श्री गणपतये नमः आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् अनुच्चार्याम् अहं वाचम् अधीये हृदयं विभोः स एव भैरवो देवस् सर्वे देवाश् च यन्मयाः सैवासौ भैरवी सत्तासत्तापि च यन्मयी तद् एव भैरवं ज्ञानम् अज्ञानम् अपि यन्मयम् स हि भैरवसिद्धान्तः पूर्वपक्षो ऽपि यन्मयः ऐकध्यम् अध्वनां ष.ङ्नां यत्र सा भैरवी स्थितिः पर्यन्ते सर्वतन्त्राणाम् अवाच्या परमा गतिः सा चिदानन्दमात्रात्ममग्नेच्छाज्ञानसत्क्रिया हृदयं देवदेवस्य भैरवस्याविभागभूः चित्स्वाभाव्याद् असौ देवः स्वात्मना विमृषन् प्रभुः अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते तत्र वाचकवाच्यात्मस्पन्दयोर् एकशः प्रभोः स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता क्रमो यो देशकालात्मा भेदप्राणस् स संविदाम् विच्छेदाद् एष विज्ञातुर् विचित्राभासताकृतः उभयो तत्र वै रीतिः शुद्धाशुद्धात्मभेदतः शुद्धिर् बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम् अशुद्धिर् अपि मग्नानां नैवं हृदयविश्रमः अत्रान्तरे ऽप्य् अनन्तास् स्युः स्थितयस् तारतम्यतः उचितोचितमेयानां प्रमातॄणां प्रकाशने साधारणान्यथाभावौ भिद्येते मातृमेययोः अविकल्पस्फुटाभासा सा सृष्टिः शाम्भवी मता अभेदेनात्मनिर्माणे स्वात्मैव करणीकृतः क्रियाज्ञानात्मचिच्छक्तिर् भेदासूत्रणकारणात् कलाविद्यापदं प्राप्य भेदोद्भेदे पुनर् भवेत् प्रमाणबुद्धिप्रकरा यत्क्रियाया विकल्पनाः सैव विच्छिन्नविच्छिन्नक्रिया ज्ञानोद्यमा यदा कर्मबुद्ध्यक्षतां प्राप्ता तदासौ पशुर् उच्यते इतीच्छया स भगवान् भैरवः परिमीयते मितवृत्तिस् सती सा च शक्तिस् तम् अनुवर्तते तस्य विद्येशसादाख्यशिवतास् संकुचत्स्थितेः देहप्राणबुद्धिशून्यप्रमातृत्वम् उपागमन् तस्यासाधारणी सृष्टिस् तत्तन्नानाविकल्पना शैवसर्गोत्थसंस्कारसंस्कृतस्य तदाश्रया प्रमातैवायम् एतावत्प्रकारो ऽवग्रहोत्सवे अव्यग्रो वर्तते स्वात्मन्य् अविकल्पे चिदात्मके वत्स पश्य त्वम् एवैतत् अद्वयत्वेन संविदः विदितं तन्मयं विश्वम् अन्यत् तुच्छम् असद् यतः किम् उपायम् इदं तत्त्वं यतो ऽन्यन् नैव सम्भवि अनन्योपायम् एतत् तदात्मोपायं प्रचक्षते संहृत्य सर्वतश् चिन्ताम् [अह]म् इत्य् अनुशीलयन् अविकल्पां स्वसंवित्तिं प्रत्यक्षां प्रतिपद्यते अनन्तैतावदाकारस्वीकारे ऽप्य् एकलक्षणाम् तां स्वसंविदम् आविश्य विकल्पान् न विकल्पयेत् खेचर्यादिचतुस्स्रोतोवाहपूर्णमहाह्रदाम् व्योमेश्वरीम् आत्मचितिं विगाह्य ब्रोडयेज् जडम् सर्गस्थापनसंहारनिग्रहानुग्रहक्रमात् पञ्चकृत्यानि कुर्वाणः शिवो ऽहम् इति विश्वसेत् क्षेपज्ञानप्रसंख्या[नग]तिनादक्रमेण वा गुरुवक्त्रेण तान्य् आत्मन्य् आकलय्य कृती भवेत् विकल्पयित्वा विश्वात्मा भैरवो ऽहं ममैव ताः विश्वभङ्ग्यो यथा वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः एको ऽहं मातृविज्ञानमानमेयप्रकारवान् शुद्धबोधादिरूपेण खेचर्यादिचतुर्दशः मेदामेदप्रकारेण बन्धमोक्षौ विभावयन् भैरवो ऽस्मीति विस्रम्भात् स्वाच्छन्द्यं परमं व्रजेत् अन्तःकारबहिष्काराव् अकालक्रमम् आत्मनः अपराधीनम् आधत्से यत् त्वं प्राभवनिर्भरः अनुत्तरविसर्गात्मविश्रमोदययामलम् संघट्टश् शिवशक्त्योस् तदन्तरे चान्यशक्तयः आनन्देच्छेशनोन्मेषा ऊनता चेशनेच्छयोः अस्फुटस्फुटभेदेन वेद्योल्लासस् तयोर् विदः आनन्दानुत्तराभ्यां च सन्धीभावो ऽथ वेदना वेद्यानां प्राणभूतेति पूर्णं तद् भैरवं वपुः वेद्योल्लासो ऽयम् इच्छायाम् ईशने चैकतः स्थितः स्थूलत्वेन पृथिव्यादिभूतपञ्चकताम् इयात् सूक्ष्मत्वेन च गन्धादिपञ्चतन्मात्रतां ततः करणत्वेन संस्पर्शाद् इन्द्रियाणां द्विपञ्चताम् वेद्यतायाः छादनेन वेत्तृतोद्भासनक्रमे मनो ऽहंबुद्धितां एषाम् अविभागे प्रधानताम् पुरुषत्वं च संकोचविकासौ यदपेक्षया अभूवन्न् इष्यसंयोगाद् द्विरूपाद् उभयात्मनः इच्छास्वरूपाद् उन्मेषाद् अन्यथानुत्तरायुतात् चतस्रश् शक्त्यो ऽन्तःस्थाः पुंसो ऽस्यान्तश् च धारिकाः चिद्व्योम्नो जडभूमेश् च मायामय्यस् त्रिशङ्कुवत् इच्छाशक्तेस् त्रिरूपायास् तिस्रो ऽन्याश् शक्त्यो ऽभवन् विसर्गो ऽयम् अथात्यर्थं स्फुटो ऽभूत् सृज्यविस्तरात् एतत् सृष्ट्वात्मशक्तीनाम् इतरेतरमिश्रात् भवेत् क्षोभान्तरं नास्माद् विसर्गाद् बाह्यतो भवेत् इयत्सर्वं सद् इच्छादिद्वारानुत्तरभैरवे विश्रम्य विश्रम्य मुहुस् तत एव विसृज्यते अन्तर्निलीनानन्तार्थस्वात्मामर्शश् चितिः परा एकवारवहाद् येयं मन्त्री वाक् शुद्धकर्तृता त्रिवहं त्रिपथं त्रिस्थं कालं सा कर्षति स्वतः बहिस् ततश् चात्मनीति श्रीपरा कालकर्षिणी भेदितान्तःकृताख.ङ्दभावावेक्षा परापरा कर्तृता सैव पश्यन्ती तस्यैवेशदशाश्रया मध्यमा सक्रमा स्थूला अन्तःकरणवर्तिनी विकल्पनाभिन्नवाच्या प्राणवृत्तिविभेदिता स्ववासनातादवस्थ्याद् दशयोः पूर्वयोर् अपि मायामातुर् मितत्वं स्यात् पश्यन्त्याश् च क्रमो ह्य् अणुः तयोर् आविश्य दशयोः क्रमाच् छान्तविकल्पयोः धन्यस् स्वसंविद्विस्तारं साश्चर्यम् अनुपश्यति सा स्थानकरणाघातपुंव्यापारात्मिका सती वैखरी वृत्तयो यस्यास्ता इमाः श्रुतिगोचराः आभिः परस्परं ज्ञानसंक्रान्त्यात्मा स लौकिकः व्यवहारो ऽथ शास्त्रीयो नानासंकोचसंकटः इति वाग्व्याप्तिविद्वांसम् एतद्वर्गाधिदेवताः माहेश्वरीमुखा देव्यो जागरे ऽपि न भुञ्जते उपायेनाग्रहः कार्य उपेया भैरवीस्थितिः यासौ स्वसंवित् ताम् एव सर्वोपायां समाविशेत् आद्यन्तान्तर्गतानन्तवाच्यवाचकनिर्भरम् रहस्यं मन्त्रमुद्राणां प्रपद्ये ऽनुत्तरं महः शम्भोर् अभिन्नहृदया जयन्ति गुरवः पुरा निर्व्युत्थानसमाधानप्राप्तपर्यन्तसंपदः नमः शिवाय परिपूर्णा कृतिर् इयं श्रिमदाभिनवगुप्तनाथस्य पर्यन्तपञ्चाशिका नाम