ॐ नमो मङ्गलमूर्तये अथ प्रत्यभिज्ञाहृदयम् नमः शिवाय सततं पञ्चकृत्यविधायिने चिदानन्दघनस्वात्मपरमार्थावभासिने शाङ्करोपनिषत्सारप्रत्यभिज्ञामहोदधेः क्षेमेणोद्धृयते सारः संसारविषशान्तये इह ये सुकुमारमतयो ऽकृततीक्ष्णतर्कशास्त्रपरिश्रमाः शक्तिपातोन्मिषितपारमेश्वरसमावेशाभिलाषिणः कतिचित् भक्तिभाजः तेषाम् ईश्वरप्रत्यभिज्ञोपदेशतत्त्वं मनाक् उन्मील्यते तत्र स्वात्मदेवताया एव सर्वत्र कारणत्वं सुखोपायप्राप्यत्वं महाफलत्व.= म् च अभिव्यङ्क्तुम् आह चितिः स्वतन्त्रा विश्वसिद्धिहेतुः विश्वस्य सदाशिवादेः भूम्यन्तस्य सिद्धौ निष्पत्तौ प्रकाशने स्थित्यात्मनि परप्रमातृविश्रान्त्यात्मनि च संहारे पराशक्तिरूपा चितिर् एव भगवती स्वतन्त्रा अनुत्तरविमर्शमयी शिवभट्टारकाभिन्ना हेतुः कारणम् अस्यां हि प्रसरन्त्यां जगत् उन्मिषति व्यवतिष्ठते च निवृत्तप्रसरायां च निमिषति इति स्वानुभव एव अत्र साक्षी अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन असत्त्वान् न क्वचिद् अपि हेतुत्वम् प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिर् एव हेतुः न त्व् असौ कश्चित् अत एव देशकालाकारा एतत्सृष्टा एतदनुप्राणिताश् च नैतत्स्वरूपं भेत्तुम् अलम् इति व्यापकनित्योदितपरिपूर्णरूपा इयम् इत्य् अर्थलभ्यम् एव एतत् ननु जगद् अपि चितो भिन्नं नैव किंचित् अभेदे च कथं हेतुहेतुमद्भावः उच्यते चिद् एव भगवती स्वच्छस्वतन्त्ररूपा तत्तदनन्तजगदात्मना स्फुरति इत्य् एतावत् परमार्थो ऽयं कार्यकारणभावः यतश् च इयम् एव प्रमातृप्रमाणप्रमेयमयस्य विश्वस्य सिद्धौ प्रकाशने हेतुः ततो ऽस्याः स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः सिद्धौ अभिनवार्थप्रकाशनरूप.= म् न प्रमाणवराकम् उपयुक्तम् उपपन्नं वा तद् उक्तम् त्रिकसारे स्वपदा स्वशिरश्छायां यद्वल् लङ्घितुम् ईहते पादोद्देशे शिरो न स्यात् तथेयं बैन्दवी कला इति यतश् च इयं विश्वस्य सिद्धौ पराद्वयसमारस्यापादनात्मनि च संहरे हेतुः तत एव स्वतन्त्रा प्रत्यभिज्ञातस्वातन्त्र्या सती भोगमोक्षस्वरूपाणां विश्वसिद्धीनां हेतुः इत्य् आवृत्त्या व्याख्येयम् अपि च विश्वं नीलसुखदेहप्राणादि तस्य या सिद्धिः प्रमानोपारोहक्रमेण विमर्शमयप्रमात्रावेशः सैव हेतुः परिज्ञाने उपायो यस्याः अनेन च सुखोपायत्वम् उक्तम् यद् उक्तं श्रीविज्ञानभट्टारके ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् योगिनां तु विशेषो ऽयं संबन्धे सावधानता इति चितिः इति एकवचनं देशकालाद्यनवच्छिन्नताम् अभिदधत् समस्तभेदवादानाम् अवास्तवतां व्यनक्ति स्वतन्त्रशब्दो ब्रह्मवादवैलक्षण्यम् आचक्षाणः चितो माहेश्वर्यसारतां ब्रूते विश्व इत्यादिपदम् अशेषशक्तित्वं सर्वकारणत्वं सुखोपायत्वं महाफलं च आह ननु विश्वस्य यदि चितिः हेतुः तत् अस्या उपादानाद्यपेक्षायां भेदवादापरित्यागः स्यात् इत्य् आशङ्क्य आह स्वेच्छया स्वभित्तौ विश्वम् उन्मीलयति स्वेच्छया न तु ब्रह्मादिवद् अन्येच्छया तयैव च न तु उपादानाद्यपेक्षय्= आ एवं हि प्रागुक्तस्वातन्त्र्यहान्या चित्त्वम् एव न घटेत स्वभित्तौ न तु अन्यत्र क्वापि प्राक् निर्णीतं विश्वं दर्पणे नगरवत् अभिन्नम् अपि भिन्नम् इव उन्मीलयति उन्मीलनं च अवस्थितस्यैव प्रकटीकरणं इत्= य् अनेन जगतः प्रकशैकात्म्येनावस्थानम् उक्तम् अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुम् आह तन् नाना अनुरूपग्राह्यग्राहकभेदात् तद् विश्वं नाना अनेकप्रकारम् कथम् अनुरूपाणां परस्परौचित्यावस्थीनां ग्राह्याणां ग्राहकाणां च भेदाद् वैचित्र्यात् तथा च सदाशिवतत्त्वे ऽहन्ताच्छादितास्फुटेदन्तामयं यादृशं परापररूपं विश्वं ग्राह्यं तादृग् एव श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्थानः ईश्वरतत्त्वे स्फुटेदन्ताहन्तासामानाधिकरण्यात्म यादृग् विश्वं ग्राह्य.= म् तथाविध एव ईश्वरभट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः विद्यापदे श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना यथाभूता मन्त्राः प्रमातारः तथाभूतम् एव भेदैकसारं विश्वम् अपि प्रमेयम् मायोर्ध्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्धबोधात्मानः तादृग् एव तदभेदसारं सकलप्रलयाकलात्मकपूर्वावस्थापरिचितम् एषां प्रमेयम् मायायां शून्यप्रमातॄणां प्रलयकेवलिनां स्वोचितं प्रलीनकल्पं प्रमेयम् क्षितिपर्यन्तावस्थितानांतु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतम् एव प्रमेयम् तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः श्रीमत्परमशिवस्य पुनः विश्वोत्तीर्णविश्वात्मकपरमानन्दमयप्रकाशैकघनस्य एवंविधम् एव शिवादिधरण्यन्तम् अखिलं अभेदेनैव स्फुरति न तु वस्तुतः अन्यत् किंचित् ग्राह्यं ग्राहकं वा अपि तु श्रीपरमशिवभट्टारक एव इत्थं नानावैचित्र्यसहस्रैः स्फुरतीत्य् अभिहितप्रायम् यथा च भगवान् विश्वशरीरः तथा चितिसंकोचात्मा चेतनो ऽपि संकुचितविश्वमयः श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युचितेन रूपेन अवबिभासयिषुः पूर्वं चिदैक्याख्यातिमयानाश्रितशिवपर्यायशून्यातिशून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति ततः चिद्रसाश्यानतारूपाशेषतत्त्वभुवनभावतत्तत्प्रमात्राद्यात्मतयापि प्रथते यथा च एवं भगवान् विश्वशरीरः तथा चितिसंकोचात्मा संकुचितचिद्रूपः चेतनो ग्राहको ऽपि वटधानिकावत् संकुचिताशेषविश्वरूपः तथा च सिद्धान्तवचनम् विग्रहो विग्रही चैव सर्वविग्रहविग्रही इति त्रिशिरोमते ऽपि= सर्वदेवमयः कायस् तं चेदानीं शृणु प्रिये पृथिवी कठिनत्वेन द्रवत्वे ऽम्भः प्रकीर्तितम् इत्य् उपक्रम्य= त्रिशिरोभैरवः साक्षाद् व्याप्य विश्वं व्यवस्थितः इत्य् अन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्वमयत्वम् एव व्याहरति अयं चात्राशयः ग्राहको ऽपि अयं प्रकाशैकात्म्येन उक्तागमयुक्त्या च विश्वशरीरशिवैकरूप एव केवलं तन्मायाशक्त्या अनभिव्यक्तस्वरूपत्वात् संकुचित इव आभाति संकोचो ऽपि विचार्यमाणः चिदैकात्म्येन प्रथमानत्वात् चिन्मय एव अन्यथा तु न किंचित् इति सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव तद् उक्तं मयैव अख्यातिर् यदि न ख्याति ख्यातिर् एवावशिष्यते ख्याति चेत् ख्यातिरूपत्वात् ख्यातिर् एवावशिष्यते इति अनेनैवाशयेन श्रीस्पन्दशास्त्रेषु यस्मात् सर्वमयो जीवः . इत्य् उपक्रम्य= तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः इत्यादिना शिवजीवयोर् अभेद एवोक्तः एतत्तत्त्वपरिज्ञानम् एव मुक्तिः एतत्तत्त्वापरिज्ञानम् एव च बन्ध इति भविष्यति एव एतत् ननु ग्राहको ऽयं विकल्पमयः विकल्पनं च चित्तहेतुकं सति च चित्ते कथम् अस्य शिवात्मकत्वं इति शङ्क्त्वा चित्तम् एव निर्नेतुम् आह चितिर् एव चेतनपदाद् अवरूढा चेत्यसंकोचिनी चित्तम् न चित्तं नाम अन्यत् किंचित् अपि तु सैव भगवती तत् तथा हि सा स्व.= म् स्वरूपं गोपयित्वा यदा संकोचं गृह्णाति तदा द्वयी गतिः कदाचिद् उल्लसितम् अपि संकोचं गुणीकृत्य चित्प्राधान्येन स्फुरति कदाचित् संकोचप्रधानतया चित्प्राधान्यपक्षे सहजं प्रकाशमात्रप्रधानत्वे विज्ञानाकलता प्रकाशपरामर्शप्रधानत्वे तु विद्याप्रमातृता तत्रापि क्रमेण संकोचस्य तनुतायां ईशसदाशिवानाश्रितरूपता समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे शुद्धाध्वप्रमातृता क्रमात् क्रमं प्रकर्षवती संकोचप्राधान्ये तु शून्यादिप्रमातृता एवम् अवस्थिते सति चितिर् एव संकुचितग्राहकरूपा चेतनपदात् अवरूढा अर्थग्रहणोन्मुखी सती चेत्येन नीलसुखादिना संकोचिनी उभयसंकोचसंकुचितैव चित्तम् तथा च= स्वाङ्गरूपेषु भावेषु पत्युर् ज्ञानं क्रिया च या माया तृतीये ते एव पशोः सत्त्वं रजस् तमः इत्यादिना स्वातन्त्र्यात्मा चितिशक्तिर् एव ज्ञानक्रियामायाशक्तिरूपा पशुदशायां संकोचप्रकर्षात् सत्त्वरजस्तमःस्वभावचित्तात्मतया स्फुरतीति श्रीप्रत्यभिज्ञायाम् उक्तम् अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायाम् अपि तात्त्विकस्वरूपसद्भावात् तदनुसरणाभिप्रायेणोक्तम् अत एव तु ये केचित् परमार्थानुसारिणः तेषां तत्र स्वरूपस्य स्वज्योतिष्ट्वं न लुप्यते इति चित्तम् एव तु मायाप्रमातुः स्वरूपम् इत्य् आह तन्मयो मायाप्रमाता देहप्राणपदं तावत् चित्तप्रधानम् एव शून्यभूमिर् अपि चित्तसंस्कारवत्य् एव अन्यथा ततो व्युत्थितस्य स्वकर्तव्यानुधावनाभावः स्याद् इति चित्तमय एव मायीयः प्रमाता अमुनैव आशयेन शिवसूत्रेषु वस्तुवृत्तानुसारेण "चैतन्यम् आत्मा" इत्य् अभिधाय मायाप्रमातृलक्षणावसरे पुनः "चित्तम् आत्मा" इत्य् उक्त= म् अस्यैव सम्यक् स्वरूपज्ञानात् यतो मुक्तिः असम्यक् तु संसारः ततः तिलश एतत्स्वरूपं निर्भङ्क्तुम् आह स चैको द्विरूपस् त्रिमयश् चतुरात्मा सप्तपञ्चकस्वभावः निर्णीतदृशा चिदात्मा शिवभट्टारक एव एक आत्मा न तु अन्यः कश्चित् प्रकाशस्य देशकालादिभिः भेदायोगात् जडस्य तु ग्राहकत्वानुपपत्तेः प्रकाश एव यतः स्वातन्त्र्यात् गृहीतप्राणादिसंकोचः संकुचितार्थग्राहकताम् अश्नुते ततो ऽसौ प्रकाशरूपत्वसंकोचावभासवत्त्वाभ्यां द्विरूपः आणवमायीयकार्ममलावृतत्वात् त्रिमयः शून्यप्राणपुर्यष्टकशरीरस्वभावत्वात् चतुरात्मा सप्तपञ्चकानि शिवादिपृथिव्यन्तानि पञ्चत्रिंशत्तत्त्वानि तत्स्वभावः तथा शिवादिसकलान्तप्रमातृसप्तकस्वरूपः चिदानन्देच्छाज्ञानक्रियाशक्तिरूपत्वे ऽपि अख्यातिवशात् कलाविद्यारागकालनियतिकञ्चुकवलितत्वात् पञ्चकस्वरूपः एवं च शिवैकरूपत्वेन पञ्चत्रिंशत्तत्त्वमयत्वेन प्रमातृसप्तकस्वभावत्वेन्= अ चिदादिशक्तिपञ्चकात्मकत्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिः अन्यथा तु संसारहेतुः एवं च तद्भूमिकाः सर्वदर्शनस्थितयः सर्वेषां चार्वाकादिदर्शनानां स्थितयः सिद्धान्ताः तस्य एतस्य आत्मनो नटस्येव स्वेच्छावगृहीताः कृत्रिमा भूमिकाः तथा च चैतन्यविशिष्टं शरीरम् आत्मा इति चार्वाकाः नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायम् एव आत्मानं संसृतौ मन्यन्ते अपवर्गे तु तद् उच्छेदे शून्यप्रायम् अहंप्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतात्मा मन्वाना मीमांसका ऽपि बुद्धाव् एव निविष्टा ज्ञानसन्तान एव तत्त्वं इति सौगत्= आ बुद्धिवृत्तिष्व् एव पर्यवसिताः प्राण एवात्मेति केचित् श्रुत्यन्तविदः = असद् एव इदम् आसीद् इत्य् अभावब्रह्मवादिनः शून्यभुवम् अवगाह्य स्थिताः = माध्यमिकापि एवम् एव परा प्रकृतिर् भगवान् वासुदेवः तद्विस्फुलिङ्गप्राया एव जीवा इति पाञ्चरात्राः परस्याः प्रकृतेः परिणामाभ्युपगमात् अव्यक्त एवाभिनिविष्टाः सांख्यादयस् तु विज्ञानकलप्रायां भूमिं अवलम्बन्ते सद् एव इदम् अग्र आसीद् इति ईश्वरतत्त्वपदम् आश्रिता अपरे श्रुत्यन्तविद.= ह् = शब्दब्रह्ममयं पश्यन्तीरूपं आत्मतत्त्वम् इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः एवम् अन्यद् अपि अनुमन्तव्यम् एतच् च आगमेषु बुद्धितत्त्वे स्थिता बौद्धा गुणेष्व् एवार्हताः स्थिताः स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः इत्यादिना निरूपितम् विश्वोत्तीर्णम् आत्मतत्त्वम् इति तान्त्रिकाः विश्वमयम् इति कुलाद्याम्नायनिविष्टाः विश्वोत्तीर्णं विश्वमयं च इति त्रिकादिदर्शनविदः एवं एकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः अत एक एव एतावद्व्याप्तिकात्मा मितदृष्टयस् तु अंशांशिकासु तदिच्छयैव अभिमानं ग्राहिताः येन देहादिषु भूमिषु पूर्वपूर्वप्रमातृव्याप्तिसारताप्रथायाम् अपि उक्तरूपां महाव्यप्तिं परशक्तिपातं विना न लभन्ते यथोक्तं= वैष्णवाद्यास् तु ये केचित् विद्यारागेण रञ्जिताः न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् इति तथा= भ्रमयत्य् एव तान् माया ह्य् अमोक्षे मोक्षलिप्सया इति त आत्मोपासकाः शैवं न गच्छन्ति परं पदम् इति च अपि च सर्वेषां दर्शनानां समस्तानां नीलसुखादिज्ञानानां याः स्थितयः अन्तर्मुखरूपा विश्रान्तयः ताः तद्भूमिकाः चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः तथा हि यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति तदा तदा बाह्यवस्तूपसंहारः अन्तःप्रशान्तपदावस्थितिः तत्तदुदेष्यत्संवित्सन्तत्यासूत्रणं इति सृष्टिस्थितिसंहारमेलनरूप्= आ इयं तुरीया संविद्भट्टारिका तत्तत्सृष्ट्यादिभेदान् उद्वमन्ती संहरन्ती च सदा पूर्णा च कृशा च उभयरूपा च अनुभयात्मा च अक्रम= म् एव स्फुरन्ती स्थिता उक्तं च श्रीप्रत्यभिज्ञाटीकायां तावद् अर्थावलेहेन उत्तिष्ठति पूर्णा च भवति इति एषा च भट्टारिका क्रमात् क्रमं अधिकम् अनुशील्यमाना स्वात्मसात्करोत्य् एव भक्तजनम् यदि एवंभूतस्य आत्मनो विभूतिः तत् कथं अयं मलावृतो ऽणुः कलादिवलितः संसारी अभिधीयते इत्याह चिद्वत् तच् छक्तिसंकोचात् मलावृतः संसारी यदा चिदात्मा परमेश्वरः स्वस्वातन्त्र्यात् अभेदव्याप्तिं निमज्ज्य भेदव्याप्तिम् अवलम्बते तदा तदीया इच्छादिशक्तयः असंकुचिता अपि संकोचवत्यो भान्ति तदानीम् एव अयं मलावृतः संसारी भवति तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णमन्यतारूपं आणवं मलम् ज्ञानशक्तिः क्रमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः अन्तःकरणबुद्धीन्द्रियतापत्तिपूर्वं अत्यन्तसंकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलम् क्रियाशक्तिः क्रमेण भेदे सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियरूपसंकोचग्रहणपूर्वं अत्यन्तपरिमिततां प्राप्ता शुभाशुभानुष्टानमयं कार्मं मलम् तथा सर्वकर्तृत्वसर्वज्ञत्वपूर्णत्वनित्यत्वव्यापकत्वशक्तयः संकोचं गृह्णाना यथाक्रमं कलाविद्यारागकालनियतिरूपतया भान्ति तथाविधश् च अयं शक्तिदरिद्रः संसारी उच्यते स्वशक्तिविकासे तु शिव एव ननु संसार्यवस्थायाम् अस्य किंचित् शिवतोचितं अभिज्ञानम् अस्ति येन शिव एव तथावस्थित इत्य् उद्घोष्यते अस्तीत्याह तथापि तद्वत् पञ्चकृत्यानि करोति इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयम् एव विशेषः यत्= सृष्टिसंहारकर्तारं विलयस्थितिकारकम् अनुग्रहकरं देवं प्रणतार्तिविनाशनम् इति श्रिमत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविधकृत्यकारित्वं चिदात्मनो भगवतः यथा च भगवान् शुद्धेतराध्वस्फारणक्रमेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति तथा संकुचितचिच्छक्त्या संसारभूमिकायाम् अपि पञ्चकृत्यानि विधत्ते तथा हि तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् भान्तम् एवान्तरर्थौघम् इच्छया भासयेद् बहिः इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या देहप्राणादिपदं आविशन् चिद्रूपो महेश्वरो बहिर्मुखीभावावसरे नीलादिकम् अर्थं नियतदेशकालादितया यदा आभासयति तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टृता अन्यदेशकालाद्याभासांशे अस्य संहर्तृता नीलाद्याभासांशे स्थापकता भेदेन आभासांशे विलयकारिता प्रकाशैक्येन प्रकाशने अनुग्रहीतृता यथा च सदा पञ्चविधकृत्यकारित्वं भगवतः तथा मया वितत्य स्पन्दसन्दोहे निर्नीतम् एवम् इदं पञ्चविधकृत्यकारित्वं आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यं उन्मीलयत्य् एव भक्तिभाजाम् अत एव ये सदा एतत् परिशीलयन्ति ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता इत्य् आम्नाताः ये तु न तथा ते सर्वतो विभिन्नं मेयजातं पश्यन्तो बद्धात्मनः न च अयम् एव प्रकारः पञ्चविधकृत्यकारित्वे यावद् अन्यो ऽपि कश्चित् रहस्यरूपो ऽस्तीत्य् आह आभासनरक्तिविमर्शनबीजावस्थापनविलापनतस् तानि पञ्चविधकृत्यानि करोति इति पूर्वतः संबध्यते श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण यद् यद् आभाति तत् तत् सृज्यते तथा सृष्टे पदे तत्र यदा प्रशान्तनिमेषं कंचित् कालं रज्यति तदा स्थितिदेव्या तत् स्थप्यते चमत्कारापरपर्यायविमर्शनसमये तु संह्रियते यथोक्तं श्रीरामेन समाधिवज्रेणाप्य् अन्यैर् अभेद्यो भेदभूधरः परामृष्टश् च नष्टश् च त्वद्भक्तिबलशालिभिः इति यदा तु संह्रियमाणम् अपि एतत् अन्तः विचित्राशङ्कादिसंस्कारं आधत्ते तदा तत् पुनर् उद्भविष्यत् संसारबीजभावम् आपन्नं विलयपदमध्यारोपितम् यदा पुनः तत् तथान्तःस्थापितं अन्यद् वानुभूयमानम् एव हठपाकक्रमेणालंग्रासयुक्त्या चिदग्निसाद्भावम् आपद्यते तदा पूर्णतापादनेन अनुगृह्यत एव ईदृशं च पञ्चविधकृत्यकारित्वं सर्वस्य सदा सन्निहितम् अपि सद्गुरूपदेशं विन्= आ न प्रकाशत इति सद्गुरुसपर्यैव एतत्प्रथार्थम् अनुसर्तव्या यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति तस्यावच्छादितस्वस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवतीत्य् आह तदपरिज्ञाने स्वशक्तिभिर् व्यामोहितता संसारित्वम् तस्यैतस्य सदा संभवतः पञ्चविधकृत्यकारित्वस्य अपरिज्ञाने शक्तिपातहेतुकस्वबलोन्मीलनाभावात् अप्रकाशने स्वभिः शक्तिभिः व्यामोहितत्वं विविधलौकिकशास्त्रीयशङ्काशङ्कुकीलितत्वं यत् इदम् एव्= अ संसारित्वम् तद् उक्तं श्रीसर्ववीरभट्टारके अज्ञानाच् छङ्कते लोकस् ततः सृष्टिश् च संहृतिः इति मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः इति च तथा हि चित्प्रकाशात् अव्यतिरिक्ता नित्योदितमहामन्त्ररूपा पूर्णाहंविमर्शमयी येयं परावाक्छक्तिः आदिक्षान्तरूपाशेषशक्तिचक्रगर्भिणी सा तावत् पश्यन्तीमध्यमादिक्रमेण ग्राहकभूमिकां भासयति तत्र च परारूपत्वेन स्वरूपं अप्रथयन्ती मायाप्रमातुः अस्फुटासाधारणार्थावभासरूपां प्रतिक्षणं नवनवां विकल्पक्रिया.= म् उल्लासयति शुद्धाम् अपि च अविकल्पभूमिं तदाच्छादिताम् एव दर्शयति तत्र च ब्राह्म्यादिदेवताधिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो देहप्राणादिम् एव परिमितं अवशं आत्मानं मन्यते मूढजनः ब्राह्म्यादिदेव्यः पशुदशायां भेदविषये सृष्टिस्थिती अभेदविषये च्= अ संहारं प्रथयन्त्यः परिमितविकल्पपात्रताम् एव संपादयन्ति पतिदशायां तु भेदे संहारं अभेदे च सर्गस्थिती प्रकटयन्त्यः क्रमात् क्रमं विकल्पनिर्ह्रासनेन श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीम् अविकल्पभूमिम् एव उन्मीलयन्ति सर्वो ममायं विभव इत्य् एवं परिजानतः विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता इत्यादिरूपां चिदानन्दावेशमग्नां शुद्धविकल्पशक्तिम् उल्लासयन्ति ततः उक्तनीत्या स्वशक्तिव्यामोहिततैव संसारित्वम् किं च चितिशक्तिर् एव भगवती विश्ववमनात् संसारवामाचारत्वाच् च वामेश्वर्याख्या सती खेचरीगोचरीदिक्चरीभूचरीरूपैः अशेषैः प्रमात्रन्तःकरणबहिष्करणभावस्वभावैः परिस्फुरन्ती पशुभूमिकायां शून्यपदविश्रान्ता किंचित्कर्तृत्वाद्यात्मककलादिशक्त्यात्मना खेचरीचक्रेण गोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण चकस्ति भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेन गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते भेदालोचनादिप्रधानबहिष्करणदेवतात्मना च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपितसार्वात्म्यस्वरूपेण पशुहृदयव्यामोहिना भाति पतिभूमिकायां तु सर्वकर्तृत्वादिशक्त्यात्मकचिद्गगनचरीत्वेन अभेदनिश्चयाद्यात्मना गोचरीत्वेन अभेदालोचनाद्यात्मना दिक्चरीत्वेन स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना स्फुरति तथा चोक्तं सहजचमत्कारपरिजनिताकृतकादरेण भट्टदामोदरेण विमुक्तकेषु पूर्णावच्छिन्नमात्रान्तर्बहिष्करणभावगाः वामेशाद्याः परिज्ञानाज्ञानात् स्युर् मुक्तिबन्धदाः इति एवं च निजशक्तिव्यामोहिततैव संसरित्वम् अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्यशक्तिः सा यदा स्वरूपं गोपयित्वा पाशवे पदे प्राणापानसमानशक्तिदशाभिः जाग्रत्स्वप्नसुषुप्तभूमिभिः देहप्राणपुर्यष्टककलाभिश् च व्यामोहयति तदा तद्व्यामोहितता संसारित्वम् यदा तु मध्यधामोल्लासां उदानशक्तिं विश्वव्याप्तिसारां च व्यानशक्तिं तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनां उन्मीलयति तदा देहाद्यवस्थायाम् अपि पतिदशात्मा जीवन्मुक्तिर् भवति एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता चिद्वत् इति सूत्रे चित्प्रकाशो गृहीतसंकोचः संसारी इत्य् उक्तम् इह्= अ तु स्वशक्तिव्यामोहितत्वेन अस्य संसारित्वं भवति इति भङ्ग्यन्तरेण उक्तम् एवं संकुचितशक्तिः प्राणादिमान् अपि यदा स्वशक्तिव्यामोहितो न भवति तदा अयं शरीरी परमेश्वरः इत्य् आम्नायस्थित्या शिवभट्टारक एव इति भङ्ग्या निरूपितं भवति यदागमः= मनुष्यदेहम् आस्थाय छन्नास् ते परमेश्वराः इति उक्तम् च प्रत्यभिज्ञाटीकायां "शरीरम् एव घटाद्य् अपि वा ये षट्त्रिंशत्तत्त्वमयं शिवरूपतयापश्यन्ति ते ऽपि सिध्यन्ति" इति उक्तसूत्रार्थप्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुम् आह तत्परिज्ञाने चित्तम् एव अन्तर्मुखीभावेन चेतनपदाध्यारोहात् चितिः पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या वितत्य व्याख्यातप्रायम् एतत् सूत्रम् शब्दसंगत्या तु अधुना व्याख्यायते तस्यात्मीयस्य पञ्चकृत्यकारित्वस्य परिज्ञाने सति अपरिज्ञानलक्षणकारणापगमात् स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलभात् प्राक् व्याख्यातं यत् चित्तं तद् एव संकोचिनीं बहिर्मुखतां जहत् अन्तर्मुखीभावेन चेतनपदाध्यारोहात् ग्राहकभूमिकाक्रमणक्रमेण संकोचकलाया अपि विगलनेन स्वरूपापत्त्या चितिर् भवति स्वां चिन्मयीं परां भूमिम् आविशतीत्य् अर्थः ननु यदि पारमार्थिकं चिच्छक्तिपदं सकलभेदकवलनस्वभावं तद् अस्य मायापदे ऽपि तथारूपेण भवितव्यं यथा जलदाच्छादितस्यापि भानोः भावावभासकत्वं इत्य् आशङ्क्याह चितिवह्निर् अरोहपदे छन्नो ऽपि मात्रया मेयेन्धनं प्लुष्यति चितिर् एव विश्वग्रसनशीलत्वात् वह्निः असौ एव अवरोहपदे मायाप्रमातृतायां छन्नो ऽपि स्वातन्त्र्यात् आच्छादितस्वभावो ऽपि भूरिभूतिछन्नाग्निवत् मात्रया अंशेन नीलपीतादिप्रमेयेन्धनं प्लुष्यति स्वात्मसात्करोति मात्रापदस्येदम् आकूतं यत् कवलयन्न् अपि सार्वात्म्येन न ग्रसते अपि तु अंशेन संस्कारात्मना उत्थापयति ग्रासकत्वं च सर्वप्रमातॄणां स्वानुभवत एव सिद्धम् यद् उक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु वर्तन्ते जन्तवो ऽशेषा अपि ब्रह्मेन्द्रविष्णवः ग्रसमानास् ततो वन्दे देव विश्वं भवन्मयम् इति यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलनयुक्तिं आविशति तदा बललाभे विश्वम् आत्मसात्करोति चितिर् एव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपं उन्मग्नत्वेन स्फारयन्ती बलम् यथोक्तम् तदाक्रम्य बलं मन्त्राः . . इति एवं च बललाभे उन्मग्नस्वरूपाश्रयणे क्षित्यादिसदाशिवान्तं विश्वं आत्मसात्करोति स्वस्वरूपाभेदेन निर्भासयति तद् उक्तं पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु यथा वह्निर् उद्बोधितो दाह्यं दहति तथा विषयपाशान् भक्षयेत् इति = न चैवं वक्तव्यम् =अद् विश्वात्मसात्काररूपा समावेशभूः कादाचित्की कथं उपादेया इयं स्याद् इति यतो देहाद्युन्मज्जननिमज्जनवशेन इयं अस्याः कादाचित्कत्वम् इव आभाति वस्तुतस् तु चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनाद् एव कादाचित्कत्वम् एषा तु सदैव प्रकाशमाना अन्यथा तद् देहाद्य् अपि न प्रकाशेत अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः न तु सदाप्रथमानतासारप्रमातृताप्राप्त्यर्थं इति श्रीप्रत्यभिज्ञाकाराः एवं च चिदानन्दलाभे देहादिषु चेत्यमानेष्व् अपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः विश्वात्मसात्कारात्मनि समावेशरूपे चिदानन्दे लब्धे व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेष्व् अपि यत् समावेशसंस्कारबलात् प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात् चिदैकात्म्यप्रतिपत्तिदार्ढ्यम् अविचला चिदेकत्वप्रथा सैव जीवन्मुक्तिः जीवतः प्राणान् अपि धारयतो मुक्तिः प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् यथोक्तं स्पन्दशास्त्रे इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः इति अथ कथं चिदानन्दलाभो भवति इत्य् आह मध्यविकासाच् चिदानन्दलाभः सर्वान्तरतमत्वेन वर्तमानत्वात् तद्भित्तिलग्नतां विना च कस्यचिद् अपि स्वरूपानुपपत्तेः संविद् एव भगवती मध्यम् सा तु मायादशायां तथाभूतापि स्वरूपं गूहयित्वा "प्राक् संवित् प्राणे परिणता " इति नीत्या प्राणशक्तिभूमिं स्वीकृत्य अवरोहक्रमेण बुद्धिदेहादिभुवं अधिशयाना नाडीसहस्रसरणिम् अनुसृता तत्रापि च पलाशपर्णमध्यशाखान्यायेन आब्रह्मरन्ध्रात् अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया प्राधान्येन स्थिता तत एव सर्ववृत्तीनाम् उदयात् तत्रैव च विश्रामात् एवंभूताप्य् एषा पशूनां निमीलितस्वरूपैव स्थिता यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे मध्यभूता संविद् भगवती विकसति यदि वा वक्ष्यमाणक्रमेण मध्यभूता ब्रह्मनाडी विकसति तदा तद्विकासाच् चिदानन्दस्य उक्तरूपस्य लाभः प्राप्तिः भवति = ततश् च प्राग् उक्ता जीवन्मुक्तिः मध्यविकासे युक्तिम् आह विकल्पक्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इह उपायाः इह मध्यशक्तिविकासे विकल्पक्षयादय उपायाः प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसरणेन सर्वमध्यभूतायाः संविदो विकासो जायत इत्य् अभिहितप्रायम् उपायान्तरम् अपि तु उच्यते प्राणायाममुद्राबन्धादिसमस्तयन्त्रणातन्त्रत्रोटनेन सुखोपायम् एव हृदये निहितचित्तः उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं विकल्पं अकिंचिच्चिन्तकत्वेन प्रशमयन् अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः अचिराद् एव उन्मिषद्विकासां तुर्यतुर्यातीतसमावेशदशां आसादयति यथोक्तम्= विकल्पहानेनैकाग्र्यात् क्रमेणेश्वरतापदम् इति श्रीप्रत्यभिज्ञायाम् श्रीस्पन्दे ऽपि= यदा क्षोभः प्रलीयेत तदा स्यात् परमं पदम् इति श्रीज्ञानगर्भे ऽपि विहाय सकलाः क्रिया जननि मानसीः सर्वतो विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् स्थितैस् त्वदनुभावतः सपदि वेद्यते सा परा दशा नृभिर् अतन्द्रितासमसुखामृतस्यन्दिनी इति अयं च उपायो मूर्धन्यत्वात् प्रत्यभिज्ञायां प्रतिपादितत्वात् आदाव् उक्तः शक्तिसंकोचादयस् तु यद्य् अपि प्रत्यभिज्ञायां न प्रतिपादिताः तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्श्यन्ते बहुषु हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यतीति शक्तेः संकोच इन्द्रियद्वारेण प्रसरन्त्या एवाकुञ्चनक्रमेण उन्मुखीकरणम् यथोक्तं आथर्वणिकोपनिषत्सु कठवल्ल्यां चतुर्थवल्लीप्रथममन्त्रे पराञ्चि खानि व्यतृणत् स्वयंभूः तस्मात् पराङ् पश्यति नान्तरात्मन् कश्चिद् धीरः प्रत्यग् आत्मानम् ऐक्षद् आवृत्तचक्षुर् अमृतत्वम् अश्नन् इति प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृत्प्रवेशवच् च सर्वतो निवर्तनम् यथोक्तं "तदपोद्धृते नित्योदितस्थितिः" इति शक्तेर् विकासः अन्तर्निगूढाया अक्रमम् एव सकलकरणचक्रविस्फारणेन्= अ "अन्तर्लक्ष्यो बहिर्दृष्टिः निमेषोन्मेषवर्जितः " इति भैरवीयमुद्रानुप्रवेशयुक्त्या बहिः प्रसरणम् यथोक्तं कक्ष्यस्तोत्रे= सर्वाः शक्तीः चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् क्षिप्त्वा मध्ये हाटकस्तम्भभूतः तिष्टन् विश्वाधार एको ऽवभासि इति श्रीभट्टकल्लटेनापि उक्तम् "रूपादिषु परिणामात् तत्सिद्धिः " इति शक्तेश् च संकोचविकासौ नासापुटस्पन्दनक्रमोन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम् अधःकुण्डलिन्यां च षष्टवक्त्ररूपायां प्रगुणीकृत्य शक्तिं तन्मूलतदग्रतन्मध्यभूमिस्पर्शावेशः यथोक्तं विज्ञानभट्टारके वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् केवलं वायुपूर्णं वा स्मरानन्देन युज्यते इति अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः विषस्थानं प्रसरयुक्त्य्= आ विकासपदं= "विषॢ व्याप्तौ" इत्य् अर्थानुगमात् वाहयोः वामदक्षिणगतयोः प्राणापानयोः छेदो हृदयविश्रान्तिपुरःसरं अन्तःककारहकारादिप्रायानच्कवर्णोच्चारेण विच्छेदनम् यथोक्तं ज्ञानगर्भे अनच्कककृतायतिप्रसृतपार्श्वनाडीद्वयच्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे उदेति तव दारितान्धतमसः स विद्याङ्कुरो य एष परमेशतां जनयितुं पशोर् अपि अलम् इति आदिकोटिः हृदयम् अन्तकोटिः द्वादशान्तः तयोः प्राणोल्लासविश्रान्त्यवसरे निभालनं चित्तनिवेशनेन परिशीलनम् यथोक्तं विज्ञानभैरवे हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः अनन्यचेताः सुभगे परं सौभाग्यम् आप्नुयात् इति तथा= यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् प्रतिक्षणं क्षीणवृत्तेः वैलक्षण्यं दिनैर् भवेत् इति आदिपदात् उन्मेषदशानिषेवणम् यथोक्तं उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत् इति स्पन्दे तथा रमणीयविषयचर्वणादयश् च संगृहीताः यथोक्तं श्रीविज्ञानभैरव एव जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् भावयेद् भरितावस्थां महानन्दमयो भवेत् गीतादिविषयास्वादासमसौख्यैकतात्मनः योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता यत्र यत्र मनस्तुष्टिर् मनस् तत्रैव धारयेत् तत्र तत्र परानन्दस्वरूपं संप्रकाशते इति एवम् अन्यद् अपि आनन्दपूर्णस्वात्मभावनादिकं अनुमन्तव्यम् इत्य् एवमादयः अत्र मध्यविकासे उपायाः मध्यविकासाच् चिदानन्दलाभः स एव च परमयोगिनः समावेशसमपत्त्यादिपर्यायः समाधिः तस्य नित्योदितत्वे युक्तिम् आह समाधिसंस्कारवति व्युत्थाने भूयो भूयः चिदैक्यामर्शान् नित्योदितसमाधिलाभः आसादितसमावेशो योगिवरो व्युत्थाने ऽपि समाधिरससंस्कारेण क्षीब इव सानन्दं घूर्णमानो भावराशिं शरदभ्रलवं इव चिद्गगन एव लीयमानं पश्यन् भूयो भूयः अन्तर्मुखतां एव समवलम्बमानो निमीलनसमाधिक्रमेण चिदैक्यम् एव विमृशन् व्युत्थानाभिमतावसरे ऽपि समाध्येकरस एव भवति यथोक्तं क्रमसूत्रेषु "क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः समाविष्टो भवति साधकः तत्रादौ बाह्यात् अन्तःप्रवेशः आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः आवेशवशात् जायते इति सबाह्याभ्यन्तरो ऽयं मुद्राक्रमः " इति अत्रायम् अर्थः सृष्टिस्थितिसंहृतिसंविच्चक्रात्मकं क्रमं मुद्रयत्= इ स्वाधिष्ठितं आत्मसात्करोति येयं तुरीया चितिशक्तिः तया क्रममुद्रया अन्तर् इति पूर्णाहन्तास्वरूपया बहिर्मुख इति विषयेषु व्यापृतो ऽपि समाविष्टः साक्षात्कृतपरशक्तिस्फारः साधकः परमयोगी भवति तत्र च बाह्यात् ग्रस्यमानात् विषयग्रामात् अन्तः परस्यां चितिभूमौ ग्रसनक्रमेणैव प्रवेशः समावेशो भवति आभ्यन्तरात् चितिशक्तिस्वरूपात् च साक्षात्कृतात् आवेशवशात् समावेशसामर्थ्याद् एव बाह्यस्वरूपे इदन्तानिर्भासे विषयग्रामे वमनयुक्त्या प्रवेशः चिद्रसाश्यानताप्रथनात्मा समावेशो जायते इति सबाह्याभ्यन्तरो ऽयं नित्योदितसमावेशात्मा मुदो हर्षस्य वितरणात् परमानन्दस्वरूपत्वात् पाशद्रावणात् विश्वस्य अन्तःतुरीयसत्तायां मुद्रणात् च मुद्रात्मा क्रमो ऽपि सृष्ट्यादिक्रमाभासकत्वात् तत्क्रमाभासरूपत्वात् च क्रम इति अभिधीयत इति इदानीम् अस्य समाधिलाभस्य फलम् आह तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात् सदा सर्वसर्गसंहारकारिनिजसंविद्देवताचक्रेश्वरताप्रप्तिर् भवतीति शिवम् नित्योदिते समाधौ लब्धे सति प्रकाशानन्दसारा चिदाह्लादैकघना महती मन्त्रवीर्यात्मिका सर्वमन्त्रजीवितभूता पूर्णा पराभट्टारिकारूपा येयं अहन्ता अकृत्रिमः स्वात्मचमत्कारः तत्र आवेशात् सदा कालाग्न्यादेः चरमकलापर्यन्तस्य विश्वस्य यौ सर्गसंहारौ विचित्रौ सृष्टिप्रलय= उ तत्कारि यत् निजं संविद्देवताचक्रं तदैश्वर्यस्य प्राप्तिः आसादनं भवति प्राकरणिकस्य परमयोगिन इत्य् अर्थः इति एतत् सर्वं शिवस्वरूपम् एवेत्य् उपसंहार इति संगतिः तत्र यावत् इदं किंचित् संवेद्यते तस्य संवेदनम् एव स्वरूपम् तस्यापि अन्तर्मुखविमर्शमयाः प्रमातारः तत्त्वम् तेषाम् अपि विगलितदेहाद्युपाधिसंकोचाभिमाना अशेषशरीरा सदाशिवेश्वरतैव सारम् अस्या अपि प्रकाशैकसद्भावापादिताशेषविश्वचमत्कारमयः श्रीमान्महेश्वर एव परमार्थः न हि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते स च परमेश्वरः स्वातन्त्र्यसारत्वात् आदिक्षान्तामायीयशब्दराशिपरामर्शमयत्वेनैव एतत्स्वीकृतसमस्तवाच्यवाचकमयाशेषजगदानन्दसद्भावापादनात् परं परिपूर्णत्वात् सर्वाकाङ्क्षाशून्यतया आनन्दप्रसरनिर्भरः अत एव अनुत्तराकुलस्वरूपात् अकारात् आरभ्य शक्तिस्फाररूपहकलापर्यन्त.= म् यत् विश्वं प्रभृतं क्षकारस्य प्रसरशमनरूपत्वात् तत् अकारहकाराभ्याम् एव संपुटीकारयुक्त्या प्रत्याहारन्यायेन अन्तःस्वीकृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितं अनुत्तर एव विश्राम्यति इति शब्दराशिस्वरूप एव अयं अकृतको विमर्शः यथोक्तम्= प्रकाशस्यात्मविश्रान्तिर् अहंभावो हि कीर्तितः उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः स्वातन्त्र्यम् अथ कर्तृत्वं मुख्यम् ईश्वरतापि च इति एषैव च अहन्ता सर्वमन्त्राणां उदयविश्रान्तिस्थानत्वात् एतद्बलेनैव च्= अ तत्तदर्थक्रियाकारित्वात् महती वीर्यभूमिः तद् उक्तम् तदाक्रम्य बलं मन्त्रा . इत्यादि . त एते शिवधर्मिणः इत्यन्तं श्रीस्पन्दे शिवसूत्रेष्व् अपि= महाह्रादानुसंधानान् मन्त्रवीर्यानुभवः इति तद् अत्र महामन्त्रवीर्यात्मकायां पूर्णाहन्तायां आवेशो देहप्राणादिनिमज्जनात् तत्पदावाप्त्यवष्टम्भेन देहादीनां नीलादीनाम् अपि तद्रसाप्लावनेन तन्मयीकरणम् तथा हि देहसुखनीलादि यत्किंचित् प्रथते अध्यवसीयते स्मर्यते संकल्प्यते वा तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति "तदस्फुरणे कस्यापि अस्फुरणात् " इति उक्तत्वात् केवलं तथा स्फुरन्त्य् अपि सा तन्मायाशक्त्या अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात् भिन्नभिन्नस्वभावा इव भान्ती ज्ञानसंकल्पाध्यवसायादिरूपतया मायाप्रमातृभिः अभिमन्यते वस्तुतस् तु एकैव असौ चितिशक्तिः यथोक्तम् या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः इति तथा= मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः इति एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेशतदवष्टम्भयुक्त्या समासाद्यते तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ अपि सदा सर्वसर्गसंहारकारि यत् सहजसंवित्तिदेवताचक्रं अमायीयान्तर्बहिष्करणमरीचिपुञ्जः तत्र ईश्वरतासाम्रज्यं परभैरवात्मता तत्प्राप्तिः भवति परमयोगिनः यथोक्तम् यदा त्व् एकत्र संरूढस् तदा तस्य लयोद्भवौ नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत् इति अत्र एकत्र इति "एकत्रारोपयेत् सर्वं" इति चित्सामान्यस्पन्दभूः उन्मेषात्मा व्याख्यातव्या तस्य इति अनेन "पुर्यष्टकेन संरुद्ध" इति उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम् न तु यथा विवरणकृतः एकत्र सूक्ष्मे स्थूले शरीरे वा इति व्याकृतवन्तः स्तुतं च मया स्वतन्त्रश् चितिचक्राणां चक्रवर्ती महेश्वरः संवित्तिदेवताचक्रजुष्टः को ऽपि जयत्य् असौ इति इतिशब्द उपसंहारे यत् एतावत् उक्तप्रकरणशरीरं तत् सर्वं शिवं शिवप्राप्तिहेतुत्वात् शिवात् प्रसृतत्वात् शिवस्वरूपाभिन्नत्वाच् च शिवमयम् एव इति शिवम् देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः पूर्णानन्दघनाम् इमां न चिनुते माहेश्वरीं स्वां चितिम् मध्येबोधसुधाब्धि विश्वम् अभितस् तत्फेनपिण्डोपमं यः पश्येद् उपदेशतस् तु कथितः साक्षात् स एकः शिवः येषां वृत्तः शाङ्करः शक्तिपातो ये ऽनभ्यासात् तीक्ष्णयुक्तिष्व् अयोग्याः शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञाम् उक्तस् तेषाम् एष तत्त्वोपदेशः समाप्तम् इदं प्रत्यभिज्ञाहृदयम् कृतिस् तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादपद्मोपजीविनः श्रीमतो राजानकक्षेमराजाचर्यस्य शुभम् अस्तु नोतेस् प्रत्यभिज्ञाहृदयम् , थे सेच्रेत् ओफ़् रेचोग्नितिओन् , ङेर्मन् त्रन्स्ल्. ब्य् ए. बएर्, त्रन्स्ल्. इन्तो एन्ग्लिस्ह् ब्य् क्. फ़्. लेइदेच्केर्. अद्यर् लिब्रर्य्, . प्रत्यभिज्ञाहृदयम् , सन्स्क्रित् तेत् इथ् एन्ग्लिस्ह् त्रन्स्लतिओन्, नोतेस् अन्द् इन्त्रोदुच्तिओन् ब्य् ज्. सिन्घ्. इ=ब्०एद्. देल्हि चोन् क़ुएस्तो वेर्सो क्षेमराज फ़ इनिज़िअरे अन्छे इल् बोधविलास . व्भ्. स्प्क्. इइ. - इप्क्. इ. ; स्ऽस्. इ. चितज़िओने रिचोन्दुचिबिले अ स्ऽस्. इइइ. (आत्मा चित्तम् ) स्व्.त् . च् नेत्र त्. विइइ. ब् . ल वेर्सिओने ओरिगिनले चुइ सि रिछिअम क्षेमराज = =ए८ ल सेगुएन्ते:= त आत्मोपासकाः शैवे न गच्छन्ति परं शिवम् . एद्. अपूर्णं मन्यतारूपं . म्स्स्. अद्यर् लिब्रर्य् (नो=ब्० इइ. फ़्. ; नो=ब्० इ. इ. ). ल्ऽएदिज़िओने देल् तेस्तो सेगुए इन्वेचे ल लेज़िओने: अत्यन्तं संकोचग्रहणेन . म्स्स्. अद्यर् लिब्रर्य् (नो=ब्० इइ. फ़्. ; नो=ब्० इ. इ. ). एद्. : अत्यन्तं परिमिततां . स्व्.त्. इ. इप्क्. वि. = इप्क्. इव्. त्रत्तसि देल् सूत्र . वर्. सकलभेदकबलनस्वभावं . स्ऽइवस्तोत्रवली . . स्प्क्. इइ. स्प्क्. इइ, वर्. सर्वान्तरतमत्वेन . इप्क्. इव्. इ. स्प्क्. इ. वर्. प्रत्यभिज्ञायां च . कठ उप्. इव्. ; अश्नन् इन् लुओगो देल्ल्ऽओरिगिनले इच्छन् . व्भ्. व्भ्. व्भ्. स्प्क्. इइइ. व्भ्. - ओमेस्सो इन् अल्चुनि म्स्स्. वर्. =ब्०स्वरूपतया . वर्. चिदाह्लादैकधना . उत्पलदेव: अजडप्रामतृसिद्धि . - स्प्क्. इइ. - स्ऽस्. इ. इप्क्. इ. . इप्क्. इ. . स्प्क्. इइइ. स्प्क्. इइइ. स्प्क्. इइइ. ङन्धर्व-नगरम् / द्सो सन्स्क्रित् अर्छिवे ह्त्त्प्://पोपॢएत्.उनिरोम१.इत्/द्सो/अर्छिवे/सन्स्क्रित्ःत्म्