प्रथमो निःष्यन्दः यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः यत्र स्थितम् इदं सर्वं कार्यं यस्माच् च निर्गतं तस्यानावृतरूपत्वान् न निरोधो ऽस्ति कुत्रचित् जाग्रदादि विभेदे ऽपि तदभिन्ने प्रसर्पति निवर्तते निजान्नैव स्वभावाद् उपलब्धृतः अहं सुखी च दुःखी च रक्तश् च इत्यदिसम्विदः सुखाद्यवस्थानुस्यूते वर्तन्ते ऽन्यत्र ताः स्फुटम् न दुःखं न सुखं यत्र न ग्राह्यम् ग्राहकं न च न चास्ति मूढभावो ऽपि तद् अस्ति परमार्थतः यतः करणवर्गो ऽयं विमूढो ऽमूढवत् स्वयम् सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतिः लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वम् आदरात् यतः स्वतन्त्रता तस्य सर्वत्रेयम् अकृत्रिमा न हीच्छानोदनस्यायम् प्रेरकत्वेन वर्तते अपि त्व् आत्मबलस्पर्शात् पुरुषस् तत्समो भवेत् निजाशुद्ध्यासमर्थस्य कर्तव्येष्व् अभिलाषिणः यदा क्षोभः प्रलीयेत तदा स्यात् परमम् पदम् तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणह् यतस् तदेप्सितं सर्वं जानाति च करोति च तम् अधिष्ठातृभावेन स्वभावम् अवलोकयन् स्मयमान इवास्ते यस् तस्येयं कुसृतिः कुतः नाभावो भाव्यताम् एति न च तत्रास्त्य् अमूढता यतो ऽभियोगसंस्पर्शात् तदासिद् इति निश्चयह् अतस् तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत् सदा न त्व् एवं स्मर्यमाणत्वं तत् तत्त्वम् प्रतिपद्यते अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् कार्यता क्षयिणी तत्र कर्तृत्वम् पुनर् अक्षयम् कार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते तस्मिन् लुप्ते विलुप्तो ऽस्मीत्य् अबुधः प्रतिपद्यते न तु यो ऽन्तर्मुखो भावह् सर्वज्ञात्वगुणास्पदम् तस्य लोपः कदाचित् स्याद् अन्यस्यानुपलम्भनात् तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी नित्यं स्यात् सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः पदद्वये विभुर् भाति तदन्यत्र तु चिन्मयः गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् लब्धात्मलाभः सततं स्युर् ज्ञस्यापरिपन्थिनः अप्रबुधधियस् त्व् एते स्वस्थितिस्थगनोद्यताः पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि अतः सततम् उद्युक्तः स्पन्दतत्त्वविविक्तये जाग्रद् एव निजम् भावम् अचिरेणाधिगच्छति अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् धावन् व यत् पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः याम् अवस्थां समालम्ब्य यद् अयम् मम वक्ष्यति तदवश्यं करिष्ये ऽहम् इति संकल्प्य तिष्ठति ताम् अश्रित्योर्ध्वमार्गेण चन्द्रसूर्याव् उभाव् अपि सौषुम्ने ऽध्वन्यस्तमितो हित्वा ब्रह्मा.ङ्दगोचरम् तदा तस्मिन् महाव्योम्नि प्रलीनशशिभास्करे सौषुप्तपदवन् मूढः प्रबुद्धः स्याद् अनावृतः द्वितीयो निःष्यन्दः तदाक्रम्य बलम् मन्त्राः सर्वज्ञाबलशालिनः प्रवर्तन्ते ऽधिकाराय करणानीव देहिनाम् तत्रैव सम्प्रलीयन्ते शान्तरूपा निरञ्जनाः सहाराधकचित्तेन तेनैते शिवधर्मिणः यस्मात् सर्वमयो जीवः सर्वभावसमुद्भवात् तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः तस्माच् छब्दार्थचिन्तासु न सावस्था न या शिवः भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः अयम् एवोदयस् तस्य ध्येयस्य ध्यायिचेतसि तदात्मतासमापत्तिर् इच्छतः साधकस्य या इयम् एवामृतप्राप्तिर् अयम् एवात्मनो ग्रहः इयं निर्वाण-दीक्षा च शिवसद्भावदायिनि तृतीयो निःष्यन्दः यथेच्छाभ्यर्थितो धाता जाग्रतो ऽर्थान् हृदि स्थितान् सोमसूर्योदयं कृत्वा सम्पादयति देहिनः तथा स्वप्ने ऽप्य् अभीष्टार्थान् प्रणयस्यानतिक्रमात् नित्यं स्फुटतरं मध्ये स्थितो ऽवश्यं प्रकाशयेत् अन्यथा तु स्वतन्त्रा स्यात् सृष्टिस् तद्धर्मकत्वतः सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये यथा हि अर्थो ऽस्फुटो दृष्टः सावधाने ऽपि चेतसि भूयः स्फुटतरो भाति स्वबलोद्योगभावितः तथा यत् परमार्थेन येन यत्र यथा स्थितम् तत् तथा बलम् आक्रम्य न चिरात् सम्प्रवर्तते दुर्बलो ऽपि तदाक्रम्य यतः कार्ये प्रवर्तते आच्छादयेद् बुभुक्षां च तथा यो ऽति बुभुक्षितः अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः तथा स्वात्मन्य् अधिष्ठानात् सर्वत्रैवम् भविष्यति ग्लानिर् विलु.ङ्थिका देहे तस्याश्चाज्ञानतः सृतिः तद् उन्मेषविलुप्तं चेत् कुतः सा स्याद् अहेतुका एकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत् अतो बिन्दुर् अतो नादो रूपम् अस्माद् अतो रसः प्रवर्तन्ते ऽचिरेणैव क्षोभकत्वेन देहिनः दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते तदा किं बहुनोक्तेन स्वयम् एव अवभोत्स्यते प्रबुद्धः सर्वदा तिष्ठेज् ज्ञानेनालोक्य गोचरम् एकत्रारोपयेत् सर्वं ततो ऽन्येन न पीड्यते शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः परामृतरसापायस् तस्य यः प्रत्ययोद्भवः तेनास्वतन्त्रताम् एति स च तन्मात्रगोचरः स्वरूपावरणे चास्य शक्तयः सततोत्थिताः यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी बन्धयित्री स्वमार्गस्था ज्ञात सिद्ध्युपपादिका तन्मात्रोदयरूपेन मनो ऽहंबुद्धिवर्तिना पुर्यष्टकेन संरुद्धस् तदुत्थम् प्रत्ययोद्भवम् भुङ्क्ते परवशो भोगं तद्भावात् संसरेद् अतः संसृतिप्रलयस्यास्य कारणं सम्प्रचक्ष्महे यदा त्व् एकत्र संरूढस् तदा तस्य लयोदयौ नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत् चतुर्थो निःष्यन्दः अगाधसंशयाम्भोधिसमुत्तरणतारिनीम् वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् लब्ध्वाप्य् अलभ्यम् एतज् ज्ञानधनं हृद्गुहान्तकृतनिहितेः वसुगुप्तवच् छिवाय हि भवति सदा सर्वलोकस्य