मम प्राङ्मतमत्सरः अभ्त्_६. हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः / व्याख्यातः कृष्णपक्षो य स्तत्र प्राणगतः शशी अभ्त्_६. आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् / द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः अभ्त्_६. सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् / उक्तं श्रीकामिकायां च नोर्ध्वे@धः प्रकृतिः परा / अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी अभ्त्_६. चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् / अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः अभ्त्_६. पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः / अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी अभ्त्_६. एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् / आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी न तु अभ्त्_६. तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः / तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः अभ्त्_६. तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् / परं प्रातिपदं चार्धमिति संधिः स कल्प्यते अभ्त्_६. तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् / आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् अभ्त्_६. तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु / तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः अभ्त्_६. अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ / राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः अभ्त्_६. तत एव तमोरूपो विलापयितुमक्षमः / तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः अभ्त्_६. अर्केन्दुराहुसंघट्टात् प्रमाणं वेद्यवेदकौ / अद्वयेन ततस्तेन पुण्य एष महाग्रहः अभ्त्_६. अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः / यथार्के मेषगे राहावश्विनीस्थे@श्विनीदिने अभ्त्_६. आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले / प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ अभ्त्_६. ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् / लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् अभ्त्_६. ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् / मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे अभ्त्_६. तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् / अयत्नजं यत्नजं तु रेचनादथ रोधनात् अभ्त्_६. एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् / एकैकध्येन बोधांशु कलया परिपूरयेत् अभ्त्_६. क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः / तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः अभ्त्_६. अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता / इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः अभ्त्_६. ऐहिकं ग्रहणे चात्र साधकानां महाफलम् / प्राग्वदन्यदयं मासः प्राणचारे@ब्द उच्यते अभ्त्_६. षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु / तिष्ठन्माघाढिकं षट्कं कुर्यात्तच्चोत्तरायणम् अभ्त्_६. संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले / मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् अभ्त्_६. प्रवेशे तु तुलास्थे@र्के तदेव विषुवद्भवेत् / इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः अभ्त्_६. गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता / उद्भविष्यत्त्वमुद्भूतिप्रारम्भो@प्युद्भवस्थितिः अभ्त्_६. जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् / मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् अभ्त्_६. आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने / चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् अभ्त्_६. प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् / कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् अभ्त्_६. निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः / वर्षे@स्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः अभ्त्_६. तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् / प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः अभ्त्_६. पितामहान्तं रुद्राः स्युर्द्वादशाग्रे@त्र भाविनः / प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयो@धुना अभ्त्_६. खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् / द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः अभ्त्_६. चैत्रे मन्त्रोदितिः सो@पि तालुन्युक्तो@धुना पुनः / हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयो@पि हि अभ्त्_६. प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते / सपञ्चांशाङ्गुले@ब्दः स्यात्प्राणे षष्ट्यब्दता पुनः अभ्त्_६. शतानि षट् सहस्राणि चैकविंशतिरित्ययम् / विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते अभ्त्_६. प्रहराहर्निशामासऋत्वब्दरविषष्टिगः / यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने अभ्त्_६. इति प्राणोदये यो@यं कालः शक्त्येकविग्रहः / विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते अभ्त्_६. षट् प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा / तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः अभ्त्_६. अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतो@यनात् / पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते अभ्त्_६. षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् / तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते अभ्त्_६. तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् / हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च अभ्त्_६. प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः / उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु अभ्त्_६. देवानां यदहोरात्रं मानुषाणां स हायनः / शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः अभ्त्_६. श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते / पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः अभ्त्_६. एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः / तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः अभ्त्_६. पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा / दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः अभ्त्_६. एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः / चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश अभ्त्_६. ब्रह्मणो@हस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश / ब्रह्माहो@न्ते कालवह्नेर्ज्वाला योजनलक्षिणी अभ्त्_६. दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् / निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः अभ्त्_६. विभुरधःस्थितो@पीश इति श्रीरौरवं मतम् / ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा अभ्त्_६. तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे / तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः अभ्त्_६. अग्निवेगेरिता लोके जने स्युर्लयकेवलाः / कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये अभ्त्_६. निशाक्षये पुनः सृष्टिं कुरुते तामसादितः / स्वकवर्षशतान्ते@स्य क्षयस्तद्वैष्णवं दिनम् अभ्त्_६. रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः / क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः अभ्त्_६. अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् / दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः अभ्त्_६. ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः / अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती अभ्त्_६. तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः / सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः अभ्त्_६. अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते / निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः अभ्त्_६. न भोक्ता ज्ञो@धिकारे तु वृत्त एव शिवीभवेत् / स एषो@वान्तरलयस्तत्क्षये सृष्टिरुच्यते अभ्त्_६. सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे / सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी अभ्त्_६. प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः / श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् अभ्त्_६. तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी / यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् अभ्त्_६. तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते / क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः अभ्त्_६. एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि / मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः अभ्त्_६. मायाकालं परार्धानां गुणयित्वा शतेन तु / ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् अभ्त्_६. तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति / प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना अभ्त्_६. प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते / अंशांशिकातो@प्येतस्याः सूक्ष्मसूक्ष्मतरो लयः अभ्त्_६. गुणयित्वैश्वरं कालं परार्धानां शतेन तु / सादाशिवं दिनं रात्रिर्महाप्रलय एव च अभ्त्_६. सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः / आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् अभ्त्_६. नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् / शक्तितत्त्वे लयं याति निजकालपरिक्षये अभ्त्_६. एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् / शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः अभ्त्_६. व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते / परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते अभ्त्_६. दिनं रात्रिश्च तत्काले परार्धगुणिते@पि च / सो@पि याति लयं साम्यसंज्ञे सामनसे पदे अभ्त्_६. स कालः साम्यसंज्ञः स्यान्नित्यो@कल्यः कलात्मकः / यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् अभ्त्_६. अतः सामनसात्कालान्निमेषोन्मेषमात्रतः / तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् अभ्त्_६. दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् / खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं च अभ्त्_६. इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा / एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् अभ्त्_६. चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः / भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् अभ्त्_६. कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् / श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः अभ्त्_६. तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता / श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः अभ्त्_६. तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः / अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता अभ्त्_६. लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् / इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तके@ध्वनि अभ्त्_६. मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् / मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः अभ्त्_६. तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः / एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे अभ्त्_६. तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते / ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् अभ्त्_६. स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् / शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् अभ्त्_६. छादितप्रथिताशेष शक्तिरेकः शिवस्तथा / एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः अभ्त्_६. सो@पि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते / चिन्मात्रमेव देवी च सा परा परमेश्वरी अभ्त्_६. अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् / तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः अभ्त्_६. लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् / इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना अभ्त्_६. कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः / स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे अभ्त्_६. समाधौ विश्वसंहारसृष्टिक्रमविवेचने / मितो@पि किल कालांशो विततत्वेन भासते अभ्त्_६. प्रमात्रभेदे भेदे@थ चित्रो विततिमाप्यसौ / एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः अभ्त्_६. तथापाने@पि हृदयान्मूलपीठविसर्पिणि / मूलाभिधमहापीठसङ्कोचप्रविकासयोः अभ्त्_६. ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती / शश्वद्यद्यप्यपानो@य मित्थं वहति किंत्वसौ अभ्त्_६. अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते / हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः अभ्त्_६. ब्रह्मादयो@नाश्रितान्ताः सेव्यन्ते@त्र सुयोगिभिः / एते च परमेशानशक्तित्वाद्विश्ववर्तिनः अभ्त्_६. देहमप्यश्नुवानास्तत्कारणानीति कामिके / बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे अभ्त्_६. मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः / तस्यान्ते तु परा देवी यत्र युक्तो न जायते अभ्त्_६. अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् / समस्तकारणोल्लासपदे सुविदिते यतः अभ्त्_६. अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् / अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् अभ्त्_६. क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः / अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् अभ्त्_६. यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः / एवं समाने@पि विधिः स हि हार्दीषु नाडिषु अभ्त्_६. संचरन्सर्वतोदिक्कं दशधैव विभाव्यते / दश मुख्या महानाडीः पूरयन्नेष तद्गताः अभ्त्_६. नाड्यन्तरश्रिता नाडीः क्रामन्देहे समस्थितिः / अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् अभ्त्_६. चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते / स एव नाडीत्रितये वामदक्षिणमध्यगे अभ्त्_६. इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् / सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् अभ्त्_६. तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् / विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः अभ्त्_६. वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् / एवं क्षीणासु पादोनचतुर्दशसु नालिषु अभ्त्_६. मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् / दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् अभ्त्_६. नवासुशतमेकैकं ततो विषुवदुत्तरम् / पञ्चके पञ्चके@तीते संक्रान्तेर्विषुवद्बहिः अभ्त्_६. यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा / एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् अभ्त्_६. आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगो@प्यसौ / रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः अभ्त्_६. स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी / व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते अभ्त्_६. तदर्हति च यः कालो विषुवत्तदिहोदितः / विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे अभ्त्_६. तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः / इत्थं समानमरुतो वर्षद्वयविकल्पनम् अभ्त्_६. चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् / समाने@पि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् अभ्त्_६. कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः / संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल अभ्त्_६. अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः / उक्तः समानगः काल उदाने तु निरूप्यते अभ्त्_६. प्राणव्याप्तौ यदुक्तं तदुदाने@प्यत्र केवलम् / नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी अभ्त्_६. तेनोदाने@त्र हृदयान्मूर्धन्यद्वादशान्तगम् / तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् अभ्त्_६. व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते / सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः अभ्त्_६. सृष्टिः प्रविलयः स्थेमा संहारो@नुग्रहो यतः / क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः अभ्त्_६. प्राणचारे@त्र यो वर्णपदमन्त्रोदयः स्थितः / यत्नजो@यत्नजः सूक्ष्मः परः स्थूलः स कथ्यते अभ्त्_६. एको नादात्मको वर्णः सर्ववर्णाविभागवान् / सो@नस्तमितरूपत्वादनाहत इहोदितः अभ्त्_६. स तु भैरवसद्भावो मातृसद्भाव एष सः / परा सैकाक्षरा देवी यत्र लीनं चराचरम् अभ्त्_६. ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत् / प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् अभ्त्_६. इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् / ए+ओ इति प्रवेशे तु ऐ+औ इति द्वयं विदुः अभ्त्_६. षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः / गले हृदि च बिन्द्वर्णविसर्गौ परितःस्थितौ अभ्त्_६. कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् / एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः अभ्त्_६. हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः / बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः अभ्त्_६. उक्तः परो@यमुदयो वर्णानां सूक्ष्म उच्यते / प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः अभ्त्_६. तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् / कालो@र्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते अभ्त्_६. मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ / एकाशीतिमिमामर्धमात्राणामाह नो गुरुः अभ्त्_६. यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् / एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका अभ्त्_६. श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः / तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः अभ्त्_६. स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते / तत एव परामर्शो यावत्येकः समाप्यते अभ्त्_६. तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम् / एकाशीतिपदोदारविमर्शक्तमबृंहितः अभ्त्_६. स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः / अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् अभ्त्_६. अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः / अङ्गुले नवभागेन विभक्ते नवमाशकाः अभ्त्_६. वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम् / एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु अभ्त्_६. दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं ततो@पि हल् / क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा अभ्त्_६. विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति / अङ्गुलार्धे@द्रिभागेन त्वर्धमात्रा पुरा पुनः अभ्त्_६. क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः / सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः अभ्त्_६. इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले / क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् अभ्त्_६. हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः / अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः अभ्त्_६. शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् / द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् अभ्त्_६. उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः / अथ स्थूलोदयो@र्णानां भण्यते गुरुणोदितः अभ्त्_६. एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः / रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न के@पि तु अभ्त्_६. एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः / प्राणत्रयोदशशती पञ्चाशदधिका च सा अभ्त्_६. अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः / तदैक्ये तूदयश्चारशतानां सप्तविंशतिः अभ्त्_६. नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः] / सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते अभ्त्_६. अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी / स्थूलो वर्गोदयः सो@यमथार्णोदय उच्यते अभ्त्_६. एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् / बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि अभ्त्_६. शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् / यामलस्थितियोगे तु रुद्रशक्त्यविभागिता अभ्त्_६. दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः / सपञ्चमांशा नाडी च बहिर्वर्णोदयः स्मृतः अभ्त्_६. इति पञ्चाशिका सेयं वर्णानां परिचर्चिता / एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे अभ्त्_६. वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः / वर्णे@धिकं तद्द्विगुणमविभागे दिवानिशोः अभ्त्_६. स्थूलो वर्णोदयः सो@यं पुरा सूक्ष्मो निगद्यते अभ्त्_६. इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् २५२अ अभ्त्_६. अथ परमरहस्यो@यं चक्राणां भण्यते@भ्युदयः १ब् अभ्त्_७. इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते / बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् अभ्त्_७. विदधत्परसंवित्तावुपाय इति वर्णितम् / यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् अभ्त्_७. एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् / एकानुसंधानबलाज्जाते मन्त्रोदये@निशम् अभ्त्_७. तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति / खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके अभ्त्_७. त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः / चतुष्के तु सहस्राणि पञ्च चैव चतुःशती अभ्त्_७. पञ्चार्णे@ब्धिसहस्राणि त्रिशती विंशतिस्तथा / षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् अभ्त्_७. सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् / शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते अभ्त्_७. चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् / अधिषष्ट्येकविंशत्या शतानां दशवर्णके अभ्त्_७. एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके / अष्टादश शतानि स्युरुदयो द्वादशार्णके अभ्त्_७. त्रयोदशार्णे द्वाषष्ट्या शतानि किल षोडश / त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके अभ्त्_७. चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके / त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते अभ्त्_७. शतद्वादशिका सप्तदशार्णे सैकसप्ततिः / अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः अभ्त्_७. चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् / सप्तविंशतिसंख्याते तूदयो@ष्टशतात्मकः अभ्त्_७. द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः / द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् अभ्त्_७. उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् / चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् अभ्त्_७. सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत् / अर्धमर्धत्रिभागश्च षट्षष्टिर्द्विशती भवेत् अभ्त्_७. एकाशीतिपदे चक्रे उदयः प्राणचारगः / चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् अभ्त्_७. अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् / क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा अभ्त्_७. ततो@पि द्विगुणे@ष्टांशस्यार्धमध्यर्धमेककम् / ततो@पि सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने अभ्त्_७. भागषोडशकस्थित्या सूक्ष्मश्चारो@भिलक्ष्यते / एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः अभ्त्_७. क्रमेण प्राणचारस्य ग्रास एवोपजायते / प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः अभ्त्_७. संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् / तथा हि प्राणचारस्य नवस्यानुदये सति अभ्त्_७. न कालभेदजनितो ज्ञानभेदः प्रकल्पते / संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् अभ्त्_७. कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः / सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः अभ्त्_७. अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते / ज्ञानं कियद्भवेत्तावत्तदभावो न भासते अभ्त्_७. तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि / अर्थे वात्मप्रदेशे वा न संयोगविभागिता अभ्त्_७. सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् / भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् अभ्त्_७. तदभावान्न विज्ञानाभावः सैवं तु सैव धीः / न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् अभ्त्_७. वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् / अत एकैव संवित्तिर्नानारूपे तथातथा अभ्त्_७. विन्दाना निर्विकल्पापि विकल्पो भावगोचरे / स्पन्दान्तरं न यावत्तदुदितं तावदेव सः अभ्त्_७. तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् / ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते अभ्त्_७. स ह्येको न भवेत्कश्चित् त्रिजगत्यापि जातुचित् / शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते अभ्त्_७. सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् / घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ अभ्त्_७. न विकल्पश्च को@प्यस्ति यो मात्रामात्रनिष्ठितः / न च ज्ञानसमूहो@स्ति तेषामयुगपत्स्थितेः अभ्त्_७. तेनास्तङ्गत एवैष व्यवहारो विकल्पजः / तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् अभ्त्_७. विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् / एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः अभ्त्_७. विकल्पः शिवतादायी पूर्वमेव निरूपितः / यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् अभ्त्_७. चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः / जपहोमार्चनादीनां प्राणसाम्यमतो विधिः अभ्त्_७. सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना / उक्तं च योगिनीकौले तदेतत्परमेशिना अभ्त्_७. पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् / पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् अभ्त्_७. द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् / इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः अभ्त्_७. पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये / नित्योदये महातत्त्वे उदयस्थे सदाशिवे अभ्त्_७. अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये / ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि अभ्त्_७. मालामन्त्रेषु सर्वेषु मानसो जप उच्यते / उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् अभ्त्_७. पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् / शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः अभ्त्_७. तावती तेषु वै संख्या पदेषु पदसंज्ञिता / तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् अभ्त्_७. द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् / उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् अभ्त्_७. षोडशाख्ये द्वादशिते द्वानवत्यधिके शते / चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् अभ्त्_७. षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः / उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् अभ्त्_७. चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः / अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् अभ्त्_७. उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः / एष चक्रोदयः प्रोक्तः साधकानां हितावहः अभ्त्_७. निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः / व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् अभ्त्_७. पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः / त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः अभ्त्_७. आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः / मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि अभ्त्_७. मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् / क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके अभ्त्_७. द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा / तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा अभ्त्_७. पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् / बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा अभ्त्_७. शक्तिस्थं नैव तं तत्र विभागस्त्वोंनमोन्तगः / अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः अभ्त्_७. विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः / पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा अभ्त्_७. विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत् / यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् अभ्त्_७. प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा / एत्येष कालविभवः प्राण एव प्रतिष्ठितः अभ्त्_७. स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः / अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ अभ्त्_७. शक्त्यन्ते@ध्वनि तत्स्पन्दासंख्याता वास्तवी ततः / उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् अभ्त्_७. विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् / प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः अभ्त्_७. देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते / चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः अभ्त्_७. सा नाडीरूपतामेत्य देहं संतानयेदिमम् / श्रीस्वच्छन्दे@त एवोक्तं यथा पर्णं स्वतन्तुभिः अभ्त्_७. व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः / पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः अभ्त्_७. कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः / द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः अभ्त्_७. षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम् / अत्र मध्यमसंचारिप्राणोदयलयान्तरे अभ्त्_७. विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् / इत्येष सूक्ष्मपरिमर्शनशीलनीयश्चक्रोदयो@नुभवशास्त्रदृशा मयोक्तः अभ्त्_७. देशाध्वनो@प्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः १ब् अभ्त्_८. विचारितो@यं कालाध्वा क्रियाशक्तिमयः प्रभोः / मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते अभ्त्_८. अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः / यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते अभ्त्_८. संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च / नाडीचक्रानुचक्रेषु बर्हिर्देहे@ध्वसंस्थितिः अभ्त्_८. तत्राध्वैवं निरूप्यो@यं यतस्तत्प्रक्रियाक्रमम् / अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् अभ्त्_८. दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते / तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने अभ्त्_८. ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् / तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् अभ्त्_८. तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका / उपास्यमाना संसारसागरप्रलयानलः अभ्त्_८. श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् / ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् अभ्त्_८. रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे / अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः अभ्त्_८. एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत / न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने अभ्त्_८. त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः / षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना अभ्त्_८. अव्याहतविभागो@स्मिभावो मूलं तु बोधगम् / समस्ततत्त्वभावो@यं स्वात्मन्येवाविभागकः अभ्त्_८. बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् / तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् अभ्त्_८. बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् / संविदेकात्मतानीतभूतभावपुरादिकः अभ्त्_८. अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः / श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् अभ्त्_८. अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् / यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः अभ्त्_८. पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी / तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा अभ्त्_८. स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः / ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः अभ्त्_८. तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् / तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः अभ्त्_८. नेता कटाहरुद्राणामनन्तः कामसेविनाम् / पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः अभ्त्_८. स देवं भैरवं ध्यायन् नागैश्च परिवारितः / कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् अभ्त्_८. लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते / स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् अभ्त्_८. नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः / दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः अभ्त्_८. तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः / श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः अभ्त्_८. अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् / एकादशैकादश च दशेत्यन्तः शराग्नि तत् अभ्त्_८. प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् / लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः अभ्त्_८. कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता / शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते अभ्त्_८. तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् / ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् अभ्त्_८. यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि / सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् अभ्त्_८. पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः / प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः अभ्त्_८. सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने / व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः अभ्त्_८. दीक्षिता अपि ये लुप्तसमया नच कुर्वते / प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः अभ्त्_८. देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः / अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः अभ्त्_८. ते हाटकविभोरग्रे किङ्करा विविधात्मकाः / ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते अभ्त्_८. तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे / अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः अभ्त्_८. ते कालवह्निसंतापदीनाक्रन्दपरायणाः / गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः अभ्त्_८. पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् / अधमाधमदेहेषु निजकर्मानुरूपतः अभ्त्_८. मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् / मुच्यन्ते@न्ये तु बध्यन्ते पूर्वकृत्यानुसारतः अभ्त्_८. इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना / प्रोक्तं भगवता श्रीमदानन्दाधिकशासने अभ्त्_८. पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः / सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् अभ्त्_८. भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः / ततस्तमस्तप्तभूमिस्ततःशून्यं ततो@हयः अभ्त्_८. एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् / ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश अभ्त्_८. मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः / सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः अभ्त्_८. मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः / भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका अभ्त्_८. सर्वे देवा निलीना हि तत्र तत्पूजितं सदा / मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् अभ्त्_८. ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः / अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश अभ्त्_८. चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः / अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् अभ्त्_८. अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः / तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु अभ्त्_८. विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये / याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः अभ्त्_८. मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा / कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः अभ्त्_८. रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् / वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् अभ्त्_८. उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् / वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः अभ्त्_८. वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा / महोदयेन्दोर्गुह्याः स्युः पश्चिमे@स्याः पुनः पुनः अभ्त्_८. कुबेरः कर्मदेवाश्च तथा तत्साधका अपि / यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः अभ्त्_८. दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् / मैरवे चक्रवाटे@स्मिन्नेवं मुख्याः पुरो@ष्टधा अभ्त्_८. अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः / इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः अभ्त्_८. ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् / मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः अभ्त्_८. मन्दरो गन्धमादश्च विपुलो@थ सुपार्श्वकः / सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः अभ्त्_८. एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः / चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः अभ्त्_८. रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् / वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः अभ्त्_८. एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् / मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः अभ्त्_८. लक्षमात्रः स नवधा जातो मर्यादपर्वतैः / निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः अभ्त्_८. लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् / नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः अभ्त्_८. मेरोः षडेते मर्यादाचलाः पूर्वापरायताः / पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः अभ्त्_८. सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ / अष्टावेते ततो@प्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् अभ्त्_८. जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः / एवं स्थितो विभागो@त्र वर्षसिद्ध्यै निरूप्यते अभ्त्_८. समन्ताच्चक्रवाटाधो@नर्केन्दु चतुरश्रकम् / सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् अभ्त्_८. मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे / केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् अभ्त्_८. मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः / सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् अभ्त्_८. पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे / द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते अभ्त्_८. मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् / चापवन्नवसाहस्रमायुस्तत्र त्रयोदश अभ्त्_८. कुरुवर्षस्योत्तरे@थ वायव्ये@ब्धौ क्रमाच्छराः / दश चेति सहस्राणि द्वीपौ चन्द्रो@थ भद्रकः अभ्त्_८. यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् / तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश अभ्त्_८. तत्र वै वामतः श्वेतनीलयो रम्यको@न्तरे / सहस्रनवविस्तीर्णमायुर्द्वादश तानि च अभ्त्_८. मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे / हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् अभ्त्_८. तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे / कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् अभ्त्_८. तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे / भारतं नवसाहस्रं चापवत्कर्मभोगभूः अभ्त्_८. इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् / हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः अभ्त्_८. अत्र बाहुल्यतः कर्मभूभावो@त्राप्यकर्मणाम् / पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः अभ्त्_८. संभवन्त्यप्यसंस्कारा भारते@न्यत्र चापि हि / दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् अभ्त्_८. स्थानान्तरे@पि कर्मास्ति दृष्टं तच्च पुरातने / तत्र त्रेता सदा कालो भारते तु चतुर्युगम् अभ्त्_८. भारते नवखण्डं च सामुद्रेणाम्भसात्र च / स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते अभ्त्_८. इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् / सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः अभ्त्_८. कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः / उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते अभ्त्_८. अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगो@गस्त्य / तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः अभ्त्_८. द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः / मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने अभ्त्_८. भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः / शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः अभ्त्_८. महाकालादिका रुद्रकोटिरत्रैव भारते / गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् अभ्त्_८. अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् / प्राप्यं मनोरथातीतमपि भारतजन्मनाम् अभ्त्_८. नानावर्णाश्रमाचारसुखदुःखविचित्रता / कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा अभ्त्_८. पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः / परापरौ स्वर्निरयाविति रौरववार्तिके अभ्त्_८. एवं मेरोरधो जम्बूरभितो यः स विस्तरात् / स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः अभ्त्_८. मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः / प्राव्रजन्नथ जम्ब्वाख्ये राजा यो@ग्नीध्रनामकः अभ्त्_८. तस्याभवन्नव सुतास्ततो@यं नवखण्डकः / नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः अभ्त्_८. तस्याष्टौ तनयाः साकं कन्यया नवमों@शकः / भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् अभ्त्_८. लक्षैकमात्रो लवणस्तद्बाह्ये@स्य पुरो@द्रयः / ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् अभ्त्_८. वराहनन्दनाशोकाः पश्चात् सहबलाहकौ / दक्षिण चक्रमैनाकौ वाडवो@न्तस्तयोः स्थितः अभ्त्_८. अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः / विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामो@त्र फलाशिनः अभ्त्_८. मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः / नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः अभ्त्_८. निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये / इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने अभ्त्_८. इत्थं य एष लवणसमुद्रः प्रतिपादितः / तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः अभ्त्_८. क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः / शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः / क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः अभ्त्_८. मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा / संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः अभ्त्_८. गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः / पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवो@त्र पूर्वादौ अभ्त्_८. त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् / स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा अभ्त्_८. सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् / उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः अभ्त्_८. लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् / केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः अभ्त्_८. पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ / भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति अभ्त्_८. ऽसर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः.ऽ उदयास्तमयावित्थं सूर्यस्य परिभावयेत् अभ्त्_८. अर्धरात्रो@मरावत्यां याम्यायामस्तमेव च / मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः अभ्त्_८. उदयो यो@मरावत्यां सो@र्धरात्रो यमालये / के@स्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते अभ्त्_८. पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः / चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः अभ्त्_८. सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् / लोकालोकस्य परतो यद्गर्भे निखिलैव भूः अभ्त्_८. सिद्धातन्त्रे@त्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् / मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः अभ्त्_८. क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः / तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः अभ्त्_८. चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा / ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः अभ्त्_८. ब्रह्मणो@ण्डकटाहेन मेरोरर्धेन कोटयः / पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् अभ्त्_८. पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः / व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् अभ्त्_८. विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य / अभिमानतो यथेष्टं भोगस्थानं निवासश्च अभ्त्_८. भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे / दश वायुपथास्ते च प्रत्येकमयुतान्तराः अभ्त्_८. आद्यो वायुपथस्तत्र विततः परिचर्च्यते / पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः अभ्त्_८. आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् / पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु अभ्त्_८. सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः / ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः अभ्त्_८. तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः / पञ्चाशदूर्ध्वमोघो@त्र विषवारिप्रवर्षिणः अभ्त्_८. मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते / ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः अभ्त्_८. तत्र स्थाने महादेवजन्मानस्ते विनायकाः / ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् अभ्त्_८. पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः / विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः अभ्त्_८. ये विद्यापौरुषे ये च श्मशानादिप्रसाधने / मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः अभ्त्_८. पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतो@शनिवर्षिणः / अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः अभ्त्_८. भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः / गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः अभ्त्_८. वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः / ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे अभ्त्_८. रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते / क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः अभ्त्_८. पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः / विद्याधरविशेषाश्च तथा ये परमेश्वरम् अभ्त्_८. गान्धर्वेण सदार्चन्ति विषावर्ते@थ ते स्थिताः / विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः अभ्त्_८. ब्रह्मणो@त्र स्थिता मेघाः प्रलये वातकारिणः / पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे अभ्त्_८. जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः / ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः अभ्त्_८. महावहे त्वीशकृताः प्रजाहितकराम्बुदाः / महापरिवहे मेघाः कपालोत्था महेशितुः अभ्त्_८. महापरिवहान्तो@यमृतर्द्धेः प्राङ्मरुत्पथः / अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः अभ्त्_८. द्वितीये तत्परे सिद्धचारणा निजकर्मजाः / तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः अभ्त्_८. षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः / दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः अभ्त्_८. दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे / नवयोजनसाहस्रो विग्रहो@र्कस्य मण्डलम् अभ्त्_८. त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः / स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते अभ्त्_८. सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा / चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु अभ्त्_८. प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः / सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा अभ्त्_८. ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवो@चलः / मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः अभ्त्_८. अत्र बद्धानि सर्वाण्यप्यूह्यन्ते@निलमण्डले / स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः अभ्त्_८. इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः / स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः अभ्त्_८. एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च / द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् अभ्त्_८. मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः / निवर्तिताधिकाराश्च देवा महति संस्थिताः अभ्त्_८. महान्तराले तत्रान्ये त्वधिकारभुजो जनाः / अष्टौ कोट्यो महल्लोकाज्जनो@त्र कपिलादयः अभ्त्_८. तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः / जनात्तपोर्ककोट्यो@त्र सनकाद्या महाधियः अभ्त्_८. प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् / ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः अभ्त्_८. तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः / सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः अभ्त्_८. आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् / ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् अभ्त्_८. ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् / वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः अभ्त्_८. रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि / दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः अभ्त्_८. ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन / तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः अभ्त्_८. अधिकारक्षये साकं रुद्रकन्यागणेन ते / पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः अभ्त्_८. ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च / शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च अभ्त्_८. शर्वरुद्रौ भीमभवावुग्रो देवो महानथ / ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः अभ्त्_८. स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः / सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् अभ्त्_८. ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः / स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः अभ्त्_८. परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः / लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः अभ्त्_८. कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः / अत ऊर्ध्वं कटाहो@ण्डे स घनः कोटियोजनम् अभ्त्_८. पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा / एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः अभ्त्_८. शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम् / प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः अभ्त्_८. ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः / अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु अभ्त्_८. व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः / आवापवाननिर्भक्तो वस्तुपिण्डो@ण्ड उच्यते अभ्त्_८. तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् / रजो@नुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः अभ्त्_८. वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् / अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते अभ्त्_८. तथापि शिवमग्नानां शक्तीनामण्डता भवेत् / तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः अभ्त्_८. तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् / तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः अभ्त्_८. तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः / अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् अभ्त्_८. विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् / तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् अभ्त्_८. गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते / उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् अभ्त्_८. रूपमुक्तं यतस्तेन तत्समूहो@ण्ड उच्यते / भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः अभ्त्_८. तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् / तावन्मात्रास्ववस्थासु मायाधीने@ध्वमण्डले अभ्त्_८. मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् / इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् अभ्त्_८. तेषां स्वे पतयो रुद्रा एकादश महार्चिषः / अनन्तो@थ कपाल्याग्निर्यमनैरृतकौ बलः अभ्त्_८. शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः / मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते अभ्त्_८. तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः / शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् अभ्त्_८. श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च / ईश्वरत्वं दिविषदामिति रौरववार्तिके अभ्त्_८. सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् / अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् अभ्त्_८. तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः / क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् अभ्त्_८. धरातो@त्र जलादि स्यादुत्तरोत्तरतः क्रमात् / दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः अभ्त्_८. सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा / नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा अभ्त्_८. कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा / ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा अभ्त्_८. सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया / व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता अभ्त्_८. अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः / जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् अभ्त्_८. ऋते ततः शिवज्ञानं परमं मोक्षकारणम् / तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने अभ्त्_८. नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि / शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् अभ्त्_८. प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः / शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् अभ्त्_८. न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् / तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः अभ्त्_८. निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी / विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् अभ्त्_८. तावतीं गतिमायान्ति भुवने@त्र निवेशिताः / ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः अभ्त्_८. विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् / जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः अभ्त्_८. ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् / वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा अभ्त्_८. रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् / आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा अभ्त्_८. त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् / ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् अभ्त्_८. मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः / अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् अभ्त्_८. ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ / प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् अभ्त्_८. सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् / रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्यो@न्यास्तथा स्थिताः अभ्त्_८. पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती / लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः अभ्त्_८. ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः / ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः अभ्त्_८. भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् / प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् अभ्त्_८. ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् / तं विशन्ति महात्मानो वायुभूताः खमूर्तयः अभ्त्_८. भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् / खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् अभ्त्_८. वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् / अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः अभ्त्_८. ज्ञानहीना अपि प्रौढधारणास्ते@ण्डतो बहिः / धराब्धितेजो@निलखपुरगा दीक्षिताश्च वा अभ्त्_८. तावत्संस्कारयोगार्थं न परं पदमीहितुम् / तथाविधावतारेषु मृताश्चायतनेषु ये अभ्त्_८. तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् / पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले अभ्त्_८. श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः / सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे अभ्त्_८. ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः / रुद्रजातय एवैते इत्याह भगवाञ्छिवः अभ्त्_८. आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये / तन्मात्रादिमनो@न्तानां पुराणि शिवशासने अभ्त्_८. पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् / आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा अभ्त्_८. एवं रसादिमात्राणां मण्डलानि स्ववर्णत / शर्वो भवः पशुपतिरीशो भीम इति क्रमात् अभ्त्_८. तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः / ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् अभ्त्_८. उग्रश्चेत्येषु पतयस्तेभ्यो@र्केन्दू सयाजकौ / इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः अभ्त्_८. अपरा ब्रह्मणो@ण्डे ता व्याप्य सर्वं व्यवस्थिताः / कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु अभ्त्_८. ततो वागादिकर्माक्षयुक्तं करणमण्डलम् / अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः अभ्त्_८. प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् / दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः अभ्त्_८. प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् / मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः अभ्त्_८. बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः / मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः अभ्त्_८. ततो@पि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः / स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् अभ्त्_८. बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् / पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् अभ्त्_८. एतानि देवयोनीनां स्थानान्येव पुराण्यतः / अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते अभ्त्_८. परमेशनियोगाच्च चोद्यमानाश्च मायया / नियामिता नियत्या च ब्रह्मणो@व्यक्तजन्मनः अभ्त्_८. व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा / स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् अभ्त्_८. उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः / अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः अभ्त्_८. तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः / चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि अभ्त्_८. साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि / एतानि भक्तियोगप्राणत्यागादिगम्यानि अभ्त्_८. तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा / तरतमयोगेन ततो@पि देवयोन्यष्टकं लक्ष्यं तु अभ्त्_८. लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि / गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् अभ्त्_८. अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते / ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः अभ्त्_८. क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः / तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् अभ्त्_८. अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् / स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने अभ्त्_८. योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च / ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते अभ्त्_८. तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते / तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् अभ्त्_८. प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी / उमापतेः पुरं पश्चान्मातृभिः परिवारितम् अभ्त्_८. श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते / ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] अभ्त्_८. पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् / अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः अभ्त्_८. अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः / स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः अभ्त्_८. स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः / उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् अभ्त्_८. शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः / ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता अभ्त्_८. श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् / ये योगं सगुणं शम्भोः संयताः पर्युपासते अभ्त्_८. तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः / गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः अभ्त्_८. तारतम्याच्च योगस्य भेदात्फलविचित्रता / ततो भोगफलावाप्तिभेदाद्भेदो@यमुच्यते अभ्त्_८. मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः / वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः अभ्त्_८. तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः / यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते अभ्त्_८. ततो@प्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् / बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः अभ्त्_८. महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् / तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा अभ्त्_८. मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः / उपरिष्टाद्धियो@धश्च प्रकृतेर्गुणसंज्ञितम् अभ्त्_८. तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् / न वैषम्यमनापन्नं कारणं कार्यसूतये अभ्त्_८. गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् / नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् अभ्त्_८. कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः / सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः अभ्त्_८. अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् / अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् अभ्त्_८. अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः / ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा अभ्त्_८. तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः / नैतत्कारणतारूपपरामर्शावरोधि यत् अभ्त्_८. क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् / क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः अभ्त्_८. तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः / स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः अभ्त्_८. त्रिनेत्राः पाशनिर्मुक्तास्ते@त्रानुग्रहकारिणः / बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते अभ्त्_८. रुद्राणां भुवनानां च मुख्यतो@न्ये तदन्तरे / योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः अभ्त्_८. योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः / अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी अभ्त्_८. करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च / अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयो@मीषाम् अभ्त्_८. धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि / यच्छन्ति गुणेभ्यो@मी पुरुषेभ्यो योगदातारः अभ्त्_८. तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य / सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य अभ्त्_८. येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु / ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि अभ्त्_८. उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य / दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः अभ्त्_८. यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी / अनुकल्पो रुद्राण्या वेदी तत्रेज्यते@नुकल्पेन अभ्त्_८. पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः / गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः अभ्त्_८. गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः / क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ अभ्त्_८. पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते / गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् अभ्त्_८. गुणकारणमित्येते मायाप्रभवस्य पर्यायाः / यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः अभ्त्_८. ते सर्वे@त्र विनिहिता रुद्राश्च तदुत्थभोगभुजः / मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः अभ्त्_८. अकृताधिष्ठानतया कृत्याशक्तानि मूढानि / प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि अभ्त्_८. भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि / इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् अभ्त्_८. पुंस्तत्त्वे तुष्टिनवकं सिद्धयो@ष्टौ च तत्पुरः / तावत्य एवाणिमादिभुवनाष्टकमेव च अभ्त्_८. अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा / हेये@प्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः अभ्त्_८. आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः / पञ्च विषयोपरमतो@र्जनरक्षासङ्गसंक्षयविघातैः अभ्त्_८. ऊहः शब्दो@ध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः / दानं च सिद्धयो@ष्टौ सिद्धेः पूर्वो@ङ्कुशस्त्रिविधः अभ्त्_८. अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः / तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् अभ्त्_८. नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् / पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता अभ्त्_८. न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् / अकर्तर्यपि वा पुंसि सहकारितया स्थिते अभ्त्_८. शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः / तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा अभ्त्_८. तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति / नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते अभ्त्_८. कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि / साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे अभ्त्_८. भुवनं देहधर्माणां दशानां विग्रहाष्टकात् / अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः अभ्त्_८. शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः / पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः अभ्त्_८. आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः / तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा अभ्त्_८. पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः / त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः अभ्त्_८. यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् / पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते अभ्त्_८. तदेवं पुंस्त्वमापन्ने पूर्णे@पि परमेश्वरे / तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः अभ्त्_८. उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः / ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् अभ्त्_८. पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश / हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः अभ्त्_८. कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः / रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् अभ्त्_८. पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् / मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः अभ्त्_८. कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् / ततो माया त्रिपुटिका मुख्यतो@नन्तकोटिभिः अभ्त्_८. आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः / अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि अभ्त्_८. चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते / वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने अभ्त्_८. ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः / कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः अभ्त्_८. सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः / क्रमात्तत्तत्त्वमायान्ति यत्रेशो@नन्त उच्यते अभ्त्_८. उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य / स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य अभ्त्_८. धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च / मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य अभ्त्_८. तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः / सर्वे@नन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः अभ्त्_८. सो@व्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः / शुद्धाशुद्धस्रोतो@धिकारहेतुः शिवो यस्मात् अभ्त्_८. शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् / ते@नन्तादेर्जगतः सर्गस्थितिविलयकर्तारः अभ्त्_८. मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः / उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु अभ्त्_८. योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा / कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् अभ्त्_८. प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते / तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु अभ्त्_८. अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि / योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले अभ्त्_८. मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः / निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः अभ्त्_८. स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः / प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः अभ्त्_८. अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः / न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः अभ्त्_८. तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् / स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि अभ्त्_८. अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः / ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः अभ्त्_८. मध्ये पुटत्रयं तस्या रुद्राः षडधरे@न्तरे / एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः अभ्त्_८. गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे / मध्ये@नन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः अभ्त्_८. इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या / परिवर्त्तते स्थितिः किल देवो@नन्तस्तु सर्वथा मध्ये अभ्त्_८. ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या / मध्यतो@ष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः अभ्त्_८. श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा / ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया अभ्त्_८. मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् / तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् अभ्त्_८. मायातत्त्वाधिपतिः सो@नन्तः समुदितान्विचार्याणून् / युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः अभ्त्_८. तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् / निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् अभ्त्_८. उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् / असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् अभ्त्_८. पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः / कुलं योनिश्च वागीशी यस्यां जातो न जायते अभ्त्_८. दीक्षाकाले@धराध्वस्थशुद्धौ यच्चाधराध्वगम् / अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् अभ्त्_८. साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च / पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् अभ्त्_८. आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् / अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः अभ्त्_८. मायामयशरीरास्ते भोगं स्वं परिभुञ्जते / प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे अभ्त्_८. अन्यानन्तप्रसादेन विबुधा अपि तं परम् / सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः अभ्त्_८. स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः / अतः परं स्थिता माया देवी जन्तुविमोहिनी अभ्त्_८. देवदेवस्य सा शक्तिरतिदुर्घटकारिता / निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः अभ्त्_८. इदं तत्त्वमिदं नेति विवदन्तीह वादिनः / गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः अभ्त्_८. सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् / असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः अभ्त्_८. भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया / शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा अभ्त्_८. न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति / महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका अभ्त्_८. वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् / वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा अभ्त्_८. मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः / सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वे@त्र संस्थिताः अभ्त्_८. एकैकार्बुदलक्षांशाः पद्माकारपुरा इह / विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः अभ्त्_८. विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् / शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् अभ्त्_८. शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ / शिवोत्तमः सूक्ष्मरुद्रो@नन्तो विद्येश्वराष्टकम् अभ्त्_८. क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः / अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः अभ्त्_८. मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् / तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः अभ्त्_८. उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् / भगबिलशतकलितगुहामूर्धासनगो@ष्टशक्तियुग्देवः अभ्त्_८. गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते / उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः अभ्त्_८. ते तेनोदस्तचितः परतत्त्वालोचने@भिनिविशन्ते / स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन अभ्त्_८. अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः / निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु अभ्त्_८. अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने / इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः अभ्त्_८. तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते / ते@ष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः अभ्त्_८. आलोकयन्ति देवं हृदयस्थं कारणं परमम् / तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् अभ्त्_८. सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः / मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यते@प्यभवः अभ्त्_८. शिवशुद्धगुणाधीकारान्तः सो@प्येष हेयश्च / अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी अभ्त्_८. इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् / पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः अभ्त्_८. कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ / धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् अभ्त्_८. रूपावरणसंज्ञं तत्तत्त्वे@स्मिन्नैश्वरे विदुः / वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् अभ्त्_८. सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः / ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् अभ्त्_८. शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् / विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला अभ्त्_८. शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता / शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् अभ्त्_८. तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः / मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता अभ्त्_८. सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् / शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् अभ्त्_८. अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः / मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् अभ्त्_८. ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः / ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते अभ्त्_८. इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् / प्रबुद्धावरणादूर्ध्व समयावरणं महत् अभ्त्_८. भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति / सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् अभ्त्_८. तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः / ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी अभ्त्_८. सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया / पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः अभ्त्_८. दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः / सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् अभ्त्_८. मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः / सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् अभ्त्_८. कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् / ॐ कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ अभ्त्_८. सूक्ष्मसुतेजःशर्वाः शिवाः दशैते@त्र पूर्वादेः / विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः अभ्त्_८. मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च / सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः अभ्त्_८. सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि / मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् अभ्त्_८. तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् / यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य अभ्त्_८. प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयो@संख्याः / मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः अभ्त्_८. सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः / अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः अभ्त्_८. ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् / शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः अभ्त्_८. निवृत्त्यादिकलावर्गपरिवारसमावृतः / असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः अभ्त्_८. श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् / पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते अभ्त्_८. चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् / तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् अभ्त्_८. निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता / मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते अभ्त्_८. उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः / यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः अभ्त्_८. बिन्दूर्ध्वे@र्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती / कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः अभ्त्_८. रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा / एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् अभ्त्_८. अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः / तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका अभ्त्_८. हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः / निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् अभ्त्_८. पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः / इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् अभ्त्_८. नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः / चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् अभ्त्_८. इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा / मध्ये@त्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः अभ्त्_८. नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः / तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः अभ्त्_८. या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा / ग्रथितो@ध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा अभ्त्_८. नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् / अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः अभ्त्_८. नाड्या ब्रह्मबिले लीनः सो@व्यक्तध्वनिरक्षरः / नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः अभ्त्_८. सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् / तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः अभ्त्_८. तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा / रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली अभ्त्_८. शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते / तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते अभ्त्_८. मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः / शक्तितत्त्वमिदं यस्य प्रपञ्चो@यं धरान्तकः अभ्त्_८. शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः / व्यापी व्योमात्मको@नन्तो@नाथस्तच्छक्तिभागिनः अभ्त्_८. मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः / तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः अभ्त्_८. शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया / सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता अभ्त्_८. बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता / तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः अभ्त्_८. समना करणं तस्य हेतुकर्तुर्महोशितुः / अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते अभ्त्_८. तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् / अनाश्रितो@नाथमयमनन्तं खवपुः सदा अभ्त्_८. स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु / कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली अभ्त्_८. नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः / यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने अभ्त्_८. तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् / अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः अभ्त्_८. तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् / अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी अभ्त्_८. रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् / जलतेजःसमीरनभो@हंकृद्धीमूलसप्तके प्रत्येकम् अभ्त्_८. अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता / अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् अभ्त्_८. अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् / श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् अभ्त्_८. अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् / रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् अभ्त्_८. इत्यष्टकं जले@नौ वह्न्यतिगुह्यद्वयं मरुति वायोः / स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् अभ्त्_८. अभिमाने@हङ्कारच्छगलाद्यष्टकमथान्तरा नभो@हंकृत् / तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् अभ्त्_८. दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते / मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् अभ्त्_८. धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा / तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः अभ्त्_८. तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या / गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः अभ्त्_८. यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि / तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् अभ्त्_८. इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् / अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयो@णिमादिगणः अभ्त्_८. गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् / गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः अभ्त्_८. कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ / इति पाशेषु पुरत्रयमित्थं पुरुषे@त्र भुवनषोडशकम् अभ्त्_८. नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् / रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले अभ्त्_८. भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् / इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् अभ्त्_८. वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः / सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः अभ्त्_८. सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता / बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने अभ्त्_८. परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः / व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः अभ्त्_८. षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा / बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि अभ्त्_८. सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना / इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् अभ्त्_८. श्रीमन्मतङ्गशास्त्रे च क्रमो@यं पुरपूगगः / कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् अभ्त्_८. कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः / इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः अभ्त्_८. स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता / पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये अभ्त्_८. तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततो@ष्टकम् / पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे अभ्त्_८. योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते / पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः अभ्त्_८. द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश / वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् अभ्त्_८. शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः / यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् अभ्त्_८. शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् / इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन अभ्त्_८. अन्ये@पि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः / श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् अभ्त्_८. तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् / कालाग्निः कूष्माण्डो नरकेशो हाटको@थ भूतलपः अभ्त्_८. ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः / अधरे@नन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः अभ्त्_८. लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति / एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः अभ्त्_८. इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् / लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ अभ्त्_८. प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे / भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः अभ्त्_८. श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि / भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः अभ्त्_८. अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च / स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः अभ्त्_८. अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे / स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् अभ्त्_८. माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे / अन्ये@हङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः अभ्त्_८. धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति / इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता अभ्त्_८. नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ / अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् अभ्त्_८. संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ / वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् अभ्त्_८. समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ / भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ अभ्त्_८. अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् / हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः अभ्त्_८. विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च / वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् अभ्त्_८. अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव / इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः अभ्त्_८. अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः १ब् अभ्त्_९. यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः / तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने अभ्त्_९. तथाहि कालसदनाद्वीरभद्रपुरान्तगम् / धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता अभ्त्_९. एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे / स्वस्मिन्कार्ये@थ धर्मौघे यद्वापि स्वसदृग्गुणे अभ्त्_९. आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः / तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः अभ्त्_९. देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् / श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना अभ्त्_९. तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते / कार्यकारणभावो यः शिवेच्छापरिकल्पितः अभ्त्_९. वस्तुतः सर्वभावानां कर्तेशानः परः शिवः / अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते अभ्त्_९. स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः / स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते अभ्त्_९. जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति / न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते अभ्त्_९. तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् / निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् अभ्त्_९. स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ / स्वभावे@नतिरिक्तौ चेत्सम इत्यवशिष्यते अभ्त्_९. बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः / घटः पटश्चेति भवेत् कार्यकारणता न किम् अभ्त्_९. बीजमङ्कुरपत्रादितया परिणमेत चेत् / अतत्स्वभाववपुषः स स्वभावो न युज्यते अभ्त्_९. स तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे / तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् अभ्त्_९. ततश्च चित्राकारो@सौ तावान्कश्चित्प्रसज्यते / अस्तु चेत् न जडे@न्योन्यविरुद्धाकारसंभवः अभ्त्_९. क्रमेण चित्राकारो@स्तु जडः किं नु विरुद्ध्यते / क्रमो@क्रमो वा भावस्य न स्वरूपाधिको भवेत् अभ्त्_९. तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा / उपलब्धापि विज्ञानस्वभावो यो@स्य सो@पि हि अभ्त्_९. क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् / तस्य तर्हि क्रमः को@सौ तदन्यानुपलम्भतः अभ्त्_९. स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् / स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः अभ्त्_९. स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम् / इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते अभ्त्_९. कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् / तथावभासनं चास्ति कार्यकारणभावगम् अभ्त्_९. यथा हि घटसाहित्यं पटस्याप्यवभासते / तथा घटानन्तरता किं तु सा नियमोज्झिता अभ्त्_९. अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् / तत्तस्य कारणं ब्रूमः सति रूपान्वये@धिके अभ्त्_९. नियमश्च तथारूपभासनामात्रसारकः / बीजादङ्कुर इत्येवं भासनं नहि सर्वदा अभ्त्_९. योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः / इष्टे तथाविधाकारे नियमो भासते यतः अभ्त्_९. स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता / भासते नियमेनैव बाधाशून्येन तावति अभ्त्_९. ततो यावति याद्रूप्यान्नियमो बाधवर्जितः / भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता अभ्त्_९. तथाभूते च नियमे हेतुतद्वत्त्वकारिणि / वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् अभ्त्_९. अत एव घटोद्भूतौ सामग्री हेतुरुच्यते / सामग्री च समग्राणां यद्येकं नेष्यते वपुः अभ्त्_९. हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम् / यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् अभ्त्_९. तत्तस्य हेतु चेत्सो@यं कुण्ठतर्को न नः प्रियः / समग्राश्च यथा दण्डसूत्रचक्रकरादयः अभ्त्_९. दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे / यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन अभ्त्_९. न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः / यथा च चक्रं नियते देशे काले च हेतुताम् अभ्त्_९. याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः / तथा च तेषां हेतुनां संयोजनवियोजने अभ्त्_९. नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् / कुम्भकारस्य या संवित् चक्रदण्डादियोजने अभ्त्_९. शिव एव हि सा यस्मात् संविदः का विशिष्टता / कौम्भकारी तु संवित्तिरवच्छेदावभासनात् अभ्त्_९. भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः / तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः अभ्त्_९. कर्तेति पुंसः कर्तृत्वाभिमानो@पि विभोः कृतिः / अत एव तथाभानपरमार्थतया स्थितेः अभ्त्_९. कार्यकारणभावस्य लोके शास्त्रे च चित्रता / मायातो@व्यक्तकलयोरिति रौरवसंग्रहे अभ्त्_९. श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते / तत एव निशाख्यानात्कलीभूतादलिङ्गकम् अभ्त्_९. इति व्याख्यास्मदुक्ते@स्मिन्सति न्याये@तिनिष्फला / लोके च गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः अभ्त्_९. योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः / अन्य एव स चेत् कामं कुतश्चित्स्वविशेषतः अभ्त्_९. स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु / तत एव स्वरूपे@पि क्रमे@प्यन्यादृशी स्थितिः अभ्त्_९. शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः / पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् अभ्त्_९. नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता / पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् अभ्त्_९. कालो मायेति कथितः क्रमः किरणशास्त्रगः / पुमान्नियत्या कालश्च रागविद्याकलान्वितः अभ्त्_९. इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे / कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते अभ्त्_९. श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् / शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः अभ्त्_९. स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते / चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः अभ्त्_९. शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् / एकैकत्रापि तत्त्वे@स्मिन् सर्वशक्तिसुनिर्भरे अभ्त्_९. तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते / तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः अभ्त्_९. निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् / शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाह् अभ्त्_९. मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् / स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि अभ्त्_९. तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् / तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः अभ्त्_९. गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः / ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते अभ्त्_९. सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः / ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि अभ्त्_९. षट्के कारणसंज्ञे@र्धजरतीयमियं कुतः / इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् अभ्त्_९. यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि / तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् अभ्त्_९. तदेवं पञ्चकमिदं शुद्धो@ध्वा परिभाष्यते / तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका अभ्त्_९. ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् / संविभक्तुमघोरेशः सृजतीह सितेतरम् अभ्त्_९. अणूनां लोलिका नाम निष्कर्मा याभिलाषिता / अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता अभ्त्_९. योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे / मलस्तेनास्य न पृथक्तत्त्वभावो@स्ति रागवत् अभ्त्_९. निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा / रागः पुंसि धियो धर्मः कर्मभेदविचित्रता अभ्त्_९. अपूर्णमन्यता चेयं तथारूपावभासनम् / स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः अभ्त्_९. स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः / यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता अभ्त्_९. तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः / व्यतिरिक्तः स्वतन्त्रस्तु न को@पि शकटादिवत् अभ्त्_९. तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् / मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा अभ्त्_९. इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः / रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते अभ्त्_९. स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा / मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् अभ्त्_९. कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः / मलश्चावरणं तच्च नावार्यस्य विशेषकम् अभ्त्_९. उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः / मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् अभ्त्_९. शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् / विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च अभ्त्_९. तदभावो मलो रूपध्वंसायैव प्रकल्पते / धर्माद्धर्मिणि यो भेदः समवायेन चैकता अभ्त्_९. न तद्भवद्भिरुदितं कणभोजनशिष्यवत् / नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते अभ्त्_९. ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि / स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते अभ्त्_९. सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् / यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः अभ्त्_९. मूर्तानां प्रतिघस्तेजो@णूनां नामूर्त ईदृशम् / न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः अभ्त्_९. आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम् / उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् अभ्त्_९. स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल / अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् अभ्त्_९. मद्यं सूते मदं दुःखसुखमोहफलात्मकम् / न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः अभ्त्_९. निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् / तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् अभ्त्_९. तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता / तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् अभ्त्_९. निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः / मलो@भिलाषश्चाज्ञानमविद्या लोलिकाप्रथा अभ्त्_९. भवदोषो@नुप्लवश्च ग्लानिः शोषो विमूढता / अहंममात्मतातङ्को मायाशक्तिरथावृतिः अभ्त्_९. दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् / इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते अभ्त्_९. अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः / मञ्चवदस्मिन् दुःखस्रोतो@णून् वहति यत्प्लवस्तेन अभ्त्_९. शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् / संसारकारणं कर्म संसाराङ्कुर उच्यते अभ्त्_९. चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः / अत एव सांख्ययोगपाञ्चरात्रादिशासने अभ्त्_९. अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते / निष्कर्मा हि स्थिते मूलमले@प्यज्ञाननामनि अभ्त्_९. वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः / केवलं पारिमित्येन शिवाभेदमसंस्पृशन् अभ्त्_९. विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः / स पुनः शांभवेच्छातः शिवाभेदं परामृशन् अभ्त्_९. क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् / ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् अभ्त्_९. स विज्ञानाकलस्यापि न सूते कर्मसंततिम् / मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् अभ्त्_९. हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् / दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ अभ्त्_९. दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः / विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना अभ्त्_९. ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता / अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः अभ्त्_९. कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् / किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् अभ्त्_९. क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात् / या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता अभ्त्_९. प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः / विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते अभ्त्_९. भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः / इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् अभ्त्_९. सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः / नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् अभ्त्_९. विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः / मैवमध्वस्तसंकोचो@प्यसौ भावनया दृढम् अभ्त्_९. नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति / फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि अभ्त्_९. स संस्कारः फलायेह न तु स्मरणकारणम् / अप्रध्वस्ते@पि संकोचे नाहं कर्तेति भावनात् अभ्त्_९. न फलं क्षीवमूढादेः प्रायश्चित्ते@थ वा कृते / यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् अभ्त्_९. अभिसंधिमतः कर्म न फलेदभिसन्धितः / तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् अभ्त्_९. फलोपरक्तां विदधत्कल्पते फलसम्पदे / यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति अभ्त्_९. स तत्फलत्यागकृतं विशिष्टं फलमश्नुते / अनया परिपाट्या यः समस्तां कर्मसंततिम् अभ्त्_९. अनहंयुतया प्रोज्झेत् ससंकोचो@पि सो@कलः / नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः अभ्त्_९. परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः / तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि अभ्त्_९. तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् / पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् अभ्त्_९. अभिसंधानविरहे त्वस्य नो फलयोगिता / न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा अभ्त्_९. पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ / द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः अभ्त्_९. सुखहेतौ सुखे चास्य सामान्यादभिसंधितः / निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता अभ्त्_९. दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु / सामान्यो@प्यभिसंधिः स्यात्तदधर्मस्य नागमः अभ्त्_९. प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् / अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः अभ्त्_९. तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् / मलः करोतु तेनायं ध्वंसमानत्वमश्नुते अभ्त्_९. अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः / अहंभावपरो@प्येति न कर्माधीनवृत्तिताम् अभ्त्_९. उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना / मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् अभ्त्_९. धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् / लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः अभ्त्_९. नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित् / हेतुता योग्यतैवासौ फलानन्तर्यभाविता अभ्त्_९. पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत् / लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे अभ्त्_९. चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात् / स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा अभ्त्_९. दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते / इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः अभ्त्_९. कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः / अनुसंधातुरेकस्य संभवस्तु यतस्ततः अभ्त्_९. तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् / क्षीवो@पि राजा सूदं चेदादिशेत्प्रातरीदृशम् अभ्त्_९. भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् / इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना अभ्त्_९. विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता / अत एव कृतं कर्म कर्मणा तपसापि वा अभ्त्_९. ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् / आरब्धकार्यं देहे@स्मिन् यत्पुनः कर्म तत्कथम् अभ्त्_९. उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते / तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् अभ्त्_९. कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते / तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः अभ्त्_९. यदा यदा विनश्येत कर्मध्वस्तं तदा तदा / अतो मोहपराधीनो यद्यप्यकृत किंचन अभ्त्_९. तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते / उक्तं च श्रीपरे@हानादानः सर्वदृगुल्वणः अभ्त्_९. मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् / देहस्थमिति देहेन सह तादात्म्यमाश्रिता अभ्त्_९. स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते / देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः अभ्त्_९. अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया / संकोच एव सानेन सो@पि देहैकतामयः अभ्त्_९. एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः / स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः अभ्त्_९. ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः / ब्रह्मादिस्थावरान्ते@स्मिन् संस्रन्ति पुनः पुनः अभ्त्_९. ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः / भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः अभ्त्_९. महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् / मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः अभ्त्_९. अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः / प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः अभ्त्_९. क्षोभो@स्य लोलिकाख्यस्य सहकारितया स्फुटम् / तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् अभ्त्_९. न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः / अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः अभ्त्_९. चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः / चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः अभ्त्_९. योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते / अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ अभ्त्_९. तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् / प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि अभ्त्_९. ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते / भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः अभ्त्_९. मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् / माया च नाम देवस्य शक्तिरव्यतिरेकिणी अभ्त्_९. भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः / आद्यो भेदावभासो यो विभागमनुपेयिवान् अभ्त्_९. गर्भीकृतानन्तभाविविभासा सा परा निशा / सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः अभ्त्_९. व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात् / शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् अभ्त्_९. अचेतनमनेकात्म सर्व कार्य यथा घटः / प्रधानं च तथा तस्मात् कार्य नात्मा तु चेतनः अभ्त्_९. अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता / यथा च माया देवस्य शक्तिरभ्येति भेदिनम् अभ्त्_९. तत्त्वभावं तथान्यो@पि कलादिस्तत्त्वविस्तरः / निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका अभ्त्_९. नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते / एवं विद्यादयो@प्येते धरान्ताः परमार्थतः अभ्त्_९. शिवशक्तिमया एव प्रोक्तन्यायानुसारतः / तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया अभ्त्_९. ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् / उपादानं स्मृता माया क्वचित्तत्कार्यमेव च अभ्त्_९. तथावभासचित्रं च रूपमन्योन्यवर्जितम् / यद्भाति किल संकल्पे तदस्ति घटवद्वहिः अभ्त्_९. खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता / खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः अभ्त्_९. धरादिवत् तथात्यन्ताभावो@प्येवं विविच्यताम् / यत्संकल्प्यं तथा तस्य बहिर्देहो@स्ति चेतनः अभ्त्_९. चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत् / यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः अभ्त्_९. अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः / आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् अभ्त्_९. आत्मनामध्वभोक्तृत्वं ततो@यत्नेन सिद्ध्यति / सा माया क्षोभमापन्ना विश्वं सूते समन्ततः अभ्त्_९. दण्डाहतेवामलकी फलानि किल यद्यपि / तथापि तु तथा चित्रपौर्वापर्यावभासनात् अभ्त्_९. मायाकार्ये@पि तत्त्वौघे कार्यकारणता मिथः / सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् अभ्त्_९. तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे / कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते अभ्त्_९. प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः / एकस्यामेव जगति भोगसाधनसंहतौ अभ्त्_९. सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् / न चासौ कर्मभेदेन तस्यैवानुपपत्तितः अभ्त्_९. तस्मात् कलादिको वर्गो भिन्न एव कदाचन / ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने अभ्त्_९. एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् / शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः अभ्त्_९. कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते / मितमप्याशु येनास्मात् संसारादेष मुच्यते अभ्त्_९. रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः / इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः अभ्त्_९. एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते / मायातत्त्वात् कला जाता किंचित्कर्तृत्वलक्षणा अभ्त्_९. माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः / सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः अभ्त्_९. कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः / तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते अभ्त्_९. सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती / श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् अभ्त्_९. उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च / बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् अभ्त्_९. कला मायाणुसंयोगजाप्येषा निर्विकारकम् / नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् अभ्त्_९. मलश्चावारको माया भावोपादानकारणम् / कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति अभ्त्_९. अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् / कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा अभ्त्_९. न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति / तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् अभ्त्_९. सेयं कला न करणं मुख्यं विद्यादिकं यथा / पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः अभ्त्_९. अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् / मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् अभ्त्_९. तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् / विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् अभ्त्_९. धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे / अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् अभ्त्_९. अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् / कलापुंसोर्विवेके तु मायाधो नैव गच्छति अभ्त्_९. मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् / सर्वत्र चैश्वरः शक्तिपातो@त्र सहकारणम् अभ्त्_९. मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः / सेयं कला कार्यभेदादन्यैव ह्यनुमीयते अभ्त्_९. अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः / इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् अभ्त्_९. किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः / किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् अभ्त्_९. अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् / बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः अभ्त्_९. सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे / कर्मजालं च तत्रस्थं विविनक्ति निजात्मना अभ्त्_९. बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् / दुःखं मोहात्मकं वापि विषयं दर्शयेदपि अभ्त्_९. स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् / तया विनैति साप्यन्यत्करणं पुंसि कर्तरि अभ्त्_९. ननु चोभयतः शुभ्रादर्शदशीयधीगतात् / पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् अभ्त्_९. जडमेव हि मुख्यो@थ पुंस्प्रकाशो@स्य भासनम् / बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता अभ्त्_९. अभेदभूमिरेषा च भेदश्चेह विचार्यते / तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः अभ्त्_९. भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः / किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् अभ्त्_९. रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् / न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः अभ्त्_९. विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः / कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः अभ्त्_९. कार्यावच्छेदि कर्तृत्वं कालो@वश्यं कलिष्यति / नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले अभ्त्_९. विद्या रागो@थ नियतिः कालश्चैतच्चतुष्टयम् / कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् अभ्त्_९. माया कला रागविद्ये कालो नियतिरेव च / कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः अभ्त्_९. देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् / एतत्षट्कससंकोचं यदवेद्यमसावणुः अभ्त्_९. उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः / आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव अभ्त्_९. शिवदहनकिरणजालैर्दाह्यत्वात् सा यतो@न्यरूपैव / अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततो@नन्या अभ्त्_९. सहजाशुद्धिमतो@णोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः / तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा अभ्त्_९. अनया विद्वस्य पशोरुपभोगसमर्थता भवति / विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् अभ्त्_९. सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन / रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः अभ्त्_९. त्यक्तुं वाञ्छति न यतः संसृतिसुखसंविदानन्दम् / एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन अभ्त्_९. गहनोपभोगगर्भे पशुरवशमधोमुखः पतति / एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् अभ्त्_९. एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे / विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् अभ्त्_९. विशेषणतया यो@त्र किञ्चिद्भागस्तदोत्थितम् / वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला अभ्त्_९. सममेव हि भोग्यं च भोक्तारं च प्रसूयते / कला भेदाभिसंधानादवियुक्तं परस्परम् अभ्त्_९. भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् / विलीनायां च तस्यां स्यान्मायास्यापि न किंचन अभ्त्_९. ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् / सूते कला हि युगपत्ततो@व्यक्तमिति स्थितिः अभ्त्_९. उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् / रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते अभ्त्_९. तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता / तस्यां च न क्रमः को@पि स्याद्वा सो@पि विपर्ययात् अभ्त्_९. तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ / एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः अभ्त्_९. भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः / सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते अभ्त्_९. दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः / मोहस्तमो वरणकः प्रकाशाभावयोगतः अभ्त्_९. त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते / अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा अभ्त्_९. उक्तमेवेति शास्त्रे@स्मिन् गुणांस्तत्त्वान्तरं विदुः / भुवनं पृथगेवात्र दर्शितं गुणभेदतः अभ्त्_९. ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति / भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् अभ्त्_९. तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा / सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् अभ्त्_९. गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः / पुंस्प्रकाशः स वेद्यो@त्र प्रतिबिम्बत्वमार्छति अभ्त्_९. विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः / अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी अभ्त्_९. वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् / आत्मसंवित्प्रकाशस्य बोधो@सौ तज्जडो@प्यलम् अभ्त्_९. बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः / प्रकाशे वेद्यकलुषे यदहंमननात्मता अभ्त्_९. तया पञ्चविधश्चैष वायुः संरम्भरूपया / प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः अभ्त्_९. अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः / अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः अभ्त्_९. इत्ययं करणस्कन्धो@हंकारस्य निरूपितः / त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः अभ्त्_९. सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम् / मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते अभ्त्_९. मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् / सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः अभ्त्_९. बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे / करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् अभ्त्_९. प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः / प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् अभ्त्_९. अवसायो@भिमानश्च कल्पना चेति न क्रिया / एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् अभ्त्_९. न च बुद्धिरसंवेद्या करणत्वान्मनो यथा / प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः अभ्त्_९. शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः / सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता अभ्त्_९. भौतिकत्वमतो@प्यस्तु नियमाद्विषयेष्वलम् / अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि अभ्त्_९. अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम् / करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः अभ्त्_९. कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः / करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः अभ्त्_९. तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः / कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् अभ्त्_९. करणीकृततत्स्वांशतन्मयीभावनावशात् / करणीकुरुते@त्यन्तव्यतिरिक्तं कुठारवत् अभ्त्_९. तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा / ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते अभ्त्_९. ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता / तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः अभ्त्_९. उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका / तया विना तु नान्येषां करणानां स्थितिर्यतः अभ्त्_९. अतो@सामान्यकरणवर्गात् तत्र पृथक् कृता / विद्यां विना हि नान्येषां करणानां निजा स्थितिः अभ्त्_९. कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः / कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः अभ्त्_९. अत एव विहीने@पि बुद्धिकर्मेन्द्रियैः क्वचित् / अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते अभ्त्_९. किंतु सामान्यकरणबलाद्वेद्ये@पि तादृशि / रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते अभ्त्_९. तत एव त्वहंकारात् तन्मात्रस्पर्शिनो@धिकम् / कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे अभ्त्_९. वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च / इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् अभ्त्_९. तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः / तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः अभ्त्_९. मुखेनापि यदादानं तत्र यत् करणं स्थितम् / स पाणिरेव करणं विना किं संभवेत् क्रिया अभ्त्_९. तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् / दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते अभ्त्_९. परैर्गमौ तु करणं नेष्यते चेति विस्मयः / गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् अभ्त्_९. पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने / क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् अभ्त्_९. ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम् / तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः अभ्त्_९. तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम / नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते अभ्त्_९. करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः / नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम् अभ्त्_९. यत्साधनं तदक्षं स्यात् किंतु कस्यापि कर्मणः / एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये अभ्त्_९. नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः / उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् अभ्त्_९. स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् / इह कर्मानुसंधानभेदादेकं विभिद्यते अभ्त्_९. तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः / त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना अभ्त्_९. स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः / पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् अभ्त्_९. अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् / उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः अभ्त्_९. तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते / तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः अभ्त्_९. एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते / अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः अभ्त्_९. उक्त इन्द्रियवर्गो@यमहंकारात् तु राजसात् / तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः अभ्त्_९. भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् / मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः अभ्त्_९. इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये / अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः अभ्त्_९. समस्तेन्द्रियसंचारचतुरं लघु वेगवत् / अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु अभ्त्_९. राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते / खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् अभ्त्_९. राजसाहंकृतेर्जातो रजसः कर्मता यतः / श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः अभ्त्_९. इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः / तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने अभ्त्_९. आलोचने शक्तिरन्तर्योजने मनसः पुनः / उक्तं च गुरुणा कुर्यान्मनो@नुव्यवसायि सत् अभ्त्_९. तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति / तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः अभ्त्_९. अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि / पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले अभ्त्_९. यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् / व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् अभ्त्_९. स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम् / एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना अभ्त्_९. विशेषाणां यतो@वश्यं दशा प्रागविशेषिणी / क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् अभ्त्_९. नभः शब्दो@वकाशात्मा वाच्याध्याससहो यतः / तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् अभ्त्_९. वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता / अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते अभ्त्_९. यतो वायुर्निजं रूपं लभते न विनाम्बरात् / उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः अभ्त्_९. तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः / शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ अभ्त्_९. तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् / तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः अभ्त्_९. तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः / नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः अभ्त्_९. यथा गुणगुणिद्वैतवादिनामेकमप्यदः / चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि अभ्त्_९. यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता / तथैव योगिनां धर्मसामस्त्येनावभाति भूः अभ्त्_९. गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः / उपायभेदाद्भात्येषा क्रमाक्रमविभागतः अभ्त्_९. तत एव क्रमव्यक्तिकृतो धीभेद उच्यते / षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा अभ्त्_९. तेन धर्मातिरिक्तो@त्र धर्मी नाम न कश्चन / तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ अभ्त्_९. संस्पर्शः पाकजो@नुष्णाशीतः शब्दो विचित्रकः / शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि अभ्त्_९. शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके / अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते अभ्त्_९. वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे / यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते अभ्त्_९. काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् / पटहे ध्वनिरित्येव भात्यबाधितमेव यत् अभ्त्_९. न च हेतुत्वमात्रेण तदादानत्ववेदनात् / श्रोत्रं चास्मन्मते@हंकृत्कारणं तत्र तत्र तत् अभ्त्_९. वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा / यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् अभ्त्_९. शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते / तस्य मन्दे@पि मुरजध्वनावाकर्णके सति अभ्त्_९. अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् / नहि शब्दजशब्दस्य दूरादूररवोदितेः अभ्त्_९. श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता / न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते अभ्त्_९. तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु / कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः अभ्त्_९. एतच्चान्यैरपाकारि बहुधेति वृथा पुनः / नायस्तं पतिताघातदाने को हि न पण्डितः अभ्त्_९. अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा / गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते अभ्त्_९. व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल / सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् अभ्त्_९. अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् / तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः अभ्त्_९. न लाघवं च नामास्ति किंचिदत्र स्वदर्शने / गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा अभ्त्_९. यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते / ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा अभ्त्_९. अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम् / समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् अभ्त्_९. एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् / किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः अभ्त्_९. अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् / एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः अभ्त्_९. इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम् अभ्त्_९. उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् १ब् अभ्त्_१०. तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् / भेदान्तरमपि प्रोक्तं शास्त्रे@त्र श्रीत्रिकाभिधे अभ्त्_१०. शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् / भिद्यते पञ्चदशधा स्वरूपेण सहानरात् अभ्त्_१०. कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः / तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः अभ्त्_१०. मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा / शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः अभ्त्_१०. शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली / शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश अभ्त्_१०. स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका / तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा अभ्त्_१०. ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः / परांशो मातृरूपो@त्र प्रमाणांशः परापरः अभ्त्_१०. मेयो@परः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः / तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् अभ्त्_१०. मातृमानाद्युपधिभिरसंजातोपरागकम् / सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या अभ्त्_१०. शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः / सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु अभ्त्_१०. वेद्यताजनिताः सप्त भेदा इति चतुर्दश / सकलस्य प्रमाणांशो यो@सौ विद्याकलात्मकः अभ्त्_१०. सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः / लयाकलस्य मानांशः स एव परमस्फुटः अभ्त्_१०. ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति / अशुद्धविद्याकलनाध्वंससंस्कारसंगता अभ्त्_१०. प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत् / प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता अभ्त्_१०. मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता / मानं मन्त्रमहेशानां करणं शक्तिरुच्यते अभ्त्_१०. स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी / शिवस्य सैव करणं तया वेत्ति करोति च अभ्त्_१०. आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा / न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः अभ्त्_१०. तथाहि वेद्यता नाम भावस्यैव निजं वपुः / चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् अभ्त्_१०. ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते / वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् अभ्त्_१०. वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः / सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् अभ्त्_१०. अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् / भावस्तथापि दोषो@सौ कुविन्दकृतवस्त्रवत् अभ्त्_१०. वेद्यताख्यस्तु यो धर्मः सो@वेद्यश्चेत्खपुष्पवत् / वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः अभ्त्_१०. ततो न किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् / ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् अभ्त्_१०. भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् / एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता अभ्त्_१०. समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता / तस्मान्न वेद्यता नाम भावधर्मो@स्ति कश्चन अभ्त्_१०. भावस्य वेद्यता सैव संविदो यः समुद्भवः / अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि अभ्त्_१०. समवैति प्रकाश्यो@र्थस्तं प्रत्येषैव वेद्यता / अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता अभ्त्_१०. अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते / यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि अभ्त्_१०. अतदात्मा पटो नैति पृथुबुध्नादिरूपताम् / तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि अभ्त्_१०. अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः / अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् अभ्त्_१०. प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः / अप्रकाशो मनोदीपचक्षुरादि तथैव तत् अभ्त्_१०. किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः / ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् अभ्त्_१०. अपूर्वमत्र विदितं नरीनृत्यामहे ततः / अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् अभ्त्_१०. अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा / अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते अभ्त्_१०. षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः / अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः अभ्त्_१०. तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते / अप्रकाशो@पि नैवासौ तथापि च न किंचन अभ्त्_१०. तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ / मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः अभ्त्_१०. तथाहि गन्तुं शक्तो@पि चैत्रो@न्यायत्ततां गतेः / मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि अभ्त्_१०. स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् / पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते अभ्त्_१०. प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः / तदभिप्रायतो@न्यो@पि लोके व्यवहरेत्तथा अभ्त्_१०. शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् / विदधत्प्रेरकम्मन्य उपचारेण जायते अभ्त्_१०. वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ / द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ अभ्त्_१०. इत्थं जडेन संबन्धे न मुख्या ण्यर्थसंगतिः / आस्तामन्यत्र विततमेतद्विस्तरतो मया अभ्त्_१०. अर्थे प्रकाशना सेयमुपचारस्ततो भवेत् / अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् अभ्त्_१०. उपचारे निमित्तेन केनापि किल भूयते / वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया अभ्त्_१०. गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते / इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् अभ्त्_१०. उपचारः कथं नाम भवेत्सो@पि ह्यवस्तुसन् / अप्रकाशित एवार्थः प्रकाशत्वोपचारतः अभ्त्_१०. तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः / शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् अभ्त्_१०. प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता / सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् अभ्त्_१०. अध्यारोपात्मकः सो@पि प्रतिसंधानजीवितः / न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः अभ्त्_१०. अप्रकाशं तदन्येन तत्प्रकाशे@प्ययं विधिः / ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् अभ्त्_१०. अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः / यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् अभ्त्_१०. तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा / प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् अभ्त्_१०. अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः / तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः अभ्त्_१०. यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् / एवं च नीलता नाम यथा काचित्प्रकाशते अभ्त्_१०. तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् / फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः अभ्त्_१०. विपक्षतो रक्षितं च संधानं चापि तन्मिथः / तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् अभ्त्_१०. बुद्ध्वा नादत्त एवाशु परीप्साविवशो@पि सन् / सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् अभ्त्_१०. स्वं देहममृतेनेव सिक्तं पश्यति कामुकः / न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् अभ्त्_१०. अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत् / यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति अभ्त्_१०. स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव / अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् अभ्त्_१०. अन्यं प्रति चकास्तीति वच एव न विद्यते / सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः अभ्त्_१०. तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः / नहि कालाग्निरुद्रीयकायावगतनीलिमा अभ्त्_१०. तव नीलः किं नु पीतो मैवं भून्नतु नीलकः / न कंचित्प्रति नीलो@सौ नीलो वा यं प्रति स्थितः अभ्त्_१०. तं प्रत्येव स वेद्यः स्यात्संकल्पद्वारको@न्ततः / यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया अभ्त्_१०. तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् / न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव अभ्त्_१०. अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् / तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् अभ्त्_१०. इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम् / नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा अभ्त्_१०. भावस्य रूपमित्युक्ते केयमस्थानवैधुरी / अनेन नीतिमार्गेण निर्मूलमपसारिता अभ्त्_१०. अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा / वेद्यता किंतु धर्मो@सौ यद्योगात्सर्वधर्मवान् अभ्त्_१०. धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् / ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः अभ्त्_१०. समवायो@पि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः / अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् अभ्त्_१०. व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा / तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः अभ्त्_१०. अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः / वेद्यता भासमाना च स्वयं नीलादिधर्मवत् अभ्त्_१०. अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् / प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः अभ्त्_१०. नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः / यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा अभ्त्_१०. नीलादिवत्तथैवायं वेद्यता धर्म उच्यते / एवं सिद्धं हि वेद्यत्वं भावधर्मो@स्तु का घृणा अभ्त्_१०. इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः / वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः अभ्त्_१०. उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते / तद्विभुर्भैरवो देवो भगवानेव भण्यते अभ्त्_१०. अथ तन्निजमाहात्म्यकल्पितों@शांशिकाक्रमः / सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया अभ्त्_१०. अत एव यदा येन वपुषा भाति यद्यथा / तदा तथा तत्तद्रूपमित्येषोपनिषत्परा अभ्त्_१०. चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ / मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना अभ्त्_१०. अन्यादृशेन वेत्येवं भावो भाति यथा तथा / अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया अभ्त्_१०. तथा ह्येकाग्रसकलसामाजिकजनः खलु / नृत्तं गीतं सुधासारसागरत्वेन मन्यते अभ्त्_१०. तत एवोच्यते मल्लनटप्रेक्षोपदेशने / सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् अभ्त्_१०. तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि / कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् अभ्त्_१०. यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् / तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा अभ्त्_१०. शास्त्रे@पि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् / भूयसैव तथाच श्रीमालिनीविजयोत्तरे अभ्त्_१०. तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् / अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् अभ्त्_१०. तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् / एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते अभ्त्_१०. तदनाभासयोगे तु स्वरूपमिति भण्यते / उपाधियोगिताशङ्कामपहस्तयतो@स्फुटम् अभ्त्_१०. स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः / जानामि घटमित्यत्र वेद्यतानुपरागवान् अभ्त्_१०. घट एव स्वरूपेण भात इत्यपदिश्यते / ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया अभ्त्_१०. अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते / अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः अभ्त्_१०. ममेति संविदि परं शुद्धं वस्तु प्रकाशते / भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् अभ्त्_१०. अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे / एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः अभ्त्_१०. अव्यक्तान्ता यतो@स्त्येषां सकलं प्रति वेद्यता / यत्तूच्यते कलाद्येन धरान्तेन समन्विताः अभ्त्_१०. सकला इति तत्कोशषट्कोद्रेकोपलक्षणम् / उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः अभ्त्_१०. सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः / ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः अभ्त्_१०. तेन प्रधाने वेद्ये@पि पुमानुद्भूतकञ्चुकः / प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् अभ्त्_१०. पाञ्चदश्यं धराधन्तर्निविष्टे सकले@पि च / सकलान्तरमस्त्येव प्रमेये@त्रापि मातृ हि अभ्त्_१०. स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः / पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु अभ्त्_१०. स्वरूपीभूतजडताः प्राणदेहपथे ततः / प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे अभ्त्_१०. यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते / तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता अभ्त्_१०. अतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते / त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् अभ्त्_१०. न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः / मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु अभ्त्_१०. मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवो@पि यः / सो@पि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका अभ्त्_१०. विज्ञानाकल एवात्र ततो मातापकञ्चुकः / मायानिविष्टे@प्यकले तथेत्येकादशात्मता अभ्त्_१०. विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते / उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता अभ्त्_१०. ते@पि मन्त्रा यदा मेयास्तदा माता तदीश्वरः / स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् अभ्त्_१०. उद्भूतपूर्णरूपो@सौ माता मन्त्रमहेश्वरः / तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः अभ्त्_१०. प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः / शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता अभ्त्_१०. मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः / स्वप्रकाशे@त्र कस्मिंश्चिदनभ्युपगते सति अभ्त्_१०. अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा / ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् अभ्त्_१०. अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः / इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः अभ्त्_१०. मानानां हि परो जीवः स एवेत्युक्तमादितः / नन्वस्ति स्वप्रकाशे@पि शिवे वेद्यत्वमीदृशः अभ्त्_१०. उपदेशो[श्यो]पदेष्टृत्वव्यवहारो@न्यथा कथम् / सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् अभ्त्_१०. नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते / तथाभूतश्च वेद्यो@सौ नानवच्छिन्नसंविदः अभ्त्_१०. पूर्णस्य वेद्यता युक्ता परस्परविरोधतः / तथा वेद्यस्वभावे@पि वस्तुतो न शिवात्मताम् अभ्त्_१०. को@पि भावः प्रोज्झतीति सत्यं तद्भावना फलेत् / श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते अभ्त्_१०. साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः / नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् अभ्त्_१०. त्रिवेदतामन्त्रमहानाथे कात्र विवादिता / महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः अभ्त्_१०. अनन्तभेदतैकैकं स्थिता सकलवत्किल / ततो लयाकले मेये प्रमातास्ति लयाकलः अभ्त्_१०. अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता / विज्ञानाकलवेद्यत्वे@प्यन्यो ज्ञानाकलो भवेत् अभ्त्_१०. माता तदेकादशता स्यान्नैव तु नवात्मता / एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे अभ्त्_१०. वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् / उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः अभ्त्_१०. यथात्र सकले भेदो न तथा त्वकलादिके / अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् अभ्त्_१०. चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता / लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा अभ्त्_१०. अकलेन विशेषाय सकलस्यैव युज्यते / विज्ञानकेवलादीनां तावत्यपि न वै भिदा अभ्त्_१०. शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते / इत्याशयेन संपश्यन्विशेषं सकलादिह अभ्त्_१०. लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः / नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ अभ्त्_१०. मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् / श्रूयतां संविदैकात्म्यतत्त्वे@स्मिन्संव्यवस्थिते अभ्त्_१०. जडे@पि चितिरस्त्येव भोत्स्यमाने तु का कथा / स्वबोधावसरे तावद्भोत्स्यते लयकेवली अभ्त्_१०. द्विविधश्च प्रबोधो@स्य मन्त्रत्वाय भवाय च / भावनादिबलादन्यवैष्णवादिनयोदितात् अभ्त्_१०. यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा / लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा अभ्त्_१०. स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः / लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते अभ्त्_१०. ज्ञानाकलो@पि मन्त्रेशमहेशत्वाय बुध्यते / मन्त्रादित्वाय वा जातु जातु संसृतये@पि वा अभ्त्_१०. अवतारो हि विज्ञानियोगिभावे@स्य भिद्यते / उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः अभ्त्_१०. विज्ञानकेवलानष्टाविति श्रीपूर्वशासने / अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता अभ्त्_१०. तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता / तथाहि गाढनिद्रे@पि प्रिये@नाशङ्कितागताम् अभ्त्_१०. मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका / एवं शिवो@पि मनुते एतस्यैतत्प्रवेद्यताम् अभ्त्_१०. यास्यतीति सृजामीति तदानीं योग्यतैव सा / वेद्यता तस्य भावस्य भोक्तृता तावती च सा अभ्त्_१०. लयाकलस्य चित्रो हि भोगः केन विकल्प्यते / यथा यथा हि सम्वित्तिः स हि भोगः स्फुटो@स्फुटः अभ्त्_१०. स्मृतियोग्यो@प्यन्यथा वा भोग्यभावं न तूज्झति / गाढनिद्राविमूढो@पि कान्तालिङ्गितविग्रहः अभ्त्_१०. भोक्तैव भण्यते सो@पि मनुते भोक्तृतां पुरा / उत्प्रेक्षामात्रहीनो@पि कांचित्कुलवधूं पुरः अभ्त्_१०. संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् / तामेव दृष्ट्वा च तदा समानाशयभागपि अभ्त्_१०. अन्यस्तथा न संवित्ते कमत्रोपलभामहे / लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा अभ्त्_१०. प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि / इत्थं विस्तरतस्तत्त्वभेदो@यं समुदाहृतः अभ्त्_१०. शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि / भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह अभ्त्_१०. भेदोपभेदगणनां कर्वतो नावधिः क्वचित् / तत एव विचित्रो@यं भुवनादिविधिः स्थितः अभ्त्_१०. पार्थिवत्वे@पि नो साम्यं रुद्रवैष्णवलोकयोः / का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके अभ्त्_१०. स च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम् / तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् अभ्त्_१०. सप्तानां मातृशक्तीनामन्योन्यं भेदने सति / रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः अभ्त्_१०. सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि / लयाकलादिशक्तीनां संभवो@स्त्येव तत्त्वतः अभ्त्_१०. स त्वस्फुटो@स्तु भेदांशं दातुं तावत्प्रभुर्भवेत् / तेषामपि च भेदानामन्योन्यं बहुभेदता अभ्त्_१०. मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति / मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते अभ्त्_१०. सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः / न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् अभ्त्_१०. एवं लयाकलादीनां तत्संस्कारपदोदितात् / पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते अभ्त्_१०. न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् / अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु अभ्त्_१०. आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च / विदतो वेद्यतान्यैव भेदो@त्रार्थक्रियोचितः अभ्त्_१०. अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये / भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् अभ्त्_१०. तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतो@न्यतः / चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् अभ्त्_१०. एवमेतद्धरादीनां तत्त्वानां यावती दशा / काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः अभ्त्_१०. अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह / ततः सकलवेद्यो@सौ घटः सकल एव हि अभ्त्_१०. यावच्छिवैकवेद्यो@सौ शिव एवावभासते / तावदेकशरीरो हि बोधो भात्येव यावता अभ्त्_१०. अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते / सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् अभ्त्_१०. धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते / स एव शिवनाथो@त्र पृथिवी ब्रह्म तन्मतम् अभ्त्_१०. धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् / प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः अभ्त्_१०. प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् / धरातत्त्वगतं योगमभ्यस्य शिवविद्यया अभ्त्_१०. न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा / अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः अभ्त्_१०. तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः / सौषुप्तावस्थयोपेतास्ते@त्र प्रलयकेवलाः अभ्त्_१०. सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते / अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः अभ्त्_१०. सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते / अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् अभ्त्_१०. यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते / तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः अभ्त्_१०. तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा / तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः अभ्त्_१०. माहाकर्मसमुल्लाससंमिश्रितमलाबिलाः / धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः अभ्त्_१०. अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने / प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् अभ्त्_१०. शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः / ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् अभ्त्_१०. त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः / ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् अभ्त्_१०. सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः / सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा अभ्त्_१०. यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् / शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् अभ्त्_१०. एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः / अनया तु दिशा प्रायः सर्वभेदेषु विद्यते अभ्त्_१०. भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः / तथापि स्फुटताभावात्सन्नप्येष न चर्चितः अभ्त्_१०. एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि / सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् अभ्त्_१०. अभिन्ने@पि शिवे@न्तःस्थसूक्ष्मबोधानुसारतः / अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते अभ्त्_१०. भेदो@यं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् / समस्ते@र्थे@त्र निर्ग्राह्ये तुटयः षोडश क्षणाः अभ्त्_१०. षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः / तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः अभ्त्_१०. द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते / अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः अभ्त्_१०. प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः / तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् अभ्त्_१०. तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् / तदेव शिवरूपं हि परशक्त्यात्मकं विदुः अभ्त्_१०. द्वितीयं मध्यमं षट्कं परापरपदात्मकम् / विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता अभ्त्_१०. षट्के@त्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् / निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः अभ्त्_१०. एवं द्वितीयषट्के@पि किं त्वत्र ग्राह्यवर्त्मना / उपरागपदं प्राप्य परापरतया स्थिताः अभ्त्_१०. आद्ये@त्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः / जिघृक्षिते@प्युपाधौ स्युः पररूपादविच्युताः अभ्त्_१०. अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् / यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते अभ्त्_१०. केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि / तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः अभ्त्_१०. तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः / संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः अभ्त्_१०. एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी / गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके अभ्त्_१०. क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि / तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः अभ्त्_१०. यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः / विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना अभ्त्_१०. तथा गतविकल्पे@पि रूढाः संवेदने जनाः / विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते अभ्त्_१०. विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या / संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः अभ्त्_१०. ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता / इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः अभ्त्_१०. एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् / तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् अभ्त्_१०. अत एव शिवावेशे द्वितुटिः परिगीयते / एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् अभ्त्_१०. द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका / तस्यामवहितो योगी किं न वेत्ति करोति वा अभ्त्_१०. तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः / लाभः सर्वज्ञकर्तृत्वे तुटेः पातो@परा तुटिः अभ्त्_१०. आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् / गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् अभ्त्_१०. अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः / चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये अभ्त्_१०. सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ / मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः अभ्त्_१०. तासु संदधतश्चित्तमवधानैकधर्मकम् / तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते अभ्त्_१०. अत एव यथा भेदबहुत्वं दूरता तथा / संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् अभ्त्_१०. यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः / तथा तथातिनैकट्यं संविदः स्याच्छिवावधि अभ्त्_१०. शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतो@मुतः / अत एव प्रयत्नो@यं तत्प्रवेशे न विद्यते अभ्त्_१०. यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा / भावनाकरणादीनां शिवे निरवकाशताम् अभ्त्_१०. अत एव हि मन्यन्ते संप्रदायधना जनाः / तथा हि दृश्यतां लोको घटादेर्वेदने यथा अभ्त्_१०. प्रयत्नवानिवाभाति तथा किं सुखवेदने / आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् अभ्त्_१०. तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् / भविनां त्वन्तिको@प्येवं न भातीत्यतिदूरता अभ्त्_१०. दूरे@पि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् / न च बीजाङ्कुरलतादलपुष्पफलादिवत् अभ्त्_१०. क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः / बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः अभ्त्_१०. संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः / सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः अभ्त्_१०. तत एव घटे@प्येषा प्राणवृत्तिर्यदि स्फुरेत् / विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् अभ्त्_१०. न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन / अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः अभ्त्_१०. शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् / अनया च दिशा सर्व सर्वदा प्रविवेचयन् अभ्त्_१०. भैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः / स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः अभ्त्_१०. मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना / अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् अभ्त्_१०. तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् / जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् अभ्त्_१०. इति पञ्च पदान्याहुरेकस्मिन्वेदके सति / तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः अभ्त्_१०. तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् / तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया अभ्त्_१०. यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन / संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् अभ्त्_१०. चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः / अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा अभ्त्_१०. प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् / विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् अभ्त्_१०. तथा हि भासते यत्तन्नीलमन्तः प्रवेदने / संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् अभ्त्_१०. यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते / कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते अभ्त्_१०. तत्र चैत्रे भासमाने यो देहांशः स कथ्यते / अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः अभ्त्_१०. प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः / चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् अभ्त्_१०. जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते / जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता अभ्त्_१०. इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः / उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च अभ्त्_१०. प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् / मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा अभ्त्_१०. भूततत्त्वाभिधानानां यों@शो@धिष्ठेय उच्यते / पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते अभ्त्_१०. लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि / योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते अभ्त्_१०. अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः / तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् अभ्त्_१०. प्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते / सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया अभ्त्_१०. सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः / ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते अभ्त्_१०. लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल / नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः अभ्त्_१०. यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते / वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् अभ्त्_१०. तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि / वैकल्पिकपथारूढवेद्यसाम्यावभासनात् अभ्त्_१०. लोकरूढो@प्यसौ स्वप्नः साम्यं चाबाह्यरूपता / उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु अभ्त्_१०. विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् / यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते अभ्त्_१०. विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते / तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् अभ्त्_१०. प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते / तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् अभ्त्_१०. गतागतं सुविक्षिप्तं संगतं सुसमाहितम् / अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः अभ्त्_१०. बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् / सर्वाध्वनः पदं प्राणः संकल्पो@वगमात्मकः अभ्त्_१०. पदं च तत्समापत्ति पदस्थं योगिनो विदुः / वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः अभ्त्_१०. वेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत् / मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः अभ्त्_१०. वेद्यच्छायो@वभासो हि मेये@धिष्ठानमुच्यते / यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् अभ्त्_१०. बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते / अनुभूतौ विकल्पे च यो@सौ द्रष्टा स एव हि अभ्त्_१०. न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते / तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः अभ्त्_१०. बीजभावो@थाग्रहणं साम्यं तूष्णींस्वभावता / मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते अभ्त्_१०. रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः / रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः अभ्त्_१०. प्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत् / नास्ति तेन महाव्याप्तिरियं तदनुसारतः अभ्त्_१०. उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् / भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् अभ्त्_१०. उदितं विपुलं शान्तं सुप्रसन्नमथापरम् / यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् अभ्त्_१०. पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः / तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः अभ्त्_१०. सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः / मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः अभ्त्_१०. मेयं माने मातरि तत् सो@पि तस्यां मितौ स्फुटम् / विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् अभ्त्_१०. रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते / द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका अभ्त्_१०. प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते / संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा अभ्त्_१०. तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् / तत्समावेशोपरागान्मानत्वं मेयता पुनः अभ्त्_१०. तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात् / वेद्यादिभेदगलनादुक्ता सेयमनामया अभ्त्_१०. मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते / जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् अभ्त्_१०. अपरं परापरं च द्विधा तत्सा परा त्वियम् / रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी अभ्त्_१०. दशा तस्यां समापत्ती रूपातीतं तु योगिनः / पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः अभ्त्_१०. प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता / नैतस्यामपरा तुर्यदशा संभाव्यते किल अभ्त्_१०. संविन्न किल वेद्या सा वित्त्वेनैव हि भासते / जाग्रदाद्यास्तु संभाव्यास्तिस्रो@स्याः प्राग्दशा यतः अभ्त्_१०. त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने / मनोन्मनमनन्तं च सर्वार्थमिति भेदतः अभ्त्_१०. यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् / तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् अभ्त्_१०. नात्र योगस्य सद्भावो भावनादेरभावतः / अप्रमेये@परिच्छिन्ने स्वतन्त्रे भाव्यता कुतः अभ्त्_१०. योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः / प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः अभ्त्_१०. अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् / पूर्णत्वादेव भेदानामस्यां संभावना न हि अभ्त्_१०. तन्निरासाय नैतस्यां भेद उक्तो विशेषणम् / सततोदितमित्येतत्सर्वव्यापित्वसूचकम् अभ्त्_१०. न ह्येक एव भवति भेदः क्वचन कश्चन / तुर्यातीते भेद एकः सततोदित इत्ययम् अभ्त्_१०. मूढवादस्तेन सिद्धमविभेदित्वमस्य तु / श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः अभ्त्_१०. मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते / रूपातीतं परा शक्तिः सव्यापाराप्यनामया अभ्त्_१०. निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः / सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते अभ्त्_१०. इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः / श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् अभ्त्_१०. अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः / यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते अभ्त्_१०. तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः / तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः अभ्त्_१०. आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः / लयाकलस्य भोगो@सौ मलकर्मवशान्नतु अभ्त्_१०. स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने / ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः अभ्त्_१०. भेदवन्तः स्वतो@भिन्नाश्चिकीर्ष्यन्ते जडाजडाः / तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः अभ्त्_१०. यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः / भावा विगलदात्मीयसाराः स्वयमभेदिनः अभ्त्_१०. तुर्यातीतपदे संस्युरिति पञ्चदशात्मके / यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् अभ्त्_१०. यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः / अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरो@पि यत् अभ्त्_१०. त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते / स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् अभ्त्_१०. यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् / तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् अभ्त्_१०. लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु / स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः अभ्त्_१०. एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते / आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता अभ्त्_१०. ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः / न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः अभ्त्_१०. न चेन्न क्वापि मुख्यत्वं नोपचारो@पि तत्क्वचित् / एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना अभ्त्_१०. तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् / इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके अभ्त्_१०. अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् / तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः अभ्त्_१०. स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले / स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् अभ्त्_१०. विज्ञानाकलभेदे@पि स्वं मन्त्रा मन्त्रनायकाः / तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः अभ्त्_१०. सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः / शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः अभ्त्_१०. स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः / शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके अभ्त्_१०. स्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी / महेशभेदे त्रिविधे जाग्रदादि निरूपितम् अभ्त्_१०. व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः / इच्छानिवृत्तेः स्वस्थत्वाच्छिव एको@पि पञ्चधा अभ्त्_१०. इत्येष दर्शितो@स्माभिस्तत्त्वाध्वा विस्तरादथ / अभ्त्_१०. कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः १ब् अभ्त्_११. यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् / अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते अभ्त्_११. तथा तेष्वपि तत्त्वेषु स्ववर्गे@नुगमात्मकम् / व्यावृत्तं परवर्गाच्च कलेति शिवशासने अभ्त्_११. केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका / तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा अभ्त्_११. अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः / अनुगामि न सामान्यमिष्टं नैयायिकादिवत् अभ्त्_११. अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः / शिवेन कल्पितो वर्गः कलेति समयाश्रयः अभ्त्_११. कृतश्च देवदेवेन समयो@परमार्थताम् / न गच्छतीति नासत्यो न चान्यसमयोदयः अभ्त्_११. निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे / विद्या निशान्ते शान्ता च शक्त्यन्ते@ण्डमिदं चतुः अभ्त्_११. शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः / नह्यत्र वर्गीकरणं समयः कलनापि वा अभ्त्_११. युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि / स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् अभ्त्_११. उपदेशतदावेशपरमार्थत्वसिद्धये / बोध्यतामानयन्देवः स्फुटमेव विभाव्यते अभ्त्_११. यतो@तः शिवतत्त्वे@पि कलासंगतिरुच्यते / अण्डं च नाम भुवनविभागस्थितिकारणम् अभ्त्_११. प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि / यद्यपि प्राक् शिवाख्ये@पि तत्त्वे भुवनपद्धतिः अभ्त्_११. उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः / नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः अभ्त्_११. अपि चाप्रतिघत्वे@पि कथमण्डस्य संभवः / अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् अभ्त्_११. प्रत्यक्षमिदमाभाति ततो@न्यन्नास्ति किंचन / मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः अभ्त्_११. कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् / त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता अभ्त्_११. कार्यत्वकरणत्वादिविभागगलने सति / विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः अभ्त्_११. श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा / पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् अभ्त्_११. पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते / ईशानान्तं तत्र तत्र धरादिगगनान्तकम् अभ्त्_११. शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् / यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् अभ्त्_११. सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् / तस्याप्युक्तनयाद्वेद्यभावे@त्र परिकल्पिते अभ्त्_११. यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते / न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः अभ्त्_११. यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते / तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते अभ्त्_११. तत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः / चिदानन्दस्वतन्त्रैकरूपं तदिति देशने अभ्त्_११. सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा / तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः अभ्त्_११. अष्टात्रिंशत्तमः सो@पि भावनायोपदिश्यते / यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् अभ्त्_११. अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता / समैव वेद्यीकरणं केवलं त्वधिकं यतः अभ्त्_११. धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः / गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु अभ्त्_११. इति स्थिते नये शक्तितत्त्वान्ते@प्यस्ति सौक्ष्म्यभाक् / स्पर्शः को@पि सदा यस्मै योगिनः स्पृहयालवः अभ्त्_११. तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी / यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् अभ्त्_११. अतो विन्दुरतो नादो रूपमस्मादतो रसः / इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा अभ्त्_११. मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत / धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा अभ्त्_११. एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः / पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते अभ्त्_११. विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् / शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् अभ्त्_११. इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति / तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः अभ्त्_११. प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ / शिवश्च नवतत्त्वे@पि विधौ तत्त्वाध्वरूपता अभ्त्_११. एवमष्टादशाख्ये@पि विधौ न्यायं वदेत्सुधीः / यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः अभ्त्_११. अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् / तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् अभ्त्_११. तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः / एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति अभ्त्_११. शिष्यं च गतभोगाशमुदितः शंभुना यतः / भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया अभ्त्_११. स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः / इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः अभ्त्_११. मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः / अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते अभ्त्_११. यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् / पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते अभ्त्_११. तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा / गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः अभ्त्_११. तथापि न विमर्शात्म रूपं त्यजति तेन सः / प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु अभ्त्_११. मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने / अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् अभ्त्_११. औदासीन्यपरित्यागे प्रक्षोभानवरोहणे / वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा अभ्त्_११. सा तु पूर्णस्वरूपत्वादविभागमयी यतः / तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः अभ्त्_११. कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः / तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः अभ्त्_११. संकलय्योच्यते सर्वमधुना सुखसंविदे / पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः / तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या अभ्त्_११. मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला / अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या अभ्त्_११. षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् / अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः अभ्त्_११. सो@यं समस्त एवाध्वा भैरवाभेदवृत्तिमान् / तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानो@वभासते अभ्त्_११. तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः / तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा अभ्त्_११. शिवज्ञानक्रियायत्तमननत्राणतत्परा / अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् अभ्त्_११. च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता / प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् अभ्त्_११. तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् / संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् अभ्त्_११. विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् / अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ अभ्त्_११. प्रमाणरूपतावेशमपरित्यज्य मेयताम् अभ्त्_११. गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः / शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि अभ्त्_११. तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः / प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् अभ्त्_११. प्रमात्मात्र स्थितो@ध्वायं वर्णात्मा दृश्यतां किल / उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः अभ्त्_११. सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः / सृष्टाः स्वात्मसहोत्थे@र्थे धरापर्यन्तभागिनि अभ्त्_११. आमृशन्तः स्वचिद्भूमौ तावतो@र्थानभेदतः / वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् अभ्त्_११. बालास्तिर्यक्प्रमातारो ये@प्यसंकेतभागिनः / ते@प्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् अभ्त्_११. भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् / अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् अभ्त्_११. संकेता यान्ति चेत्ते@पि यान्त्यसंकेतवृत्तिताम् / अनया तु विना सर्वे संकेता बहुशः कृताः अभ्त्_११. अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् / बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् अभ्त्_११. अङ्गुल्यादेशने@प्यस्य नाविकल्पा तथा मतिः / विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः अभ्त्_११. तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः / संविद्विमर्शसचिवः सदैव स हि जृम्भते अभ्त्_११. यत एव च मायीया वर्णाः सूतिं वितेनिरे / ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः अभ्त्_११. संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् / तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा अभ्त्_११. प्रमा यस्य जडो@सौ नो तत्रार्थे@भ्येति मातृताम् / शुकवत्स पठत्येव परं तत्क्रमितैकभाक् अभ्त्_११. स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता / यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् अभ्त्_११. वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् / यथा यथा चाकृतकं तद्रूपमतिरिच्यते अभ्त्_११. तथा तथा चमत्कारतारतम्यं विभाव्यते / आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे अभ्त्_११. सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः / आद्योद्रेकमहत्त्वे@पि प्रतिभात्मनि निष्ठिताः अभ्त्_११. ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः / यावद्धामनि संकेतनिकारकलनोज्झिते अभ्त्_११. विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा / अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता अभ्त्_११. सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी / तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते अभ्त्_११. तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् / एवं मामातृमानत्वमेयत्वैर्यो@वभासते अभ्त्_११. षड्विधः स्ववपुःशुद्धौ शुद्धिं सो@ध्वाधिगच्छति / एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् अभ्त्_११. अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः / अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् अभ्त्_११. तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् / शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता अभ्त्_११. तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् / तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् अभ्त्_११. अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः / सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते अभ्त्_११. अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल / ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता अभ्त्_११. अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते / परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः अभ्त्_११. शोधकत्वं च मालिन्या देवीनां त्रितयस्य च / देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च अभ्त्_११. किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे / लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् अभ्त्_११. यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या / सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने अभ्त्_११. सर्वमेतद्विभात्येव परमेशितरि ध्रुवे / प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः अभ्त्_११. चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी / भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् अभ्त्_११. यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः / देहान्तरादिर्मरणे कीदृग्वा देहसंभवः अभ्त्_११. स्वप्ने@पि प्रतिभामात्रसामान्यप्रथनाबलात् / विशेषाः प्रतिभासन्ते न भाव्यन्ते@पि ते यथा अभ्त्_११. शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा / तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः अभ्त्_११. नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः / न स्वयं सदसन्तो नो कारणाकारणात्मकाः अभ्त्_११. नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात् / अरूढायाः स्वतन्त्रो@यं स्थितश्चिद्व्योमभैरवः अभ्त्_११. एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि / एवमस्मीत्यनामर्शो भेदको भावमण्डले अभ्त्_११. सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा / स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् अभ्त्_११. चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः / अहमेव स्थितो भूतभावतत्त्वपुरैरिति अभ्त्_११. एवं जातो मृतो@स्मीति जन्ममृत्युविचित्रताः / अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः अभ्त्_११. परेहसंविदामात्रं परलोकेहलोकते / वस्तुतः संविदो देशः कालो वा नैव किंचन अभ्त्_११. अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः / तदवेक्ष्यत तन्मध्यात् केनैको@पि धराधरः अभ्त्_११. भूततन्मात्रवर्गादेराधाराधेयताक्रमे / अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी अभ्त्_११. तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः / ततो भावास्तत्र भावाः शक्तिराधारिका ततः अभ्त्_११. सांकल्पिकं निराधारमपि नैव पतत्यधः / स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् अभ्त्_११. अस्या घनाहमित्यादिरूढिरेव धरादिता / यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता अभ्त्_११. मणाविन्द्रायुधे भास इव नीलादयः शिवे / परमार्थत एषां तु नोदयो न व्ययः क्वचित् अभ्त्_११. देशे काले@त्र वा सृष्टिरित्येतदसमञ्जसम् / चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि अभ्त्_११. जागराभिमते सार्धहस्तत्रितयगोचरे / प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः अभ्त्_११. अत एव क्षणं नाम न किंचिदपि मन्महे / क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः अभ्त्_११. तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे / ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः अभ्त्_११. तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः / स्फुटीकर्तुं स्वतन्त्रत्वादीशः सो@स्मत्प्रभुः शिवः अभ्त्_११. तदित्थं परमेशानो विश्वरूपः प्रगीयते / न तु भिन्नस्य कस्यापि धरादेरुपपन्नता अभ्त्_११. उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते / भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत अभ्त्_११. तदित्थमेष निर्णीतः कलादेर्विस्तरो@ध्वनः अभ्त्_११. अथाध्वनो@स्य प्रकृत उपयोगः प्रकाश्यते १ब् अभ्त्_१२. इत्थमध्वा समस्तो@यं यथा संविदि संस्थितः / तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो अभ्त्_१२. बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः / तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् अभ्त्_१२. आसंवित्तत्त्वमाबाह्यं यो@यमध्वा व्यवस्थितः / तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् अभ्त्_१२. सर्वं सर्वत्र रूपं च तस्यापि न न भासते / नह्यवच्छेदितां क्वापि स्वप्ने@पि विषहामहे अभ्त्_१२. एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् / देशकालमयस्पन्दसद्म देहं विलोकयेत् अभ्त्_१२. तथा विलोक्यमानो@सौ विश्वान्तर्देवतामयः / ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते अभ्त्_१२. इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् / यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् अभ्त्_१२. तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् / तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते अभ्त्_१२. संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् / तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् अभ्त्_१२. तत्रार्पितानां भावानां स्वकभेदविलापनम् / कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः अभ्त्_१२. तथैवंकुर्वतः सर्वं समभावेन पश्यतः / निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् अभ्त्_१२. तथार्चनजपध्यानहोमव्रतविधिक्रमात् / परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा अभ्त्_१२. अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ / द्रव्यौघे न विधिः को@पि न कापि प्रतिषिद्धता अभ्त्_१२. कल्पनाशुद्धिसंध्यादेर्नोपयोगो@त्र कश्चन / उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति अभ्त्_१२. अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् / यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति अभ्त्_१२. तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः / लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् अभ्त्_१२. निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् / यथा येनाभ्युपायेन क्रमादक्रमतो@पि वा अभ्त्_१२. विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् / धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् अभ्त्_१२. वीरव्रतं चाभिनन्देदिति भर्गशिखावचः / तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः अभ्त्_१२. संसारकारागारान्तः स्थूलस्थूणाघटायते / मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् अभ्त्_१२. यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् / संकराभावतः केयं शङ्का तस्यामपि स्फुटम् अभ्त्_१२. न शङ्केत तथा शङ्का विलीयेतावहेलया / श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु अभ्त्_१२. शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः / शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् अभ्त्_१२. उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः / सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति अभ्त्_१२. अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः / अभ्त्_१२. अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः १ब् अभ्त्_१३. तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् / तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते अभ्त्_१३. तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् / विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् अभ्त्_१३. सो@व्यक्तं तच्च सत्त्वादिनानारूपमचेतनम् / घटादिवत्कार्यमिति हेतुरेको@स्य सा निशा अभ्त्_१३. सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि / कलादिधरणीप्रान्तं जाड्यात्सा सूतये@क्षमा अभ्त्_१३. तेनेशः क्षोभयेदेनां क्षोभो@स्याः सूतियोग्यता / पुंसः प्रति च सा भोग्यं सूते@नादीन् पृथग्विधान् अभ्त्_१३. पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् / निमित्तं कर्मसंस्कारः स च तेषु न विद्यते अभ्त्_१३. इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल / न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः अभ्त्_१३. युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि / फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् अभ्त्_१३. ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् / धर्माद्यदि कुतः सो@पि कर्मतश्चेत्तदुच्यताम् अभ्त्_१३. नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते / कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम् अभ्त्_१३. अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् / ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् अभ्त्_१३. तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः / नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि अभ्त्_१३. अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् / अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि अभ्त्_१३. उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् / निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल अभ्त्_१३. अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् / प्रागभावो@थवा ध्वंस आद्ये किं सर्वसंविदाम् अभ्त्_१३. कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी / न किंचिद्यस्य विज्ञानमुदपादि तथाविधः अभ्त्_१३. नाणुरस्ति भवे ह्यस्मिन्ननादौ को@न्वयं क्रमः / भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति अभ्त्_१३. मुक्ताणोरपि सो@स्त्येव जन्मतः प्रागसौ नच / ज्ञानं भावि विमुक्ते@स्मिन्निति चेच्चर्च्यतामिदम् अभ्त्_१३. कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः / तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतो@ज्ञानहानितः अभ्त्_१३. अज्ञानस्य कथं हानिः प्रागभावे हि संविदः / अज्ञानं प्रागभावो@सौ न भाव्युत्पत्त्यसंभवात् अभ्त्_१३. कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः / इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः अभ्त्_१३. अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् / मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् अभ्त्_१३. अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् / तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् अभ्त्_१३. वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् / तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते अभ्त्_१३. अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् / मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् अभ्त्_१३. प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने / देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः अभ्त्_१३. उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा / क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा अभ्त्_१३. अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् / यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन अभ्त्_१३. विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः / अथ प्रलयकाले @पि चित्स्वभावत्वयोगतः अभ्त्_१३. अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः / स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि अभ्त्_१३. यच्चादर्शनमाख्यातं निमित्तं परिणामिनि / प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः अभ्त्_१३. दर्शनाय पुमर्थैकयोग्यतासचिवं धियः / आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः अभ्त्_१३. बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः / प्रकाशनाद्धियो@र्थेन सह भोगः स भण्यते अभ्त्_१३. बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु को@प्यसौ / मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि अभ्त्_१३. पुमर्थस्य कृतत्वेन सहकारिवियोगतः / तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि अभ्त्_१३. अत्र पुंसो@थ मूलस्य धर्मो@दर्शनता द्वयोः / अथवेति विकल्पो@यमास्तामेतत्तु भण्यताम् अभ्त्_१३. भोगो विवेकपर्यन्त इति यत्तत्र को@वधिः / विवेकलाभे निखिलसूतिदृग्यदि सापि किम् अभ्त्_१३. सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः / उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः अभ्त्_१३. कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् / विवेको@नादिसंयोगात्का ह्यन्योन्यं विचित्रता अभ्त्_१३. तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते / अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया अभ्त्_१३. युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते / भायाकर्माणुदेवेच्छासद्भावे@पि स्थिते ततः अभ्त्_१३. न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् / तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् अभ्त्_१३. चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता / आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् अभ्त्_१३. भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु / तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा अभ्त्_१३. क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् / प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते अभ्त्_१३. उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति / तत एवैकतायां चान्यात्मसाधारणत्वतः अभ्त्_१३. न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः / न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् अभ्त्_१३. तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः / जडं मलं तदज्ञानं संसाराङ्कुरकारणम् अभ्त्_१३. तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः / तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे अभ्त्_१३. समाविशेदयं सूर्यकान्तो@र्केणेव चोदितः / रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् अभ्त्_१३. विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः / स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते अभ्त्_१३. अत्रोच्यते मलस्तावदित्थमेष न युज्यते / इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् अभ्त्_१३. मलस्य पाकः को @यं स्यान्नाशश्चेदितरात्मनाम् / स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते अभ्त्_१३. अथ प्रत्यात्मनियतो@नादिश्च प्रागभाववत् / मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः अभ्त्_१३. हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् / ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् अभ्त्_१३. अहेतुको@स्य नाशश्चेत्प्रागेवैष विनश्यतु / क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा अभ्त्_१३. न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः / नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः अभ्त्_१३. अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता / सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् अभ्त्_१३. पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् / मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे अभ्त्_१३. रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि / सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः अभ्त्_१३. संनिधानातिरिक्तं च न किंचित्कुरुते मलः / आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः अभ्त्_१३. ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः / तच्चेदावारितं हन्त रूपनाशः प्रसज्यते अभ्त्_१३. आवारणं चादृश्यत्वं न च तद्वस्तुनो@न्यताम् / करोति घटवज्ज्ञानं नावरीतुं च शक्यते अभ्त्_१३. ज्ञानेनावरणीयेन तदेवावरणं कथम् / न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः अभ्त्_१३. रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः / यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् अभ्त्_१३. कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते / तस्यापि रूपं वक्तव्यं समता कर्मणां हि का अभ्त्_१३. भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति / विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् अभ्त्_१३. तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् / रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः अभ्त्_१३. नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः / तथैव देये स्वफले केयमन्योन्यरोद्धृता अभ्त्_१३. रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् / देहो भोगदयोरेव निरोध इति चेन्ननु अभ्त्_१३. जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः / मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः अभ्त्_१३. शतशो@पि ह्लादतापशून्यां संचिन्वते दशाम् / न च भक्तिरसावेशमिति भूम्ना विलोकितम् अभ्त्_१३. अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः / तथा करोति वक्तव्यं कालो@सौ कीदृशस्त्विति अभ्त्_१३. किं चानादिरयं भोगः कर्मानादि सपुद्गलम् / ततश्च भोगपर्यायकालः सर्वस्य निःसमः अभ्त्_१३. आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् / वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् अभ्त्_१३. इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति / अनेन नयबीजेन मन्ये वैचित्र्यकारणम् अभ्त्_१३. जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते / अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना अभ्त्_१३. सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् / भोगलोलिकया चेत्सा विचित्रेति कुतो ननु अभ्त्_१३. अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः / वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः अभ्त्_१३. महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ / ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते अभ्त्_१३. अथानादित्वमात्रेण युक्तिहीनेन साध्यते / व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना अभ्त्_१३. तथाहि कर्म तावन्नो यावन्माया न पुद्गले / व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः अभ्त्_१३. इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् / अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् अभ्त्_१३. ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु / सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते अभ्त्_१३. आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः / आत्माकारो@पि को@प्येष भाविकाले तथा भवेत् अभ्त्_१३. इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः / अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् अभ्त्_१३. विरोधे स्वफले चैते कर्मणी समये क्वचित् / उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् अभ्त्_१३. शिवशक्तिनिपातस्य को@वकाशस्तु तावता / क्वापि काले तयोरेतदौदासीन्यं यदा ततः अभ्त्_१३. कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः / अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च अभ्त्_१३. रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् / एवं सदैव वार्तायां देहपाते तथैव च अभ्त्_१३. जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना / अथोदासीनतत्कर्मद्वययोगक्षणान्तरे अभ्त्_१३. कर्मान्तरं फलं सूते तत्क्षणे@पि तथा न किम् / क्षणान्तरे@थ ते एव प्रतिबन्धविवर्जिते अभ्त्_१३. फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः / कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् अभ्त्_१३. न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् / तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः अभ्त्_१३. कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल / हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु अभ्त्_१३. एतेनान्ये@पि ये@पेक्ष्या ईशेच्छायां प्रकल्पिताः / ध्वस्तास्ते@पि हि नित्यान्यहेत्वहेत्वादिदूषणात् अभ्त्_१३. वैराग्यं भोगवैरस्यं धर्मः को@पि विवेकिता / सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता अभ्त्_१३. आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम् / शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् अभ्त्_१३. इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् / व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः अभ्त्_१३. अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी / तस्मान्न मन्महे को@यं शक्तिपातविधेः क्रमः अभ्त्_१३. इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम् / श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् अभ्त्_१३. देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः / रूपप्रच्छादनक्रीडायोगादणुरनेककः अभ्त्_१३. स स्वयं कल्पिताकारविकल्पात्मककर्मभिः / बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् अभ्त्_१३. स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः / स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः अभ्त्_१३. न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा / नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते अभ्त्_१३. देव एव तथासौ चेत् स्वरूपं चास्य तादृशम् / तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता अभ्त्_१३. आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः / पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे अभ्त्_१३. प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् / छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् अभ्त्_१३. तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत् / ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् अभ्त्_१३. साभ्येति कर्ममलयोरतो@नादिव्यवस्थितिः / तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् अभ्त्_१३. प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः / विशुद्धस्वप्रकाशात्मशिवरूपतया विना अभ्त्_१३. न किंचिद्युज्यते तेन हेतुरत्र महेश्वरः / इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते अभ्त्_१३. कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् / यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते अभ्त्_१३. तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी / अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् अभ्त्_१३. व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् / तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् अभ्त्_१३. स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः / कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः अभ्त्_१३. अनपेक्ष्य शिवे भक्तिः शक्तिपातो@फलार्थिनाम् / या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते अभ्त्_१३. ततो@त्र स्यात्फले भेदो नापवर्गे त्वसौ तथा / भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् अभ्त्_१३. प्राग्भागे@पेक्षते कर्म चित्रत्वान्नोत्तरे पुनः / अनाभासितरूपो@पि तदाभासितयेव यत् अभ्त्_१३. स्थित्वा मन्त्रादि संगृह्य त्यजेत्सो@स्य तिरोभवः / श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत अभ्त्_१३. धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् / असन्देहं स्वमात्मानमवीच्यादिशिवान्तके अभ्त्_१३. तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् / स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति अभ्त्_१३. स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् / स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः अभ्त्_१३. स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः / वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् अभ्त्_१३. श्रीमन्निशाकुले@प्युक्तं मिथ्याभावितचेतसः / मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः अभ्त्_१३. स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये / व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् अभ्त्_१३. श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने / धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः अभ्त्_१३. तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः / तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः अभ्त्_१३. ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः / तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् अभ्त्_१३. मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः / मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते अभ्त्_१३. स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् / तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. अभ्त्_१३. प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः / तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् अभ्त्_१३. स शिष्टः कर्मकर्तृत्वाच्छिष्यो@न्यः कर्मभावतः / शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु अभ्त्_१३. उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः / यन्मूलं शासनं तेन न रिक्तः को@पि जन्तुकः अभ्त्_१३. तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते / युक्तिः शास्त्रं गुरुर्वादो@भ्यास इत्याद्यपेक्षते अभ्त्_१३. कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् / कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः अभ्त्_१३. यथा यथा परापेक्षातानवं प्रातिभे भवेत् / तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः अभ्त्_१३. अन्यतः शिक्षितानन्तज्ञानो@पि प्रतिभाबलात् / यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा अभ्त्_१३. न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् / न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः अभ्त्_१३. आदिविद्वान्महादेवस्तेनैषो@धिष्ठितो यतः / संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः अभ्त्_१३. देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने / दृढताकम्प्रताभेदैः सो@पि स्वयमथ व्रतात् अभ्त्_१३. तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् / यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् अभ्त्_१३. इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् / अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः अभ्त्_१३. श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा / निरूपितं महेशेन कियद्वा लिख्यतामिदम् अभ्त्_१३. इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् / यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः अभ्त्_१३. अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः / सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः अभ्त्_१३. नियतेर्महिमा नैव फले साध्ये निवर्तते / अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः अभ्त्_१३. असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः / श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः अभ्त्_१३. तथाहि त्रीशिकाशास्त्रविवृतौ ते@भ्यधुर्बुधाः / सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते अभ्त्_१३. तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् / एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी अभ्त्_१३. दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता / अदृष्टमण्डलो@प्येवं यः कश्चिद्वेत्ति तत्त्वतः अभ्त्_१३. स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः / अविधिज्ञो विधानज्ञो जायते यजनं प्रति अभ्त्_१३. इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् / ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् अभ्त्_१३. ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् / इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति अभ्त्_१३. गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा / प्रतिभा परमेवैषा सर्वकामदुघा यतः अभ्त्_१३. उपाययोगक्रमतो निरुपायमथाक्रमम् / यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् अभ्त्_१३. यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः / उक्तो@नन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः अभ्त्_१३. स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने / प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् अभ्त्_१३. ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् / यो@भ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः अभ्त्_१३. परोपजीविताबुद्ध्या सर्व इत्थं न भासते / तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः अभ्त्_१३. स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते / किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः अभ्त्_१३. ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे / श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् अभ्त्_१३. प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते / अनिर्देश्यः शिवस्तत्र को@भ्युपायो निरूप्यताम् अभ्त्_१३. इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयम् / उपायो@त्र विवेकैकः स हि हेयं विहापयन् अभ्त्_१३. ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् / यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् अभ्त्_१३. परशक्तिनिपातेन ध्वस्तमायामलः पुमान् / ननु प्राग्दीक्षया मोक्षो@धुना तु प्रातिभात्कथम् अभ्त्_१३. इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः / दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये अभ्त्_१३. गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे / प्रातिभो@स्य स्वभावस्तु केवलीभावसिद्धिदः अभ्त्_१३. केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु / नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया अभ्त्_१३. ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् / शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः अभ्त्_१३. पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् / कथं विवेकः किं वास्य देवदेव विविच्यते अभ्त्_१३. इत्युक्ते परमेशान्या जगादादिगुरुः शिवः / शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः अभ्त्_१३. अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् / दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि अभ्त्_१३. विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् / भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् अभ्त्_१३. बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा / योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् अभ्त्_१३. विवेको@तीन्द्रियस्त्वेष यदायाति विवेचनम् / पशुपाशपतिज्ञानं स्वयं निर्भासते तदा अभ्त्_१३. प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् / वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने अभ्त्_१३. तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा / प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे अभ्त्_१३. दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता / सर्वभावविवेकात्तु सर्वभावपराङ्मुखः अभ्त्_१३. क्रीडासु सुविरक्तात्मा शिवभावैकभावितः / माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते अभ्त्_१३. स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम् / हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् अभ्त्_१३. सिद्धिजालं हि कथितं परप्रत्ययकारणम् / इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् अभ्त्_१३. परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते / एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् अभ्त्_१३. शापानुग्रहकार्येषु तथाभ्यासेन शक्तया / तेषूदासीनतायां तु मुच्यते मोचयेत्परान् अभ्त्_१३. भूतेन्द्रियादियोगेन बद्धो@णुः संसरेद्ध्रुवम् / स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते अभ्त्_१३. तत्पातावेशतो मुक्तः शिव एव भवार्णवात् / नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् अभ्त्_१३. विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् / इति पृष्टो@भ्यधात्स्वान्तधियोर्जाड्यैकवासनात् अभ्त्_१३. अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः / संस्कारः सर्वभावानां परता परिकीर्तिता अभ्त्_१३. मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे / विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते अभ्त्_१३. न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये / परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते अभ्त्_१३. विवेकः सर्वभावानां शुद्धभावान्महाशयः / बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् अभ्त्_१३. अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् / ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे अभ्त्_१३. ऊचे@ज्ञाना हि दीक्षायां बालवालिशयोषितः / पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे अभ्त्_१३. तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि / दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् अभ्त्_१३. इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः / तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति अभ्त्_१३. श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा / ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् अभ्त्_१३. मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा / शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति अभ्त्_१३. एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते / एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् अभ्त्_१३. शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा / तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते अभ्त्_१३. इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः / अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते अभ्त्_१३. रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया / भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति अभ्त्_१३. तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् / तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् अभ्त्_१३. अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका / स्वं रूपं प्रति या सैव को@पि काल इहोदितः अभ्त्_१३. योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते / पूर्वं किं न तथा कस्मात्तदैवेति न संगतम् अभ्त्_१३. तथाभासनमुज्झित्वा न हि कालो@स्ति कश्चन / स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् अभ्त्_१३. नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता / ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता / सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् अभ्त्_१३. क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः अभ्त्_१३. तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् / त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः अभ्त्_१३. तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः / देहपातो भवेदस्य यद्वा काष्ठादितुल्यता अभ्त्_१३. समस्तव्यवहारेषु पराचीनितचेतनः / तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति अभ्त्_१३. एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् / ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् अभ्त्_१३. अज्ञानरूपता पुंसि बोधः संकोचिते हृदि / संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते अभ्त्_१३. रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते / चिह्नवर्गो य उक्तो@त्र रुद्रे भक्तिः सुनिश्चला अभ्त्_१३. मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः / कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् अभ्त्_१३. स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता / तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः अभ्त्_१३. स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः / अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति अभ्त्_१३. मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते / शिवेच्छावशयोगेन सद्गुरुं प्रति सो@पि च अभ्त्_१३. अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना / यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः अभ्त्_१३. स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः / दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा अभ्त्_१३. नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि / ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः अभ्त्_१३. ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् / किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः अभ्त्_१३. प्रतिभानात्सुःऋत्सङ्गाद्गुरौ जिगमिषुर्भवेत् / एवं जिगमिषायोगादाचार्यः प्राप्यते स च अभ्त्_१३. तारतम्यादियोगेन संसिद्धः संस्कृतो@पि च / प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः अभ्त्_१३. इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः / तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् अभ्त्_१३. ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः / जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते अभ्त्_१३. देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा / अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् अभ्त्_१३. शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः / मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः अभ्त्_१३. क्रियया वान्तराकाररूपप्राणप्रवेशतः / तदा च देहसंस्थो@पि स मुक्त इति भण्यते अभ्त्_१३. उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः / यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् अभ्त्_१३. तदैव किल मुक्तो@सौ यन्त्रं तिष्ठति केवलम् / प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते अभ्त्_१३. न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् / अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा अभ्त्_१३. कर्मणा तेन बाध्यन्ते ज्ञानिनो@पि कलेवरे / जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः अभ्त्_१३. उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः / अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः अभ्त्_१३. हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः / सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् अभ्त्_१३. तत्र त्वेषो@स्ति नियम आसन्ने मरणक्षणे / तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति अभ्त्_१३. उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः / प्राणैर्वियोजितो@प्येष भुङ्क्ते शेषफलं यतः अभ्त्_१३. तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् / कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते अभ्त्_१३. तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् / विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा अभ्त्_१३. एकस्त्रिको@यं निर्णीतः शक्तिपाते@प्यथापरः / तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् अभ्त्_१३. स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् / उक्तं च निशिसंचारयोगसंचारशास्त्रयोः अभ्त्_१३. विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत् / मध्यमध्ये शक्तिपाते शिवलाभोत्सुको@पि सन् अभ्त्_१३. बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः / मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः अभ्त्_१३. देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् / तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता अभ्त्_१३. बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः / तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता अभ्त्_१३. क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् / अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् अभ्त्_१३. कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् / यदा प्रतिभयाविष्टो@प्येष संवादयोजनाम् अभ्त्_१३. इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् / न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् अभ्त्_१३. इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् / रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति अभ्त्_१३. तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः / दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् अभ्त्_१३. उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना / अभिलाषः शिवे देवे पशूनां भवते तदा अभ्त्_१३. यदा शैवाभिमानेन युक्ता वै परमाणवः / तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः अभ्त्_१३. प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते / तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः अभ्त्_१३. नवधा शक्तिपातो@यं शंभुनाथेन वर्णितः / इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः अभ्त्_१३. प्रकाशः परमः शक्तिपातो@वच्छेदवर्जितः / तथाविधो@पि भोगांशावच्छेदेनोपलक्षितः अभ्त्_१३. अपरः शक्तिपातो@सौ पर्यन्ते शिवताप्रदः / उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः अभ्त्_१३. नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः / तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः अभ्त्_१३. स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् / ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः अभ्त्_१३. शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः / ननु पूजाजपध्यानशंकरासेवनादिभिः अभ्त्_१३. ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः / मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु अभ्त्_१३. प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् / कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् अभ्त्_१३. ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता / जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् अभ्त्_१३. कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् / तिरोधत्ते भोक्तृरूपं संज्ञाया तु न नो भरः अभ्त्_१३. तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् / चित्राकारप्रकाशो@यं स्वतन्त्रः परमेश्वरः अभ्त्_१३. स्वातन्त्र्यात्तु तिरोभावबन्धो भोगे@स्य भोक्तृताम् / पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् अभ्त्_१३. उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी / बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् अभ्त्_१३. ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका / अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते अभ्त्_१३. सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया / विष्ण्वादिरूपता देवे या काचित्सा निजात्मना अभ्त्_१३. भेदयोगवशान्मायापदमध्यव्यवस्थिता / तेन तद्रूपतायोगाच्छक्तिपातः स्थितो@पि सन् अभ्त्_१३. तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु / यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन अभ्त्_१३. ईशशक्तिसमावेशात्तथा विष्ण्वादयो@प्यलम् / मायागर्भाधिकारीयशक्तिपातवशात्ततः अभ्त्_१३. को@पि प्रधानपुरुषविवेकी प्रकृतेर्गतः / उत्कृष्टात्तत एवाशु को@पि बुद्धा विवेकिताम् अभ्त्_१३. क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः / कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् अभ्त्_१३. ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः / स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् अभ्त्_१३. मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् / विज्ञानाकलतां प्राप्तः केवलादधिकारतः अभ्त्_१३. मलान्मन्त्रतदीशादिभावमेति सदा शिवात् / पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् अभ्त्_१३. अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः / नान्येन शिवभावो हि केनचित्संप्रकाशते अभ्त्_१३. स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् / त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे अभ्त्_१३. शिवज्ञानं केवलं च शिवतापत्तिदायकम् / शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते अभ्त्_१३. अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम् / तेनेह वैष्णवादीनां नाधिकारः कथंचन अभ्त्_१३. ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः / स्वातन्त्र्यात्तु महेशस्य ते@पि चेच्छिवतोन्मुखाः अभ्त्_१३. द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया / दुष्टाधिवासविगमे पुष्पैः कुम्भो@धिवास्यते अभ्त्_१३. द्विगुणो@स्य स संस्कारो नेत्थं शुद्धे घटे विधिः / इत्थं श्रीशक्तिपातो@यं निरपेक्ष इहोदितः अभ्त्_१३. अनयैव दिशा नेयं मतङ्गकिरणादिकम् / ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् अभ्त्_१३. पुराणे@पि च तस्यैव प्रसादाद्भक्तिरिष्यते / यया यान्ति परां सिद्धिं तद्भावगतमानसाः अभ्त्_१३. एवकारेण कर्मादिसापेक्षत्वं निषिध्यते / प्रसादो निर्मलीभावस्तेन संपूर्णरूपता अभ्त्_१३. आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते / शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् अभ्त्_१३. वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् / शिवो भवति तत्रैष कारणं न तु केवलः अभ्त्_१३. निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः / यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् अभ्त्_१३. श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः / शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् अभ्त्_१३. अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे / कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् अभ्त्_१३. दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः / अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् अभ्त्_१३. व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः / श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः अभ्त्_१३. व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता / स्थावरान्ते@पि देवस्य स्वरूपोन्मीलनात्मिका अभ्त्_१३. शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् / एवं विचित्रे@प्येतस्मिञ्छक्तिपाते स्थिते सति अभ्त्_१३. तारतम्यादिभिर्भेदैः समय्यादिविचित्रता / कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः अभ्त्_१३. शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते / कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् अभ्त्_१३. भोगव्यवधिना को@पि साधकश्चिरशीघ्रतः / कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि अभ्त्_१३. रूपे स्थितो गुरुः सो@पि भोगमोक्षादिभेदभाक् / समय्यादिचतुष्कस्य समासव्यासयोगतः अभ्त्_१३. क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता / क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः अभ्त्_१३. दक्षे मते कुले कौले षडर्धे हृदये ततः / उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा अभ्त्_१३. उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः / गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः अभ्त्_१३. ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः / शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु अभ्त्_१३. वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् / तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति अभ्त्_१३. शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये / सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले अभ्त्_१३. कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः / भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता अभ्त्_१३. स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना / अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः अभ्त्_१३. समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः / स च शक्तिवशादित्थं वैष्णवादिषु को@न्वयः अभ्त्_१३. छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् / प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् अभ्त्_१३. फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः / ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् अभ्त्_१३. तिरोभावप्रकारो@यं यत्तादृशि नियोजितः / गुरौ शिवेन तद्भक्तिः शक्तिपातो@स्य नोच्यते अभ्त्_१३. यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् / विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् अभ्त्_१३. तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः / यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः अभ्त्_१३. वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः / स हि भेदैकवृत्तित्वं शिवज्ञाने श्रुते@प्यलम् अभ्त्_१३. नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः / शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् अभ्त्_१३. कथङ्कारं पतिपदं प्रयातु परतन्त्रितः / स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः अभ्त्_१३. भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया / वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने अभ्त्_१३. ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् / स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ अभ्त्_१३. प्रत्यवायं यतो@भ्येति चरेत्तन्नेदृशं क्रमम् / उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् अभ्त्_१३. नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते / तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते अभ्त्_१३. कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु / अवच्छिन्नो@नवच्छेदं नो वेत्त्यानन्त्यसंस्थितः अभ्त्_१३. सर्वंसहस्ततो@धःस्थ ऊर्ध्वस्थो@धिकृतो गुरुः / स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः अभ्त्_१३. सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः / अधःस्थदृक्स्थो@प्येतादृग्गुरुसेवी भवेत्स यः अभ्त्_१३. तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् / तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके अभ्त्_१३. उत्तरोत्तरविज्ञाने नाधिकार्यधरो@धरः / उत्तरोत्तरमाचार्यं विदन्नप्यधरो@धरः अभ्त्_१३. कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् / शक्तिपातबलादेव ज्ञानयोग्यविचित्रता अभ्त्_१३. श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च / ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् अभ्त्_१३. तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकले@कले / कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् अभ्त्_१३. योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे / सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः अभ्त्_१३. अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा / विमोचनायां नोपायः स्थितापि धनदारवत् अभ्त्_१३. यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः / साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् अभ्त्_१३. तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते / यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः अभ्त्_१३. तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् / विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते अभ्त्_१३. मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् / अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् अभ्त्_१३. आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् / विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् अभ्त्_१३. शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् / नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् अभ्त्_१३. उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः / अधमे यः पदे तस्मात्को@न्यः स्याद्दैवदग्धकः अभ्त्_१३. यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च / स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् अभ्त्_१३. तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् / भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः अभ्त्_१३. फलदानाक्षमे योगिन्यपायैकोपदेशिनि / वरं ज्ञानी यो@भ्युपायं दिशेदपिच मोचयेत् अभ्त्_१३. ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् / ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् अभ्त्_१३. तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः / धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् अभ्त्_१३. नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् / कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् अभ्त्_१३. आ तपनान्मोटकान्तं यस्य मे@स्ति गुरुक्रमः / तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता अभ्त्_१३. श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत / अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् अभ्त्_१३. तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि / लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः अभ्त्_१३. संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् / श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः अभ्त्_१३. प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः / क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः अभ्त्_१३. तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन / गुर्वन्तररते मूढे आगमान्तरसेवके अभ्त्_१३. प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् / यो यत्र शास्त्रे@धिकृतः स तत्र गुरुरुच्यते अभ्त्_१३. तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते / यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् अभ्त्_१३. स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति / तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् अभ्त्_१३. अधराधरमाचार्यं विनाशमधिगच्छति / एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः अभ्त्_१३. मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते / उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः अभ्त्_१३. जुगुप्सते तत्तस्मिंश्च विफले@न्यत्समाश्रयेत् / दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु अभ्त्_१३. यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् / जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः अभ्त्_१३. अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते / शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः अभ्त्_१३. अतश्चाप्युत्तमं शैवं यो@न्यत्र पतितः सहि / इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् अभ्त्_१३. अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे / न शासने समाम्नातं लिङ्गोद्धारादि किंचन अभ्त्_१३. इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः / कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः अभ्त्_१३. तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् / दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् अभ्त्_१३. इत्येष युक्त्यागमतः शक्तिपातो विवेचितः / अभ्त्_१३. तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् / स्वभावात् परमेशानो नियत्यनियतिक्रमम् अभ्त्_१४. स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते / नियतिं कर्मफलयोराश्रित्यैष महेश्वरः अभ्त्_१४. सृष्टिसंस्थितिसंहारान्विधत्ते@वान्तरस्थितीन् / महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि अभ्त्_१४. एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः / अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् अभ्त्_१४. नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितो@त्र तत् / नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् अभ्त्_१४. भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः / त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् अभ्त्_१४. बिभासयिषुरास्ते@यं तिरोधाने@नपेक्षकः / यथा प्रकाशस्वातन्त्र्यात् प्रतिबुद्धो@प्यबुद्धवत् अभ्त्_१४. आस्ते तद्वदनुत्तीर्णो@प्युत्तीर्ण इव चेष्टते / यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् अभ्त्_१४. हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् / श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् अभ्त्_१४. ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् / नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् अभ्त्_१४. ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्ते@पि न सम्यक / प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः अभ्त्_१४. यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् / नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् अभ्त्_१४. ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका / द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः अभ्त्_१४. न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः / किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः अभ्त्_१४. तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा / अनन्तकालसंवेद्यदुःखपात्रत्वमीहते अभ्त्_१४. तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः / दुःखस्यापि विभेदो@स्ति चिरशैघ्र्यकृतस्तथा अभ्त्_१४. कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् / तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च अभ्त्_१४. अन्यो@पि च तिरोभावः समयोल्लङ्घनात्मकः / यदुक्तं परमेशेन श्रीमदानन्दगह्वरे अभ्त्_१४. समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः / तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः अभ्त्_१४. स्वातन्त्र्याच्च महेशस्य तिरोभूतो@प्यसौ स्वयम् / परद्वारेण वाभ्येति भूयो@नुग्रहमप्यलम् अभ्त्_१४. भूयो@नुग्रहतः प्रायश्चित्ताद्याचरणे सति / अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः अभ्त्_१४. तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् / आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते अभ्त्_१४. तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् / तथैति शक्तिपातो@सौ येनायाति शिवात्मताम् अभ्त्_१४. इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः / इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः अभ्त्_१४. पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः / योगिनो@र्चाजपध्यानयोगाः संस्युः सदोदिताः अभ्त्_१४. ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन / सादाशिवो@पि यो भोगो बन्धः सो@प्युचितात्मनाम् अभ्त्_१४. ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते / कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः अभ्त्_१४. इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना / शिवो@हं चेन्मदिच्छानुवर्ति किं न जगत्त्विति अभ्त्_१४. ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् / शिवो वा परमेशानो देहादिरथ निर्मितः अभ्त्_१४. शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया / कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् अभ्त्_१४. उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले / पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः अभ्त्_१४. कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे / सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये अभ्त्_१४. प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता / यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति अभ्त्_१४. अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् / उत्क्रान्तिविधियोगो@यमेकदेशेन कथ्यते अभ्त्_१४. निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः / यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः अभ्त्_१४. आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना / तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया अभ्त्_१४. श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् / मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् अभ्त्_१४. जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः / भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति अभ्त्_१४. स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल / भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् अभ्त्_१४. योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः / हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः अभ्त्_१४. उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् / सर्वमप्यथवा भोगं मन्यमानो विरूपकम् अभ्त्_१४. इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् / एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् अभ्त्_१४. यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी / उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा अभ्त्_१४. व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः / विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् अभ्त्_१४. बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः / अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः अभ्त्_१४. संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः / स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः अभ्त्_१४. इत्थं दीक्षोपक्रमो@यं दर्शितः शास्त्रसंमतः / अभ्त्_१४. अथैतदुपयोगाय यागस्तावन्निरूप्यते / तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् अभ्त्_१५. स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते / यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः अभ्त्_१५. सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः / योग्यतावशतो यत्र वासना यस्य तत्र सः अभ्त्_१५. योज्यो न च्यवते तस्मादिति श्रीमालिनीमते / वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः अभ्त्_१५. न चाधिकारिता दीक्षां विना योगे@स्ति शाङ्करे / न च योगाधिकारित्वमेकमेवानया भवेत् अभ्त्_१५. अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया / इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता अभ्त्_१५. दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते / पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता अभ्त्_१५. येषामध्यवसायो@स्ति न विद्यां प्रत्यशक्तितः / सुखोपायमिदं तेषां विधानमुदितं गुरोः अभ्त्_१५. इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता / सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका अभ्त्_१५. उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः / हेयादेयत्वकथने विद्यापाद इति स्फुटम् अभ्त्_१५. तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः / ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः अभ्त्_१५. ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः / अतो@स्य संस्क्रियामात्रोपयोगो दीक्षया कृतः अभ्त्_१५. यत्र तत्रास्तु गुरुणा योजितो@सौ फलं पुनः / स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल अभ्त्_१५. यस्य त्वीशप्रसादेन दिव्या काचन योग्यता / गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता अभ्त्_१५. ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् / सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते अभ्त्_१५. इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः / स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः अभ्त्_१५. आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् / इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् अभ्त्_१५. ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे / दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ अभ्त्_१५. तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः / उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः अभ्त्_१५. स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् / परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् अभ्त्_१५. उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् / फलं प्रार्थयसे यादृक्तादृक्साधनमारभे अभ्त्_१५. वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता / मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः अभ्त्_१५. वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् / साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः अभ्त्_१५. लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः / द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः अभ्त्_१५. बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः / अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने अभ्त्_१५. विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका / दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः अभ्त्_१५. अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् / मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् अभ्त्_१५. साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् / शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी अभ्त्_१५. अधर्मरूपिणामेव न शुभानां तु शोधनम् / लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता अभ्त्_१५. प्रारब्धदेहभेदे तु भुङ्क्ते@सावणिमादिकम् / भुक्त्वोर्ध्वं याति यत्रैष युक्तो@थ सकले@कले अभ्त्_१५. समयाचारपाशं तु निर्बीजायां विशोधयेत् / दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा अभ्त्_१५. सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते / अतीतानागतारब्धपाशत्रयवियोजिका अभ्त्_१५. दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् / देहत्यागे सबीजायां कर्माभावाद्विपद्यते अभ्त्_१५. समयाचारपाशं तु दीक्षितः पालयेत्सदा / एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् अभ्त्_१५. उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् / आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः अभ्त्_१५. अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता / स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् अभ्त्_१५. अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः / भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः अभ्त्_१५. दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते / तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः अभ्त्_१५. स एव हि गुरुः कार्यस्ततो@सौ दीक्षणे क्षमः / शिवतावेशिता चास्य बहूपाया प्रदर्शिता अभ्त्_१५. क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः / बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि अभ्त्_१५. संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः / शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते अभ्त्_१५. शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः / शिवो@यं शिव एवास्मीत्येवमाचार्यशिष्ययोः अभ्त्_१५. हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः / नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् अभ्त्_१५. सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते / श्रीब्रह्मयामले देव इति तेन न्यरूपयत् अभ्त्_१५. श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः / किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् अभ्त्_१५. तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् / अयत्नतो@न्तरन्तः स्यान्नैर्मल्य स्नायतां ततः अभ्त्_१५. स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते / तत्रैवं मन्त्रदीप्ते@न्तर्मलदाहे निमज्जनम् अभ्त्_१५. तत्रेष्टमन्त्रहृदयो गोरजो@न्तः पदत्रयम् / गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् अभ्त्_१५. अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः / जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः अभ्त्_१५. निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः / उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे अभ्त्_१५. सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् / देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् अभ्त्_१५. सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः / ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः अभ्त्_१५. आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् / अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् अभ्त्_१५. कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् / भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः अभ्त्_१५. हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् / तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् अभ्त्_१५. गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् / गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् अभ्त्_१५. अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः / स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः अभ्त्_१५. यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् / स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् अभ्त्_१५. एवं सोमार्कतेजःसु शिवभावेन भावनात् / निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते अभ्त्_१५. आत्मैव परमेशानो निराचारमहाह्रदः / विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः अभ्त्_१५. इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् / सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् अभ्त्_१५. घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः / अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः अभ्त्_१५. एता ह्यनुग्रहात्मानो मूर्तयो@ष्टौ शिवात्मिकाः / स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः अभ्त्_१५. अनेन विधिनार्चायां कन्दाधारादियोजनाम् / कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् अभ्त्_१५. तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः / आप्ये आप्या यावदमी शिवे शिवमया इति अभ्त्_१५. श्रीनिर्मर्यादशास्त्रे@पि तदित्थं सुनिरूपितम् / धरादेश्च विशेषो@स्ति वीरसाधकसंमतः अभ्त्_१५. रणरेणुर्वीरजलं वीरभस्म महामरुत् / श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ अभ्त्_१५. आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः / स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् अभ्त्_१५. श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना / सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना अभ्त्_१५. कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् / कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् अभ्त्_१५. मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् / तेनात्मसेकः कलशमुद्रया चाभिषेचनम् अभ्त्_१५. देवतातर्पणं देहप्राणोभयपथाश्रितम् / सर्वतीर्थतपोयज्ञदानादि फलमश्नुते अभ्त्_१५. मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् / यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः अभ्त्_१५. शिवशक्त्योर्न भेदो@स्ति शक्त्युत्थास्तु मरीचयः / तासामानन्दजनकं मद्यं शिवमयं ततः अभ्त्_१५. प्रबुद्धे संविदः पूर्णे रूपे@धिकृतिभाजनम् / मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् अभ्त्_१५. युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् / अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता अभ्त्_१५. आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः / यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः अभ्त्_१५. मूर्तयो@ष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः / एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशो@पिवा अभ्त्_१५. इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ / स्नानानन्तरकर्तव्यमथेदमुपदिश्यते अभ्त्_१५. भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः / पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते अभ्त्_१५. तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये / आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् अभ्त्_१५. साधकानामुपायः स्यात्सिद्धये नतु मुक्तये / पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते अभ्त्_१५. तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् / यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् अभ्त्_१५. तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् / अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः अभ्त्_१५. नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः / पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् अभ्त्_१५. ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् / शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् अभ्त्_१५. देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः / लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् अभ्त्_१५. पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः / नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् अभ्त्_१५. क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् / प्रयागो वरणा पश्चादट्टहासो जयन्तिका अभ्त्_१५. वाराणसी च कालिङ्गं कुलूता लाहुला तथा / उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् अभ्त्_१५. विरजैरुडिका हाला एला पूः क्षीरिका पुरी / मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः अभ्त्_१५. हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता / जालन्धरं च नैपालं कश्मीरा गर्गिका हरः अभ्त्_१५. म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् / द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् अभ्त्_१५. चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते / नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् अभ्त्_१५. भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् / नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् अभ्त्_१५. पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च / किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः अभ्त्_१५. ततो देहस्थितं तस्माद्देहायतनगो भवेत् / बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः अभ्त्_१५. देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते / यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः अभ्त्_१५. तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् / यथाचातन्मयो@प्येति पापितां तैः समागमात् अभ्त्_१५. तथा पीठस्थितो@प्येति ज्ञानयोगादिपात्रताम् / मुख्यत्वेन शरीरे@न्तः प्राणे संविदि पश्यतः अभ्त्_१५. विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः / इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् अभ्त्_१५. स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः / श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् अभ्त्_१५. सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च / इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः अभ्त्_१५. तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः / मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते अभ्त्_१५. देशोपाया न सा यस्मात्सा हि भावप्रसादतः / उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् अभ्त्_१५. स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् / मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् अभ्त्_१५. गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् / यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते अभ्त्_१५. तत्रैव धाम्नि बाह्ये@न्तर्यागश्रीः प्रतितिष्ठति / नान्यत्रगत्या मोक्षो@स्ति सो@ज्ञानग्रन्थिकर्तनात् अभ्त्_१५. तच्च संविद्विकासेन श्रीमद्वीरावलीपदे / गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः अभ्त्_१५. हेतुरित्युभयत्रापि यागौको यन्मनोरमम् / नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि अभ्त्_१५. सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् / विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् अभ्त्_१५. साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते / उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति अभ्त्_१५. क्लिश्यन्ते सविकल्पास्तु कल्पोक्ते@पि कृते सति / तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः अभ्त्_१५. इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् / तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु अभ्त्_१५. तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् / यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः अभ्त्_१५. न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये / मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् अभ्त्_१५. सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः / ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे अभ्त्_१५. द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश / दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ अभ्त्_१५. वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् / पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव अभ्त्_१५. त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् / इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते अभ्त्_१५. न शिखा ऋ ॠ ऌ ऌऌ च शिरोमाला थ मस्तकम् / नेत्राणि चोर्ध्वे धो@न्ये ई घ्राणं मुद्रे णु णू श्रुती अभ्त्_१५. बकवर्ग+इ+आ वक्त्रदन्तजिह्वागिरि क्रमात् / वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ अभ्त्_१५. ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके / प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् अभ्त्_१५. प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ / मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा अभ्त्_१५. एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ / इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः अभ्त्_१५. कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः / अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् अभ्त्_१५. कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् / योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् अभ्त्_१५. तथापि नादिफान्तो@यं क्रमो मुख्यः प्रकीर्तितः / फकारादिसमुच्चारान्नकारान्ते@ध्वमण्डलम् अभ्त्_१५. संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् / अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः अभ्त्_१५. भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी / शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी अभ्त्_१५. सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता / मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः अभ्त्_१५. फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी / संहारदानादानादिशक्तियुक्ता यतो रलौ अभ्त्_१५. एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् / शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् अभ्त्_१५. एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता / तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् अभ्त्_१५. मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः / उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते अभ्त्_१५. न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् / विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः अभ्त्_१५. यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत / साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् अभ्त्_१५. मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये / तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् अभ्त्_१५. न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये / इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् अभ्त्_१५. सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः / अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः अभ्त्_१५. वाचकौ न्यास एताभ्यां कृते न्यासे@थवैककः / एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः अभ्त्_१५. सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् / अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् अभ्त्_१५. क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् / अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा अभ्त्_१५. यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् / संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् अभ्त्_१५. मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् / शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् अभ्त्_१५. एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् / उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः अभ्त्_१५. यतः समस्तभावानां शिवात्सिद्धिमयादथो / पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया अभ्त्_१५. समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् / पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि अभ्त्_१५. यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः / अश्वः संग्रामरूढो@पि तां शिक्षां नातिवर्तते अभ्त्_१५. तथार्चनक्रियाभ्यासशिवीभावितकारकः / गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति अभ्त्_१५. तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् / संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् अभ्त्_१५. उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः / अहो स्वादुरसः को@पि शिवपूजामयोत्सवः अभ्त्_१५. षट्त्रिंशतो@पि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् / तदेतादृक्पूर्णशिवविश्वावेशाय ये@र्चनम् अभ्त्_१५. कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् / विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका अभ्त्_१५. इत्थमैक्यसमापत्तिदानात्परफलप्रदा / साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् अभ्त्_१५. विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् / उक्तं च परमेशेन न विधिर्नार्चनक्रमः अभ्त्_१५. केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु / तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः अभ्त्_१५. समस्तकारकैकात्म्यं तेनास्याः परमं वपुः / यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् अभ्त्_१५. यष्टृयाज्यतदाधारकरणादानसंप्रदाः / न्यासक्रमेण शिवतातादात्म्यमधिशेरते अभ्त्_१५. अर्घपात्रमपादानं तस्मादादीयते यतः / यच्च तत्स्थं जलाद्येतत्करणं शोधने@र्चने अभ्त्_१५. अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति / शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति अभ्त्_१५. ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः / न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् अभ्त्_१५. तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि / अशुद्धता च विज्ञेया पशुतच्छासनाशयात् अभ्त्_१५. स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् / तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् अभ्त्_१५. कियतो@पि तदत्यन्तं योग्यं यागे@त्र जीववत् / अनेन नययोगेन यदासत्तिविदूरते अभ्त्_१५. संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् / वीराणामत एवेह मिथः स्वप्रतिमामृतम् अभ्त्_१५. तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः / उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् अभ्त्_१५. अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः / तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् अभ्त्_१५. आनन्दजननं पूजायोग्यं हृदयहारि यत् / अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु अभ्त्_१५. मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् / लोकस्थितिं रचयितुं मद्यादेः पशुशासने अभ्त्_१५. प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता / पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः अभ्त्_१५. विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता / न पत्न्या च विना यागः सर्वदैवततुल्यता अभ्त्_१५. सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः / पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना अभ्त्_१५. घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् / भक्ष्यो हंसो न भक्ष्यो@साविति रिप्रतिपत्तिषु अभ्त्_१५. स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः / अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी अभ्त्_१५. मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः / वेदे@पि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते अभ्त्_१५. न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् / अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः अभ्त्_१५. एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः / क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि अभ्त्_१५. तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् / प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः अभ्त्_१५. सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् / यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् अभ्त्_१५. प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि / त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् अभ्त्_१५. योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः / एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः अभ्त्_१५. तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः / एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् अभ्त्_१५. त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते / गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः अभ्त्_१५. मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा / क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च अभ्त्_१५. एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् / कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः अभ्त्_१५. अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् / द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी अभ्त्_१५. पद्माधारगताः सर्वे@प्युदिता विघ्ननाशकाः / पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः अभ्त्_१५. अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः / पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः अभ्त्_१५. एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् / रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् अभ्त्_१५. द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् / क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् अभ्त्_१५. प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् / दिशो@स्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः अभ्त्_१५. तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा / विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् अभ्त्_१५. यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका / प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः अभ्त्_१५. उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा / उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् अभ्त्_१५. तस्मात्संवित्प्रकाशो@यं मूर्त्याभासनभागतः / पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः अभ्त्_१५. तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् / तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः अभ्त्_१५. किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः / किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः अभ्त्_१५. पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् / प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः अभ्त्_१५. यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः / दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते अभ्त्_१५. तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि / एवमाशाचतुष्के@स्मिन्मध्यविश्रान्तियोगतः अभ्त्_१५. चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः / एवं प्रकाशमात्रे@स्मिन्वरदे परमे शिवे अभ्त्_१५. दिग्विभागः स्थितो लोके शास्त्रे@पिच तथोच्यते / क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः अभ्त्_१५. ईशन्रघोरवामाख्यसद्यो@धोभेदतो दिशः / ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् अभ्त्_१५. पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः / पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते अभ्त्_१५. पातालवक्त्रमधरमप्रकाशतया स्थितेः / खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि अभ्त्_१५. मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते / तदेव मुख्यतो@धस्तादप्रकाशं यतः स्फुटम् अभ्त्_१५. मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् / प्रकाशत्वाद्दिश्यमानमतो@स्मिन्दिक्चतुष्टयम् अभ्त्_१५. पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः / ततो@पीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः अभ्त्_१५. ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् / न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः अभ्त्_१५. दिग्विभागस्तु तज्जो@स्ति वदनानां चतुष्टयात् / पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ अभ्त्_१५. ततो ब्रह्माण्डमध्ये@पि ज्ञानशक्तिर्विभो रविः / दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् अभ्त्_१५. तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते / तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् अभ्त्_१५. तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् / तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् अभ्त्_१५. तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् / तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् अभ्त्_१५. यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः / तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् अभ्त्_१५. तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् / सा सा दिक्च तथा तस्य फलदापि विपर्यये अभ्त्_१५. विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः / इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी अभ्त्_१५. अधिष्ठिता महेशेन चित्रतद्रूपधारिणा / किं वातिबहुना यो@सौ यष्टा तत्संमुखादितः अभ्त्_१५. दिशो@पि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः / स्वानुसारकृतं तं च दिग्विभागं सदा शिवः अभ्त्_१५. अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः / स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते अभ्त्_१५. ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः / प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः अभ्त्_१५. सो@ग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा / प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते अभ्त्_१५. भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः / अदृष्टविग्रहो@नन्तो ब्रह्मोर्ध्वे वृंहको विभुः अभ्त्_१५. प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः / इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते अभ्त्_१५. तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते / सर्वगो@प्यनिलो यद्वद्व्यजनेनोपवीजितः अभ्त्_१५. प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् / तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् अभ्त्_१५. साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः / एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः अभ्त्_१५. अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा / साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् अभ्त्_१५. स्थितस्तदनुसारेण मध्यीभवति शंकरः / स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः अभ्त्_१५. सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः / तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः अभ्त्_१५. उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः / उपविश्य निजस्थाने देहशुद्धिं समाचरेत् अभ्त्_१५. अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् / अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् अभ्त्_१५. दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् / तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् अभ्त्_१५. तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा / देहपुर्यष्टकाहन्ताविध्वंसादेव जायते अभ्त्_१५. नहि सद्भावमात्रेण देहो@सावन्यदेहवत् / अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् अभ्त्_१५. तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः / तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि अभ्त्_१५. तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः / संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् अभ्त्_१५. सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका / ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः अभ्त्_१५. अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् / अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः अभ्त्_१५. त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते / ततो@घोराष्टकन्यासः शिरस्तच्चरणात्मकम् अभ्त्_१५. ततो@पि शिवसद्भावन्यासः स्वांगस्य संयुतः / इत्थ कृते पञ्चके@स्मिन्यत्तन्मुख्यतया भवेत् अभ्त्_१५. उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् / तेनात्र न्यासयोग्यो@सौ भगवान्रतिशेखरः अभ्त्_१५. ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वे@न्योन्यधामता / एवं भैरवसद्भावनाथे मुख्यतया यदि अभ्त्_१५. उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः / इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् अभ्त्_१५. शंभुनाथो न्यासविधौ देवो हि कथमन्यथा / न्यास विवर्ज्यते@मुष्मिन्नङ्गान्यप्यस्य सन्ति हि अभ्त्_१५. मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः / शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः अभ्त्_१५. अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् / परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् अभ्त्_१५. पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् / ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य+ऊरुतः अभ्त्_१५. जानुपादे@प्यघोर्याद्यं ततो विद्याङ्गपञ्चकम् / ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् अभ्त्_१५. योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् / अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् अभ्त्_१५. साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः / परैव देवीत्रितयमध्ये याभेदिनी स्थिता अभ्त्_१५. सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता / सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः अभ्त्_१५. मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् / पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तो@पि षड्विधः अभ्त्_१५. यामलो@यं महान्यासः सिद्धिमुक्तिफलप्रदः / मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् अभ्त्_१५. गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् / मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् अभ्त्_१५. यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः / तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः अभ्त्_१५. किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः / षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः अभ्त्_१५. मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा / पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका अभ्त्_१५. षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् / एवं षोढामहान्यासे कृते विश्वमिदं हठात् अभ्त्_१५. देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् / मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा अभ्त्_१५. अभेदमानीय कृता शुद्धा न्यासबलक्रमात् / तेन ये@चोदयन्मूढाः पाशदाहविधूनने अभ्त्_१५. कृते शान्ते शिवे रूढः पुनः किमवरोहति / इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् अभ्त्_१५. न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः / न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् अभ्त्_१५. सर्वेतराध्वव्यावृत्तो घटतुल्यो@स्ति कुत्रचित् / महाप्रकाशरूपा हि येयं संविद्विजृम्भते अभ्त्_१५. स शिवः शिवतैवास्य वैश्वरूप्यावभासिता / तथाभासनयोगो@तः स्वरसेनास्य जृम्भते अभ्त्_१५. भास्यमानो@त्र चाभेदः स्वात्मनो भेद एव च / भेदे विजृम्भिते माया मायामातुर्विजृम्भते अभ्त्_१५. अभेदे जृम्भते@स्यैव मायामातुः शिवात्मता / मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् अभ्त्_१५. शिव एव तदभ्यासफलं न्यासादि कीर्तितम् / यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा अभ्त्_१५. तथा शिवो@हं नान्यो@स्मीत्येवं भावयतस्तथा / एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् अभ्त्_१५. शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता / अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः अभ्त्_१५. कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः / तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् अभ्त्_१५. भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् / प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् अभ्त्_१५. विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति / ततः संसारभागीयतथानिश्चयशातिनीम् अभ्त्_१५. नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् / ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः अभ्त्_१५. न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् / एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् अभ्त्_१५. न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् / पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः अभ्त्_१५. धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः / संसारवामाचारत्वात्सर्वं वामकरेण तु अभ्त्_१५. कुर्यात्तर्पणयोगं च दैशिकस्तदनामया / वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् अभ्त्_१५. वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् / श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने अभ्त्_१५. सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् / तत्फलं कोटिगुणितमनामातर्पणात्प्रिये अभ्त्_१५. श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने / तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् अभ्त्_१५. शेषं वामकरेणैव पूजाहोमजपादिकम् / एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् अभ्त्_१५. यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् / गलिते विषयौन्मुख्ये पारिमित्ये विलापिते अभ्त्_१५. देहे किमवशिष्येत शिवानन्दरसादृते / शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् अभ्त्_१५. देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः / विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः अभ्त्_१५. बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति / तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः अभ्त्_१५. उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता / ततो@र्घपात्रं कर्तव्यं शिवाभेदमयं परम् अभ्त्_१५. आनन्दरससंपूर्णं विश्वदैवततर्पणम् / यथैव देहे दाहादिपूजान्तं तद्वदेव हि अभ्त्_१५. अर्घपात्रे@पि कर्तव्यं समासव्यासयोगतः / कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् अभ्त्_१५. सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् / मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो अभ्त्_१५. यदेव हृद्यं तद्योग्यं शिवसंविदभेदने / कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् अभ्त्_१५. कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् / अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् अभ्त्_१५. नार्घपात्रे@त्र कुसुमं कुर्याद्देवार्चनाकृते / अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् अभ्त्_१५. मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् / एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् अभ्त्_१५. अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे / तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति अभ्त्_१५. शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते / न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् अभ्त्_१५. धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः / पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् अभ्त्_१५. प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् / ईषत्समन्तादमलमिदमामलसारकम् अभ्त्_१५. ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि / तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः अभ्त्_१५. तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् / वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः अभ्त्_१५. मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् / शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् अभ्त्_१५. तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः / प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः अभ्त्_१५. दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् / विद्यापद्मे@त्र तच्चोक्तमपि प्राग्दर्श्यते पुनः अभ्त्_१५. वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी / भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् अभ्त्_१५. विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा / ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः अभ्त्_१५. दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् / निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् अभ्त्_१५. मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् / आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् अभ्त्_१५. रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् / न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते अभ्त्_१५. समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः / प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् अभ्त्_१५. विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः / सदाशिवीभूय ततः परं शिवमुपाश्रिताः अभ्त्_१५. अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः / कृशो मेयत्वदौर्बल्यात्प्रेतो@ट्टहसनादितः अभ्त्_१५. तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् / नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् अभ्त्_१५. अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् / पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् अभ्त्_१५. अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः / आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः अभ्त्_१५. एतान्येव तु तत्त्वानि लीनानि परभैरवे / तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने अभ्त्_१५. श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु / एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् अभ्त्_१५. पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् / सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् अभ्त्_१५. विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः / सदाशिवान्तं समनापर्यन्तं मतयामले अभ्त्_१५. उन्मनान्तमिहाख्यातमित्येतत्परमासनम् / अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् अभ्त्_१५. तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् / न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते अभ्त्_१५. सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् / परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति अभ्त्_१५. विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् / मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् अभ्त्_१५. नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् / मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः अभ्त्_१५. परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् / अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् अभ्त्_१५. प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः / ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् अभ्त्_१५. कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् / कपालशूलखट्वाङ्गवराभयघटादिकम् अभ्त्_१५. वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् / वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः अभ्त्_१५. अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये / सर्वं ततो@ङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् अभ्त्_१५. मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् / ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् अभ्त्_१५. अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् / मध्यगा किल या देवी सैव सद्भावरूपिणी अभ्त्_१५. कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः / सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता अभ्त्_१५. परा तु मातृका देवी मालिनी मध्यगोदिता / मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् अभ्त्_१५. तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति / ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे अभ्त्_१५. स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् / श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते अभ्त्_१५. नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा / मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति अभ्त्_१५. पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु / कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् अभ्त्_१५. इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी / याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् अभ्त्_१५. इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके / स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः अभ्त्_१५. शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु / प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते अभ्त्_१५. भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु / भिन्नाभिन्ने तदियान् सुशिवान्तो@ध्वोदितः प्रेते अभ्त्_१५. ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः / अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः अभ्त्_१५. पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन / ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया अभ्त्_१५. किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः / भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् अभ्त्_१५. बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत / संभाव्यवेद्यकालुष्ययोगतो@न्योन्यलब्धसंकरतः अभ्त्_१५. प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न / अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया / स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता अभ्त्_१५. सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते / संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः अभ्त्_१५. तत्त्वं सत्ता प्राप्तिर्मातृषु मेयो@नया संश्च / विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् अभ्त्_१५. एषणविदिक्रियात्मकमेतत्पूज्यं यतो@नवच्छिन्नम् / यस्मिन्सर्वावच्छेददिशो@पि स्युः समाक्षिप्ताः अभ्त्_१५. अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र / बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् अभ्त्_१५. आक्षिपति तत्र रूढः सर्वोत्कृष्टो@धरस्थितास्त्वन्ये / इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे अभ्त्_१५. स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् / बाह्ययागे तु पद्मानां त्रितये@पि प्रपूजयेत् अभ्त्_१५. अस्त्रान्तं परिवारौघमिति नो दैशिकागमः / अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् अभ्त्_१५. शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये / अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् अभ्त्_१५. पत्राष्टके@ष्टकयुगमघोरादेः स्वयामलम् / तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः अभ्त्_१५. सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् / लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् अभ्त्_१५. इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः / तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् अभ्त्_१५. ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा / एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः अभ्त्_१५. नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् / मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् अभ्त्_१५. दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः / चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतो@र्पयेत् अभ्त्_१५. द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् / देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् अभ्त्_१५. मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका / खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् अभ्त्_१५. अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् / शाक्ते ततो@प्याणवे तत्त्रिशूलत्रितयं स्थितम् अभ्त्_१५. तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः / किं किं न जायते किं वा न वेत्ति न करोति वा अभ्त्_१५. एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् / यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः अभ्त्_१५. इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् / शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् अभ्त्_१५. बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते / अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः अभ्त्_१५. यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् / अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः अभ्त्_१५. कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् / दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् अभ्त्_१५. निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा / विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते अभ्त्_१५. गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः / ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् अभ्त्_१५. भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् / पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते अभ्त्_१५. पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् / लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् अभ्त्_१५. अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् / फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् अभ्त्_१५. पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च / तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् अभ्त्_१५. समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते / अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके अभ्त्_१५. षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् / अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् अभ्त्_१५. ................................................. / ................................................. / / ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् अभ्त्_१५. पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् / असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः अभ्त्_१५. तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् / ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् अभ्त्_१५. गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् / ततः शिष्यो@सिकलशीहस्तो धारां प्रपातयन् अभ्त्_१५. गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् / भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये अभ्त्_१५. सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया / त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् अभ्त्_१५. अपासयेद्यतो मन्त्रश्छन्दोबद्धो@यमीरितः / तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि अभ्त्_१५. दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् / कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् अभ्त्_१५. तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् / अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः अभ्त्_१५. पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् / मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः अभ्त्_१५. त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् / अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् अभ्त्_१५. शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् / शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् अभ्त्_१५. परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः / एवं देहे स्थण्डिले वा लिङ्गे पात्रे जले@नले अभ्त्_१५. पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे / उक्तं श्रीयोगसंचारे तथाहि परमेशिना अभ्त्_१५. चतुर्दशविधे भूते पुष्पे धूपे निवेदने / दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका अभ्त्_१५. जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् / आहारे मैथुने सैव देहस्था कर्मकारिणी अभ्त्_१५. तादृशीं ये तु नो रूढां संवित्तिमधिशेरते / अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते अभ्त्_१५. अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः / तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् अभ्त्_१५. अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् / क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा अभ्त्_१५. यथाहि कश्चित्प्रतिभादरिद्रो@भ्यासपाटवात् / वाक्यं गृह्णाति को@प्यादौ तथात्राप्यवबुध्यताम् अभ्त्_१५. उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् / स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः अभ्त्_१५. मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् / प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः अभ्त्_१५. शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च / सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य अभ्त्_१५. भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः / ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् अभ्त्_१५. मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् / संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् अभ्त्_१५. ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् / इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे अभ्त्_१५. रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् / तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् अभ्त्_१५. जन्माद्यखिलसंस्कारशुद्धो@ग्निस्तावता भवेत् / पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः अभ्त्_१५. शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः / ततो@खिलाध्वसद्देवीचक्रगर्भां परापराम् अभ्त्_१५. स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः / तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् अभ्त्_१५. वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः / इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् अभ्त्_१५. मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् / तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया अभ्त्_१५. बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः / ते निरुत्थानविहता नये@स्मिन्गुरुदर्शने अभ्त्_१५. जाते@ग्नौ संस्कृते शैवे शब्दराशिं च मालिनीम् / पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् अभ्त्_१५. शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् / अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा अभ्त्_१५. चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् / शिव इत्यभिमानेन दृढेन हि विलोकनम् अभ्त्_१५. सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतो@मलम् / नवाहुतीरथो दद्यान्नवात्मसहितेन तु अभ्त्_१५. शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् / शिवचैतन्यसामान्यव्योपरूपे@नले ततः अभ्त्_१५. प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् / स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद्गुरुः अभ्त्_१५. शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः / तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् अभ्त्_१५. इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् / ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः अभ्त्_१५. कृत्वा मूलं तर्पयेत् शतेनाज्यस्रुवैस्तथा / अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः अभ्त्_१५. सहस्रादिकहोमो@पि तृप्त्यै वित्तानुसारतः / सति वित्ते@पि लोभादिग्रस्तो बाह्यप्रधानताम् अभ्त्_१५. प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति / उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितो@पि न मोक्षभाक् अभ्त्_१५. ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् / तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा अभ्त्_१५. मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे / या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता अभ्त्_१५. शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् / तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् अभ्त्_१५. स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् / समचित्तप्राणतनुरैकात्म्यविधियोगतः अभ्त्_१५. वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् / कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् अभ्त्_१५. अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् / यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः अभ्त्_१५. स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् / तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् अभ्त्_१५. य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः / वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः संकल्पचिद्रसः अभ्त्_१५. इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् / द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् अभ्त्_१५. यथा यथा हि गगनमुत्पतेत्कलहंसकः / जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः अभ्त्_१५. स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः / माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा अभ्त्_१५. इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम् / तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् अभ्त्_१५. अविद्यारागनियतिकालमायाकलास्तथा / अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली अभ्त्_१५. व्यापिनी समनौन्मन्यं ततो@नामनि योजयेत् / रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः अभ्त्_१५. प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने / ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना अभ्त्_१५. चरुः साध्यो@थवा शिष्यैर्होमेन समकालकः / चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया अभ्त्_१५. चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः / ततश्चरुं समादाय गुरुराज्येन पूरिताम् अभ्त्_१५. स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः / देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् अभ्त्_१५. सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् / स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् अभ्त्_१५. चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः / भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः अभ्त्_१५. स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् / एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः अभ्त्_१५. भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः / सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः अभ्त्_१५. अन्यो@न्यत्र च संपातात्संगमाच्चेत्थमुच्यते / स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् अभ्त्_१५. भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ / इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः अभ्त्_१५. शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः / तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् अभ्त्_१५. तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः / अशुभो@न्यत्र तत्रास्त्रहोमो@प्यष्टशतं भवेत् अभ्त्_१५. नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् / अनन्यहृदयीभूतान्बलादित्थं निरोधतः अभ्त्_१५. मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान्गुरुः / प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः अभ्त्_१५. प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः / अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् अभ्त्_१५. दृशोर्निवारयेत्सो@पि शिष्यो झटिति पश्यति / झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले अभ्त्_१५. तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते / यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् अभ्त्_१५. पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् / चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे अभ्त्_१५. सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता / कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् अभ्त्_१५. प्रतिमादि च पश्यन्तो विदुः संनिध्यसंनिधी / न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः अभ्त्_१५. त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः / ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् अभ्त्_१५. मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् / तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः अभ्त्_१५. न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् / उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना अभ्त्_१५. दत्तेन शिवहस्तेन समयी स विधीयते / सायुज्यमीश्वरे तत्त्वे जीवतो@धीतियोग्यता अभ्त्_१५. श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके / चक्रे भैरवसन्नाभावघोराद्यष्टकारके अभ्त्_१५. बाह्यापरे परानेमौ मध्यशूलपरापरे / ज्वालाकुले@रुणे भ्राम्यन्मातृप्रणवभीषणे अभ्त्_१५. चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् / पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् अभ्त्_१५. प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः / अनेन शिवहस्तेन समयी भवति स्फुटम् अभ्त्_१५. तस्यैव भाविविधिवत्तत्त्वपाशवियोजने / पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः अभ्त्_१५. स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् / निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना अभ्त्_१५. अभिषिक्तः साधकः स्याद्भोगान्ते@स्य परे लयः / एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने अभ्त्_१५. चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः / दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते अभ्त्_१५. पृथिवीमादितः कृत्वा निर्वाणान्ते@स्य योजनाम् / अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः अभ्त्_१५. एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् / सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये अभ्त्_१५. पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् / अधिकारी स न पुनः साधने भिन्नयोजने अभ्त्_१५. एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः / आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन अभ्त्_१५. एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते / शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् अभ्त्_१५. शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः / ततः कुम्भे@स्त्रकलशे वह्नौ स्वात्मनि तं शिशुम् अभ्त्_१५. प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् / ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् अभ्त्_१५. कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च / शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः अभ्त्_१५. भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् / ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः अभ्त्_१५. संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः / स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् अभ्त्_१५. पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः / आयातनिद्रः शिष्यो@सौ निर्मलौ शशिभास्करौ अभ्त्_१५. हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ / हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते अभ्त्_१५. स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् / उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे अभ्त्_१५. प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात् / आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् अभ्त्_१५. चरुं भुञ्जीत ससखा ततो@द्याद्दन्तधावनम् / स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः अभ्त्_१५. प्रातर्गुरुः कृताशेषनित्यो@भ्यर्चितशंकरः / शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् अभ्त्_१५. स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः / बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः अभ्त्_१५. देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् / हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् अभ्त्_१५. रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् / पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् अभ्त्_१५. यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् / तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् अभ्त्_१५. अतो@न्यदशुभं तत्र होमो@ष्टशतको@स्त्रतः / अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः अभ्त्_१५. रूढां हि शङ्कां विच्छेत्तुं यत्नः संघटते महान् / येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् अभ्त्_१५. शुभाशुभं न किंचित्स्यात् स्युश्चेत्थं चित्रतावशात् / स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः अभ्त्_१५. न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् / नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् अभ्त्_१५. मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः / सर्वसात्त्विकचेष्टो@पि भोजने यदि तामसः अभ्त्_१५. किं ततः सो@धमः किवाप्युत्कृष्टस्तद्विपर्ययः / आयातशक्तिपातो@पि दीक्षितो@पि गुणस्थितेः अभ्त्_१५. विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः / ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् अभ्त्_१५. देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः / हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट् समाहितः अभ्त्_१५. स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः / हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः अभ्त्_१५. आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः / वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः अभ्त्_१५. गर्भाधानं पुंसवनं सीमन्तो जातकर्म च / नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी अभ्त्_१५. व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् / गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः अभ्त्_१५. प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः / अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् अभ्त्_१५. चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः / आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः अभ्त्_१५. चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी / अग्निष्टोमो@तिपूर्वो@थ सोक्य्यः षोडशिवाजपौ अभ्त्_१५. आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः / हिरण्यपादादिमखः सहस्रेण समावृतः अभ्त्_१५. अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् / वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः अभ्त्_१५. दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले / अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् अभ्त्_१५. मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् / संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च अभ्त्_१५. भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् / उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश अभ्त्_१५. एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः / पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः अभ्त्_१५. द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः / एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः अभ्त्_१५. अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः / प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा अभ्त्_१५. एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः / यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता अभ्त्_१५. तेन रुद्रतया संवित्तत्क्रमेणैव जायते / यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् अभ्त्_१५. रजतादि तथा संवित्संस्कारे द्विजतान्तरे / योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते अभ्त्_१५. मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् / मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् अभ्त्_१५. संविदो देहसंभेदात्सदृशात्सदृशोदयात् / भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः अभ्त्_१५. अन्त्यजातीयधीवादिजननीजन्मलाभतः / उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् अभ्त्_१५. अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते / रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे अभ्त्_१५. पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् / सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये अभ्त्_१५. आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः / स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः अभ्त्_१५. रुद्रांशापादनं येन समयी संस्कृतो भवेत् / अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने अभ्त्_१५. समय्यधिकृतो@न्यत्र गुरुणा विभुमर्चयेत् / तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः अभ्त्_१५. अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान् / अवादो@करणं गूढिः पूजा तर्पणभावने अभ्त्_१५. हननं मोहनं चेति समयाष्टकमष्टधा / स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् अभ्त्_१५. असत्प्रलापं परुषमनृतं नाष्टधा वदेत् / अफलं चेष्टितं हिंसां परदाराभिमर्शनम् अभ्त्_१५. गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत् / स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् अभ्त्_१५. समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् / गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् अभ्त्_१५. गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् / दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् अभ्त्_१५. श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् / शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् अभ्त्_१५. संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् / रागं द्वेषमसूयां च संकोचेर्ष्याभिमानिताः अभ्त्_१५. समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् / पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् अभ्त्_१५. राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत् / शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः अभ्त्_१५. साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः / लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् अभ्त्_१५. कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः / पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले अभ्त्_१५. देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् / अनिवेदितमेतेभ्यो न किंचिदपि भक्षयेत् अभ्त्_१५. एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत् / स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् अभ्त्_१५. न योनिसंबन्धकृतो लौकिकः स पशुर्यतः / तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये अभ्त्_१५. अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः / गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत् अभ्त्_१५. नच तां शृणुयान्नैनं कोपयेन्नाग्रतो@स्य च / विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते अभ्त्_१५. लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम् / गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् अभ्त्_१५. नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किंतु वन्दयेत् / श्रीमत्त्रैशिरसे@प्युक्तं कृच्छ्रचान्द्रायणादिभिः अभ्त्_१५. अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतो@पि सन् / नियमस्थो यमस्थो@पि तत्पदं नाश्नुते परम् अभ्त्_१५. गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा / प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् अभ्त्_१५. हिमपातैर्यथा भूमिश्छादिता सा समन्ततः / मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा अभ्त्_१५. यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते / गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते अभ्त्_१५. सर्वतो@वस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा / सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् अभ्त्_१५. श्रीसारे@प्यस्य संभाषात्पातकं नश्यति क्षणात् / तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः अभ्त्_१५. शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु / स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः अभ्त्_१५. तेन तुष्टेन तृप्यन्ति देवाः पितर एवच / उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् अभ्त्_१५. भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः / इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् अभ्त्_१५. भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः / यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् अभ्त्_१५. तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते / सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् अभ्त्_१५. शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् / स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः अभ्त्_१५. अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः / तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः अभ्त्_१५. निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः / स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव अभ्त्_१५. वेश्याः पूज्यास्तद्गृहं च प्रयागो@त्र यजेत्क्रमम् / स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते अभ्त्_१५. अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः / वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् अभ्त्_१५. वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् / देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु अभ्त्_१५. सर्वपर्वसु सामान्यविशेषेषु विशेषतः / पूजा गुरोरनध्यायो मेलके लोभवर्जनम् अभ्त्_१५. न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन / न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा अभ्त्_१५. उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् / विजातीयविकल्पांशोत्पुंसनाय यतेत च अभ्त्_१५. गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः / अर्चातो@न्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः अभ्त्_१५. आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि / हरत्यर्धशरीरं तदित्यूचे भगवान्यतः अभ्त्_१५. श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै / प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः अभ्त्_१५. श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च / गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह अभ्त्_१५. जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत् / नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ अभ्त्_१५. ततो@पि मध्ये वर्षस्य ततो@पि हि पवित्रके / अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो अभ्त्_१५. अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् / गृहोपस्करणास्त्राणि दवतायागयोगतः अभ्त्_१५. अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत् / गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् अभ्त्_१५. दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम् / उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः अभ्त्_१५. न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् / सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् अभ्त्_१५. उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् / वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा अभ्त्_१५. अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् / एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् अभ्त्_१५. प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् / श्रीमदूर्मौ च कथितमागमान्तरसेवके अभ्त्_१५. गुर्वन्तररते मूढे देवद्रव्योपजीवके / शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् अभ्त्_१५. न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् / उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् अभ्त्_१५. शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् / नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् अभ्त्_१५. सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च / नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् अभ्त्_१५. मेलकार्धनिशाचर्या जनवर्जं च तन्नहि / मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ अभ्त्_१५. गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् / शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः अभ्त्_१५. अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् / मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् अभ्त्_१५. समयानां विलोपे च गुरुं पृच्छेदसन्निधौ / तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ अभ्त्_१५. तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः / यतः शास्त्रादिसंबोधतन्मयीकृतमानसः अभ्त्_१५. शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् / शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः अभ्त्_१५. ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः / गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् अभ्त्_१५. तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम् / अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् अभ्त्_१५. नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः / ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् अभ्त्_१५. भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् / तादृक् च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् अभ्त्_१५. मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरून् / तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् अभ्त्_१५. गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते / कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् अभ्त्_१५. येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः / श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् अभ्त्_१५. यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः / तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत् क्वचित् अभ्त्_१५. न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् / केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः अभ्त्_१५. श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः / अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा अभ्त्_१५. न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल / तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् अभ्त्_१५. अतत्त्वे@भिनिवेशं च न कुर्यात्पक्षपाततः / जातिविद्याकुलाचारदेहदेशगुणार्थजान् अभ्त्_१५. ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान् / तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् अभ्त्_१५. ब्राह्मणो@हं मया वेदशास्त्रोक्तादपरं कथम् / अनुष्ठेयमयं जातिग्रहः परनिरोधकः अभ्त्_१५. एवमन्ये@प्युदाहार्याः कुलगह्वरवर्त्मना / अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशे@पि यः अभ्त्_१५. स्वरूपाच्छादकः सो@त्र ग्रहो ग्रह इवोदितः / संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना अभ्त्_१५. रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् / या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः अभ्त्_१५. संकोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् / श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना अभ्त्_१५. निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् / देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् अभ्त्_१५. द्विजान्त्यजैः समं कार्या चर्चान्ते@पि मरीचयः / अविकारकृतस्तेन विकल्पान्निरयो भवेत् अभ्त्_१५. सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् / श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् अभ्त्_१५. शरीरमेवायतनं नान्यदायतनं व्रजेत् / तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् अभ्त्_१५. विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् / समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते अभ्त्_१५. इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् / मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित् अभ्त्_१५. इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् / नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् अभ्त्_१५. तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः / अवयश्पालनीयत्वात्परत्त्वेन संगमात् अभ्त्_१५. ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः / एवं संश्राव्य समयान्देवं संपूज्य दैशिकः अभ्त्_१५. विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् / यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् अभ्त्_१५. तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् / आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः अभ्त्_१५. मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम् / इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् अभ्त्_१५. अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितो @त्र विधिः / यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् / गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः अभ्त्_१६. तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् / सामुदायिकयागे@थ तथान्यत्र यथोदितम् अभ्त्_१६. षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया / चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते अभ्त्_१६. द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते / असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः अभ्त्_१६. तस्माद्यथातथा यागं यावच्चक्रेण संमितम् / पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् अभ्त्_१६. त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः / मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् अभ्त्_१६. वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते / आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् अभ्त्_१६. कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रे@त्र देवताः / बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः अभ्त्_१६. मण्डलस्य पुरोभागे तदैशानदिशः क्रमात् / आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् अभ्त्_१६. गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः / इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः अभ्त्_१६. तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् / पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् अभ्त्_१६. शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् / मध्यशूले मध्यगः स्यात्सद्भावः परया सह अभ्त्_१६. वामे चापरया साकं नवात्मा दक्षगं परम् / त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः अभ्त्_१६. स्यात्परापरया साकं दक्षे भैरवसत्परे / वामे त्रिशूले मध्यस्थो नवात्मापरया सह अभ्त्_१६. स्यात्परे परया साकं वामारे संश्च भैरवः / इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति अभ्त्_१६. यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः / एकशूले@प्यतो यागे चिन्तयेत्तदधिष्ठितम् अभ्त्_१६. अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् / ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः अभ्त्_१६. लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् / परत्वेन च सर्वासां देवतानां प्रपूजयेत् अभ्त्_१६. श्रीमन्तं मातृसद्भावभट्टारकमनामयम् / ततो@पि भोगयागेन विद्याङ्गं भैरवाष्टकम् अभ्त्_१६. यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः / लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः अभ्त्_१६. पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः / ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् अभ्त्_१६. पञ्चानामनुसन्धानं कुर्यादद्वयभावनात् / ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् अभ्त्_१६. मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि / स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः अभ्त्_१६. प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते / वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः अभ्त्_१६. मूलानुसन्धानबलात्प्राणतन्तूम्भने सति / इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते अभ्त्_१६. ततो विशेषपूजां च कुर्यादद्वयभाविताम् / यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् अभ्त्_१६. तेनार्घपुष्पगन्धादेरासवस्य पशोरथ / या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः अभ्त्_१६. निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् / सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् अभ्त्_१६. दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः / निर्वापितो वीरपशुः सो@ष्टधोत्तरतोत्तमः अभ्त्_१६. यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन / शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति अभ्त्_१६. यस्तु दीक्षाविहीनो@पि शिवेच्छाविधिचोदितः / भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः अभ्त्_१६. दृष्टो@वलोकितश्चैव किरणेद्धदृगर्पणात् / प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः अभ्त्_१६. संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः / प्रालब्ध उक्तत्रितयसंस्कृतः सो@पि धूनयेत् अभ्त्_१६. कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् / उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः अभ्त्_१६. योजितः कारणत्यागक्रमेण शिवयोजनात् / निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् अभ्त्_१६. दक्षिणेनाग्निना सौम्यकलाजालविलापनात् / तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् अभ्त्_१६. तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत् / पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् अभ्त्_१६. नाभिचक्रे@थ विश्राम्येत्प्राणरश्मिगणैः सह / परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् अभ्त्_१६. स्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम् / ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि अभ्त्_१६. समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् / उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् अभ्त्_१६. तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् / कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः अभ्त्_१६. वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः / हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् अभ्त्_१६. शुद्धसोमात्मकं सारमीषल्लोहितपीतलम् / आदाय करिहस्ताग्रसदृशे प्राणविग्रहे अभ्त्_१६. निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् / आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे अभ्त्_१६. स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् / अनेन विधिना सर्वान्रसरक्तादिकांस्तथा अभ्त्_१६. धातून्समाहरेत्संघक्रमादेकैकशो@थवा / केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् अभ्त्_१६. ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् / जीवं समरसीकुर्याद्देवीचक्रेण भावनात् अभ्त्_१६. तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा / अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् अभ्त्_१६. पिण्डो रक्तादिसारौघचालनाकर्षणादिषु / इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति अभ्त्_१६. आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् / कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः अभ्त्_१६. यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् / निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् अभ्त्_१६. परोक्षे@पि पशावेवं विधिः स्याद्योजनं प्रति / प्रवेशितो यागभुवि हतस्तत्रैव साधितः अभ्त्_१६. चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते / यस्त्वन्यत्रापि निहतः सामस्त्येनांशतो@पिवा अभ्त्_१६. देवाय विनिवेद्येत स वै बाह्यपशुर्मतः / राज्यं लाभो@थ तत्स्थैर्यं शिवे भक्तिस्तदात्मता अभ्त्_१६. शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता / तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः अभ्त्_१६. पुष्पादयो@पि तल्लाभभागिनः शिवपूजया / एकोपायेन देवेशो विश्वानुग्रहणात्मकः अभ्त्_१६. यागेनैवानुगृह्णाति किं किं यन्न चराचरम् / तेनावीरो@पि शङ्कादियुक्तः कारुणिको@पिच अभ्त्_१६. न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् / पशोर्महोपकारो@यं तदात्वे@प्यप्रियं भवेत् अभ्त्_१६. व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् / श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः अभ्त्_१६. मलत्रयवियोगेन शरीरं न प्ररोहति / धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल अभ्त्_१६. तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी / रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् अभ्त्_१६. इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे / तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति अभ्त्_१६. निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः / षट्कृत्व इत्थं यः सो@त्र षड्जन्मा पशुरुत्तमः अभ्त्_१६. यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः / कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते अभ्त्_१६. उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् / समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् अभ्त्_१६. दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः / ततो मनुष्यतामेत्य पुनरेवं करोत्यपि अभ्त्_१६. इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् / चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते अभ्त्_१६. दात्रर्पितो@सौ तद्द्वारा याति सायुज्यतः शिवम् / इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् अभ्त्_१६. भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् / नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् अभ्त्_१६. तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् / तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना अभ्त्_१६. पशोर्वपामेदसी च गालिते वह्निमध्यतः / अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् अभ्त्_१६. हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् / कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा अभ्त्_१६. ततो@ग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः / तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् अभ्त्_१६. गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर / साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा अभ्त्_१६. अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः / तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् अभ्त्_१६. समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः / एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् अभ्त्_१६. शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् / स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया अभ्त्_१६. ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् / अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये अभ्त्_१६. तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् / गर्भावरणगानङ्गपरिवारासनोज्झितान् अभ्त्_१६. आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् / कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः अभ्त्_१६. मण्डलस्थो@हमेवायं साक्षी चाखिलकर्मणाम् / शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया अभ्त्_१६. होमाधिकरणत्वेन वह्नावहमवस्थितः / यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् अभ्त्_१६. सामान्यतेजोरूपान्तराहूता भुवनेश्वराः / तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते अभ्त्_१६. आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये / सामान्यरूपता येन विशेषाप्यायकारिणी अभ्त्_१६. शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये / स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते अभ्त्_१६. साक्षात्स्वदेहसंस्थो@हं कर्तानुग्रहकर्मणाम् / ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः अभ्त्_१६. भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् / एको यथाहं वह्न्यादिषड्रूपो@स्मि तथा स्फुटम् अभ्त्_१६. एवमालोच्य येनैषो@ध्वना दीक्षां चिकीर्षति / अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् अभ्त्_१६. अनुसन्धिबलान्ते च समासव्यासभेदतः / कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् अभ्त्_१६. ततो@पि चिन्तया भूयो@नुसन्दध्याच्छिवात्मताम् / अहमेव परं तत्त्वं नच पद्धटवत् क्वचित् अभ्त्_१६. महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् / नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् अभ्त्_१६. कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् / इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः अभ्त्_१६. मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते / तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् अभ्त्_१६. यथायोगोलको याति गुरुरेवं शिवात्मताम् / ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् अभ्त्_१६. परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते / शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् अभ्त्_१६. येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः / तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः अभ्त्_१६. शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् / न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः अभ्त्_१६. क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः / स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः अभ्त्_१६. अपरं परापरं च परं च विधिमिच्छया / तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः अभ्त्_१६. ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके / वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः अभ्त्_१६. क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते / तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले अभ्त्_१६. धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् / रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले अभ्त्_१६. पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् / अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् अभ्त्_१६. सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले / प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः अभ्त्_१६. शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् / सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् अभ्त्_१६. जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः / द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः अभ्त्_१६. जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये / तच्चतुर्विंशत्याधिक्यात्परो@प्यष्टशते विधिः अभ्त्_१६. त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् / मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया अभ्त्_१६. नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया / न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् अभ्त्_१६. कलापञ्चकवेदाण्डन्यासो@नेनैव लक्षितः / उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् अभ्त्_१६. द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः / द्वासप्ततिर्दश द्वे च देहस्थं शिरसो@न्ततः अभ्त्_१६. पादादारभ्य सुश्रोणि अनाहतपदावधि / देहातीते@पि विश्रान्त्या संवित्तेः कल्पनावशात् अभ्त्_१६. देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् / इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् अभ्त्_१६. पुरन्यासो@थ गुल्फान्तं भूः पुराण्यत्र षोडश / तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः अभ्त्_१६. द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु / देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः अभ्त्_१६. इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् / षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश अभ्त्_१६. ततो@प्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये / चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले अभ्त्_१६. सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले / क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् अभ्त्_१६. संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् / शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता अभ्त्_१६. श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना / उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये अभ्त्_१६. असारत्वात्क्रमस्यादौ नियतिः परतः कला / अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता अभ्त्_१६. एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये / कालस्य पूर्वं विन्यासो नियतेरभिधीयते अभ्त्_१६. अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते / एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले अभ्त्_१६. ततो@प्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् / प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये अभ्त्_१६. इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि / पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् अभ्त्_१६. द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले / तत ऐशपुराण्यष्टौ चतुष्के@र्धाङ्गुलक्रमात् अभ्त्_१६. ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये / सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ अभ्त्_१६. षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः / वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः अभ्त्_१६. अष्टादशाधिकशतं पुराणि देहे@त्र चतुरशीतिमिते / विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् अभ्त्_१६. इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने / अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् अभ्त्_१६. लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य / अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः अभ्त्_१६. अपरादिविधित्रैतादथ न्यासः पदाध्वनः / पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा अभ्त्_१६. तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना / तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली अभ्त्_१६. तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा / स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् अभ्त्_१६. न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् / चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ अभ्त्_१६. दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु / धरापदान्नवपदीं मातृकामालिनीगताम् अभ्त्_१६. योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् / धरापदं वर्जयित्वा पञ्च यानि पदानि तु अभ्त्_१६. विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् / मन्त्राध्वनो@प्येष एव विधिर्विन्यासयोजने अभ्त्_१६. व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा / वर्णाध्वनो@थ विन्यासः कथ्यते@त्र विधित्रये अभ्त्_१६. एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् / त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु अभ्त्_१६. प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः / मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः अभ्त्_१६. वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन् / तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् अभ्त्_१६. श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् / अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् अभ्त्_१६. द्विविधो@पि हि वर्णानां षड्विधो भेद उच्यते / तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः अभ्त्_१६. उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु / भूयो@तिदिष्टं तत्रैव शास्त्रे@स्मद्धृदयेश्वरे अभ्त्_१६. पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः / त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना अभ्त्_१६. उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते / चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ अभ्त्_१६. निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका / द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् अभ्त्_१६. क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् / चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते अभ्त्_१६. कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् / एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा अभ्त्_१६. न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् / अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः अभ्त्_१६. शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा / एकवीरतया यद्वा षट्कं यामलयोगतः अभ्त्_१६. पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा / एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका अभ्त्_१६. षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः / द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका अभ्त्_१६. अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् / मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः अभ्त्_१६. एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः / एकवीरतया सो@यं चतुर्दशतया स्थितः अभ्त्_१६. अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् / देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् अभ्त्_१६. इत्थं शोधकवर्गो@यं मन्त्राणां सप्ततिः स्मृता / षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते अभ्त्_१६. अघोराद्यष्टकेनेह शोधनीयं विपश्चिता / अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् अभ्त्_१६. भैरवीयहृदा वापि खेचरीहृदयेन वा / भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः अभ्त्_१६. येन येन हि मन्त्रेण तन्त्रे@स्मिन्नुद्भवः कृतः / तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी अभ्त्_१६. एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः / शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् अभ्त्_१६. तदा सप्ततिधा ज्ञेया जननादिविवर्जिता / शोध्यभेदो@थ वक्तव्यः संक्षेपात्सो@पि कथ्यते अभ्त्_१६. एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः / पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् अभ्त्_१६. एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् / शोध्यशोधकभेदेन शतानि त्वेकविंशतिः अभ्त्_१६. अत्रापि न्यासयोगेन शोध्ये@ध्वनि तथाकृतेः / शतैकविंशतिभिदा जननाद्युज्झिता भवेत् अभ्त्_१६. जननादिमयी तावत्येवं शतदृशि श्रुतिः / स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः अभ्त्_१६. द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका / भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता अभ्त्_१६. अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् / द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि अभ्त्_१६. एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः / गुरुशिष्यक्रमात्सो@पि द्विधेत्येवं विभिद्यते अभ्त्_१६. प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः / तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः अभ्त्_१६. परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् / क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् अभ्त्_१६. अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते / अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् अभ्त्_१६. श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् / शिष्याणां च गुरोश्चोक्तमभिन्ने@पि क्रियादिके अभ्त्_१६. भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् / वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः अभ्त्_१६. तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः / भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः अभ्त्_१६. शुभानां कर्मणां चात्र सद्भावे भोगचित्रता / तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता अभ्त्_१६. भोगश्च सद्य+उत्क्रान्त्या देहेनैवाथ संगतः / तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः अभ्त्_१६. प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते / मोक्ष एको@पि बीजस्य समयाख्यस्य तादृशम् अभ्त्_१६. बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् / वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा अभ्त्_१६. सद्य+उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः / कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता अभ्त्_१६. दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् / उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् अभ्त्_१६. पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः / उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः अभ्त्_१६. एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः / हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये अभ्त्_१६. पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता / तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् अभ्त्_१६. पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या / अष्टौ शतानि दीक्षाभेदो@यं मालिनीतन्त्रे अभ्त्_१६. सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः / साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा अभ्त्_१६. द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता / पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् अभ्त्_१६. यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा / मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः अभ्त्_१६. शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा / दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा अभ्त्_१६. मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् / श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् अभ्त्_१६. भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः / भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा अभ्त्_१६. शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् / भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् अभ्त्_१६. कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् / अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा अभ्त्_१६. अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा / अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ अभ्त्_१६. अपवर्गे@पि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः / चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्ये@पि क्रमेण सन्धानात् अभ्त्_१६. तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति / तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः अभ्त्_१६. इत्थं क्रमसंवित्तौ मूढो@पि शिवात्मको भवति / क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् अभ्त्_१६. शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् / यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते अभ्त्_१६. शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता / मोक्षे@प्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः अभ्त्_१६. इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् / संस्कारशेषवर्तनजीवितमध्ये@स्य समयलोपाद्यम् अभ्त्_१६. नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् / यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये अभ्त्_१६. भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् / इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे अभ्त्_१६. समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः अभ्त्_१६. तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् / क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षे@पि युक्तमतिविततम् अभ्त्_१६. यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः / अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् अभ्त्_१६. एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् / शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः अभ्त्_१६. द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा / कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये अभ्त्_१६. वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः / मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः अभ्त्_१६. उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् / बाढमेको हि पाशात्मा शब्दो@न्यश्च शिवात्मकः अभ्त्_१६. तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता / श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति अभ्त्_१६. सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च / षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः अभ्त्_१६. परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् / ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् अभ्त्_१६. पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् / एकं त्वशुद्धवित्कालद्वये चैकं नियामके अभ्त्_१६. कलामायाद्वये चैकं पदमुक्तमिह क्रमात् / विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् अभ्त्_१६. एकोनविंशतिः सेयं पदानां स्यात्परापरा / सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् अभ्त्_१६. त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः / एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः अभ्त्_१६. हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः / मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् अभ्त्_१६. शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः / मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते अभ्त्_१६. निष्कले शिवतत्त्वे वै परो न्यासः परोदितः / परापरापदान्येव ह्यघोर्याद्यष्टकद्वये अभ्त्_१६. मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् / पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः अभ्त्_१६. अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् / बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् अभ्त्_१६. पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे / अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः अभ्त्_१६. शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति / श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना अभ्त्_१६. अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते / देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः अभ्त्_१६. अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे / ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते अभ्त्_१६. मालिनीमातृकाङ्गस्य न्यासो यो@र्चाविधौ पुरा / प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु अभ्त्_१६. त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि / दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने अभ्त्_१६. अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् / अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे अभ्त्_१६. तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् / द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् अभ्त्_१६. केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः / तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि अभ्त्_१६. निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे / इत्यादिना तत्त्वगतक्रमन्यास उदीरितः अभ्त्_१६. पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः / द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः अभ्त्_१६. एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् / अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् अभ्त्_१६. द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् / द्वादशाङ्गुलमन्यच्च द्वे@न्ये पञ्चाङ्गुले पृथक् अभ्त्_१६. पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी / एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते अभ्त्_१६. विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् / इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् अभ्त्_१६. एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः / पाशजालं विलीयेत तद्ध्यानबलतो गुरोः अभ्त्_१६. शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः / जननाद्भोगतः कर्मक्षये स्यादपवृक्तता अभ्त्_१६. देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् / मनो@नुसन्धिर्नो विश्वसंयोगप्रविभागवत् अभ्त्_१६. नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् / नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता अभ्त्_१६. प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् / भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति अभ्त्_१६. यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् / योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा अभ्त्_१६. यथामलं मनो दूरस्थितमप्याशु पश्यति / तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् अभ्त्_१६. जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति / तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् अभ्त्_१६. यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः / जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् अभ्त्_१६. एकाकिशोद्धृन्यासे च जननादिविवर्जने / तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् अभ्त्_१६. द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् / तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः अभ्त्_१६. यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् / तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् अभ्त्_१६. विकल्पः किल संजल्पमयो यत्स विमर्शकः / मन्त्रात्मासौ विमर्शश्च शुद्धो@पाशवतात्मकः अभ्त्_१६. नित्यश्चानादिवरदशिवाभेदोपकल्पितः / तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् अभ्त्_१६. श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् / अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी अभ्त्_१६. सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ / परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता अभ्त्_१६. परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः / उक्तं श्रीपौष्करे@न्ये च ब्रह्मविष्ण्वादयो@ण्डगाः अभ्त्_१६. प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः / तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः अभ्त्_१६. वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने / ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः अभ्त्_१६. श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः / ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता अभ्त्_१६. प्राक्कुतः स विमर्शाच्चेत्कुतः सो@पि निरूपणे / आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः अभ्त्_१६. यः संक्रान्तो@भिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः / पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा अभ्त्_१६. संजल्पो ह्यभिसंक्रान्तः सो@द्याप्यस्तीति गृह्यताम् / यस्तथाविधसंजल्पबलात्को@पि स्वतन्त्रकः अभ्त्_१६. विमर्शः कल्प्यते सो@पि तदात्मैव सुनिश्चितः / घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते अभ्त्_१६. सो@प्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः / पणायते करोतीति विकल्पस्योचितौ स्फुटम् अभ्त्_१६. करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल / शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः अभ्त्_१६. व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी / तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् अभ्त्_१६. यावद्बालस्य संवित्तिरकृत्रिमविमर्शने / तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् अभ्त्_१६. शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः / यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् अभ्त्_१६. तत्तस्यैव कुतो@न्यस्य तत्कस्मादन्यकल्पना / एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् अभ्त्_१६. लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः / तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् अभ्त्_१६. ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् / मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् अभ्त्_१६. गुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ / तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् अभ्त्_१६. गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् / अंशेनाप्यथ वैषम्ये न ततो@र्थक्रिया हि सा अभ्त्_१६. गोमयात्कीटतः कीट इत्येवं न्यायतो यदा / संजल्पान्तरतो@प्यर्थक्रियां तामेव पश्यति अभ्त्_१६. तदैष सत्यसंजल्पः शिव एवेति कथ्यते / स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः अभ्त्_१६. नैषो@भिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः / यो@र्थक्रियामाह भिन्नां कीटयोरपि तादृशोः अभ्त्_१६. मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् / तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् अभ्त्_१६. कान्तासंभोगसंजल्पसुन्दरः कामुकः सदा / तत्संस्कृतो@प्यन्यदेष कुर्वन्स्वात्मनि तृप्यति अभ्त्_१६. तथा तन्मन्त्रसंजल्पभावितो@न्यदपि ब्रुवन् / अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् अभ्त्_१६. विकल्पयन्नप्येकार्थं यतो@न्यदपि पश्यति / विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने अभ्त्_१६. यदि वा विषनाशे@पि हेतुभेदाद्विचित्रता / धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति अभ्त्_१६. तदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः / भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः अभ्त्_१६. वस्त्वेव भावयत्येष न संजल्पमिमं पुनः / गृह्णाति भासनोपायं भाते तत्र तु तेन किम् अभ्त्_१६. एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् / अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् अभ्त्_१६. निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् / तत्तथैव तथात्मत्वाद्वस्तुनो@पि बहिःस्थितेः अभ्त्_१६. विशेषतस्त्वमायीयशिवताभेदशालिनः / मोक्षे@भ्युपायः संजल्पो बन्धमोक्षौ ततः किल अभ्त्_१६. विकल्पे@पि गुरोः सम्यगभिन्नशिवताजुषः / अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते अभ्त्_१६. तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता / महासंवित्समासन्नेत्युक्तं श्रीगमशासने अभ्त्_१६. निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् / सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् अभ्त्_१६. उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते / मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल अभ्त्_१६. योगमेकत्वमिच्छन्ति वस्तुनो@न्येन वस्तुना / तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये अभ्त्_१६. तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् / सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् अभ्त्_१६. न चाधिकारिता दीक्षां विना योगे@स्ति शाङ्करे / क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते अभ्त्_१६. द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् / नच योगाधिकारित्वमेकमेवानया भवेत् अभ्त्_१६. अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया / अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये अभ्त्_१६. मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः / मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् अभ्त्_१६. तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् / तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् अभ्त्_१६. तत्स्यादस्यान्यतत्त्वे@पि युक्तस्य गुरुणा शिशोः / दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः अभ्त्_१६. स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः / तेन विज्ञानयोगादिबली प्राक् समयी भवन् अभ्त्_१६. पुत्रको वा न तावान्स्यादपितु स्वबलोचितः / यस्तु विज्ञानयोगादिवन्ध्यः सो@न्धो यथा पथि अभ्त्_१६. दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा / दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् अभ्त्_१६. मोचिकैवेति कथितं युक्त्या चागमतः पुरा / यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः अभ्त्_१६. स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः / सो@पि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते अभ्त्_१६. गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः / दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् अभ्त्_१६. कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् / यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः अभ्त्_१६. त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि / तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः अभ्त्_१६. कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः / ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः अभ्त्_१६. गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् / यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् अभ्त्_१६. स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् / शुभपाकक्रमोपात्तफलभोगसमाप्तितः अभ्त्_१६. यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते / भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् अभ्त्_१६. अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः / भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः अभ्त्_१६. न दुःखफलदं देहाद्यध्वमध्ये@पि किंचन / ततो मायालये भुक्तसमस्तसुखभोगकः अभ्त्_१६. निष्कले सकले वैति लयं योजनिकाबलात् / इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा अभ्त्_१६. अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे / एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु अभ्त्_१७. गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् / कर्ममायाणुमलिनत्रयं बाहौ गले तथा अभ्त्_१७. शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः / तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते अभ्त्_१७. इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् / बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः अभ्त्_१७. अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता / नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् अभ्त्_१७. वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् / तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः अभ्त्_१७. श्रुत्यन्ते के@प्यतः शुक्लकृष्णरक्तं प्रपेदिरे / ततो@ग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके अभ्त्_१७. सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् / तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा अभ्त्_१७. इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् / तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् अभ्त्_१७. मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् / आवाहने मातृकार्णं मालिन्यर्णं च पूजने अभ्त्_१७. कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् / तारो वर्णो@थ संबुद्धिपदं त्वामित्यतः परम् अभ्त्_१७. उत्तमैकयुतं कर्मपदं दीपकमप्यतः / तभ्यं नाम चतुर्थ्यन्तं ततो@प्युचितदीपकम् अभ्त्_१७. इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् / आवाहनानन्तरं हि कर्म सर्वं निगद्यते अभ्त्_१७. आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः / भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता अभ्त्_१७. शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता / अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः अभ्त्_१७. जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः / आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः अभ्त्_१७. नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् / ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः अभ्त्_१७. ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः / आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् अभ्त्_१७. अनेनैव पथानेयमित्यस्मद्गुरवो जगुः / परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् अभ्त्_१७. अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् / तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् अभ्त्_१७. तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता / संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् अभ्त्_१७. प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता / संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् अभ्त्_१७. स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् / देवमावाहयामीति ततो देवाय दीपकम् अभ्त्_१७. प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् / नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् अभ्त्_१७. आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् / तत्र बाह्ये@पि तादात्म्यप्रसिद्धं कर्म चोद्यते अभ्त्_१७. यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् / अनाभासिततद्वस्तुभासनाय नियुज्यते अभ्त्_१७. मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् / तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् अभ्त्_१७. तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् / बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् अभ्त्_१७. तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु / यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः अभ्त्_१७. अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव / ततः शिष्यस्य तत्तत्त्वस्थाने@स्त्रेण प्रताडनम् अभ्त्_१७. कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् / ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः अभ्त्_१७. शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा / पुटितं हंसरूपाख्यं तत्र संहारमुद्रया अभ्त्_१७. कुर्यादात्मीयहृदयस्थितमप्यवभासकम् / शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः अभ्त्_१७. स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः / स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति अभ्त्_१७. तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः / मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् अभ्त्_१७. तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः / गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् अभ्त्_१७. जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया / ततो@स्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् अभ्त्_१७. ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् / संस्काराणां चतुष्के@स्मिन्नपरां च परापराम् अभ्त्_१७. मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् / पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा अभ्त्_१७. इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ / अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ अभ्त्_१७. गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च / स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः अभ्त्_१७. परं परापरामन्त्रममुकात्मन इत्यथ / जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् अभ्त्_१७. अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः / उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ अभ्त्_१७. भोगे लयं करोमीति पुनर्मन्त्रं तमेव च / स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः अभ्त्_१७. एष एव वमन्यादौ विधिः पञ्चदशान्तके / पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ अभ्त्_१७. पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः / हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रो@प्यथाहुतीः अभ्त्_१७. संस्काराणां चतुष्के@स्मिन्ये मन्त्राः कथिता मया / तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् अभ्त्_१७. ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च / शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् अभ्त्_१७. तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया / प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् अभ्त्_१७. ततो यदि समीहेत धरातत्त्वान्तरालगम् / पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् अभ्त्_१७. अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः / दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः अभ्त्_१७. एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः / तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतो@पिवा अभ्त्_१७. ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया / अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् अभ्त्_१७. यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् / न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् अभ्त्_१७. तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् / तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः अभ्त्_१७. सकर्मपदया दद्यादिति केचित्तु मन्वते / अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् अभ्त्_१७. नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः / दद्याद्वा यदि नो दोषः स्यादुपायः स भावने अभ्त्_१७. एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः / ततः शिष्यहृदं नेयः स आत्मा तावतो@ध्वनः अभ्त्_१७. शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः / महापाशुपतं पूर्वं विलोमस्य विशुद्धये अभ्त्_१७. जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् / पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् अभ्त्_१७. धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा / भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् अभ्त्_१७. तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् / सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् अभ्त्_१७. पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे / कर्मक्षये@पि नो मुक्तिर्भवेद्विद्येश्वरादिवत् अभ्त्_१७. ततो@पि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके / आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् अभ्त्_१७. एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् / छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका अभ्त्_१७. कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् / पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् अभ्त्_१७. मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा / व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः अभ्त्_१७. प्लुष्टो लीनस्वभावो@सौ पाशस्तं प्रति शम्भुवत् / परमेशमहातेजःशेषमात्रत्वमश्नुते अभ्त्_१७. कर्मपाशे@त्र होतव्ये पूर्णयास्य शुभाशुभम् / अशुभं वा भवद्भूतं भावि वाथ समस्तकम् अभ्त्_१७. दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् / एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् अभ्त्_१७. पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् / दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः अभ्त्_१७. निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् / पूर्णां समयपाशाख्यबीजदाहपदान्विताम् अभ्त्_१७. गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ / समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् अभ्त्_१७. मायान्ते शुद्धिमायाते वागीशी या पुराभवत् / माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते अभ्त्_१७. तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् / एवं क्रमेण संशुद्धे सदाशिवपदे@प्यलम् अभ्त्_१७. शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् / यतो@धिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे अभ्त्_१७. इत्युक्त्याणवपाशो@त्र मायीयस्तु निशावधिः / शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् अभ्त्_१७. आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले / ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् अभ्त्_१७. शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् / कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् अभ्त्_१७. उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः / प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् अभ्त्_१७. तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् / शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् अभ्त्_१७. ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् / द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु अभ्त्_१७. उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् / मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् अभ्त्_१७. जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् / शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् अभ्त्_१७. तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु / शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः अभ्त्_१७. आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः / जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः अभ्त्_१७. मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् / खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते अभ्त्_१७. उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा / कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् अभ्त्_१७. शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् / एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः अभ्त्_१७. तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् / तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् अभ्त्_१७. एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना / न भूयः पशुतामेति दग्धमायानिबन्धनः अभ्त्_१७. देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् / भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् अभ्त्_१७. तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः / पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु अभ्त्_१७. मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता / दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा अभ्त्_१७. बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः / कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये अभ्त्_१७. निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् / कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् अभ्त्_१७. इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा / श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले अभ्त्_१७. तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् / तुटिमात्रं निष्कलं तददेहं तदहंपरम् अभ्त्_१७. शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् / सबीजायां तु दीक्षायां समयान्न विशोधयेत् अभ्त्_१७. विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः / शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया अभ्त्_१७. अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् / पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् अभ्त्_१७. विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् / तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः अभ्त्_१७. पृथिवी स्थिररूपास्य शिवरूपेण भाविता / स्थिरीकरोति तामेव भावनामिति शुद्ध्यति अभ्त्_१७. जलमाप्याययत्येनां तेजो भास्वरतां नयेत् / मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् अभ्त्_१७. एवं तन्मात्रवर्गो@पि शिवतामय इष्यते / परानन्दमहाव्याप्तिरशेषमलविच्युतिः अभ्त्_१७. शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः / शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् अभ्त्_१७. तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता / संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती अभ्त्_१७. शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके / नियमो रञ्जनं कर्तृभावः कलनया सह अभ्त्_१७. वेदनं हेयवस्त्वंशविषये सुप्तकल्पता / इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणो@प्ययम् अभ्त्_१७. शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति / विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता अभ्त्_१७. इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्यो@पि तन्मयः / भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे अभ्त्_१७. बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः / निगृहीतानि बन्धाय विमुक्तानि विमुक्तये अभ्त्_१७. एतानि व्यापके भावे यदा स्युर्मनसा सह / मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु अभ्त्_१७. इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः / इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते अभ्त्_१७. श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने / समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते अभ्त्_१७. मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा / द्व्यात्मया सकलान्ते तु निष्कले परयैव तु अभ्त्_१७. ईशान्ते च पिवन्यादि सकलान्ते@ङ्गपञ्चकम् / इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः अभ्त्_१७. पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः / तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् अभ्त्_१७. क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् / यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः अभ्त्_१७. प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके / एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् अभ्त्_१७. विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः / तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन अभ्त्_१७. इत्येषा कथिता दीक्षा जननादिसमन्विता अभ्त्_१७. अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते / न रजो नाधिवासो@त्र न भूक्षेत्रपरिग्रहः / यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् अभ्त्_१८. अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः / जननादिविहीनां तु येन येनाध्वना गुरुः अभ्त्_१८. कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः / परामन्त्रस्ततो@स्येति तत्त्वं संशोधयाम्यथ अभ्त्_१८. स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् / एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् अभ्त्_१८. परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् / शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् अभ्त्_१८. ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् / दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना अभ्त्_१८. प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् / यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः अभ्त्_१८. यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः / गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा अभ्त्_१८. श्रीब्रह्मयामले चोक्तं संक्षिप्ते@पि हि भावयेत् / व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः अभ्त्_१८. अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् / क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् अभ्त्_१८. संक्षिप्तो विधिरुक्तो@यं कृपया यः शिवोदितः / दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने अभ्त्_१८. अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते / तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् / इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना अभ्त्_१९. देहपाते समीपस्थे शक्तिपातस्फुटत्वतः / आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् अभ्त्_१९. शिवं व्रजेदित्यर्थो@त्र पूर्वापरविवेचनात् / व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना अभ्त्_१९. यदा ह्यासन्नमरणे शक्तिपातः प्रजायते / तत्र मन्दे@थ गुर्वादिसेवयायुः क्षयं व्रजेत् अभ्त्_१९. अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् / पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् अभ्त्_१९. आप्तदीक्षो@पि वा प्राणाञ्जिहासुः क्लेशवर्जितम् / अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् अभ्त्_१९. नत्वपक्वमले नापि शेषकार्मिकविग्रहे / कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् अभ्त्_१९. दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् / उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् अभ्त्_१९. विशेषणविशेष्यत्वे कामचारविधानतः / पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् अभ्त्_१९. विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः / क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् अभ्त्_१९. कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् / संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु अभ्त्_१९. आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् / पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् अभ्त्_१९. तमुत्कृष्य ततो@ङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया / कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् अभ्त्_१९. अनेन क्रमयोगेन योजितो हुतिवर्जितः / समय्यप्येति तां दीक्षामिति श्रीमालिनीमते अभ्त्_१९. षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् / क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् अभ्त्_१९. प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् / पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् अभ्त्_१९. ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् / चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् अभ्त्_१९. दीपनं ताडनं तोदं चलनं च पुनः पुनः / कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे अभ्त्_१९. द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् / निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः अभ्त्_१९. न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे / देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः अभ्त्_१९. श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः / हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः अभ्त्_१९. शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् / उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् अभ्त्_१९. एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते / इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः अभ्त्_१९. अनभ्यस्तप्राणचारः कथमेनां करिष्यति / वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् अभ्त्_१९. कर्णे@स्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् / स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः अभ्त्_१९. मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे / योगाभ्यासमकृत्वापि सद्य+उत्क्रान्तिदां गुरुः अभ्त्_१९. ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः / अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् अभ्त्_१९. कालस्योल्लङ्घ्य भोगो हि क्षणिको@स्यास्तु किं ततः / सद्य+उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा अभ्त्_१९. दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः / विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः अभ्त्_१९. कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः / निःसारयन्यथाभीष्टे सकले निष्कले द्वये अभ्त्_१९. तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् / समयी पुत्रको वापि पठेद्विद्यामिमां तथा अभ्त्_१९. तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते / एतौ जपे चाध्ययने यस्मादधिकृतावुभौ अभ्त्_१९. नाध्यापनोपदेशे वा स एषो@ध्ययनादृते / पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः अभ्त्_१९. यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् / आविष्टे@पि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् अभ्त्_१९. यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि / न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः अभ्त्_१९. तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः / तस्मिन्मुक्ते न लुप्येत यतो किंचित्करो@त्र सः अभ्त्_१९. ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् अभ्त्_१९. हन्त कुड्याग्रतो@प्यस्य निषेधस्त्वथ कथ्यते / पर्युदासेन यः श्रोतुमवधारयितुं क्षमः अभ्त्_१९. स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः / तर्हि पाषाणतुल्यो@सौ विलीनेन्द्रियवृत्तिकः अभ्त्_१९. तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् / स तु वस्तुस्वभावेन गलिताक्षो@पि बुध्यते अभ्त्_१९. अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया / प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् अभ्त्_१९. मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः / मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् अभ्त्_१९. अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः / तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् अभ्त्_१९. स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः / यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः अभ्त्_१९. जवी तथात्मा संसुप्तामर्शो@प्येवं प्रबुध्यते / प्रबुद्धः स च संजातो न चादीक्षित उच्यते अभ्त्_१९. दीक्षा हि नाम संस्कारो न त्वन्यत्सो@स्ति चास्य हि / अत एव निजं शास्त्रं पठति क्वापि सामये अभ्त्_१९. तच्छ्रुत्वा को@पि धन्यश्चेन्मुच्यते नास्य सा क्षतिः / शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् अभ्त्_१९. इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति / यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् अभ्त्_१९. कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि / यतो@स्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा अभ्त्_१९. प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः / साधकस्तु सदा साध्ये फले नियतियन्त्रणात् अभ्त्_१९. मक्षिकाश्रुतमन्त्रो@पि प्रायश्चित्तौचितीं चरेत् / इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः अभ्त्_१९. समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये / स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः अभ्त्_१९. अकृताधिकृतिर्वापि गुरुः समयशुद्धये / अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः अभ्त्_१९. इतीयं सद्य+उत्क्रान्तिः सूचिता मालिनीमते / स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना अभ्त्_१९. सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि / तदा तेन क्रमेणाशु योजितः समयी शिवः अभ्त्_१९. उक्तेयं सद्य+उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः अभ्त्_१९. अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् अभ्त्_२०. त्रिकोणे वह्निसदने वह्निवर्णोज्ज्वले@भितः / वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले अभ्त्_२०. बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे / करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् अभ्त्_२०. वह्निदीपितफट्कारधोरणीदाहपीडितम् / बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् अभ्त्_२०. तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु / मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् अभ्त्_२०. दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् / स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् अभ्त्_२०. बीजस्याप्यत्र कार्या च योजना कृपया गुरोः / यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् अभ्त्_२०. यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि / ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता अभ्त्_२०. अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः / साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता अभ्त्_२०. निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते / ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति अभ्त्_२०. ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् / तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् अभ्त्_२०. यथा श्रीतन्त्रसद्भावे कथिता परमेशिना / श्रीपूर्वशास्त्रे@प्येषा च सूचिता परमेशिना अभ्त्_२०. आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी / इत्येवंवदता शक्तितारतम्याभिधायिना अभ्त्_२०. उद्भवो लघुभावेन देहग्रहतिरोहितेः / देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति अभ्त्_२०. भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् / कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः अभ्त्_२०. उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी / अभ्त्_२०. परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते अभ्त्_२१. भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति / इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः अभ्त्_२१. सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् / तमाराध्येति वचनं कृपाहेतूपलक्षणम् अभ्त्_२१. तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते / इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः अभ्त्_२१. तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् / किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् अभ्त्_२१. गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् / गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः अभ्त्_२१. अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः / प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः अभ्त्_२१. डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः / मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा अभ्त्_२१. भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतो@प्यलम् / बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः अभ्त्_२१. स्वयं तद्विषयोत्पन्नकरुणाबलतो@पि वा / विज्ञाततन्मुखायातशक्तिपातांशधर्मणः अभ्त्_२१. गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् / श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना अभ्त्_२१. अदीक्षिते नृपत्यादावलसे पतिते मृते / बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् अभ्त्_२१. विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते / गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः अभ्त्_२१. अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने / नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये अभ्त्_२१. मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् / भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् अभ्त्_२१. क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः / ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः अभ्त्_२१. तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा / एकादशैते कथिताः संनिधानाय हेतवः अभ्त्_२१. उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् / क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् अभ्त्_२१. एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति / मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले अभ्त्_२१. अनाहूते@पि दृष्टं सत्समयित्वप्रसाधनम् / तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् अभ्त्_२१. येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् / आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः अभ्त्_२१. शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः / कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ अभ्त्_२१. गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् / ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् अभ्त्_२१. प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् / महाजालप्रयोगेण सर्वस्मादध्वमध्यतः अभ्त्_२१. चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते / मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे / यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः अभ्त्_२१. एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततो@प्यध्वमध्याद्यथेष्टम् / आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीये@थ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः अभ्त्_२१. चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति / करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः अभ्त्_२१. महाजालसमाकृष्टो जीवो विज्ञानशालिना / स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति अभ्त्_२१. तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् / योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति अभ्त्_२१. स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः / त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा अभ्त्_२१. अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः / न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् अभ्त्_२१. तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा / भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् अभ्त्_२१. तद्देहसंस्थितो@प्येष जीवो जालबलादिमम् / दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् अभ्त्_२१. योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः / मनुष्यदेहमप्येष तदैवाशु विमुञ्चति अभ्त्_२१. सुप्तकल्पो@प्यदेहो@पि यो जीवः सो@पि जालतः / आकृष्टो दार्भमायाति देहं फलमयं च वा अभ्त्_२१. जातीफलादि यत्किंचित्तेन वा देहकल्पना / अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते अभ्त्_२१. ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः / मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः अभ्त्_२१. न स्पन्दते न जानाति न वक्ति न किलेच्छति / तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् अभ्त्_२१. निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् / विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् अभ्त्_२१. दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह / मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः अभ्त्_२१. सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः / तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् अभ्त्_२१. साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते / मृतोद्धारोदितैरेव यथासंभूति हेतुभिः अभ्त्_२१. जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा / तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः अभ्त्_२१. संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः / शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् अभ्त्_२१. पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् / जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते अभ्त्_२१. परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः / तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् अभ्त्_२१. भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा / कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः अभ्त्_२१. परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् / भोगानीप्सा दुर्लभा हि सती वा भोगहानये अभ्त्_२१. उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा / बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा अभ्त्_२१. श्रीमान् धर्मशिवो@प्याह पारोक्ष्यां कर्मपद्धतौ / परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि अभ्त्_२१. अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति / धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति अभ्त्_२१. विस्तरो घोररूपश्च महीं धावति चाप्यधः / ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः अभ्त्_२१. ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः / तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ अभ्त्_२१. नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः / अमुकस्येति पापानि दहाम्यनु फडष्टकम् अभ्त्_२१. इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः / अन्ते पूर्णा च दातव्या ततो@स्मै दीक्षया गुरुः अभ्त्_२१. परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् / प्रत्यक्षे@पि स्थितस्याणोः पापिनो भगवन्मयीम् अभ्त्_२१. शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् / यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा अभ्त्_२१. प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् / कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः अभ्त्_२१. सर्वथा वर्तमानो@पि तत्त्वविन्मोचयेत्पशून् / इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा अभ्त्_२१. शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः / न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् अभ्त्_२१. निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः / एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन अभ्त्_२१. लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् अभ्त्_२२. उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् / उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते अभ्त्_२२. योग्यतावशसंजाता यस्य यत्रैव शासना / स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ अभ्त्_२२. फलं सर्वं समासाद्य शिवे युक्तो@पवृज्यते / अयुक्तो@प्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः अभ्त्_२२. शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः / उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया अभ्त्_२२. कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा / अनेन क्रमयोगेन संप्राप्तः परमं पदम् अभ्त्_२२. न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति / अतो हि ध्वन्यते@र्थो@यं शिवतत्त्वाधरेष्वपि अभ्त्_२२. तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता / समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः अभ्त्_२२. शिवागमस्य सर्वेभ्यो@प्यागमेभ्यो विशिष्टता / शिवज्ञानेन च विना भूयो@पि पशुतोद्भवः अभ्त्_२२. क्रमश्च शक्तिसंपातो मलहानिर्यियासुता / दीक्षा बोधो हेयहानिरुपादेयलयात्मता अभ्त्_२२. भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः / स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः अभ्त्_२२. प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि / अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् अभ्त्_२२. यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् / लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् अभ्त्_२२. प्राग्लिङ्गान्तरसंस्थो@पि दीक्षातः शिवतां व्रजेत् / तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः अभ्त्_२२. स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् / एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया अभ्त्_२२. प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् / स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् अभ्त्_२२. अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् / एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् अभ्त्_२२. अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः / स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् अभ्त्_२२. पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् / ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् अभ्त्_२२. प्रणवो मातृका माया व्योमव्यापी षडक्षरः / बहुरूपो@थ नेत्राख्यः सप्त साधारणा अमी अभ्त्_२२. तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् / सो@प्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् अभ्त्_२२. मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते / वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् अभ्त्_२२. पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् / प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः अभ्त्_२२. शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा / प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् अभ्त्_२२. तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् / श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया अभ्त्_२२. ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः / क्षमयित्वा विसृज्यः स्यात्ततो@ग्नेश्च विसर्जनम् अभ्त्_२२. तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् / ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः अभ्त्_२२. अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः / प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता अभ्त्_२२. साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः / पुनर्भुवो@पि ज्ञानेद्धा भवन्ति गुरुतास्पदम् अभ्त्_२२. मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः / इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः अभ्त्_२२. श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः / गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् अभ्त्_२२. कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल / अन्यतन्त्राभिषिक्ते@पि रहस्यं न प्रकाशयेत् अभ्त्_२२. स्वतन्त्रस्थो@पि गुर्वन्तो गुरुमज्ञमुपाश्रितः / तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् अभ्त्_२२. अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् / जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् अभ्त्_२२. ततो@स्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् / अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा अभ्त्_२२. तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् / तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः अभ्त्_२२. दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः / प्राप्तो@पि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् अभ्त्_२२. विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् / सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् अभ्त्_२२. अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् / न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना अभ्त्_२२. अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् / सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि अभ्त्_२२. भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके / सिद्धवीरावलीसारे भैरवीये कुले@पि च अभ्त्_२२. पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता / तेन सर्वो@धरस्थो@पि लिङ्गोद्धृत्यानुगृह्यते अभ्त्_२२. यो@पि हृत्स्थमहेशानचोदनातः सुविस्तृतम् / शास्त्रज्ञानं समन्विच्छेत्सो@पि यायाद्बहून्गुरून् अभ्त्_२२. तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः / ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः अभ्त्_२२. उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा / आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् अभ्त्_२२. विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति / गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् अभ्त्_२२. प्राप्तं सो@स्य गुरुर्दीक्षा नात्र मुख्या हि संविदि / सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः अभ्त्_२२. तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः / इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः अभ्त्_२२. अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः अभ्त्_२३. यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि / सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् अभ्त्_२३. स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् / योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् अभ्त्_२३. यो नैवं वेद नैवासावभिषिक्तो@पि दैशिकः / समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते अभ्त्_२३. यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् / स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते अभ्त्_२३. सर्वलक्षणहीनो@पि ज्ञानवान् गुरुरिष्यते / ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे अभ्त्_२३. पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः / समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः अभ्त्_२३. न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना / अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः अभ्त्_२३. पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् / भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा अभ्त्_२३. कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले / पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः अभ्त्_२३. श्रीपूर्वशास्त्रे न त्वेष नियमः को@पि चोदितः / यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः अभ्त्_२३. यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् / योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् अभ्त्_२३. तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् / यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् अभ्त्_२३. यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् / देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् अभ्त्_२३. तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः / गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु अभ्त्_२३. कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे / अतो देशकुलाचारदेहलक्षणकल्पनाम् अभ्त्_२३. अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् / प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् अभ्त्_२३. ततो@भिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत् / तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः अभ्त्_२३. विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् / सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः अभ्त्_२३. अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः / उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः अभ्त्_२३. नपुंसकाः स्त्रियः शूद्रा ये चान्ये@पि तदर्थिनः / ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् अभ्त्_२३. ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् / दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता अभ्त्_२३. अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् / अभिषेकविधौ चास्मै करणीखटिकादिकम् अभ्त्_२३. सर्वोपकरणव्रातमर्पणीयं विपश्चिते / सो@भिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् अभ्त्_२३. ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो / दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः अभ्त्_२३. इत्येवं श्रावयेत्सो@पि नमस्कृत्याभिनन्दयेत् / ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः अभ्त्_२३. यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः / कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः अभ्त्_२३. सन्तानो नाधिकारस्य च्यवो@कुर्वन्न बाध्यते / प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते अभ्त्_२३. यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते / न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति अभ्त्_२३. न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः / यो@स्य स्यान्नरके वास इह च व्याधितो भवेत् अभ्त्_२३. प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् / सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः अभ्त्_२३. यदैव तन्मयीभूतस्तदा वीर्यमुपागतः / छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ अभ्त्_२३. हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा / लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा अभ्त्_२३. द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे / तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् अभ्त्_२३. चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् / यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् अभ्त्_२३. तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् / एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः अभ्त्_२३. मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् / अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् अभ्त्_२३. समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् / यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् अभ्त्_२३. तत्र तत्र महामन्त्र इति देव्याख्ययामले / विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये अभ्त्_२३. तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने / तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः अभ्त्_२३. प्रवर्तन्ते@धिकाराय करणानीव देहिनाम् / कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः अभ्त्_२३. कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन / रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः अभ्त्_२३. आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने / नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले अभ्त्_२३. चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये / देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् अभ्त्_२३. अविदन्दीक्षमाणो@पि न दुष्येद्दैशिकः क्वचित् / ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् अभ्त्_२३. बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः / भूय एव परीक्षेत तत्तदौचित्यशालिनम् अभ्त्_२३. तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् / ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः अभ्त्_२३. तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् / सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति अभ्त्_२३. विद्युद्वत्पापशीलस्य यथा पापापवर्जने / रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः अभ्त्_२३. अप्ररूढतथेच्छाकस्तत एव न भाजनम् / यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः अभ्त्_२३. लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् / अज्ञाते@पि पुनर्ज्ञाते विज्ञानहरणं चरेत् अभ्त्_२३. पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः / तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् अभ्त्_२३. ततो निजहृदम्भोजबोधाम्बरतलोदिताम् / स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् अभ्त्_२३. वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् / चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् अभ्त्_२३. अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः / विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् अभ्त्_२३. ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् / अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते अभ्त्_२३. उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् / तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः अभ्त्_२३. किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः / स्वभावादेव तेनास्य विद्याद्यमपकारकम् अभ्त्_२३. गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् / कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् अभ्त्_२३. अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये / योजनानुग्रहे कार्यचतुष्के@धिकृतो गुरुः अभ्त्_२३. शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् / तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः अभ्त्_२३. अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् / गुरोर्मूढतया कोपधामापि न तिरोहितः अभ्त्_२३. गुरुर्हि कुपितो यस्य स तिरोहित उच्यते / संसारी सतु देवो हि गुरुर्न च मृषाविदः अभ्त्_२३. तत एव च शास्त्रादिदूषको यद्यपि क्रुधा / न दह्यते@सौ गुरुणा तथाप्येष तिरोहितः अभ्त्_२३. अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ / न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा अभ्त्_२३. ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् / किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता अभ्त्_२३. शिवाभिन्नो@पि हि गुरुरनुग्रहमयीं विभोः / मुख्यां शक्तिमुपासीनो@नुगृह्णीयात्स सर्वथा अभ्त्_२३. स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् / न कार्यं पततां हस्तालम्बः सह्यो न पातनम् अभ्त्_२३. अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् / प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः अभ्त्_२३. ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् / अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् अभ्त्_२३. अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः / ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् अभ्त्_२३. राज्ञे द्रुह्यन्नमात्याङ्गभूतो@पि हि विहन्यते / विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् अभ्त्_२३. श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः / अत्र ह्यर्थो@यमेतावत्पूर्वोक्तज्ञानवृंहितः अभ्त्_२३. गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते / तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना अभ्त्_२३. अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः / अत एवाम्बुजन्मार्कदृष्टान्तो@त्र निरूपितः अभ्त्_२३. त्रिजगज्ज्योतिषो ह्यन्यत्तेजो@न्यच्च निशाकृतः / ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् अभ्त्_२३. अत एव पुराभूतगुर्वभावो यदा तदा / तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः अभ्त्_२३. सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् / स्यादन्यतरगो दोषो यो@धिकारापघातकः अभ्त्_२३. दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते / अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः अभ्त्_२३. शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता / मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः अभ्त्_२३. न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते / असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् अभ्त्_२३. एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् / नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति अभ्त्_२३. अज्ञानादय एवैते दोषा न लौकिका गुरोः / इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे अभ्त्_२३. न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् / स एव तद्विजानाति युक्तं चायुक्तमेव वा अभ्त्_२३. अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु / तदा निवारणीयो@सौ प्रणतेन विपश्चिता अभ्त्_२३. विशेषणमकार्याणामुक्ताभिप्रायमेव यत् / तेनातिवार्यमाणो@पि यद्यसौ न निवर्तते अभ्त्_२३. तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् / न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् अभ्त्_२३. कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः / तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् अभ्त्_२३. यतस्तदप्रियं नैष शृणुयादिति भाषितम् / श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः अभ्त्_२३. यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् / तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् अभ्त्_२३. उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् / शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् अभ्त्_२३. दृढानुरागसुभगसंरम्भाभोगभागिनः / स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते अभ्त्_२३. नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् / चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा अभ्त्_२३. भवेत्को@पि तिरोभूतः पुनरुन्मुखितो@पि सन् / विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते अभ्त्_२३. प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः / असंभाव्यतया चात्र दृढकोपप्रसादवत् अभ्त्_२३. इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः / अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् अभ्त्_२३. अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् / ते@र्धनारीशपुरगा गुरवः समयच्युताः अभ्त्_२३. अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् / अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः अभ्त्_२३. इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः / भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः अभ्त्_२३. षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः / एषा कर्मप्रधानानां गुरूणां गतिरुच्यते अभ्त्_२३. ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् / साधकस्याभिषेके@पि सर्वो@यं कथ्यते विधिः अभ्त्_२३. अधिकारार्पणं नात्र नच विद्याव्रतं किल / साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे अभ्त्_२३. समस्ते@प्युपदेशः स्यान्निजोपकरणार्पणम् / अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः अभ्त्_२३. अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् १ब् अभ्त्_२४. सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् / शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् अभ्त्_२४. ऊर्ध्वशासनगानां च समयोपहतात्मनाम् / अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना अभ्त्_२४. समयाचारदोषेषु प्रमादात्स्खलितस्य हि / अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने अभ्त्_२४. यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ / प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् अभ्त्_२४. श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते / अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् अभ्त्_२४. संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता / पूजाध्यानजपाप्लुष्टसमये नतु साधके अभ्त्_२४. पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये / आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति अभ्त्_२४. अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि / मन्त्रयोगादिभिर्ये च मारिता नरके तु ते अभ्त्_२४. कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना / न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ अभ्त्_२४. केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि / पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् अभ्त्_२४. संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् / तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः अभ्त्_२४. बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् / घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् अभ्त्_२४. सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः / ताडयेत कलाः सर्वाः कम्पते@सौ ततः पशुः अभ्त्_२४. उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे / प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः अभ्त्_२४. तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः / इत्यूचे परमेशः श्रीकुलगह्वरशासने अभ्त्_२४. साध्यो@नुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः / दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् अभ्त्_२४. तद्विधिः श्रुतिपत्रे@ब्जे मध्ये देवं सदाशिवम् / ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः अभ्त्_२४. पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् / ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् अभ्त्_२४. एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः / एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी अभ्त्_२४. पुर्यष्टकस्याभावे च न स्वर्गनरकादयः / तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि अभ्त्_२४. उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि / पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् अभ्त्_२४. शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् / क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे अभ्त्_२४. इत्युक्तो@न्त्येष्टियागो@यं परमेश्वरभाषितः अभ्त्_२४. अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते १ब् अभ्त्_२५. सिद्धातन्त्रे सूचितो@सौ मूर्तियागनिरूपणे / अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः अभ्त्_२५. त्र्यहे तुर्ये@ह्नि दशमे मासि मास्याद्यवत्सरे / वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् अभ्त्_२५. तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा / ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे अभ्त्_२५. गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् / ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः अभ्त्_२५. ततो@स्य यः पाशवों@शो भोग्यरूपस्तमर्पयेत् / भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् अभ्त्_२५. भोग्यतान्या तनुर्देह इति पाशात्मका मताः / श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः अभ्त्_२५. एकेनैव विधानेन यद्यपि स्यात्कृतार्थता / तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् अभ्त्_२५. बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि / हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् अभ्त्_२५. तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न को@प्ययम् / अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन अभ्त्_२५. तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् / तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् अभ्त्_२५. यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् / जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः अभ्त्_२५. पुत्रको@पि यदा कस्मैचन स्यादुपकारकः / तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः अभ्त्_२५. नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् / श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् अभ्त्_२५. तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये / स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् अभ्त्_२५. यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् / सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः अभ्त्_२५. श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितो@पि यः / प्रत्येति वैदिके भग्नघण्टावन्न स किंचन अभ्त्_२५. तथोक्तदेवपूजादिचक्रयागान्तकर्मणा / रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते अभ्त्_२५. अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् / या वाहयितुमिष्येत नाडी तामेव भावयेत् अभ्त्_२५. भावनातन्मयीभावे सा नाडी वहति स्फुटम् / यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना अभ्त्_२५. आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् / एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् अभ्त्_२५. कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना / शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः अभ्त्_२५. करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते / उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः अभ्त्_२५. उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् / उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् अभ्त्_२५. मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि / चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् अभ्त्_२५. प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः / सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल अभ्त्_२५. प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् / अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् अभ्त्_२५. मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु / इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता अभ्त्_२५. इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् / उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः अभ्त्_२५. अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी १ब् अभ्त्_२६. दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता / सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा अभ्त्_२६. तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी / अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका अभ्त्_२६. तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् / वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये अभ्त्_२६. बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः / प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता अभ्त्_२६. ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने / तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते अभ्त्_२६. आचार्यप्रत्ययादेव यो@पि स्याद्भुक्तिमुक्तिभाक् / तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् अभ्त्_२६. स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि / शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये अभ्त्_२६. यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् / प्रत्ययाद्यो@पि चाचार्यप्रत्ययादेव केवलात् अभ्त्_२६. तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये / क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ अभ्त्_२६. तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे / काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः अभ्त्_२६. तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे / गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् अभ्त्_२६. नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः / विशेषवशतः किंच पवित्रकविधिक्रमः अभ्त्_२६. आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता / व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् अभ्त्_२६. तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् / तद्योग्यतां समालोक्य वितताविततात्मनाम् अभ्त्_२६. मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् / दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् अभ्त्_२६. तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः / न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता अभ्त्_२६. साधकस्य बुभुक्षोस्तु साधकीभाविनो@पिवा / पुष्पपातवशात्सिद्धो मन्त्रो@र्प्यः साध्यसिद्धये अभ्त्_२६. वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः / ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् अभ्त्_२६. तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः / लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने अभ्त्_२६. मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच / गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ अभ्त्_२६. लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सो@त्र कल्पितः / संकेतबलतो नास्य पुस्तकात्प्रथते महः अभ्त्_२६. पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः / ये तु पुस्तकलब्धे@पि मन्त्रे वीर्यं प्रजानते अभ्त्_२६. ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति / इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः अभ्त्_२६. तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् / यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते अभ्त्_२६. तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः / देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः अभ्त्_२६. देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् / तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् अभ्त्_२६. अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् / ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् अभ्त्_२६. न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः / तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् अभ्त्_२६. कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् / आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये अभ्त्_२६. शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् / मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः अभ्त्_२६. देहासुधीव्योमभूषु मनसा तत्र चार्चनम् / जपं चात्र यथाशक्ति देवायैतन्निवेदनम् अभ्त्_२६. तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् / अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् अभ्त्_२६. सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् / यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी अभ्त्_२६. तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् / सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः अभ्त्_२६. कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः / सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः अभ्त्_२६. तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ / ततो यथेष्टकाले@सौ पूजां पुष्पासवादिभिः अभ्त्_२६. स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः / सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् अभ्त्_२६. अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः / तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः अभ्त्_२६. ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् / पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् अभ्त्_२६. ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् / बोधात्मकं समालोक्य तत्र स्वं देवतागणम् अभ्त्_२६. प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः / एतदावाहनं मुख्यं व्यजनान्मरुतामिव अभ्त्_२६. सर्वगो@पि मरुद्यद्वद्व्यजनेनोपजीवितः / अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् अभ्त्_२६. चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते / श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् अभ्त्_२६. देवः सर्वगतो देव निर्मर्यादः कथं शिवः / आवाह्यते क्षम्यते वेत्येवंपृष्टो@ब्रवीद्विभुः अभ्त्_२६. वासनावाह्यते देवि वासना च विसृज्यते / परमार्थेन देवस्य नावाहनविसर्जने अभ्त्_२६. आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः / पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् अभ्त्_२६. प्राणिनामप्रबुद्धानां सन्तोषजननाय वै / आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा अभ्त्_२६. कालेन तु विजानन्ति प्रवृत्ताः पतिशासने / अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् अभ्त्_२६. ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः / कुतो वानीयते देवः कुत्र वा नीयते@पि सः अभ्त्_२६. स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः / आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः अभ्त्_२६. धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः / दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः अभ्त्_२६. रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः / आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि अभ्त्_२६. हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना / यद्यदेवास्य मनसि विकासित्वं प्रयच्छति अभ्त्_२६. तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः / साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः अभ्त्_२६. मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः / कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् अभ्त्_२६. रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् / सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः अभ्त्_२६. देशकालानुसन्धानगुणद्रव्यक्रियादिभिः / स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः अभ्त्_२६. बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता / मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति अभ्त्_२६. नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः / चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः अभ्त्_२६. क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः / शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् अभ्त्_२६. तमेव परमे धाम्नि पूजनायार्पयेद्बुधः / स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके अभ्त्_२६. अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति / या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः अभ्त्_२६. कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः / आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये@हर्निशम् अभ्त्_२६. नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् / यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पये@हर्निशम् अभ्त्_२६. इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् / येन केनापि भावेन तर्पयेद्देवतागणम् अभ्त्_२६. मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः / वचसा मन्त्रयोगेन वपुषा संनिवेशतः अभ्त्_२६. कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् / तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा अभ्त्_२६. ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः / कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः अभ्त्_२६. द्वारपीठगुरुव्रातसमर्पितनिवेदनात् / ऋते@न्यत्स्वयमश्नीयादगाधे@म्भस्यथ क्षिपेत् अभ्त्_२६. प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् / विधिना भाविना श्रीमन्मीननाथावतारिणा अभ्त्_२६. मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् / तच्छङ्कातङ्कदानेन व्याधये नरकाय च अभ्त्_२६. अतस्तत्त्वविदा ध्वस्तशङ्कातङ्को@पि पण्डितः / प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया अभ्त्_२६. श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् / स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः अभ्त्_२६. भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् / मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् अभ्त्_२६. पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् / उक्तः स्थण्डिलयागो@यं नित्यकर्मणि शम्भुना अभ्त्_२६. अथोच्यते लिङ्गपूजा सूचिता मालिनीमते १ब् अभ्त्_२७. एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् / बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः अभ्त्_२७. स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् / ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः अभ्त्_२७. किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः / भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः अभ्त्_२७. शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः / स्वयं प्रतिष्ठितं येन सो@स्याभोगे विनश्यति अभ्त्_२७. उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना / शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः अभ्त्_२७. तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः / न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः अभ्त्_२७. अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता / सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः अभ्त्_२७. आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् / पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् अभ्त्_२७. पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् / यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् अभ्त्_२७. गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् / जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा अभ्त्_२७. लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् / पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा अभ्त्_२७. नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् / धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् अभ्त्_२७. न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते / उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् अभ्त्_२७. तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् / मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः अभ्त्_२७. अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः / दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः अभ्त्_२७. सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् / तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे अभ्त्_२७. सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते / नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना अभ्त्_२७. पीठप्रसादमन्त्रांशवेलादिनियमो नच / व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् अभ्त्_२७. अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः / अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् अभ्त्_२७. पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् / तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् अभ्त्_२७. तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते / जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा अभ्त्_२७. युक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः / काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे अभ्त्_२७. गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति / व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः अभ्त्_२७. श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् / एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके अभ्त्_२७. पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे / एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे अभ्त्_२७. न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके / श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् अभ्त्_२७. सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् / एतदेवानुसर्तव्यमर्घपात्रे@पि लक्षणम् अभ्त्_२७. श्रीब्रह्मयामले@प्युक्तं पात्रं गोमुखमुत्तमम् / गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति अभ्त्_२७. अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् / वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् अभ्त्_२७. अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः / शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् अभ्त्_२७. तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् / वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः अभ्त्_२७. पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः / शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते अभ्त्_२७. ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् / ततो@पि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् अभ्त्_२७. मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते / उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् अभ्त्_२७. दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः / यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः अभ्त्_२७. संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् / कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् अभ्त्_२७. पूजितेन च तेनैव जपं कुर्यादतन्द्रितः / विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे अभ्त्_२७. चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् / यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् अभ्त्_२७. अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् / नारिकेलमथो बैल्वं सौवर्णं राजतं च वा अभ्त्_२७. तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः / तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् अभ्त्_२७. अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः / तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् अभ्त्_२७. पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् / अधोमुखं च संपूज्य स्थापयेत् विचक्षणः अभ्त्_२७. खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा / विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् अभ्त्_२७. श्रीभैरवकुले@प्युक्तं कुलपर्वप्रपूजने / स्थण्डिले@ग्नौ पटे लिङ्गे पात्रे पद्मे@थ मण्डले अभ्त्_२७. मूर्तौ घटे@स्त्रसंघाते धटे सूत्रे@थ पूजयेत् / स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति अभ्त्_२७. यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् / शत्रुच्छेदादिकर्तारः काम्यो@तः सङ्करोज्झितः अभ्त्_२७. अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् / पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः अभ्त्_२७. अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् / सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः अभ्त्_२७. इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् / विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् अभ्त्_२७. अत एव यदा भूरिदिनं मण्डलकल्पनम् / तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु अभ्त्_२७. प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् / सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् अभ्त्_२७. सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः / अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते अभ्त्_२७. तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा / अगाधे@म्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च अभ्त्_२७. इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः / परप्रतिष्ठिते लिङ्गे बाणीये@थ स्वयंभुवि अभ्त्_२७. सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् / शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः अभ्त्_२७. अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् / आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् अभ्त्_२७. उक्तं तन्त्रे@प्यघोरेशे स्वच्छन्दे विभुना तथा / अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः अभ्त्_२७. कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् / बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता अभ्त्_२७. इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते १ब् अभ्त्_२८. नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते / मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः अभ्त्_२८. दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता / दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा अभ्त्_२८. अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् / प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः अभ्त्_२८. सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा / नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते अभ्त्_२८. ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा / तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः अभ्त्_२८. श्राद्धं विपत्प्रतीकारः प्रमोदो@द्भुतदर्शनम् / योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् अभ्त्_२८. शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः / देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः अभ्त्_२८. इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् / त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् अभ्त्_२८. तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् / कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसंचरे अभ्त्_२८. अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः / प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् अभ्त्_२८. अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी / वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् अभ्त्_२८. द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः / तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता अभ्त्_२८. अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् / कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले अभ्त्_२८. हैडरे त्रिकसद्भावे त्रिककालीकुलादिके / यो@यं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् अभ्त्_२८. स चक्रभेदसंचारे कांचित् सूते स्वसंविदम् / स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते अभ्त्_२८. पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः / पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति अभ्त्_२८. हैडरे@त्र च शब्दो@यं द्विधा नान्तेतरः श्रुतः / तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः अभ्त्_२८. तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा / यो@प्यतन्मय एषो@पि तत्काले स्वक्रमार्चनात् अभ्त्_२८. तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् / यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् अभ्त्_२८. क्रमोदितां सद्य एव लभते तत्प्रवेशनात् / योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् अभ्त्_२८. लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् / तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता अभ्त्_२८. तेन तत्तत्फलं तत्र काले संपूजयाचिरात् / यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् अभ्त्_२८. अतिथिं सो@नुगृह्णाति तत्कालाभिज्ञमागतम् / तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः अभ्त्_२८. यत्नवन्तो@पि तत्कालाभिज्ञं तमनुगृह्णते / उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् अभ्त्_२८. यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया / मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् अभ्त्_२८. कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये / ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः अभ्त्_२८. गुरूणां देवतानां च न कुर्वन्ति प्रमादतः / दुराचारा हि ते दुष्टाः पशुतुल्या वरानने अभ्त्_२८. अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् / अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् अभ्त्_२८. शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् / तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति अभ्त्_२८. तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् / मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते अभ्त्_२८. उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते / समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् अभ्त्_२८. तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि / पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् अभ्त्_२८. यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः / उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता अभ्त्_२८. सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता / सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् अभ्त्_२८. कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः / अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् अभ्त्_२८. परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः / मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि अभ्त्_२८. रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् / प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् अभ्त्_२८. प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु / कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती अभ्त्_२८. व्याससमासात् क्रमशः पूज्याश्चक्रे@नुयागाख्ये / सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः अभ्त्_२८. गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् / अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे अभ्त्_२८. अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः / भग्रहसमयविशेषो नाश्वयुजे को@पि तेन तद्वर्जम् अभ्त्_२८. वेलाभग्रहकलना कथितैकादशसु मासेषु / फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व अभ्त्_२८. अग्रतिथिवेधयोगो मुख्यतमो@सौ विशेषो@त्र / दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः अभ्त्_२८. पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः / यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् अभ्त्_२८. तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् / दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् अभ्त्_२८. ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् / उक्तो यो@र्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् अभ्त्_२८. तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् / नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला अभ्त्_२८. संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः / यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति अभ्त्_२८. तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन / वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः अभ्त्_२८. श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु / वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् अभ्त्_२८. तिथिस्तु पूज्या प्रधानरूपत्वात् / श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति अभ्त्_२८. यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् / मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने अभ्त्_२८. कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा / आदेशः फलति तथा माघे चक्राद्वचः फलति अभ्त्_२८. अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः / चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः अभ्त्_२८. सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना / भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत अभ्त्_२८. सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् / भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् अभ्त्_२८. यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् / नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः अभ्त्_२८. समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च / दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः अभ्त्_२८. नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् / तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते अभ्त्_२८. मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते / नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना अभ्त्_२८. सर्वत्र चक्रयागो@त्र मुख्यः काम्ये विशेषतः / ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके अभ्त्_२८. योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् / तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु अभ्त्_२८. तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् / ज्ञानिने योगिने वापि यो ददाति करोति वा अभ्त्_२८. दीक्षोत्तरे@पि च प्रोक्तमन्नं ब्रह्मा रसो हरिः / भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् अभ्त्_२८. सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः / तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता अभ्त्_२८. अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये / परिसंख्या न विद्येत तदाह भगवाञ्छिवः अभ्त्_२८. भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् / एवं यो वै विजानाति दैशिकस्तत्त्वपारगः अभ्त्_२८. तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे / निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् अभ्त्_२८. यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् / अन्ये@पानभुजो ह्यूर्ध्वे प्राणो@पानस्त्वधोमुखः अभ्त्_२८. तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि / आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् अभ्त्_२८. श्रीमन्निशाटने@प्युक्तं कथनान्वेषणादपि / श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते अभ्त्_२८. मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् / सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः अभ्त्_२८. अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा / पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः अभ्त्_२८. तत्र संनिहितो देवः सदेवीकः सकिङ्करः / तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् अभ्त्_२८. मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते / पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् अभ्त्_२८. सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु / उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि अभ्त्_२८. दीक्षायां च प्रतिष्ठायां समयानां विशोधने / कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा अभ्त्_२८. केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः / केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः अभ्त्_२८. साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः / पत्नीयोगात् क्रयानीतवेश्यासंयोगतो@थवा अभ्त्_२८. चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः / तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः अभ्त्_२८. सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते / मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः अभ्त्_२८. तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् / पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा अभ्त्_२८. तदा तद्गन्धधूपस्रक्समालम्भनवाससा / पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति अभ्त्_२८. एकारके यथा चक्रे एकवीरविधिं स्मरेत् / द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके अभ्त्_२८. षड्योगिनीः सप्तकं च सप्तारे@ष्टाष्टके च वा / अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि अभ्त्_२८. ततः पात्रे@लिसंपूर्णे पूर्वं चक्रं यजेत्सुधीः / आधारयुक्ते नाधाररहितं तर्पणं क्वचित् अभ्त्_२८. आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः / प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः अभ्त्_२८. भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः / अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् अभ्त्_२८. ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् / प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् अभ्त्_२८. यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते / तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः अभ्त्_२८. वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः / ततो@वदंशान्विविधान् मांसमत्स्यादिसंयुतान् अभ्त्_२८. अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः / पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च अभ्त्_२८. पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः / दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते अभ्त्_२८. दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् / तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः अभ्त्_२८. निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते / ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् अभ्त्_२८. तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः / धारया भैरवस्तुष्येत् करपानं परं ततः अभ्त्_२८. प्रवेशो@त्र न दातव्यः पूर्वमेव हि कस्यचित् / प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् अभ्त्_२८. एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् / समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः अभ्त्_२८. रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः / समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् अभ्त्_२८. एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः / काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः अभ्त्_२८. जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् / बलाबलं ततः पश्चाद्विस्मयन्ते@त्र मातरः अभ्त्_२८. ततो@पि संनिधीयन्ते प्रीयन्ते वरदास्ततः / देवीनामथ नाथस्य परिवारयुजो@प्यलम् अभ्त्_२८. वल्लभो मूर्तियागो@यमतः कार्यो विपश्चिता / राक्तौ गुप्ते गृहे वीराः शक्तयो@न्योन्यमप्यलम् अभ्त्_२८. असंकेतयुजो योज्या देवताशब्दकीर्तनात् / अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् अभ्त्_२८. काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा / प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये अभ्त्_२८. हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ / सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा अभ्त्_२८. मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा / धनिष्ठायाममावस्या सो@यमेकादशात्मकः अभ्त्_२८. अर्कादित्रयशुक्रान्यतमयुक्तो@प्यहर्गणः / योगपर्वेति विख्यातो रात्रौ वा दिन एव वा अभ्त्_२८. योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा / यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः अभ्त्_२८. मूर्तियागेन सो@पि स्यात् समयी मण्डलं विना / इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते अभ्त्_२८. अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः / श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः अभ्त्_२८. श्रीसिद्धाटनसद्भावमालिनीसारशासने / तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते अभ्त्_२८. क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः / नागराजः स्वभुवने मेघकाले स्म नावसत् अभ्त्_२८. केवलं तु पवित्रो@यं वायुभक्षः समाः शतम् / दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् अभ्त्_२८. व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे / पाताले नासितुं शक्तः सो@प्येनं परमेश्वरः अभ्त्_२८. नागं निजजटाजूटपीठगं पर्यकल्पयत् / ततः समस्तदेवौघैर्धारितो@सौ स्वमूर्धनि अभ्त्_२८. महतां महितानां हि नाद्भुत विश्वपूज्यता / तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः अभ्त्_२८. आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् / दश कोट्यो न पूजानां पवित्रारोहणे समाः अभ्त्_२८. वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च / विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया अभ्त्_२८. तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः / आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः अभ्त्_२८. कर्तव्यः सो@निरोधेन यावत्सा तुलपूर्णिमा / तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् अभ्त्_२८. कुलशब्दं पठन्तो@न्ये व्याख्याभेदं प्रकुर्वते / नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् अभ्त्_२८. कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् / माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् अभ्त्_२८. पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा / दक्षिणोत्तरगः कालः कुलाकुलतयोदितः अभ्त्_२८. कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते / दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ अभ्त्_२८. पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः / तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् अभ्त्_२८. एकेनैव पदेन श्रीरत्नमालाकुलागमे / तदत्र समये सर्वविधिसंपूरणात्मकः अभ्त्_२८. पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा / पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् अभ्त्_२८. दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते / एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् अभ्त्_२८. हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् / सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ अभ्त्_२८. परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि / प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् अभ्त्_२८. अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् / विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः अभ्त्_२८. वटुके कनकाभावे रौप्यं तु परिकल्पयेत् / पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् अभ्त्_२८. तस्मान्नवगुणात् सूत्रात्त्रिगुणादिक्रमात् कुरु / चण्डांशुगुणपर्यन्तं ततो@पि त्रिगुणं च वा अभ्त्_२८. तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः / अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् अभ्त्_२८. ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् / यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः अभ्त्_२८. विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः / पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् अभ्त्_२८. गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा / ततो महोत्सवः कार्यो गुरुपूजापुरःसरः अभ्त्_२८. तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः / महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् अभ्त्_२८. चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः / तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् अभ्त्_२८. वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः / मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् अभ्त्_२८. सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् / वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः अभ्त्_२८. सति वित्ते पुनः शाठ्यं व्याधये नरकाय च / नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् अभ्त्_२८. तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् / पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः अभ्त्_२८. सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः / अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः अभ्त्_२८. त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा / दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते अभ्त्_२८. ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः / नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः अभ्त्_२८. अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः / तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे अभ्त्_२८. श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे / नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु अभ्त्_२८. पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च / चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् अभ्त्_२८. त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् / अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् अभ्त्_२८. ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् / नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः अभ्त्_२८. यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः / चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु अभ्त्_२८. व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् / अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् अभ्त्_२८. द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि / विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे अभ्त्_२८. घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे / स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते अभ्त्_२८. प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् / विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् अभ्त्_२८. वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे / वेदाक्षि स्रुचि षट्त्रिंशत् प्रासादे मण्डपे रविः अभ्त्_२८. रसेन्दु स्नानगेहे@ब्धिनेत्रे ध्यानगृहे गुरौ / सप्त साधकगाः पञ्च पुत्रके सप्त सामये अभ्त्_२८. चत्वारो@थान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते / लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् अभ्त्_२८. द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् / पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः अभ्त्_२८. पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् / ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् अभ्त्_२८. दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् / ॐ समस्तक्रियादोषपूरणेश व्रतं प्रति अभ्त्_२८. यत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन / तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु अभ्त्_२८. सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे / अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् अभ्त्_२८. योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः / पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः अभ्त्_२८. आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् / ततो विधिं पूजयित्वा पवित्राणि समाहरेत् अभ्त्_२८. दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना / चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् अभ्त्_२८. प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् / पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे अभ्त्_२८. कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् / वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः अभ्त्_२८. दद्यादसृक् तथा मद्यं पानानि विविधानि च / ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो अभ्त्_२८. तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः / शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः अभ्त्_२८. मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् / अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् अभ्त्_२८. ततो@ञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् / अकामादथवा कामाद्यन्मया न कृतं विभो अभ्त्_२८. तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया / मूलमन्त्रः पूरयेति क्रियानियममित्यथ अभ्त्_२८. वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् / नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् अभ्त्_२८. एवं चतुष्टयं दद्यादनुलोमेन भौतिकः / नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् अभ्त्_२८. यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् / तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् अभ्त्_२८. वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः / भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः अभ्त्_२८. चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् / कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन अभ्त्_२८. ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् / दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् अभ्त्_२८. वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति / वक्तव्यं देवदेवस्य पुनरागमनाय च अभ्त्_२८. ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् / नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् अभ्त्_२८. चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् / नास्माद्व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते अभ्त्_२८. शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् / अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया अभ्त्_२८. स भण्यते तत्र कार्या देवस्यार्चा विशेषतः / चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः अभ्त्_२८. तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् / पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् अभ्त्_२८. तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये / तदुपायो@पि संपूज्यो मूर्तिकालक्रियादिकः अभ्त्_२८. उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् / तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् अभ्त्_२८. यथा यथा च नैकट्यमुपायेषु तथा तथा / अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके अभ्त्_२८. ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः / यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः अभ्त्_२८. तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः / तद्विद्यो@पि गुरुभ्राता संवादाज्ज्ञानदायकः अभ्त्_२८. गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः / न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः अभ्त्_२८. वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः / देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः अभ्त्_२८. तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता / युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः अभ्त्_२८. ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः / बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः अभ्त्_२८. तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः / देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः अभ्त्_२८. आत्मा विकाररहितः शाश्वतत्वादहेतुकः / स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः अभ्त्_२८. पुनश्च प्रकटीभूय भैरवीभावभाजनम् / तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् अभ्त्_२८. य उपायः समुचितो ज्ञानसन्तान एष सः / क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया अभ्त्_२८. गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते / एवं चानादिसंसारोचितविज्ञानसन्ततेः अभ्त्_२८. ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् / असंसारोचितोदारतथाविज्ञानसन्ततेः अभ्त्_२८. कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् / अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् अभ्त्_२८. उपादानं हि तद्युक्तं देहभेदे हि सत्यपि / देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः अभ्त्_२८. न तथात्वाय योगीच्छाविष्टशावशरीरवत् / योगिनः परदेहादिजीवत्तापादने निजम् अभ्त्_२८. देहमत्यजतो नानाज्ञानोपादानता न किम् / तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः अभ्त्_२८. अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः / इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च अभ्त्_२८. एककारणकार्यं च वस्त्वित्येष गुरोर्गणः / गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी अभ्त्_२८. यतो निःशक्तिकस्यास्य न यागे@धिकृतिर्भवेत् / अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् अभ्त्_२८. सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् / एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु को@पि सः अभ्त्_२८. पुनः परम्परायोगाद्गुरुवर्गो@पि भण्यते / मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा अभ्त्_२८. गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणे@पि च / यदहस्तद्धि विज्ञानोपायदेहादिकारणम् अभ्त्_२८. एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते / तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् अभ्त्_२८. दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् / भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः अभ्त्_२८. स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति / नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् अभ्त्_२८. तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् / व्यापको@पि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् अभ्त्_२८. विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् / शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः अभ्त्_२८. संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः / गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः अभ्त्_२८. असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते / स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना अभ्त्_२८. प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् / अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते अभ्त्_२८. क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी / तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् अभ्त्_२८. गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः / एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् अभ्त्_२८. भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः / उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना अभ्त्_२८. यथा गृहं विनिष्पाद्य गृही समधितिष्ठति / तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः अभ्त्_२८. किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सो@पि शब्द्यते / स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते अभ्त्_२८. इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु / क्षये तु कर्मणां तेषां देहयन्त्रे@न्यथागते अभ्त्_२८. प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः / नाडीचक्रेषु सङ्कोचविकासौ विपरीततः अभ्त्_२८. भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः / इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् अभ्त्_२८. देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः / तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् अभ्त्_२८. गृह्णाति योनिजे@न्यत्र वा देहे कर्मचित्रिते / स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा अभ्त्_२८. तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि / विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः अभ्त्_२८. अतो नियतिकालादिवैचित्र्यानुविधायिनः / अनुग्रहस्तु यः सो@यं स्वस्वरूपे विकस्वरे अभ्त्_२८. ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते / कर्मकालनियत्यादि यतः सङ्कोचजीवितम् अभ्त्_२८. सङ्कोचहानिरूपे@स्मिन्कथं हेतुरनुग्रहे / अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते अभ्त्_२८. प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः / तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः अभ्त्_२८. देहान्ते शिव एवेति नास्य देहान्तरस्थितिः / ये@पि तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् अभ्त्_२८. स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे / मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् अभ्त्_२८. मर्त्ये@वतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः / तत्र स्वयम्भुवो द्वेधा के@प्यनुग्रहतत्पराः अभ्त्_२८. के@पि स्वकृत्यायातांशस्थानमात्रोपसेविनः / ये@नुग्रहार्थमाज्ञप्तास्तेषु यो म्रियते नरः अभ्त्_२८. सो@नुग्रहं स्फुटं याति विना मर्त्यावतारतः / यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् अभ्त्_२८. यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता / तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः अभ्त्_२८. वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः / सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः अभ्त्_२८. तपस्यन्तौ बदर्यां च नरनारायणौ तथा / इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा अभ्त्_२८. आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् / स्वकृत्यांशस्थितानां च धाम्नि ये@न्तं व्रजन्ति ते अभ्त्_२८. तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि / मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः अभ्त्_२८. तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् / स्थावराद्यास्तिर्यगन्ताः पशवो@स्मिन्द्वये मृताः अभ्त्_२८. स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः / पुंसां च पशुमात्राणां सालोक्यमविवेकतः अभ्त्_२८. अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा / स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा अभ्त्_२८. प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः / हंसकारण्डवाकीर्णे नानातरुकुलाकुले अभ्त्_२८. इत्येतदागमेषूक्तं तत एव पुरे पुरे / क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् अभ्त्_२८. लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति / स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते अभ्त्_२८. तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् / अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा अभ्त्_२८. पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः / अहमन्यः परात्मान्यः शिवो@न्य इति चेन्मतिः अभ्त्_२८. न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः / तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् अभ्त्_२८. तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये / उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् अभ्त्_२८. मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः / तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये अभ्त्_२८. अयोगिनामयं पन्था योगी योगेन वञ्चयेत् / वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् अभ्त्_२८. तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते / अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः अभ्त्_२८. तावत्सिद्धिजुषो@प्युक्ता मुक्त्यै क्षेत्रोपयोगिता / सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते अभ्त्_२८. पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः / ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः अभ्त्_२८. योग्यतावशसंजाता यस्य यत्रैव वासना / स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् अभ्त्_२८. इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवे@पिच / यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः अभ्त्_२८. सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् / ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः अभ्त्_२८. मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः / तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् अभ्त्_२८. तथा तथा विचित्रः स्यादवतारस्तदंशतः / सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु अभ्त्_२८. तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः / अनेकशक्तिखचितं यतो भावस्य यद्वपुः अभ्त्_२८. शक्तिभ्यो@र्थान्तरं नैष तत्समूहादृते भवेत् / तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः अभ्त्_२८. कृत्यं तदुचितं सिद्ध्येत् सों@शो@वतरति स्फुटम् / ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे अभ्त्_२८. तत्त्वे मृताः काष्ठवत्ते@धरे@प्युत्कर्षभागिनः / ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः अभ्त्_२८. ये@प्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः / प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः अभ्त्_२८. अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् / विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः अभ्त्_२८. पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु / तत्परस्य तु सायुज्यमित्युक्तं परमेशिना अभ्त्_२८. यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः / व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते अभ्त्_२८. उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा / दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् अभ्त्_२८. यस्तु तावदयोग्यो@पि तथास्ते स शिवालये / पश्चादास्थानिबन्धेन तावदेव फलं भजेत् अभ्त्_२८. नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ / उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता अभ्त्_२८. ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके / अधरायतनेष्वास्थां श्रितास्ते@त्र तिरोहिताः अभ्त्_२८. तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् / तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः अभ्त्_२८. दीक्षायतनविज्ञानदूषिणो ये तु चेतसा / आचरन्ति च तत्ते@त्र सर्वे निरयगामिनः अभ्त्_२८. ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः / व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च अभ्त्_२८. यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः / अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् अभ्त्_२८. धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः / छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः अभ्त्_२८. ये तु कैवल्यभागीयाः स्वास्थ्ये@नुन्मिषिताः सदा / अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः अभ्त्_२८. यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः / इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः अभ्त्_२८. ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् / अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः अभ्त्_२८. व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः / अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः अभ्त्_२८. विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः / तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः अभ्त्_२८. अत एव प्रबुद्धो@पि कर्मोत्थान्भोगरूपिणः / यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् अभ्त्_२८. नैतावता न मुक्तो@सौ मृतिर्भोगो हि जन्मवत् / स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा अभ्त्_२८. अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः / स्थितौ न घ्नन्ति मुक्तत्वं मरणे@पि तथैव ताः अभ्त्_२८. ये पुनर्योगिनस्ते@पि यस्मिंस्तत्त्वे सुभाविताः / चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः अभ्त्_२८. श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः / इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् अभ्त्_२८. एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् / धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् अभ्त्_२८. एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा / ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते अभ्त्_२८. तथाहि मानसं यत्नं तावत्समधितिष्ठति / अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसंचरः अभ्त्_२८. प्राणचक्रं तदायत्तमपि संचरते पथा / तेनैवातः प्रबुद्ध्येत परदेहे@क्षचक्रकम् अभ्त्_२८. मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः / स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः अभ्त्_२८. अतो@स्य परदेहादिसंचारे नास्ति मेलनम् / अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः अभ्त्_२८. एवं परशरीरादिचारिणामिव योगिनाम् / तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता अभ्त्_२८. ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा / पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः अभ्त्_२८. दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् / भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी अभ्त्_२८. ये तु विज्ञानिनस्ते@त्र द्वेधा कम्प्रेतरत्वतः / तत्र ये कम्प्रविज्ञानास्ते देहान्तेद् शिवाः स्फुटम् अभ्त्_२८. यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् / विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् अभ्त्_२८. अतो देहे प्रमादोत्थो विकल्पो देहपाततः / नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् अभ्त्_२८. संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा / प्राप्तपाकं संवरीतुरपाये भासते हि तत् अभ्त्_२८. ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा / जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा अभ्त्_२८. यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा / सुखिदुःखिविमूढत्वे, मृतावपि तथा न सा अभ्त्_२८. श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः / स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः अभ्त्_२८. रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने / सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभते@पि चान्ते अभ्त्_२८. अपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते / सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् अभ्त्_२८. तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् / ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः अभ्त्_२८. अनन्तकारिका चैषा प्राहेदं बन्धकं किल / सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् अभ्त्_२८. अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल / मृतिर्नष्टस्मृतेरेव मृतेः प्राक् सास्तु किं तया अभ्त्_२८. लिङ्च संभावनायां स्यादियत्संभाव्यते किल / सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् अभ्त्_२८. कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः / भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता अभ्त्_२८. परदेहादिसंबन्धो यथा नास्य विभेदकः / तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि अभ्त्_२८. अतश्च न विशेषो@स्य विश्वाकृतिनिराकृतेः / शिवाभिन्नस्य देहे वा तदभावे@पि वा किल अभ्त्_२८. तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः / अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् अभ्त्_२८. तान्येनं न विदुर्भिन्नं तैः स मुक्तो@भिधीयते / श्रीमत्त्रैशिरसे@प्युक्तं सूर्येन्दुपुटवर्जिते अभ्त्_२८. जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते / सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे अभ्त्_२८. तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः / प्रधानं घट आकाश आत्मा मष्टे घटे@पि खम् अभ्त्_२८. न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् / स्वतन्त्रो@वस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु अभ्त्_२८. तस्य भावो नचाभावः संस्थानं नच कल्पना / एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत अभ्त्_२८. यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् / तं तमेवैति कौन्तेय सदा तद्भावभावितः अभ्त्_२८. तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च / यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा अभ्त्_२८. क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः / तत्रेन्द्रियाणां संमोहश्वासायासपरीतता अभ्त्_२८. इत्यादिमृतिभोगो@यं देहे न त्यजनं तनोः / यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः अभ्त्_२८. यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् / सा देहत्यागकालांशकला देहवियोगिनी अभ्त्_२८. तत एव हि तद्देहसुखदुःखादिकोज्झिता / तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः अभ्त्_२८. अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् / तदेव रूपमभ्येति सुखिदुःखिविमूढकम् अभ्त्_२८. यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् / कस्मादेति तदेवैष यतः स्मरति संविदि अभ्त्_२८. प्राक् प्रस्फुरेद्यदधिकं देहो@सौ चिदधिष्ठितेः / यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः अभ्त्_२८. सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे / नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् अभ्त्_२८. अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् / अतो@धिष्ठेयमात्रस्य शरीरत्वे@पि कुड्यतः अभ्त्_२८. देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता / तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते अभ्त्_२८. वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः / सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना अभ्त्_२८. स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया / युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् अभ्त्_२८. देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् / तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः अभ्त्_२८. देहत्वस्याविशेषे@पीत्येष प्रश्नो न शाम्यति / स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते अभ्त्_२८. प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् / अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु अभ्त्_२८. न जातु गोचरो यस्माद्देहान्तरविनिश्चयः / यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् अभ्त्_२८. न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् / कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते अभ्त्_२८. देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः / यथा पुराणे कथितं मृगपोतकतृष्णया अभ्त्_२८. मुनिः को@पि मृगीभावमभ्युवाहाधिवासितः / तत्र सो@नुभवो हेतुर्न जन्मान्तरसूतये अभ्त्_२८. तस्यैतद्वासना हेतुः काकतालीयवत् स तु / ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा अभ्त्_२८. तद्भावभावितस्तेन तदेवैष स्मरत्यलम् / एवमस्मि भविष्यामीत्येष तद्भाव उच्यते अभ्त्_२८. भविष्यतो हि भवनं भाव्यते न सतः क्वचित् / क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते अभ्त्_२८. स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् / तदहर्जातबालस्य पशोः कीटस्य वा तरोः अभ्त्_२८. मूढत्वे@पि तदानीं प्राग्भावना ह्यभवत्स्फुटा / सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् अभ्त्_२८. स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी / देशादिव्यवधाने@पि वासनानामुदीरितात् अभ्त्_२८. आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः / तथानुभवनारूढ्या स्फुटस्यापि तु भाविता अभ्त्_२८. भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः / तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह अभ्त्_२८. भासते@पि परे लोके स्वप्नवद्वासनाक्रमात् / ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् अभ्त्_२८. वेद्यते क इदं प्राह स तावद्वेद वेद्यताम् / व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे अभ्त्_२८. स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता / य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः अभ्त्_२८. स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् / यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन अभ्त्_२८. न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा / यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ अभ्त्_२८. प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः / घटादेरस्तिता संविन्निष्ठिता नतु तद्गता अभ्त्_२८. तद्वन्मात्रन्तरे@प्येषा संविन्निष्ठा न तद्गता / तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि अभ्त्_२८. देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् / तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः अभ्त्_२८. मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः / निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः अभ्त्_२८. पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् / लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् अभ्त्_२८. अज्ञात्वैतत्तु सर्वे@पि कुशकाशावलम्बिनः / यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् अभ्त्_२८. भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् / व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने अभ्त्_२८. नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् / तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः अभ्त्_२८. अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति / विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् / अमृतमिति निगीर्णे कालकूटे@त्र देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् अभ्त्_२८. उत्सवो@पि हि यः कश्चिल्लौकिकः सो@पि संमदम् / संविदब्धितरङ्गाभं सूते तदपि पर्ववत् अभ्त्_२८. एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता / व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् अभ्त्_२८. पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः / दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् अभ्त्_२८. योगिनीमेलको द्वेधा हठतः प्रियतस्तथा / प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे अभ्त्_२८. स च द्वयो@पि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते / योगिनीमेलकाच्चैषो@वश्यं ज्ञानं प्रपद्यते अभ्त्_२८. तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् / संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा अभ्त्_२८. मेलके@न्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा / उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः अभ्त्_२८. बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः / अत एव गीतगीतप्रभृतौ बहुपर्षदि अभ्त्_२८. यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः / आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् अभ्त्_२८. नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते / ईर्ष्यासूयादिसङ्कोचकारणाभावतो@त्र सा अभ्त्_२८. विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी / अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते अभ्त्_२८. स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते / अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् अभ्त्_२८. नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् / यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् अभ्त्_२८. एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् / प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः अभ्त्_२८. प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् / स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् अभ्त्_२८. वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि / श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् अभ्त्_२८. प्रवेशं संपविष्टस्य न विचारं तु कारयेत् / लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः अभ्त्_२८. अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् / अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् अभ्त्_२८. देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना / कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् अभ्त्_२८. सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नो@पदिश्यते / यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः अभ्त्_२८. नान्यथा तदभावश्चेत्सर्वथा सो@प्यथाचरेत् / श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् अभ्त्_२८. गुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या / तत्रापि यास्य चिद्वृत्तिकर्मिभित् साप्यवान्तरा अभ्त्_२८. देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके / देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् अभ्त्_२८. उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः / क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे अभ्त्_२८. ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय / अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः अभ्त्_२८. सर्वे@लिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः / अभिमानशमक्रोधक्षमादिरवान्तरो भेदः अभ्त्_२८. इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् / व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् अभ्त्_२८. सो@पि स्वशासनीये परशिष्ये@पिवापि तादृशं शास्त्रम् / श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे अभ्त्_२८. करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् / अधमे@पि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् अभ्त्_२८. लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे / कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् अभ्त्_२८. मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च / अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः अभ्त्_२८. सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् / सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् अभ्त्_२८. सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् / अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि अभ्त्_२८. मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः / अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् अभ्त्_२८. तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः / वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् अभ्त्_२८. यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः / बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् अभ्त्_२८. दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् / शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् अभ्त्_२८. भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य / सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् अभ्त्_२८. वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे / पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् अभ्त्_२८. व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले / शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् अभ्त्_२८. विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ / अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि अभ्त्_२८. तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् / श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो अभ्त्_२८. प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते / सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् अभ्त्_२८. सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः / तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः अभ्त्_२८. अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः / तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते अभ्त्_२८. तस्माद्विकल्परहितः संवृत्युपरतो यदि / शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् अभ्त्_२८. सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् / यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् अभ्त्_२८. यत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा / शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते अभ्त्_२८. शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये / इति श्रीरत्नमालायां समयोल्लङ्घने कृते अभ्त्_२८. कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी / श्रीपूर्वे समयानां तु शोधनायोदितं यथा अभ्त्_२८. मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् / प्रतिष्ठितस्य पूरादेर्दर्शने@नधिकारिणा अभ्त्_२८. प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले / ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा अभ्त्_२८. देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः / नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः अभ्त्_२८. शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः / नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् अभ्त्_२८. व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् / दूतीपरिग्रहे@न्यत्र गतश्चेत्काममोहितः अभ्त्_२८. लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले / दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् अभ्त्_२८. अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते / पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् अभ्त्_२८. स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि / मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् अभ्त्_२८. कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् / ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् अभ्त्_२८. स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः / समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् अभ्त्_२८. आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः / सर्वस्वमस्मै संदद्यादात्मानमपि भावितः अभ्त्_२८. अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः / तत्त्वज्ञो@प्यृणबन्धेन तेन यात्यधिकारिताम् अभ्त्_२८. गुरुपूजामकुर्वाणः शतं जन्मानि जायते / अधिकारी ततो मुक्तिं यातीति स्कन्दयामले अभ्त्_२८. तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः / पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् अभ्त्_२८. तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः / ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् अभ्त्_२८. अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः / तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् अभ्त्_२८. अतत्रस्थो@पि हि गुरुः पूज्यः संकल्प्य पूर्ववत् / तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ अभ्त्_२८. पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म / अभ्त्_२८. अथ समुचिताधिकारिण उद्दिश्य रहस्य उच्यते@त्र विधिः / अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते अभ्त्_२९. तथा धाराधिरूढेषु गुरुशिष्येषु योचिता / उक्तं च परमेशेन सारत्वं क्रमपूजने अभ्त्_२९. सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् / न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति अभ्त्_२९. कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता / स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् अभ्त्_२९. तथात्वेन समस्तानि भावजातानि पश्यतः / ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः अभ्त्_२९. तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना / यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः अभ्त्_२९. बहिः शक्तौ यामले च देहे प्राणपथे मतौ / इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी अभ्त्_२९. स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् / किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो अभ्त्_२९. षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् / ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते अभ्त्_२९. अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ / तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् अभ्त्_२९. श्रीब्रह्मयामले@प्युक्तं सुरा शिवरसो बहिः / तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा अभ्त्_२९. स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा / द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् अभ्त्_२९. एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः / देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा अभ्त्_२९. श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना / अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् अभ्त्_२९. रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् / भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् अभ्त्_२९. दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः / इति ज्ञात्वा त्रये@मुष्मिन्यत्नवान्कौलिको भवेत् अभ्त्_२९. तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना / यान्युक्तान्यविशङ्को@त्र भवेच्छङ्का हि दूषिका अभ्त्_२९. यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः / परया वा@थ मालिन्या विलोमाच्चानुलोमतः अभ्त्_२९. दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः / क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः अभ्त्_२९. दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् / ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् अभ्त्_२९. परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो / केवला मालिनी यद्वा ताः समस्तेषु कर्मसु अभ्त्_२९. नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् / तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् अभ्त्_२९. तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् / विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् अभ्त्_२९. तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् / बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् अभ्त्_२९. अर्काङ्गुले@थ तद्द्वित्रिगुणे रक्तपटे शुभे / व्योम्नि सिन्दूरसुभगे राजवर्त्तभृते@थवा अभ्त्_२९. नारिकेलात्मके काद्ये मद्यपूर्णे@थ भाजने / यद्वा समुदिते रूपे मण्डलस्थे च तदृशि अभ्त्_२९. यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते / दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् अभ्त्_२९. वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् / प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः अभ्त्_२९. सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् / खगेन्द्रः सहविज्जाम्ब इल्ला+ई+अम्बया सह अभ्त्_२९. वक्तष्टिर्विमलो@नन्तमेखलाम्बायुतः पुरा / शक्त्या मङ्गलया कूर्म इल्ला+ई+अम्बया सह अभ्त्_२९. जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः / काममङ्गलया मेषः कुल्ला+ई+अम्बया सह अभ्त्_२९. विन्ध्यो@जितो@प्यजरया सह मेखलया परे / मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् अभ्त्_२९. सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी / अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी अभ्त्_२९. सिल्ला+ई एरुणया तथा कुमारी च बोधा+ई / समहालच्छी चापरमेखलया शक्तयः षडिमाः अभ्त्_२९. एते हि साधिकाराः पूज्या येषामियं बहुविभेदा / सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी अभ्त्_२९. आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता / एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् अभ्त्_२९. दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् / द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः अभ्त्_२९. शवराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः / अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्याच अभ्त्_२९. देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च / दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः अभ्त्_२९. इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः / अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् अभ्त्_२९. भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः / ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः अभ्त्_२९. अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि / तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः अभ्त्_२९. अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः / अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः अभ्त्_२९. प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते / तथारूपतया तत्र गुरुत्वं परिभाषितम् अभ्त्_२९. ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् / ततो@भ्यन्तरतो वायुवह्न्योर्मातृकया सह अभ्त्_२९. मालिनी क्रमशः पूज्या ततो@न्तर्मन्त्रचक्रकम् / मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले अभ्त्_२९. चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी / सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी अभ्त्_२९. पूज्याथ तत्समारोपादपराथ परापरा / एकवीरा च सा पूज्या यदिवा सकुलेश्वरा अभ्त्_२९. प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः / सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् अभ्त्_२९. महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् / यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् अभ्त्_२९. अन्तर्द्वादशकं पूज्यं ततो@ष्टाष्टाकमेव च / चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु अभ्त्_२९. माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् / ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु अभ्त्_२९. पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः / सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् अभ्त्_२९. अष्टाष्टके@पि हि विधौ नानानामप्रपञ्चिते बहुधा / विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् अभ्त्_२९. श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः / वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः अभ्त्_२९. पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् / यथा श्रीमाधवकुले परमेशेन भाषितम् अभ्त्_२९. सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् / पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः अभ्त्_२९. आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् / न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् अभ्त्_२९. अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके / श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् अभ्त्_२९. भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः / वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले अभ्त्_२९. एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् / उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् अभ्त्_२९. एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः / कुड्याकेशीं च सोपानं मायापूक्षीरके तथा अभ्त्_२९. जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी / पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् अभ्त्_२९. नाहमस्मि नचान्यो@स्ति केवलाः शक्तयस्त्वहम् / इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः अभ्त्_२९. न तिथिर्न च नक्षत्रं नोपवासो विधीयते / ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि अभ्त्_२९. मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः / मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे अभ्त्_२९. सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् / हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या अभ्त्_२९. बीजं सा पीडयते रसशल्कविभागतो@त्र कुण्डलिनी / अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति अभ्त्_२९. इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी / सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी अभ्त्_२९. एकवीरा चक्रयुक्ता चक्रयामलगापि वा / ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः अभ्त्_२९. त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् / हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् अभ्त्_२९. श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् / वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् अभ्त्_२९. रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषा / यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् अभ्त्_२९. अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः / सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः अभ्त्_२९. तावत्तेजो@सहिष्णुत्वान्निर्जीवाः स्युरिहाद्वये / कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् अभ्त्_२९. हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् / अहोरात्रमिमं यागं कुर्वतश्चापरे@हनि अभ्त्_२९. वीरभोज्ये कृते@वश्यं मन्त्राः सिद्ध्यन्त्ययत्नतः / पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये अभ्त्_२९. मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः / अवधूता निराचाराः पूजयेत्क्रमशो बुधः अभ्त्_२९. एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः / शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् अभ्त्_२९. क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि / चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् अभ्त्_२९. अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा / पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति अभ्त्_२९. ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः / उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः अभ्त्_२९. उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते / आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके अभ्त्_२९. पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् / नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके अभ्त्_२९. शिवशक्तिसमायोगे षड्लक्षो जप उच्यते / नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि अभ्त्_२९. हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः / नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् अभ्त्_२९. शतारेषु च मध्यस्थं सहस्रारेषु भामिनि / जप एष रुद्रलक्षो होमो@प्यत्र दशांशतः अभ्त्_२९. नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् / स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् अभ्त्_२९. यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः / हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः अभ्त्_२९. स आत्मा मातृका देवी शिवो देहव्यवस्थितः / अन्यः सो@न्यो@हमित्येवं विकल्पं नाचरेद्यतः अभ्त्_२९. यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः / अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् अभ्त्_२९. शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते / तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि अभ्त्_२९. जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी / तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः अभ्त्_२९. आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः / द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया अभ्त्_२९. दशान्यास्तदुपायायेत्येवं होमे दशांशताम् / श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः अभ्त्_२९. साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् / तदायं परमेशोक्तो रहस्यो भण्यते विधिः अभ्त्_२९. उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् / आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् अभ्त्_२९. उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् / ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते अभ्त्_२९. तद्वर्जिता ये पशव आनन्दपरिवर्जिताः / आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः अभ्त्_२९. द्वये@पि निरये यान्ति रौरवे भीषणे त्विति / शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता अभ्त्_२९. तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् / लौकिकालौकिकद्व्यात्मसङ्गात्तादात्म्यतो@धिकात् अभ्त्_२९. कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः / साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः अभ्त्_२९. श्रीसर्वाचारहृदये तदेतदुपसंहृतम् / षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः अभ्त्_२९. द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् / तामाहृत्य मिथो@भ्यर्च्य तर्पयित्वा परस्परम् अभ्त्_२९. अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् / यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् अभ्त्_२९. तत्प्रधानं भवेच्चक्रमनुचक्रमतो@परम् / विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः अभ्त्_२९. चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् / यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते अभ्त्_२९. चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् / प्राणगादप्यथानन्दस्यन्दिनो@भ्यवहारतः अभ्त्_२९. गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः / इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् अभ्त्_२९. कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते / उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः अभ्त्_२९. अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् / निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे अभ्त्_२९. क्रमशो@नुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति / स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः अभ्त्_२९. आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति / अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् अभ्त्_२९. तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति / तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् अभ्त्_२९. क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु / इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् अभ्त्_२९. क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः / तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् अभ्त्_२९. नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् / अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् अभ्त्_२९. अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः / ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया अभ्त्_२९. अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः / शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः अभ्त्_२९. रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव / उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् अभ्त्_२९. शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् / शान्तोदितात्मकोभयरूपपरामर्शसाम्ययोगे@पि अभ्त्_२९. प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता / तस्यामेव कुलार्थं सम्यक् संचारयेद्गुरुस्तेन अभ्त्_२९. तद्द्वारेण च कथितक्रमेण संचारयेत नृषु / स्वशरीराधिकसद्भावभावितामिति ततः प्राह अभ्त्_२९. श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् / तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् अभ्त्_२९. तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् / तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च अभ्त्_२९. वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् / अथ सृष्टे द्वितये@स्मिन् शान्तोदितधाम्नि ये@नुसंदधते अभ्त्_२९. प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः / ये सिद्धिमाप्तुकामास्ते@भ्युदितं रूपमाहरेयुरथो अभ्त्_२९. तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा / तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् अभ्त्_२९. अजरामरपददानप्रवणं कुलसंज्ञितं परमम् / ये@प्यप्राप्तविबोधास्ते@भ्युदितोत्फुल्लयागसंरूढाः अभ्त्_२९. तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् / ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः अभ्त्_२९. दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् / संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः अभ्त्_२९. बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् / अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः अभ्त्_२९. निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् / यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या अभ्त्_२९. शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् / तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः अभ्त्_२९. तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः / यो@प्यनुचक्रदृगादिस्वरूपभाक् सो@पि यत्तदायत्तः अभ्त्_२९. तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः / परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः अभ्त्_२९. आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः / रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन अभ्त्_२९. विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते / तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः अभ्त्_२९. अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः / चक्रेश्वरो@पि पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् अभ्त्_२९. त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः / विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति अभ्त्_२९. श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् / कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् अभ्त्_२९. द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे / स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् अभ्त्_२९. विश्रामं च समावेशं सुषीणां मरुतां तथा / गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि अभ्त्_२९. द्वासप्ततिपदे देहे सहस्रारे च नित्यशः / गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः अभ्त्_२९. तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे / उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् अभ्त्_२९. मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् / अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् अभ्त्_२९. सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः / एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति अभ्त्_२९. संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् / तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् अभ्त्_२९. अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति / अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने अभ्त्_२९. युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव / श्रीयोगसञ्चरे@पिच मुद्रेयं योगिनीप्रिया परमा अभ्त्_२९. कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले / सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् अभ्त्_२९. मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ / मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् अभ्त्_२९. त्रिदलारुणवीर्यकलासङ्गान्मध्ये@ङ्कुरः सृष्टिः / इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति अभ्त्_२९. सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते / एतत्खेचरमुद्रावेशे@न्योन्यस्य शक्तिशक्तिमतोः अभ्त्_२९. पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः / अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः अभ्त्_२९. अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् / इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि अभ्त्_२९. यद्भैरवाष्टकपदं तल्लभते@ष्टककलाभिन्नम् / गमनागमने@वसितौ कर्णे नयने द्विलिङ्गसंपर्के अभ्त्_२९. तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे / कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् अभ्त्_२९. तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् / निर्वान्ति तत्र चैवं यो@ष्टविधो नादभैरवः परमः अभ्त्_२९. ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा / सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च अभ्त्_२९. अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् / एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् अभ्त्_२९. सततमलेपो जीवन्मुक्तः परभैरवीभवति / तादृङ्मेलककलिकाकलिततनुः को@पि यो भवेद्गर्भे अभ्त्_२९. उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः / श्रीवीरावलिशास्त्रे बालो@पि च गर्भगो हि शिवरूपः अभ्त्_२९. आदीयते यतः सारं तस्य मुख्यस्य चैष यत् / मुख्यश्च यागस्तेनायमादियाग इति स्मृतः अभ्त्_२९. तत्र तत्र च शास्त्रे@स्य स्वरूपं स्तुतवान् विभुः / श्रीवीरावलिहार्देशखमतार्णववर्तिषु अभ्त्_२९. श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु / युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः अभ्त्_२९. सर्वदा स्मरणं कृत्वा आदियागैकतत्परः / शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् अभ्त्_२९. ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् / विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् अभ्त्_२९. न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः / कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् अभ्त्_२९. यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता / तच्चक्रं परमं देवीयागादौ संनिधापकम् अभ्त्_२९. देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् / देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् अभ्त्_२९. तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् / तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् अभ्त्_२९. स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः / आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् अभ्त्_२९. तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः / लभते परमं धाम तर्पिताशेषदैवतः अभ्त्_२९. अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः / तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् अभ्त्_२९. कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः / आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये@हर्निशम् अभ्त्_२९. श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये / स एष परमो यागः स्तुतः शीतांशुमौलिना अभ्त्_२९. अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् / पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः अभ्त्_२९. प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः / करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् अभ्त्_२९. एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् / अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते अभ्त्_२९. संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् / विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता अभ्त्_२९. यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः / तां चितिं पश्य कायस्थां कालानलसमप्रभाम् अभ्त्_२९. शून्यरूपे श्मशाने@स्मिन् योगिनीसिद्धसेविते / क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे अभ्त्_२९. स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ / सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले अभ्त्_२९. असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे / समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति अभ्त्_२९. श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी / इत्थं यागं विधायादौ तादृशौचित्यभागिनम् अभ्त्_२९. लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे / रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् अभ्त्_२९. भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् / तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः अभ्त्_२९. निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् / रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया अभ्त्_२९. ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् / स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् अभ्त्_२९. ततो@स्य मुखमुद्धाट्य पादयोः प्रणिपातयेत् / हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् अभ्त्_२९. आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः / उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् अभ्त्_२९. वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् / शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् अभ्त्_२९. यावत्स स्तोभमायातः स्वयं पतति मूर्धनि / शिवहस्तः स्वयं सो@यं सद्यःप्रत्ययकारकः अभ्त्_२९. अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः / शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु अभ्त्_२९. करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल / दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् अभ्त्_२९. तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् / इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः अभ्त्_२९. समयी तु करस्तोभादिति श्रीभोगहस्तके / चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् अभ्त्_२९. निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् / सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु अभ्त्_२९. कालान्तरे@ध्वसंशुद्ध्या पालनात्समयस्थितेः / सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते अभ्त्_२९. यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् / उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् अभ्त्_२९. न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् / प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः अभ्त्_२९. ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् / पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः अभ्त्_२९. उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् / अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् अभ्त्_२९. एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् / दग्ध्वा लीनां शिवे ध्यायेन्निष्कले सकले@थवा अभ्त्_२९. योगिना योजिता मार्गे सजातीयस्य पोषणम् / कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् अभ्त्_२९. अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः / शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः अभ्त्_२९. आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् / आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् अभ्त्_२९. एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे / शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् अभ्त्_२९. अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् / बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले अभ्त्_२९. यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् / अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता अभ्त्_२९. शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने / सुधाग्निमरुतो मन्दपरकालाग्निवायवः अभ्त्_२९. वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः / एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते अभ्त्_२९. शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् / हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः अभ्त्_२९. जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः / वायुना प्रेरितं चक्रं वह्निना परिदीपितम् अभ्त्_२९. तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः / निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः अभ्त्_२९. आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः / यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति अभ्त्_२९. अनेन क्रमयोगेन सर्वाध्वानं स पश्यति / अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् अभ्त्_२९. पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः / तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् अभ्त्_२९. इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने / कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता अभ्त्_२९. जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी / कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः अभ्त्_२९. सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् / निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः अभ्त्_२९. तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता / स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते अभ्त्_२९. पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् / अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् अभ्त्_२९. साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् / तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् अभ्त्_२९. दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् / कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ अभ्त्_२९. आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना / तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् अभ्त्_२९. आचार्यस्याभिषेको@यमधिकारान्वितः स तु / कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् अभ्त्_२९. अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ / शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् अभ्त्_२९. अभिषिक्ताविमावेवं सर्वयोगिगणेन तु / विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् अभ्त्_२९. तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति / गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् अभ्त्_२९. अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् / स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति अभ्त्_२९. षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः / साकं भैरवनाथेन तदष्टकमुदाहृतम् अभ्त्_२९. प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् / चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः अभ्त्_२९. स एव पूर्णैः कलशैरभिषेकः परः स्मृतः / विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे अभ्त्_२९. सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः / कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् अभ्त्_२९. वेधदीक्षा च बहुधा तत्र तत्र निरूपिता / सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः अभ्त्_२९. शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः / येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता अभ्त्_२९. ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा / मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका अभ्त्_२९. षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना / ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् अभ्त्_२९. ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् / आकारं नवधा देहे न्यस्य संक्रमयेत्ततः अभ्त्_२९. न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् / पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् अभ्त्_२९. इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः / नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः अभ्त्_२९. नादेन वेधयेच्चित्तं नादवेध उदीरितः / बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् अभ्त्_२९. हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् / तेन संबोधयेत्साध्यं बिन्द्वाख्यो@यं प्रकीर्तितः अभ्त्_२९. शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि / शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् अभ्त्_२९. अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् / एवं भ्रमरवेधेन शाक्तवेध उदाहृतः अभ्त्_२९. सा चैव परमा शक्तिरानन्दप्रविकासिनी / जन्मस्थानात्परं याति फणपञ्चकभूषिता अभ्त्_२९. कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च / ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका अभ्त्_२९. एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता / ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते अभ्त्_२९. प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् / एवं भुजङ्गवेधस्तु कथितो भैरवागमे अभ्त्_२९. तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् / क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः अभ्त्_२९. नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः / न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया अभ्त्_२९. सर्वभावपरिक्षीणः परवेध उदाहृतः / मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् अभ्त्_२९. नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः / मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले अभ्त्_२९. ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् / पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः अभ्त्_२९. नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि / पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् अभ्त्_२९. शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् / शक्त्येति शाक्तो वेधो@यं सद्यःप्रत्ययकारकः अभ्त्_२९. आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् / अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि अभ्त्_२९. देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् / निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः अभ्त्_२९. भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् / तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् अभ्त्_२९. इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् / अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः अभ्त्_२९. विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः / तत् स्वस्वनाडिसूत्रक्रमेण संचारयेच्छिष्ये अभ्त्_२९. अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः / हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते अभ्त्_२९. पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः / छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः अभ्त्_२९. इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् / तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन अभ्त्_२९. यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः / उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः अभ्त्_२९. नाड्यः प्रधानभूतास्तिस्रो@न्यास्तद्गतास्त्वसंख्येयाः / एकीकारस्ताभिर्नाडीवेधो@त्र तत्फलकृत् अभ्त्_२९. अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः / अद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा अभ्त्_२९. लाङ्गूलाकृतिबलवत् स्वनाडिसंवोष्टितामपरनाडीम् / आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी अभ्त्_२९. परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् / परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः अभ्त्_२९. श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् / अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते अभ्त्_२९. तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् / गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् अभ्त्_२९. रूपं रूपे तु विषयैर्यावत्समरसीभवेत् / चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः अभ्त्_२९. उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् / शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् अभ्त्_२९. अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः / निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि अभ्त्_२९. ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता / स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु अभ्त्_२९. अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् / बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः अभ्त्_२९. निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः / मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः अभ्त्_२९. संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् / संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् अभ्त्_२९. नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् / दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका अभ्त्_२९. दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह / चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः अभ्त्_२९. इति श्रीरत्नमालायामूनाधिकविधिस्तु यः / स एव पातकं तस्य प्रशमो@यं प्रकीर्तितः अभ्त्_२९. परे@हनि गुरोः कार्यो यागस्तेन विना यतः / न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः अभ्त्_२९. येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् / चक्रचर्यान्तराले@स्या विधिः संचार उच्याते अभ्त्_२९. अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् / अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः अभ्त्_२९. तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् / कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः अभ्त्_२९. स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् / क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः अभ्त्_२९. वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् / परब्रह्मण्यवेत्तारो@गमागमविवर्जिताः अभ्त्_२९. लोभमोहमदक्रोधरागमायाजुषश्च ये / तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि अभ्त्_२९. यागादौ यागमध्ये च यागान्ते गुरुपूजने / नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् अभ्त्_२९. इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः / अभ्त्_२९. अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते / तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् अभ्त्_३०. प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः / स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः अभ्त्_३०. यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः / स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् अभ्त्_३०. आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये / क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् अभ्त्_३०. हं नाले यं तथा रं लं वं धर्मादिचतुष्टये / ऋं ॠं ऌं ऌऌं चतुष्के च विपरीतक्रमाद्भवेत् अभ्त्_३०. ॐ औं हस्त्रयमित्येतद्विद्यामायाकलात्रये / अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः अभ्त्_३०. कादिभान्ताः केसरेषु प्राणो@ष्टस्वरसंयुतः / सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् अभ्त्_३०. शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये / सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् अभ्त्_३०. पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः / संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् अभ्त्_३०. आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् / अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् अभ्त्_३०. रतिशेखरमन्त्रो@स्य वक्त्राङ्गं ह्रस्वदीर्घकैः / अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः अभ्त्_३०. सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः / बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते अभ्त्_३०. क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ / तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता अभ्त्_३०. एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता / परिणामस्तल्लयश्च नमस्कारः स उच्यते अभ्त्_३०. एष त्र्यर्णोज्झितो@धस्ताद्दीर्घैः षड्भिः स्वरैर्युतः / षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् अभ्त्_३०. क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः / झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः अभ्त्_३०. एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः / मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ अभ्त्_३०. ओंकारो@थ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् / गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् अभ्त्_३०. नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् / सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् अभ्त्_३०. आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः / बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् अभ्त्_३०. पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् / द्वितीयस्मिन्पदे@कार एकारस्येह च स्मृतः अभ्त्_३०. ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् / हे@ग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक् अभ्त्_३०. अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः / तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका अभ्त्_३०. एषा परापरादेव्या विद्या श्रीत्रिकशासने / पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् अभ्त्_३०. अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् / प्रत्येकवर्णगो@प्युक्तः सिद्धयोगीश्वरीमते अभ्त्_३०. देवताचक्रविन्यासः स बहुत्वान्न लिप्यते / माया विसर्गिणी हुं फट् चेति मन्त्रो@परात्मकः अभ्त्_३०. परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः / सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना अभ्त्_३०. स्वरूपतो विभिन्नापि रचनानेकसङ्कुला / जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः अभ्त्_३०. आधाराधेयभावेन अविनाभावयोगतः / हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् अभ्त्_३०. भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् / दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् अभ्त्_३०. प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् / परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः अभ्त्_३०. स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् / अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् अभ्त्_३०. शून्यद्वयसमोपेतं पराया हृदयं परम् / युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः अभ्त्_३०. अन्ये@प्येकाक्षरा ये तु एकवीरविधानतः / गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः अभ्त्_३०. यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः / कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः अभ्त्_३०. अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा / सकारो दीर्घषट्केन युक्तो@ङ्गान्याननानि तु अभ्त्_३०. स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः / ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् अभ्त्_३०. प्रणवश्चामृते तेजोमालिनि स्वाहया सह / एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते अभ्त्_३०. वेदवेदनि हूं फट्च प्रणवादियुता शिखा / वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् अभ्त्_३०. एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् / तारो द्विजिह्वः खशरस्वरयुग्जीव एव च अभ्त्_३०. नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् / तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् अभ्त्_३०. लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः / इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती अभ्त्_३०. स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके / नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः अभ्त्_३०. अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः / जपे होमे तथाप्याये समुच्चाटे@थ शान्तिके अभ्त्_३०. अभिचारे च मन्त्राणां नमस्कारादिजातयः / अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना अभ्त्_३०. योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी / आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः अभ्त्_३०. जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः / अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना अभ्त्_३०. दक्षजानुगतश्चायं सर्वमातृगणार्चितः / अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् अभ्त्_३०. सद्भावः परमो ह्येष मातॄणां भैरवस्य च / तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् अभ्त्_३०. रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः / यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता अभ्त्_३०. यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् / अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः अभ्त्_३०. दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ / नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः अभ्त्_३०. सर्वयोगिनिचक्राणामधिपो@यमुदाहृतः / अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता अभ्त्_३०. महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् / नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी अभ्त्_३०. श्रीडामरे महायागे परात्परतरोदिता / सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् अभ्त्_३०. अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते / शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना अभ्त्_३०. एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् / नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् अभ्त्_३०. द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा / कूटाग्नी सविसर्गाश्च पञ्चाप्येते@थ पञ्चसु अभ्त्_३०. व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने / छेदिनी क्षुरिकेयं स्याद्यया योजयते परे अभ्त्_३०. बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् / आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् अभ्त्_३०. कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः / जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् अभ्त्_३०. कथितं सरहस्यं तु सद्योनिर्वाणकं परम् / अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी अभ्त्_३०. शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् / सर्वेषामेव भूतानां मरणे समुपस्थिते अभ्त्_३०. यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् / या ज्ञानिनो@पि संपूर्णकृत्यस्यापि श्रुता सती अभ्त्_३०. प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति / यामाकर्ण्य महामोहविवशो@पि क्रमाद्गतः अभ्त्_३०. प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् / परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् अभ्त्_३०. पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् / आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् अभ्त्_३०. गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे / जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ अभ्त्_३०. एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् / हंस हयग्रीव विभो सदाशिवस्त्वं परो@सि जीवाख्यः अभ्त्_३०. रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम / तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः अभ्त्_३०. हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी / मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः अभ्त्_३०. कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह / आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् अभ्त्_३०. निःश्वासे त्वपशब्दस्य स्थाने@स्त्युप इति ध्वनिः / अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे अभ्त्_३०. एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः / व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् अभ्त्_३०. प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् / आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः अभ्त्_३०. ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य / उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु अभ्त्_३०. आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः / प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने अभ्त्_३०. आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य / धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् अभ्त्_३०. आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः / हे ब्रह्मन् हे विष्णो हे रुद्र शिवो@सि वासुदेवस्त्वम् अभ्त्_३०. अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश / एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् अभ्त्_३०. सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् / पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु अभ्त्_३०. अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म / आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते अभ्त्_३०. अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे / पुरुषस्त्वं प्रकृतिमयैर्बद्धो@हङ्कारतन्तुना बन्धैः अभ्त्_३०. अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् / एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् अभ्त्_३०. ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् / आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् अभ्त्_३०. तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् / स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् अभ्त्_३०. मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् / आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् अभ्त्_३०. मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् / आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् अभ्त्_३०. सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः / वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते अभ्त्_३०. प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते / तारो माया वेदकलो मातृतारो नवात्मकः अभ्त्_३०. इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः / बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् अभ्त्_३०. एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः / कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नो@पि विशुद्ध्यति अभ्त्_३०. लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी / तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् अभ्त्_३०. शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् / षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः अभ्त्_३०. अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् / हृदयं भैरवाख्यं तु सर्वसंहारकारकम् अभ्त्_३०. अग्निमण्डलमध्यस्थभैरवानलतापिताः / वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् अभ्त्_३०. विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः / ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः अभ्त्_३०. प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् / प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः अभ्त्_३०. तुलामेलकयोगः श्रीतन्त्रसद्भावशासने / य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् अभ्त्_३०. अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः / देशकालादिदोषेण न तथाध्यवसायिनाम् अभ्त्_३०. प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता / कथ्यते हाटकेशानपातालाधिपचोदिता अभ्त्_३०. श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे / वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये अभ्त्_३०. धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः / ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः अभ्त्_३०. मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनो@भियोगेन / कुसुमैरानन्दैर्वा भावनया वापि केवलया अभ्त्_३०. गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः / मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता अभ्त्_३०. एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये / बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते अभ्त्_३०. प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् / पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते अभ्त्_३०. सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि / समस्तबन्धशब्देन सहितं च निकृन्तनि अभ्त्_३०. बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् / पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् अभ्त्_३०. खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा / अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः अभ्त्_३०. अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् / वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तो@र्णत्रयादतः अभ्त्_३०. महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् / आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि अभ्त्_३०. षडर्णं पापशब्दादिविमोहनिपदं ततः / पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् अभ्त्_३०. पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति / तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् अभ्त्_३०. तदनच्कतकारेण सहैकीभावतः पठेत् / रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता अभ्त्_३०. मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् / अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् अभ्त्_३०. आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् / एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् अभ्त्_३०. रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयिते@थ मे / पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी अभ्त्_३०. सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा / सार्धवर्णचतुष्कं तदित्येषा समयापहा अभ्त्_३०. विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी / एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् अभ्त्_३०. यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् / अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः अभ्त्_३०. अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः / नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् अभ्त्_३०. निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते / इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् अभ्त्_३०. अथ मण्डलसद्भावः संक्षेपेणाभिधीयते / साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् अभ्त्_३१. तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः / ततो@प्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ अभ्त्_३१. अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् / मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् अभ्त्_३१. तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये / यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे अभ्त्_३१. अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते / मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे अभ्त्_३१. मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः / सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः अभ्त्_३१. मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् / एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः अभ्त्_३१. सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते / यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् अभ्त्_३१. मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् / तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः अभ्त्_३१. तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् / वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् अभ्त्_३१. भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् / ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् अभ्त्_३१. कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः / ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे अभ्त्_३१. कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः / तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् अभ्त्_३१. कोष्ठकार्धे@परं चेति युग्ममन्तर्मुखं भवेत् / ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् अभ्त्_३१. कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः / ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके अभ्त्_३१. कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् / भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् अभ्त्_३१. तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः / कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् अभ्त्_३१. सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते / द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः अभ्त्_३१. मध्यशृङ्गे@थ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके / चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् अभ्त्_३१. तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा / अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते अभ्त्_३१. एवं द्वितीयपार्श्वे@स्य खण्डेन्दुद्वयवर्तनात् / मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् अभ्त्_३१. सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् / पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् अभ्त्_३१. अवधानेन संग्राह्यमाचार्येणोहवेदिना / भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके अभ्त्_३१. मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः / ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् अभ्त्_३१. ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता / द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् अभ्त्_३१. अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् / ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् अभ्त्_३१. मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा / पद्मं वाथ षडरं वा वियद्द्वादशकं च वा अभ्त्_३१. त्रित्रिशूले@त्र सप्तारे श्लिष्टमात्रेण मध्यतः / पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् अभ्त्_३१. मिश्रितं वाथ संकीर्णं समासव्यासभेदतः / ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् अभ्त्_३१. तत्र दण्डः स्मृतो भागः षडरामलसारकः / सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः अभ्त्_३१. या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी / सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका अभ्त्_३१. अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः / ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् अभ्त्_३१. वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः / स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः अभ्त्_३१. उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् / कुटिलो मध्यतः स्पष्टो@धोमुखः पार्श्वगः स्थितः अभ्त्_३१. उत्तानो@र्धो@समः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा / चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी अभ्त्_३१. अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता / तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः अभ्त्_३१. पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः / शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः अभ्त्_३१. स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः / भावाभावविकल्पेन मण्डलानामनन्तता अभ्त्_३१. ततो रजांसि देयानि यथाशोभानुसारतः / सिन्दूरं राजवर्तं च खटिका च सितोत्तमा अभ्त्_३१. उत्तमानि रजांसीह देवतात्रययोगतः / परा चन्द्रसमप्रख्या रक्ता देवी परापरा अभ्त्_३१. अपरा सा परा काली भीषणा चण्डयोगिनी / दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा अभ्त्_३१. अनर्चिते@प्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः / किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः अभ्त्_३१. शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् / या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता अभ्त्_३१. विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता / तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् अभ्त्_३१. अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः / आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः अभ्त्_३१. तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः / तस्मादेनं महायागं महाविभवविस्तरैः अभ्त्_३१. पूजयेद्भूतिकामो वा मोक्षकामो@पिवा बुधः / अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः अभ्त्_३१. पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति / मन्दशक्तिबलाविद्धो@प्येतन्मण्डलपूजनात् अभ्त्_३१. सततं मासषट्केन त्रिकज्ञानं समश्नुते / यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः अभ्त्_३१. देहान्ते स्याद्भैरवात्मा सिद्धिकामो@थ सिद्ध्यति / मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च अभ्त्_३१. वर्तनां च विजानाति स गुरुस्त्रिकशासने / तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना अभ्त्_३१. अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् / तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् अभ्त्_३१. चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् / तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् अभ्त्_३१. इत्येतत्कथितं गुप्ते षडर्धहृदये परे / षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते अभ्त्_३१. अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् / महाशूलसमोपेतं पद्मचक्रादिभूषितम् अभ्त्_३१. द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् / कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् अभ्त्_३१. अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् / शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा अभ्त्_३१. एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति / स्थानान्तरे@पि कथितं श्रीसिद्धातन्त्रशासने अभ्त्_३१. कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु / शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे अभ्त्_३१. अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते / सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः अभ्त्_३१. यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः / तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः अभ्त्_३१. वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् / हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् अभ्त्_३१. त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः / द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ अभ्त्_३१. ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा / भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् अभ्त्_३१. तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः / जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः अभ्त्_३१. तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् / बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् अभ्त्_३१. तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् / ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः अभ्त्_३१. द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः / एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् अभ्त्_३१. सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये / तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् अभ्त्_३१. आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् / तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः अभ्त्_३१. तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये / क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः अभ्त्_३१. षड्विस्तृतं चतुर्दीर्घं तदधो@मलसारकम् / वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते अभ्त्_३१. आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् / हस्तायामं तदर्धं वा विस्तारादपि तत्समम् अभ्त्_३१. द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु / एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् अभ्त्_३१. दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश / द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् अभ्त्_३१. एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् / एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् अभ्त्_३१. यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते / तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये अभ्त्_३१. एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् / द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् अभ्त्_३१. कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः / सितं रक्तं तथा पीतं कार्यं केसरजालकम् अभ्त्_३१. दलानि शुक्लवर्णानि प्रतिवारणया सह / पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः अभ्त्_३१. सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् / चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते अभ्त्_३१. दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् / रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् अभ्त्_३१. पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् / द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् अभ्त्_३१. एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् / कपोलकण्ठशोभोपशोभादिबहुचित्रितम् अभ्त्_३१. विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् / श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति अभ्त्_३१. अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् / भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् अभ्त्_३१. मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ / भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः अभ्त्_३१. तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः / चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः अभ्त्_३१. तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् / ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् अभ्त्_३१. क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः / अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते अभ्त्_३१. भागं भागं गृहीत्वा तु उभयोरथ गोचरात् / भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् अभ्त्_३१. षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् / तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् अभ्त्_३१. मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः / सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् अभ्त्_३१. कर्णिका पीतला रक्तपीतशुक्लं च केसरम् / दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी अभ्त्_३१. शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः / शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः अभ्त्_३१. शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा / अस्योर्ध्वे तु परां दक्षे@न्यां वामे चापरां बुधः अभ्त्_३१. या सा कालान्तका देवी परातीता व्यवस्थिता / ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा अभ्त्_३१. शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् / अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा अभ्त्_३१. भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् / चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा अभ्त्_३१. एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः / अथ त्रैशिरसे शूलाब्जविधिर्दृष्टो@भिलिख्यते अभ्त्_३१. वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः / भूमिं रजांसि करणीं खटिकां मूलतो@र्चयेत् अभ्त्_३१. चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् / चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ अभ्त्_३१. वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः / द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका अभ्त्_३१. दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः / ऊर्ध्वे@प्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला अभ्त्_३१. शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् / कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः अभ्त्_३१. अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः / शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् अभ्त्_३१. वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् / द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा अभ्त्_३१. चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् / उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा अभ्त्_३१. भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् / वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः अभ्त्_३१. यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् / मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः अभ्त्_३१. चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला / उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः अभ्त्_३१. पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते / शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् अभ्त्_३१. अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् / चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् अभ्त्_३१. पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः / कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च अभ्त्_३१. कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् / क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् अभ्त्_३१. चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् / विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् अभ्त्_३१. त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् / सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् अभ्त्_३१. शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् / रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् अभ्त्_३१. शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः / तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः अभ्त्_३१. वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् / समन्ततो@थ दिक्षु स्युर्द्वाराणि करमात्रतः अभ्त्_३१. त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः / कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः अभ्त्_३१. प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् / सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः अभ्त्_३१. रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् / अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् अभ्त्_३१. अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः / अनाहतपदव्याप्तिः कुण्डल्या उदयः परः अभ्त्_३१. हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे / नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् अभ्त्_३१. शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् / उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः अभ्त्_३१. शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् / प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि अभ्त्_३१. अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् / मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् अभ्त्_३१. तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः / समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः अभ्त्_३१. समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः / षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् अभ्त्_३१. विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे / कार्यो@स्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् अभ्त्_३१. स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः / नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः अभ्त्_३१. शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा / एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा अभ्त्_३१. अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते / वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् अभ्त्_३१. रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् / वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः अभ्त्_३१. रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् / मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि अभ्त्_३१. वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च / लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् अभ्त्_३१. द्वारप्राकारकोणेषु नेत्रानलशरानृतून् / नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः अभ्त्_३१. वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् / नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् अभ्त्_३१. लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् / शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् अभ्त्_३१. नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः / स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ अभ्त्_३१. मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः / नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने अभ्त्_३१. ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् / नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् अभ्त्_३१. वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् / वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि अभ्त्_३१. ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् / सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः अभ्त्_३१. भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् / सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि अभ्त्_३१. दलानि कार्याणि सितैः केसरं रक्तपीतलैः / कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः अभ्त्_३१. व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः / पीठं रेखात्रयोपेतं सितलोहितपीतलम् अभ्त्_३१. स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः / वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः अभ्त्_३१. इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् / दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् अभ्त्_३१. नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् / ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् अभ्त्_३१. गदा हेमनिभात्युग्रा नानारत्नविभूषिता / शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् अभ्त्_३१. तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् / चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः अभ्त्_३१. अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् / मन्दिरं देवदेवस्य सर्वकामफलप्रदम् अभ्त्_३१. श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते / हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् अभ्त्_३१. मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् / नवभिः कोष्ठकैर्युक्तं ततो@यं विधिरुच्यते अभ्त्_३१. मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु / अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति अभ्त्_३१. उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् / कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् अभ्त्_३१. अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् / रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् अभ्त्_३१. शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् / अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् अभ्त्_३१. मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् / मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् अभ्त्_३१. रेखाद्वयं पातयेत यथा शूलं भवत्यपि / अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते अभ्त्_३१. समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु / मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि अभ्त्_३१. इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः / अभ्त्_३१. अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् / ०ब् मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले / उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् अभ्त्_३२. बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता / विम्बस्य यस्या उदय इत्युक्ता तदुपायता अभ्त्_३२. मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् / रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता अभ्त्_३२. तत्र प्रधानभूता श्रीखेचरी देवतात्मिका / निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी अभ्त्_३२. करङ्किणी क्रोधना च भैरवी लेलिहानिका / महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा अभ्त्_३२. इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते / अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते अभ्त्_३२. तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् / श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् अभ्त्_३२. देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा / काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् अभ्त्_३२. मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः अभ्त्_३२. तत्र पूर्णेन रूपेण खेचरीमेव वर्णये / बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् अभ्त्_३२. दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् / निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु अभ्त्_३२. एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने / ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि अभ्त्_३२. अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् / जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे अभ्त्_३२. विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् / अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् अभ्त्_३२. जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् / त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः अभ्त्_३२. पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् / शून्याशून्यलये कृत्वा एकदण्डे@निलानलौ अभ्त्_३२. शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते / त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः अभ्त्_३२. आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः / शूलं समरसं कृत्वा रसे रस इव स्थितः अभ्त्_३२. एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये / बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् अभ्त्_३२. खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् / त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः अभ्त्_३२. अवधूतो निराचारो नाहमस्मीति भावयम् / मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः अभ्त्_३२. ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे / रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः अभ्त्_३२. नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् / कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् अभ्त्_३२. ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् / विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति अभ्त्_३२. शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः / तत्रस्था देवताः सर्वा द्योतयन्त्यो@खिलं जगत् अभ्त्_३२. कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा / अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् अभ्त्_३२. एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् / हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ अभ्त्_३२. चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः / विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् अभ्त्_३२. एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् / जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् अभ्त्_३२. परदेहेषु चात्मानं परं चात्मशरीरतः / पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् अभ्त्_३२. नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् / अनया हि खचारी श्रीयोगसञ्चार उच्यते अभ्त्_३२. कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् / वामो यो@यं जगत्यस्मिंस्तस्य संहरणोद्यताम् अभ्त्_३२. स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् / व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् अभ्त्_३२. यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् / तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् अभ्त्_३२. चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् / मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् अभ्त्_३२. वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः / कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् अभ्त्_३२. तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते / वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः अभ्त्_३२. ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् / गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी अभ्त्_३२. तत्र तत्पदसंयोगादुन्मीलनविधायिनी / यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः अभ्त्_३२. ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् / एष क्रमस्ततो@न्यो@पि व्युत्क्रमः खेचरी परा अभ्त्_३२. योन्याधारेति विख्याता शूलमूलेति शब्द्यते / वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि अभ्त्_३२. नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् / आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् अभ्त्_३२. नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् / बीजपञ्चकचारेण शूलभेदक्रमेण तु अभ्त्_३२. हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् / वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् अभ्त्_३२. आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् / चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे अभ्त्_३२. भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् / पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः अभ्त्_३२. श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः / चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् अभ्त्_३२. ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे / तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते अभ्त्_३२. भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः / मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी अभ्त्_३२. त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते / नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च अभ्त्_३२. वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् / भवस्थानाभवस्थानमुच्चारेणावधारयेत् अभ्त्_३२. मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः / मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः अभ्त्_३२. शरीरं तु समस्तं यत्कूटाक्षरसमाकृति / एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे अभ्त्_३२. सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः / पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः अभ्त्_३२. अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी / तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ अभ्त्_३२. सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता / मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया अभ्त्_३२. शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् / समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् अभ्त्_३२. एषैव शक्तिमुद्रा चेदधोधावितपाणिका / दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् अभ्त्_३२. द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता / संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल अभ्त्_३२. उत्क्रामणी झगित्येव पशूनां पाशकर्तरी / श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव अभ्त्_३२. साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् / अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् अभ्त्_३२. वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी / अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले अभ्त्_३२. एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता / श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते अभ्त्_३२. एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् / एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया अभ्त्_३२. तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् / तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया अभ्त्_३२. यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे / विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः अभ्त्_३२. बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः / शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् अभ्त्_३२. इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः / अभ्त्_३२. अथावसरसंप्राप्त एकीकारो निगद्यते / ०ब् यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् / तत्रैष चक्रभेदानामेकीकारो दिशानया अभ्त्_३३. विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा / गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः अभ्त्_३३. माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका / चामुण्डा चैव योगीशीत्यष्टाघोर्यादयो@थवा अभ्त्_३३. अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः / नन्दा भद्रा जया काली कराली विकृतानना अभ्त्_३३. क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना / गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः अभ्त्_३३. सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः / दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः अभ्त्_३३. सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः / बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः अभ्त्_३३. माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः / दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ अभ्त्_३३. शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः / श्रीकण्ठो@नन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः अभ्त्_३३. अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा / झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः अभ्त्_३३. द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः / ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः अभ्त्_३३. तनुसेचनमूर्तीशाः सर्वामृतधरो@परः / श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः अभ्त्_३३. संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः / द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि अभ्त्_३३. देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः / जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः अभ्त्_३३. तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः / तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः अभ्त्_३३. शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च / चेतो@नुगकौशिककालविश्वसुशिवास्तथापरः कोपः अभ्त्_३३. श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः / जुंकारो@थाग्निपत्नीति षडरे षण्ठवर्जिताः अभ्त्_३३. द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् / हलस्तद्द्विगुणे@ष्टारे याद्यं हान्तं तु तत्त्रिके अभ्त्_३३. द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि / एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् अभ्त्_३३. एक एव चिदात्मैष विश्वामर्शनसारकः / शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ अभ्त्_३३. तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने / शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् अभ्त्_३३. तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् / अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् अभ्त्_३३. आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् / अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् अभ्त्_३३. तदामृतचतुष्कोनभावे द्वादशकं भवेत् / तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता अभ्त्_३३. विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् / अंशांशिकापरामर्शान् पर्यन्ते सहते यतः अभ्त्_३३. अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता / वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः अभ्त्_३३. इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः / स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् अभ्त्_३३. तस्यादित उदात्तं तत्कथितं पदवेदिना / इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी अभ्त्_३३. अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् / स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् अभ्त्_३३. परापरा परा चान्या सृष्टिस्थितितिरोधयः / मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते अभ्त्_३३. तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे / तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि अभ्त्_३३. तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् / इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः अभ्त्_३३. उच्यते@थ स्वस्वरूपप्रवेशः क्रमसङ्गतः / ०ब् यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये / तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे अभ्त्_३४. ततो@प्याणवसंत्यागाच्छाक्तीं भूमिमुपाश्रयेत् / ततो@पि शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् अभ्त्_३४. इत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी / अन्ते@भ्युपायनिरपेक्षतयैव नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् अभ्त्_३४. कथितो@यं स्वस्वरूपप्रवेशः परमेष्ठिना / अभ्त्_३४. अथोच्यते समस्तानां शास्त्राणामिह मेलनम् / इह तावत्सम स्तो@यं व्यवहारः पुरातनः अभ्त्_३५. प्रसिद्धिमनुसन्धाय सैव चागम उच्यते / अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ अभ्त्_३५. स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः / प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् अभ्त्_३५. अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् / अभितःसंवृते जात एकाकी क्षुधितः शिशुः अभ्त्_३५. किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् / ननु वस्तुशताकीर्णे स्थाने@प्यस्य यदेव हि अभ्त्_३५. पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति / चेतस्तदेवादाय द्राक् सो@न्वयव्यतिरेकभाक् अभ्त्_३५. हन्त चेतःप्रसादो@पि यो@सावर्थविशेषगः / सो@पि प्राग्वासनारूपविमर्शपरिकल्पितः अभ्त्_३५. न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः / प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न अभ्त्_३५. न मृदभ्यवहारेच्छा पुंसो बालस्य जायते / प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना अभ्त्_३५. प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी / नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः अभ्त्_३५. मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् / पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् अभ्त्_३५. सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा / व्यवहारो हि नैकत्र समस्तः को@पि मातरि अभ्त्_३५. तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति / बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन अभ्त्_३५. भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः / तद्विमर्शस्वभावो@सौ भैरवः परमेश्वरः अभ्त्_३५. ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् / शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् अभ्त्_३५. तयैवाशैशवात्सर्वे व्यवहारधराजुषः / सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् अभ्त्_३५. अपूर्णास्तु परे तेन न मोक्षफलभागिनः / उपजीवन्ति यावत्तु तावत्तत्फलभागिनः अभ्त्_३५. बाल्यापाये@पि यद्भोक्तुमन्नमेष प्रवर्तते / तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् अभ्त्_३५. नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः / प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका अभ्त्_३५. मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् / स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः अभ्त्_३५. यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् / तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते अभ्त्_३५. अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते / एवं भाविशिवत्वो@मूं प्रसिद्धिं मन्यते ध्रुवम् अभ्त्_३५. एक एवागमश्चायं विभुना सर्वदर्शिना / दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः अभ्त्_३५. धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः / विचित्रेषु फलेष्वेक उपायः शाम्भवागमः अभ्त्_३५. तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि / चित्रोपायोपदेशो@पि न विरोधावहो भवेत् अभ्त्_३५. लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् / बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् अभ्त्_३५. सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः / श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः अभ्त्_३५. यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः / संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् अभ्त्_३५. यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् / फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् अभ्त्_३५. एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः / प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् अभ्त्_३५. तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् / सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते अभ्त्_३५. यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु / एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः अभ्त्_३५. श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् / दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् अभ्त्_३५. पुष्पे गन्धस्तिले तैलं देहे जीवो जले@मृतम् / यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् अभ्त्_३५. तदेक एवागमो@यं चित्रश्चित्रे@धिकारिणि / तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा अभ्त्_३५. सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् / यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने अभ्त्_३५. एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः / लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः अभ्त्_३५. अनेकागमपक्षे@पि वाच्या विषयभेदिता / अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये अभ्त्_३५. अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् / नित्यत्वमविसंवाद इति नो मानकारणम् अभ्त्_३५. अस्मिन्नंशे@प्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः / अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने अभ्त्_३५. अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः / अवश्योपेत्य इत्यस्मिन्मान आगमनामनि अभ्त्_३५. अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् / प्रधाने@ङ्गे कृतो यत्नः फलवान्वस्तुतो यतः अभ्त्_३५. अतो@स्मिन् यत्नवान् को@पि भवेच्छंभुप्रचोदितः / तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना अभ्त्_३५. एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् / इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् अभ्त्_३५. आयातिरथ शास्त्रस्य कथ्यते@वसरागता /०ब् श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता / भैरवो भैरवी देवी स्वच्छन्दो लाकुलो@णुराट् अभ्त्_३६. गहनेशो@ब्जजः शक्रो गुरुः कोट्यपकर्षतः / नवभिः क्रमशो@धीतं नवकोटिप्रविस्तरम् अभ्त्_३६. एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् / दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च अभ्त्_३६. पादं च वामनादिभ्यः पादार्धं भार्गवाय च / पादपादं तु बलये पादपादस्तु यो@परः अभ्त्_३६. सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे / पादं वासुकिनागाय खण्डाः सप्तदश त्वमी अभ्त्_३६. स्वर्गादर्धं रावणो@थ जह्रे रामो@र्धमप्यतः / विभीषणमुखादाप गुरुशिष्यविधिक्रमात् अभ्त्_३६. खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः / खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः अभ्त्_३६. पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः / सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः अभ्त्_३६. देव्यो@त्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण / नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने अभ्त्_३६. रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्यो@पि दानवाः / गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः अभ्त्_३६. तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा / तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् अभ्त्_३६. त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये / द्वयाद्वये च निपुणाः क्रमेण शिवशासने अभ्त्_३६. आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् / स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः अभ्त्_३६. अतश्चार्धचतस्रो@त्र मठिकाः संततिक्रमात् / शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः अभ्त्_३६. अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् / विधाय तन्त्रालोको@यं स्यन्दते सकलान्रसान् अभ्त्_३६. उक्तायातिरुपादेयभावो निर्णीयते@धुना / अभ्त्_३६. उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते / प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः अभ्त्_३७. यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः / सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः अभ्त्_३७. तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि / मनाक्फले@भ्युपादेयतमं तद्विपरीतकम् अभ्त्_३७. यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् / क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः अभ्त्_३७. यदार्षे पातहेतूक्तं तदस्मिन्वामशासने / आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् अभ्त्_३७. तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् / यदशेषोपदेशेन सूयते@नुत्तरं फलम् अभ्त्_३७. यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः / उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् अभ्त्_३७. यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् / अपूर्णसर्ववित्प्रोक्तिर्ज्ञायते@धरशासने अभ्त्_३७. ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते / अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् अभ्त्_३७. श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना / ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् अभ्त्_३७. नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् / तदार्षे पातहेतूक्तं तदस्मिन् वामशासने अभ्त्_३७. आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् / यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् अभ्त्_३७. क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः / अज्ञत्वानुपदेष्टृत्वसंदष्टे@धरशासने अभ्त्_३७. एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् / द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ अभ्त्_३७. द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् / प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् अभ्त्_३७. तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् / पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् अभ्त्_३७. दशाष्टादशधा स्रोतःपञ्चकं यत्ततो@प्यलम् / उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् अभ्त्_३७. श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल / समूहः पीठमेतच्च द्विधा दक्षिणवामतः अभ्त्_३७. मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् / मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया अभ्त्_३७. उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी / मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् अभ्त्_३७. मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् / एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् अभ्त्_३७. यतस्तस्माद्भवेत्सर्वं पीठे पीठे@पि वस्तुतः / प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः अभ्त्_३७. कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये / प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा अभ्त्_३७. मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् / विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् अभ्त्_३७. तस्यापि परमं सारं मालिनीविजयोत्तरम् / उक्तं श्रीरत्नमालायामेतच्च परमेशिना अभ्त्_३७. अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् / एकत्र मिलितं कौलं श्रीषडर्धकशासने अभ्त्_३७. सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् / दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् अभ्त्_३७. स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् / मोक्षविद्याविहीनं च विनयं त्यज दूरतः अभ्त्_३७. यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् / मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् अभ्त्_३७. मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् / आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके अभ्त्_३७. जिज्ञासुस्तत एवेदमवधारयितुं क्षमः / वयं तूक्तानुवचनमफलं नाद्रियामहे अभ्त्_३७. इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् / यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् अभ्त्_३७. षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् / षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् / ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः अभ्त्_३७. भूरादिसप्तपुरपूर्णतमे@पि तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य / क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा अभ्त्_३७. तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् / यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा अभ्त्_३७. प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदे@पि धाम्नि / सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने अभ्त्_३७. कन्याह्वये@पि भुवने@त्र परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः / जात्यन्धसद्मनि न जन्म न को@भिनिन्देद्भिन्नाञ्जनायितरविप्रमुखप्रकाशे अभ्त्_३७. निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा / को@प्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः अभ्त्_३७. तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम् / अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात् परिचर्चितुम् अभ्त्_३७. स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः / तन्मन्ये@हं समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै अभ्त्_३७. यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु / शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति अभ्त्_३७. नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् / केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम् अभ्त्_३७. त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते / कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् अभ्त्_३७. यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति / यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ अभ्त्_३७. उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः / आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति अभ्त्_३७. सर्वो लोकः कविरथ बुधो यत्र शूरो@पि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र / यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः अभ्त्_३७. श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः / यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् अभ्त्_३७. आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव / सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति अभ्त्_३७. संपूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः / प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य अभ्त्_३७. रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः / आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या अभ्त्_३७. भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् / न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता अभ्त्_३७. तस्मिन् कुवेरपुरचारिसिंतांशुमौलिसांमुख्यदर्शनविरूढपवित्रभावे / वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् अभ्त्_३७. तस्यान्वये महति को@पि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले / गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण अभ्त्_३७. तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः / यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः अभ्त्_३७. तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन / यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः अभ्त्_३७. तस्यात्मजो@भिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः / माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति अभ्त्_३७. माता परं बन्धुरिति प्रवादः स्नोहो@तिगाढीकुरुते हि पाशान् / तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः अभ्त्_३७. पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः / साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः अभ्त्_३७. स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः / तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् अभ्त्_३७. आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः / श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः अभ्त्_३७. त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः / तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः अभ्त्_३७. श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः / अन्ये@पि धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः अभ्त्_३७. एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै / यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं तत्त्वसेवारसो@भूत् अभ्त्_३७. सो@नुग्रहीतुमथ शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् / यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद अभ्त्_३७. श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः / देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् अभ्त्_३७. तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः / लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः अभ्त्_३७. अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः / ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः अभ्त्_३७. षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि / स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः अभ्त्_३७. अन्यो@पि कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः / अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः अभ्त्_३७. आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् / जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् अभ्त्_३७. सो@प्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतो@वतीर्णम् / सो@नुग्रहप्रवण एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण अभ्त्_३७. विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे / आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे अभ्त्_३७. तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता / शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या अभ्त्_३७. मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः / वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी अभ्त्_३७. भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः / स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् अभ्त्_३७. तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव / यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् अभ्त्_३७. यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या / भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति सो@र्थपरम्पराणाम् अभ्त्_३७. भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च / शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः अभ्त्_३७. अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् / भाविप्रभावोज्ज्वलभव्यबुद्धिः सतो@वजानाति न बन्धुबुद्ध्या अभ्त्_३७. भ्राता तदीयो@भिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः / पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् अभ्त्_३७. सो@न्यश्च शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः / तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् अभ्त्_३७. इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि / पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् अभ्त्_३७. स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् / आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु अभ्त्_३७. सन्तो@नुगृह्णीत कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् / ततो@पि गृह्णातु भवन्मतिं सा सद्यो@नुगृह्णातु च तत्त्वदृष्ट्या अभ्त्_३७. इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतःश्रोत्रतन्त्रः / तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व अभ्त्_३७.