; शिवसूत्र चैतन्यमात्मा । १-१। ज्ञानं बन्धः । १-२। योनिवर्गः कलाशरीरम् । १-३। ज्ञानाधिष्ठानं मातृका । १-४। उद्यमो भैरवः । १-५। शक्तिचक्रसन्धाने विश्वसंहारः । १-६। जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः । १-७। ज्ञानं जाग्रत् । १-८। स्वप्नो विकल्पाः । १-९। अविवेको मायासौषुप्तम् । १-१०। त्रितयभोक्ता वीरेशः । १-११। विस्मयो योगभूमिकाः । १-१२। इच्छा शक्तिरुमा कुमारी । १-१३। दृश्यं शरीरम् । १-१४। हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् । १-१५। शुद्धतत्त्वसन्धानाद् वा अपशुशक्तिः । १-१६। वितर्क आत्मज्ञानम् । १-१७। लोकानन्दः समाधिसुखम् । १-१८। शक्तिसन्धाने शरीरोत्पत्तिः । १-१९। भूतसन्धान भूतपृथक्त्व विश्वसंघट्टाः । १-२०। शुद्धविद्योदयाच्चक्रेशत्व सिद्धिः । १-२१। महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः । १-२२। चित्तं मन्त्रः । २-१। प्रयत्नः साधकः । २-२। विद्याशरीरसत्ता मन्त्ररहस्यम् । २-३। गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः । २-४। विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था । २-५। गुरुरुपायः । २-६। मातृकाचक्रसम्बोधः । २-७। शरीरं हविः । २-८। ज्ञानं अन्नम् । २-९। विद्यासंहारे तदुत्थ स्वप्न दर्शनम् । २-१०। आत्मा चित्तम् । ३-१। ज्ञानं बन्धः । ३-२। कलादीनां तत्त्वानां अविवेको माया । ३-३। शरीरे संहारः कलानाम् । ३-४। नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि । ३-५। मोहावरणात् सिद्धिः । ३-६। मोहजयाद् अनन्ताभोगात् सहजविद्याजयः । ३-७। जाग्रद् द्वितीयकरः । ३-८। नर्तक आत्मा । ३-९। रङ्गोऽन्तरात्मा । ३-१०। प्रेक्षकाणीन्द्रियाणि । ३-११। धीवशात् सत्त्वसिद्धिः । ३-१२। सिद्धः स्वतन्त्रभावः । ३-१३। यथा तत्र तथान्यत्र । ३-१४। विसर्गस्वाभाव्याद् अबहिः स्थितेस्तत्स्थितिः । ३-१५। बीजावधानम् । ३-१६। आसनस्थः सुखं ह्रदे निमज्जति । ३-१७। स्वमात्रा निर्माणं आपादयति । ३-१८। विद्या अविनाशे जन्म विनाशः । ३-१९। कवर्गादिषु माहेश्वर्याद्याः पशुमातरः । ३-२०। त्रिषु चतुर्थं तैलवदासेच्यम् । ३-२१। मग्नः स्वचित्तेन प्रविशेत् । ३-२२। प्राण समाचारे समदर्शनम् । ३-२३। मध्येऽवर प्रसवः । ३-२४। मात्रास्वप्रत्यय सन्धाने नष्टस्य पुनरुत्थानम् । ३-२५। शिवतुल्यो जायते । ३-२६। शरीरवृत्तिर्व्रतम् । ३-२७। कथा जपः । ३-२८। दानं आत्मज्ञानम् । ३-२९। योऽविपस्थो ज्ञाहेतुश्च । ३-३०। स्वशक्ति प्रचयोऽस्य विश्वम् । ३-३१। स्तिथिलयौ । ३-३२। तत् प्रवृत्तावप्यनिरासः संवेत्तृभावात् । ३-३३। सुख दुःखयोर्बहिर्मननम् । ३-३४। तद्विमुक्तस्तु केवली । ३-३५। मोहप्रतिसंहतस्तु कर्मात्मा । ३-३६। भेद तिरस्कारे सर्गान्तर कर्मत्वम् । ३-३७। करणशक्तिः स्वतोऽनुभवात् । ३-३८। त्रिपदाद्यनुप्राणनम् । ३-३९। चित्तस्थितिवत् शरीर करण बाह्येषु । ३-४०। अभिलाषाद्बहिर्गतिः संवाह्यस्य । ३-४१। तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः । ३-४२। भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः । ३-४३। नैसर्गिकः प्राणसंबन्धः । ३-४४। नासिकान्तर्मध्य संयमात् किमत्र सव्यापसव्य सौषुम्नेषु । ३-४५। भूयः स्यात् प्रतिमीलनम् । ३-४६। ॐ तत् सत् *