मालिनीविजयोत्तरतन्त्रम् सृष्ट्यधिकारः प्रथमः .१अब्: जयन्ति जगदानन्दविपक्षक्षपणक्षमाः .१च्द्: परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः .२अब्: जगदर्णवमग्नानां तारकं तारकान्तकम् .२च्द्: सनत्कुमारसनकसनातनसनन्दनाः .३अब्: नारदागस्त्यसंवर्तवसिष्ठाद्या महर्षयः .३च्द्: जिज्ञासवः परं तत्त्वं शिवशक्त्युन्मुखीकृताः .४अब्: समभ्यर्च्य विधानेन ते तम् ऊचुः प्रहर्षिताः .४च्द्: भगवद्योगसंसिद्धिकाङ्क्षिणो वयम् आगताः .५अब्: सा च योगं विना यस्मान् न भवेत् तम् अतो वद .५च्द्: ऋषिभिर् योगम् इच्छद्भिः स तैर् एवम् उदाहृतः .६अब्: प्रत्युवाच प्रहृष्टात्मा नमस्कृत्य महेश्वरम् .६च्द्: शृणुध्वं संप्रवक्ष्यामि सर्वसिद्धिफलप्रदम् .७अब्: मालिनीविजयं तन्त्रं परमेशमुखोद्गतम् .७च्द्: भुक्तिमुक्तिप्रदातारम् उमेशम् अमरार्चितम् .८अब्: स्वस्थानस्थम् उमा देवी प्रणिपत्येदम् अब्रवीत् .८च्द्: सिद्धयोगेश्वरीतन्त्रं नवकोटिप्रविस्तरम् .९अब्: यत् त्वया कथितं पूर्वं भेदत्रयविसर्पितम् .९च्द्: मालिनीविजये तन्त्रे कोटित्रितयलक्षिते .१०अब्: योगमार्गस् त्वया प्रोक्तः सुविस्तीर्णो महेश्वर .१०च्द्: भूयस् तस्योपसंहारः प्रोक्तो द्वादशभिस् तथा .११अब्: सहस्रैः सो ऽपि विस्तीर्णो गृह्यते नाल्पबुद्धिभिः .११च्द्: अतस् तम् उपसंहृत्य समासाद् अल्पधीहितम् .१२अब्: सर्वसिद्धिकरं ब्रूहि प्रसादात् परमेश्वर .१२च्द्: एवम् उक्तस् तदा देव्या प्रहस्योवाच विश्वराट् .१३अब्: शृणु देवि प्रवक्ष्यामि सिद्धयोगेश्वरीमतम् .१३च्द्: यन् न कस्य चिद् आख्यातं मालिनीविजयोत्तरम् .१४अब्: मयाप्य् एतत् पुरा प्राप्तम् अघोरात् परमात्मनः .१४च्द्: उपादेयं च हेयं च विज्ञेयं परमार्थतः .१५अब्: शिवः शक्तिः सविद्येशा मन्त्रा मन्त्रेश्वराणवः .१५च्द्: उपादेयम् इति प्रोक्तम् एतत् षट्कं फलार्थिनाम् .१६अब्: मलः कर्म च माया च मायीयम् अखिलं जगत् .१६च्द्: सर्वं हेयम् इति प्रोक्तं विज्ञेयं वस्तु निश्चितम् .१७अब्: एतज् ज्ञात्वा परित्यज्य सर्वसिद्धिफलं लभेत् .१७च्द्: तत्रेशः सर्वकृच् छान्तः सर्वज्ञः सर्वकृत् प्रभुः .१८अब्: सकलो निष्कलो ऽनन्तः शक्तिर् अप्य् अस्य तद्विधा .१८च्द्: स सिसृक्षुर् जगत् सृष्टेर् आदाव् एव निजेच्छया .१९अब्: विज्ञानकेवलान् अष्टौ बोधयाम् आस पुद्गलान् .१९च्द्: अघोरः परमो घोरो घोररूपस् तदाननः .२०अब्: भीमश् च भीषणश् चैव वमनः पिवनस् तथा .२०च्द्: एतान् अष्टौ स्थितिध्वंसरक्षानुग्रहकारिणः .२१अब्: मन्त्रमन्त्रेश्वरे शुद्धे संनियोज्य ततः पुनः .२१च्द्: मन्त्राणाम् असृजत् तद्वत् सप्तकोटीः समण्डलाः .२२अब्: सर्वे ऽप्य् एते महात्मानो मन्त्राः सर्वफलप्रदाः .२२च्द्: आत्मा चतुर्विधो ज्ञेयस् तत्र विज्ञानकेवलः .२३अब्: मलैकयुक्तस् तत्कर्मयुक्तः प्रलयकेवलः .२३च्द्: मलम् अज्ञानम् इच्छन्ति संसाराङ्कुरकारणम् .२४अब्: धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् .२४च्द्: ईश्वरेच्छावशाद् अस्य भोगेच्छा संप्रजायते .२५अब्: भोगसाधनसंसिद्ध्यै भोगेच्छोर् अस्य मन्त्रराट् .२५च्द्: जगद् उत्पादयाम् आस मायाम् आविश्य शक्तिभिः .२६अब्: सा चैका व्यापिनी सूक्ष्मा निष्कला जगतो निधिः .२६च्द्: अनाद्यन्ताशिवेशानी व्ययहीना च कथ्यते .२७अब्: असूत सा कलातत्त्वं यद् योगाद् अभवत् पुमान् .२७च्द्: जातकर्तृत्वसामर्थ्यो विद्यारागौ ततो ऽसृजत् .२८अब्: विद्या विवेचयत्य् अस्य कर्म तत्कार्यकारणे .२८च्द्: रागो ऽनुरञ्जयत्य् एनं स्वभोगेष्व् अशुचिष्व् अपि .२९अब्: नियतिर् योजयत्य् एनं स्वके कर्मणि पुद्गलम् .२९च्द्: कालो ऽपि कलयत्य् एनं तुट्यादिभिर् अवस्थितः .३०अब्: तत एव कलातत्त्वाद् अव्यक्तम् असृजत् ततः .३०च्द्: गुणान् अष्टगुणां तेभ्यो धियं धीतो ऽप्य् अहङ्कृतिम् .३१अब्: तत् त्रिधा तैजसात् तस्मान् मनो ऽक्षेशम् अजायत .३१च्द्: वैकारिकात् ततो ऽक्षाणि तन्मात्राणि तृतीयकात् .३२अब्: श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु .३२च्द्: कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रयः क्रमात् .३३अब्: कलादिक्षितिपर्यन्तम् एतत् संसारमण्डलम् .३३च्द्: समुद्रादि जगत् कृत्स्नं परिवर्तयतीच्छया .३४अब्: भेदः परः कलादीनां भुवनत्वेन यः स्थितः .३४च्द्: असृजत् तम् असाव् एव भोगिनां भोगसिद्धये .३५अब्: इत्य् अनेन कलाद्येन धरान्तेन समन्विताः .३५च्द्: पुमांसः सकला ज्ञेयास् तदवस्थाजिघांसुभिः .३६अब्: अवस्थात्रितये ऽप्य् अस्मिंस् तिरोभावनशीलया .३६च्द्: शिवशक्त्या समाक्रान्ताः प्रकुर्वन्ति विचेष्टितम् .३७अब्: एवं जगति सर्वत्र रुद्राणां योग्यतावशात् .३७च्द्: अङ्गुष्ठमात्रपूर्वाणां शतम् अष्टादशोत्तरम् .३८अब्: अनुगृह्य शिवः साक्षान् मन्त्रेशत्वे नियुक्तवान् .३८च्द्: ते स्वगोचरम् आसाद्य भुक्तिमुक्तिफलार्थिनाम् .३९अब्: ब्रह्मादीनां प्रयच्छन्ति स्वबलेन समं फलम् .३९च्द्: ऋषिभ्यस् ते ऽपि ते चानु मन्वन्तेभ्यो महाधिपाः .४०अब्: हेयोपादेयविज्ञानं कथयन्ति शिवोदितम् .४०च्द्: ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्य् अलम् .४१अब्: मन्त्राणां कोटयस् तिस्रः सार्धाः शिवनियोजिताः .४१च्द्: अनुगृह्याणुसंघातं याताः पदम् अनामयम् .४२अब्: एवम् अस्यात्मनः काले कस्मिंश् चिद् योग्यतावशात् .४२च्द्: शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा .४३अब्: तत्संबन्धात् ततः कश् चित् तत्क्षणाद् अपवृज्यते .४३च्द्: अज्ञानेन सहैकत्वं कस्य चिद् विनिवर्तते .४४अब्: रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया .४४च्द्: भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति .४५अब्: तम् आराध्य ततस् तुष्टाद् दीक्षाम् आसाद्य शाङ्करीम् .४५च्द्: तत्क्षणाद् वोपभोगाद् वा देहपाते शिवं व्रजेत् .४६अब्: योगदीक्षां समासाद्य ज्ञात्वा योगं समभ्यसेत् .४६च्द्: योगसिद्धिम् अवाप्नोति तदन्ते शाश्वतं पदम् .४७अब्: अनेन क्रमयोगेन संप्राप्तः परमं पदम् .४७च्द्: न भूयः पशुताम् एति शुद्धे स्वात्मनि तिष्ठति .४८अब्: आत्मा चतुर्विधो ह्य् एष पुनर् एष चतुर्विधः .४८च्द्: आचार्यत्वादिभेदेन शुद्धात्मा परिपठ्यते .४९अब्: नित्यादित्रितयं कुर्याद् गुरुः साधक एव च .४९च्द्: नित्यम् एव द्वयं चान्यो यावज्जीवं शिवाज्ञया .५०अब्: उपादेयं च हेयं च तद् एतत् परिकीर्तितम् .५०च्द्: ज्ञात्वैतज् ज्ञेयसर्वस्वं सर्वसिद्ध्यरहो भवेत् इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमो ऽधिकारः समाप्तः व्याप्त्यधिकारो द्वितीयः .१अब्: अथैषाम् एव तत्त्वानां धरादीनाम् अनुक्रमात् .१च्द्: प्रपञ्चः कथ्यते लेशाद् योगिनां योगसिद्धये .२अब्: शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते .२च्द्: स्वरूपसहितं तच् च विज्ञेयं दशपञ्चधा .३अब्: शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः .३च्द्: तच्छक्तयश् च विज्ञेयास् तद्वद् एव विचक्षणैः .४अब्: एवं जलादिमूलान्तं तत्त्वव्रातम् इदं महत् .४च्द्: पृथग् भेदैर् इमैर् भिन्नं विज्ञेयं तत्फलेप्सुभिः .५अब्: अनेनैव विधानेन पुंस्तत्त्वात् तु कलान्तिकम् .५च्द्: त्रयोदशविधं ज्ञेयं रुद्रवत् प्रलयाकलः .६अब्: तद्वन् मायापि विज्ञेया नवधा ज्ञानकेवलः .६च्द्: मन्त्राः सप्तविधास् तद्वत् पञ्चधा मन्त्रनायकाः .७अब्: त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान् न भिद्यते .७च्द्: भेदः प्रकथितो लेशाद् अनन्तो विस्तराद् अयम् .८अब्: एवं भुवनमालापि भिन्ना भेदैर् इमैः स्फुटम् .८च्द्: विज्ञेया योगसिद्ध्यर्थं योगिभिर् योगपूजिता .९अब्: एतेषाम् एव तत्त्वानां भुवनानां च शाङ्करि .९च्द्: य एकम् अपि जानाति सो ऽपि योगफलं लभेत् .१०अब्: यः पुनः सर्वतत्त्वानि वेत्त्य् एतानि यथार्थतः .१०च्द्: स गुरुर् मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः .११अब्: दृष्टाः संभाषितास् तेन स्पृष्टाश् च प्रीतचेतसा .११च्द्: नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैर् अपि .१२अब्: ये पुनर् दीक्षितास् तेन प्राणिनः शिवचोदिताः .१२च्द्: ते यथेष्टं फलं प्राप्य गच्छन्ति परमं पदम् .१३अब्: रुद्रशक्तिसमावेशस् तत्र नित्यं प्रतिष्ठितः .१३च्द्: सति तस्मिंश् च चिह्नानि तस्यैतानि विलक्षयेत् .१४अब्: तत्रैतत् प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला .१४च्द्: द्वितीयं मन्त्रसिद्धिः स्यात् सद्यःप्रत्ययकारिका .१५अब्: सर्वसत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम् .१५च्द्: प्रारब्धकार्यनिष्पत्तिश् चिह्नम् आहुश् चतुर्थकम् .१६अब्: कवित्वं पञ्चमं प्रोक्तं सालंकारं मनोहरम् .१६च्द्: सर्वशास्त्रार्थवेत्तृत्वम् अकस्माच् चास्य जायते .१७अब्: रुद्रशक्तिसमावेशः पञ्चधा परिपठ्यते .१७च्द्: भूततत्त्वात्ममन्त्रेशशक्तिभेदाद् वरानने .१८अब्: पञ्चधा भूतसंज्ञस् तु तथा त्रिंशतिधा परः .१८च्द्: आत्माख्यस् त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः .१९अब्: द्विविधः शक्तिसंज्ञो ऽपि ज्ञातव्यः परमार्थतः .१९च्द्: पञ्चाशद्भेदभिन्नो ऽयं समावेशः प्रकीर्तितः .२०अब्: आणवो ऽयं समाख्यातः शाक्तो ऽप्य् एवंविधः स्मृतः .२०च्द्: एवं शाम्भवम् अप्य् एभिर् भेदैर् भिन्नं विलक्षयेत् .२१अब्: उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः .२१च्द्: यो भवेत् स समावेशः सम्यग् आणव उच्यते .२२अब्: उच्चाररहितं वस्तु चेतसैव विचिन्तयन् .२२च्द्: यम् आवेशम् अवाप्नोति शाक्तः सो ऽत्राभिधीयते .२३अब्: अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः .२३च्द्: जायते यः समावेशः शाम्भवो ऽसाव् उदीरितः .२४अब्: सार्धम् एतच् छतं प्रोक्तं भेदानाम् अनुपूर्वशः .२४च्द्: संक्षेपाद् विस्तराद् अस्य परिसंख्या न विद्यते .२५अब्: संवित्तिफलभेदो ऽत्र न प्रकल्प्यो मनीषिभिः .२५च्द्: भेदो ऽपरो ऽपि संक्षेपात् कथ्यमानो ऽवधार्यताम् .२६अब्: जाग्रत्स्वप्नादिभेदेन सर्वावेशक्रमो बुधैः .२६च्द्: पञ्चभिन्नः परिज्ञेयः स्वव्यापारात् पृथक् पृथक् .२७अब्: तत्र स्वरूपं शक्तिश् च सकलश् चेति तत्त्रयम् .२७च्द्: इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके .२८अब्: अकलौ द्वौ परिज्ञेयौ सम्यक् स्वप्नसुषुप्तयोः .२८च्द्: मन्त्रादितत्पतीशानवर्गस् तुर्य इति स्मृतः .२९अब्: शक्तिशंभू परिज्ञेयौ तुर्यातीते वरानने .२९च्द्: त्रयोदशात्मके भेदे स्वरूपम् अकलाव् उभौ .३०अब्: मन्त्रमन्त्रेश्वरेशानाः शक्तिशंभू च कीर्तितौ .३०च्द्: प्रलयाकलभेदे ऽपि स्वं विज्ञानकलाव् उभौ .३१अब्: मन्त्रमन्त्रेश्वरेशानाः शक्तीशाव् अपि पूर्ववत् .३१च्द्: नवधा कीर्तिते भेदे स्वं मन्त्रा मन्त्रनायकाः .३२अब्: तदीशाः शक्तिशंभू च पञ्चावस्थाः प्रकीर्तिताः .३२च्द्: पूर्ववत् सप्तभेदे ऽपि स्वं मन्त्रेशेशशक्तयः .३३अब्: शिवश् चेति परिज्ञेयाः पञ्चैव वरवर्णिनि .३३च्द्: स्वं शक्तिः सनिजेशाना शक्तिशंभू च पञ्चके .३४अब्: त्रिके स्वशक्तिशक्तीच्छाशिवपदं विलक्षयेत् .३४च्द्: स्वव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः .३५अब्: इच्छानिवृत्तेः स्वस्थत्वाद् अभिन्नम् अपि पञ्चधा .३५च्द्: इति पञ्चात्मके भेदे विज्ञेयं वस्तु कीर्तितम् .३६अब्: भूयो ऽप्य् आसाम् अवस्थानां संज्ञाभेदः प्रकाश्यते .३६च्द्: पिण्डस्थः सर्वतोभद्रो जाग्रन्नामद्वयं मतम् .३७अब्: द्विसंज्ञं स्वप्नम् इच्छन्ति पदस्थं व्याप्तिर् इत्य् अपि .३७च्द्: रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद्द्वयम् .३८अब्: प्रचयं रूपातीतं च सम्यक् तुर्यम् उदाहृतम् .३८च्द्: महाप्रचयम् इच्छन्ति तुर्यातीतं विचक्षणाः .३९अब्: पृथक् तत्त्वप्रभेदेन भेदो ऽयं समुदाहृतः .३९च्द्: सर्वाणि एव तत्त्वानि पञ्चैतानि यथा शृणु .४०अब्: भूततत्त्वाभिधानानां यो ऽंशो ऽधिष्ठेय इष्यते .४०च्द्: पिण्डस्थम् इति तं प्राहुः पदस्थम् अपरं विदुः .४१अब्: मन्त्रास् तत्पतयः सेशा रूपस्थम् इति कीर्त्यते .४१च्द्: रूपातीतं परा शक्तिः सव्यापाराप्य् अनामया .४२अब्: निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्य् अवस्थितः .४२च्द्: सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते .४३अब्: चतुर्विधं तु पिण्डस्थम् अबुद्धं बुद्धम् एव च .४३च्द्: प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम् .४४अब्: गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम् .४४च्द्: चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः .४५अब्: उदितं विपुलं शान्तं सुप्रसन्नम् अथापरम् .४५च्द्: मनोन्मनम् अनन्तं च सर्वार्थं सततोदितम् .४६अब्: प्रचये तत्र संज्ञेयम् एकं तन्महति स्थितम् .४६च्द्: इत्य् एवं पञ्चधाध्वानं त्रिधेदानीं निगद्यते .४७अब्: विज्ञानाकलपर्यन्तम् आत्मतत्त्वम् उदाहृतम् .४७च्द्: ईश्वरान्तं च विद्याह्वं शेषं शिवपदं विदुः .४८अब्: एवं भेदैर् इमैर् भिन्नस् तत्राध्वा परिकीर्तितः .४८च्द्: युगपत् सर्वमार्गाणां प्रभेदः प्रोच्यते ऽधुना .४९अब्: पार्थिवं प्राकृतं चैव मायीयं शाक्तम् एव च .४९च्द्: इति सङ्क्षेपतः प्रोक्तम् एतद् अण्डचतुष्टयम् .५०अब्: पृथग् द्वयम् असङ्ख्यातम् एकम् एकं पृथक् पृथक् .५०च्द्: आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वम् इष्यते .५१अब्: एकम् एकं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् .५१च्द्: कालाग्निभुवनाद् यावद् वीरभद्रपुरोत्तमम् .५२अब्: पुरषोडशकं ज्ञेयं षड्विधो ऽध्वा प्रकीर्तितः .५२च्द्: आप्यायिन्या द्वितीयं च तत्र तत्त्वानि लक्षयेत् .५३अब्: त्रयोविंशत्यबादीनि तद्वद् धाद्यक्षराणि च .५३च्द्: पदानि पञ्च मन्त्राश् च षट्पञ्चाशत्पुराणि च .५४अब्: तत्त्वानि सप्त बोधिन्या तच् चतुर्धा पुराणि च .५४च्द्: तृतीये सप्त वर्णाः स्युः पदमन्त्रद्वयं द्वयम् .५५अब्: उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः .५५च्द्: वर्णत्रयं मन्त्रम् एकं पदम् एकं च लक्षयेत् .५६अब्: अष्टादश विजानीयाद् भुवनानि समासतः .५६च्द्: शिवतत्त्वं परं शान्तं कला तत्रावकाशदा .५७अब्: स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत् .५७च्द्: इत्य् एवं षड्विधो ऽप्य् अध्वा समासात् परिकीर्तितः .५८अब्: शुद्धाशुद्धं जगत्सर्वं ब्रह्माण्डप्रभवं यतः .५८च्द्: तस्माच् छुद्धम् इमैः शुद्धैर् ब्रह्माण्डैः सर्वम् इष्यते .५९अब्: ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् चेति सुव्रते .५९च्द्: पृथग् एतेषु बोद्धव्यं शान्तं पतिचतुष्टयम् .६०अब्: यो हि यस्माद् गुणोत्कृष्टः स तस्माद् ऊर्ध्व उच्यते .६०च्द्: एतत् ते कथितं सर्वं किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे व्याप्त्यधिकारो द्वितीयः समाप्तः मन्त्रोद्धाराधिकारस् तृतीयः .१अब्: एवम् उक्ता महादेवी जगदानन्दकारिणा .१च्द्: प्रणिपत्य पुनर् वाक्यम् इदम् आह जगत्पतिम् .२अब्: एवम् एतन् महादेव नान्यथा समुदाहृतम् .२च्द्: यथाख्यातं तथा ज्ञातम् आदितः समनुक्रमात् .३अब्: शिवादिवस्तुरूपाणां वाचकान् परमेश्वर .३च्द्: सांप्रतं श्रोतुम् इच्छामि प्रसादाद् वक्तुम् अर्हसि .४अब्: इत्य् उक्तः स महेशान्या जगदार्तिहरो हरः .४च्द्: वाचकान् अवदन् मन्त्रान् पारम्पर्यक्रमागतान् .५अब्: या सा शक्तिर् जगद्धातुः कथिता समवायिनी .५च्द्: इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते .६अब्: सैकापि सत्य् अनेकत्वं यथा गच्छति तच् छृणु .६च्द्: एवम् एतद् इति ज्ञेयं नान्यथेति सुनिश्चितम् .७अब्: ज्ञापयन्ती जगत्य् अत्र ज्ञानशक्तिर् निगद्यते .७च्द्: एवंभूतम् इदं वस्तु भवत्व् इति यदा पुनः .८अब्: जाता तदैव तत् तद्वत् कुर्वत्य् अत्र क्रियोच्यते .८च्द्: एवम् एषा द्विरूपापि पुनर् भेदैर् अनन्तताम् .९अब्: अर्थोपाधिवशाद् याति चिन्तामणिर् इवेश्वरी .९च्द्: तत्र तावत् समापन्ना मातृभावं विभिद्यते .१०अब्: द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी .१०च्द्: बीजयोन्यात्मकाद् भेदाद् द्विधा बीजं स्वरा मताः .११अब्: कादिभिश् च स्मृता योनिर् नवधा वर्गभेदतः .११च्द्: पृथग् वर्णविभेदेन शतार्धकिरणोज्ज्वला .१२अब्: बीजम् अत्र शिवः शक्तिर् योनिर् इत्य् अभिधीयते .१२च्द्: वाचकत्वेन सर्वापि शंभोः शक्तिश् च शस्यते .१३अब्: वर्गाष्टकम् इह ज्ञेयम् अघोराद्यम् अनुक्रमात् .१३च्द्: तद् एव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् .१४अब्: माहेशी ब्राह्मणी चैव कौमारी वैष्णवी तथा .१४च्द्: ऐन्द्री याम्या च चामुण्डा योगीशी चेति ता मताः .१५अब्: शतार्धभेदभिन्नानां तत्संख्यानां वरानने .१५च्द्: रुद्राणां वाचकत्वेन कल्पिताः परमेष्ठिना .१६अब्: तद्वद् एव च शक्तीनां तत्संख्यानाम् अनुक्रमात् .१६च्द्: सर्वं च कथयिष्यामि तासां भेदं यथा शृणु .१७अब्: अमृतो ऽमृतपूर्णश् च अमृताभो ऽमृतद्रवः .१७च्द्: अमृतौघो ऽमृतोर्मिश् च अमृतस्यन्दनो ऽपरः .१८अब्: अमृताङ्गो ऽमृतवपुर् अमृतोद्गार एव च .१८च्द्: अमृतास्यो ऽमृततनुस् तथा चामृतसेचनः .१९अब्: तन्मूर्तिर् अमृतेशश् च सर्वामृतधरो ऽपरः .१९च्द्: षोडशैते समाख्याता रुद्रबीजसमुद्भवाः .२०अब्: जयश् च विजयश् चैव जयन्तश् चापराजितः .२०च्द्: सुजयो जयरुद्रश् च जयकीर्तिर् जयावहः .२१अब्: जयमूर्तिर् जयोत्साहो जयदो जयवर्धनः .२१च्द्: बलश् चातिबलश् चैव बलभद्रो बलप्रदः .२२अब्: बलावहश् च बलवान् बलदाता बलेश्वरः .२२च्द्: नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः .२३अब्: सुमनाः स्पृहणो दुर्गो भद्रकालो मनोनुगः .२३च्द्: कौशिकः कालविश्वेशौ सुशिवः कोपवर्धनः .२४अब्: एते योनिसमुद्भूताश् चतुस्त्रिंशत् प्रकीर्तिताः .२४च्द्: स्त्रीपाठवशम् आपन्ना एत एवात्र शक्तयः .२५अब्: बीजयोनिसमुद्भूता रुद्रशक्तिसमाश्रयाः .२५च्द्: वाचकानाम् अनन्तत्वात् परिसंख्या न विद्यते .२६अब्: सर्वशास्त्रार्थगर्भिण्या इत्य् एवंविधयानया .२६च्द्: अघोरं बोधयाम् आस स्वेच्छया परमेश्वरः .२७अब्: स तया संप्रबुद्धः सन् योनिं विक्षोभ्य शक्तिभिः .२७च्द्: तत्समानश्रुतीन् वर्णांस् तत्संख्यान् असृजत् प्रभुः .२८अब्: ते तैर् आलिङ्गिताः सन्तः सर्वकामफलप्रदाः .२८च्द्: भवन्ति साधकेन्द्राणां नान्यथा वीरवन्दिते .२९अब्: तैर् इदं संततं विश्वं सदेवासुरमानुषम् .२९च्द्: तेभ्यः शास्त्राणि वेदाश् च संभवन्ति पुनः पुनः .३०अब्: अनन्तस्यापि भेदस्य शिवशक्तेर् महात्मनः .३०च्द्: कार्यभेदान् महादेवि त्रैविध्यं समुदाहृतम् .३१अब्: विषयेष्व् एव संलीनान् अधो ऽधः पातयन्त्य् अणून् .३१च्द्: रुद्राणून्याः समालिङ्ग्य घोरतर्यो ऽपराः स्मृताः .३२अब्: मिश्रकर्मफलासक्तिं पूर्ववज् जनयन्ति याः .३२च्द्: मुक्तिमार्गनिरोधिन्यास् ताः स्युर् घोराः परापराः .३३अब्: पूर्ववज् जन्तुजातस्य शिवधामफलप्रदाः .३३च्द्: पराः प्रकथितास् तज्ज्ञैर् अघोराः शिवशक्तयः .३४अब्: एताः सर्वाणुसंघातम् अपि निष्ठा यथा स्थिताः .३४च्द्: तथा ते कथिताः शंभोः शक्तिर् एकैव शाङ्करी .३५अब्: अस्या वाचकभेदेन भेदो ऽन्यः संप्रचक्ष्यते .३५च्द्: यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् .३६अब्: विशेषविधिहीनेषु न्यासकर्मसु मन्त्रवित् .३६च्द्: न्यसेच् छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् .३७अब्: न शिखा ऋ.रॢट् च शिरोमाला थ मस्तकम् .३७च्द्: नेत्राणि चध वै नासा ई समुद्रे णुणू श्रुती .३८अब्: बकवर्ग इआ वक्त्रदन्तजिह्वासु वाचि च .३८च्द्: वभयाः कण्ठदक्षादिस्कन्धयोर् भुजयोर् डढौ .३९अब्: ठो हस्तयोर् झञौ शाखा ज्रटौ शूलकपालके .३९च्द्: प हृच् छलौ स्तनौ क्षीरम् आ स जीवो विसर्गयुक् .४०अब्: तत्परः कथितः प्राणः षक्षाव् उदरनाभिगौ .४०च्द्: मशंताः कटिगुह्योरु युग्मगा जानुनी तथा .४१अब्: एऐकारौ तथा जङ्घे तत्परौ चरणौ दफौ .४१च्द्: अतो विद्याश् च मन्त्राश् च समुद्धार्या यथा शृणु .४२अब्: सबिन्दुकां दक्षजङ्घां ततो वाचं प्रकल्पयेत् .४२च्द्: तयैव जङ्घया युक्तं चतुर्थं दशनं ततः .४३अब्: दक्षजानुयुतं दण्डं प्राणं दण्डस्थम् ईर्युतम् .४३च्द्: पृथग् घृद्दण्डकटिगा द्विजदण्डौ च पूर्ववत् .४४अब्: उस्थितं बिन्दुयुक्प्राणं पूर्ववद् दशनं ततः .४४च्द्: दण्डं केवलम् उद्धृत्य वाममुद्रान्वितं पुनः .४५अब्: दक्षजानुयुतं हृच् च प्राणं जीवात्मना युतम् .४५च्द्: दशनं पुर्ववन् न्यस्य दण्डं केवलम् एव च .४६अब्: नितम्बं दक्षमुद्रेतं द्वितीयं जिह्वया द्विजम् .४६च्द्: सनासं दक्षशिखरं नितम्बं केवलं ततः .४७अब्: पुनस् तथैव शिखरं जठरं केवलं ततः .४७च्द्: दक्षजानुयुतं कर्णं कण्ठं केवलम् एव च .४८अब्: नितम्बं केवलं न्यस्य हृदयं जिह्वया युतम् .४८च्द्: वक्त्रं केवलम् उद्धृत्य प्राणम् आद्येन जानुना .४९अब्: शूलदण्डचतुष्कं च तत्राद्यं द्वयम् उस्थितम् .४९च्द्: वामपादं च तस्यान्ते कपालं पतितं न्यसेत् .५०अब्: ततः परमघोरान्तं पाद्यकाद्ये च पूर्ववत् .५०च्द्: परापरा समाख्याता अपरा च प्रकथ्यते .५१अब्: अघोरान्तं न्यसेद् आदौ प्राणं बिन्दुयुतं पुनः .५१च्द्: वाममुद्रान्वितं न्यस्य पाद्यं काद्येन पूर्ववत् .५२अब्: अपरेयं समाख्याता रुद्रशक्तिं परां शृणु .५२च्द्: मन्त्राः संमुखतां यान्ति ययोच्चारितमात्रया .५३अब्: कम्पते गात्रयष्टिश् च द्रुतं चोत्पतनं भवेत् .५३च्द्: मुद्राबन्धं च गेयं च शिवारुदितम् एव च .५४अब्: अतीतानगतार्थस्य कुर्याद् वा कथनादिकम् .५४च्द्: वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः .५५अब्: परेयम् अनया सिद्धिः सर्वकामफलप्रदा .५५च्द्: नाशिष्याय प्रदेयेयं नाभक्ताय कदा चन .५६अब्: रुद्रश् च रुद्रशक्तिश् च गुरुश् चेति त्रयं समम् .५६च्द्: भक्त्या प्रपश्यते यस् तु तस्मै देया वरानने .५७अब्: शिष्येनापि तदा ग्राह्या यदा संतोषितो गुरुः .५७च्द्: शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभिः .५८अब्: बोधिता तु यदा तेन गुरुणा हृष्टचेतसा .५८च्द्: तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते .५९अब्: परापराङ्गसंभूता योगिन्यो ऽष्टौ महाबलाः .५९च्द्: पञ्च षट् पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु .६०अब्: ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता .६०च्द्: जीवो दीर्घस्वरैः षड्भिः पृथग् जातिविभेदितः .६१अब्: विद्यात्रयस्य गात्राणि ह्रस्वैर् वक्त्राणि पञ्चभिः .६१च्द्: ओंकारैः पञ्चभिर् मन्त्रो विद्याङ्गहृदयं भवेत् .६२अब्: ॐ अमृते तेजोमालिनि स्वाहा पदानि भूषितम् .६२च्द्: एकादशाक्षरं प्रोक्तम् एतद् ब्रह्मशिरः प्रिये .६३अब्: वेदवेदिनि हूंफट् च च प्रणवादिसमन्विता .६३च्द्: रुद्राण्य् अष्टाक्षरा ज्ञेया शिखा विद्यागणस्य तु .६४अब्: वज्रिणे वज्रधराय स्वाहान्तं प्रणवादिकम् .६४च्द्: एकादशाक्षरं वर्म पुरुष्टुतम् इति स्मृटम् .६५अब्: श्लीपदं पशुशब्दं च हूंफडन्तं भवादिकम् .६५च्द्: एतत् पाशुपतं प्रोक्तम् अर्धसप्ताक्षरं परम् .६६अब्: लरटक्षवयैर् दीर्घैः सूमायुक्तैः सबिन्दुकैः .६६च्द्: इन्द्रादीन् कल्पयेद् ध्रस्वैस् तदस्त्राणि विचक्षणः .६७अब्: तद्वन् नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती .६७च्द्: स्वराव् आद्यतृतीयौ तु वाचकौ पद्मचक्रयोः .६८अब्: इति मन्त्रगणः प्रोक्तः सर्वकामफलप्रदः .६८च्द्: योगिनां योगसिद्ध्यर्थं किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे मन्त्रोद्धाराधिकारस् तृतीयः समाप्तः योगलक्षणधिकारश् चतुर्थः .१अब्: अथैतद् उपसंश्रुत्य मुनयो मुदितेक्षणाः .१च्द्: प्रणम्य क्रौञ्चहन्तारं पुनर् ऊचुर् इदं वचः .२अब्: योगमार्गविधिं देव्या पृष्टेन परमेष्ठिना .२च्द्: तत्प्रतिज्ञावताप्य् उक्तं किमर्थं मन्त्रलक्षणम् .३अब्: एवम् उक्तः स तैः सम्यक् कार्तिकेयो महामतिः .३च्द्: इदम् आह वचस् तेषां संदेहविनिवृत्तये .४अब्: योगम् एकत्वम् इच्छन्ति वस्तुनो ऽन्येन वस्तुना .४च्द्: यद् वस्तु ज्ञेयम् इत्य् उक्तं हेयत्वादिप्रसिद्धये .५अब्: द्विरूपम् अपि तज् ज्ञानं विना ज्ञातुं न शक्यते .५च्द्: तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यद् उपवर्णितम् .६अब्: सबीजयोगसंसिद्ध्यै मन्त्रलक्षणम् अप्य् अलम् .६च्द्: न चाधिकारिता दीक्षां विना योगे ऽस्ति शाङ्करे .७अब्: क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते .७च्द्: द्विविधा सा प्रकर्तव्या तेन चैतद् उदाहृतम् .८अब्: न च योगाधिकारित्वम् एकम् एवानया भवेत् .८च्द्: अपि मन्त्राधिकारित्वं मुक्तिश् च शिवदीक्षया .९अब्: श्रुत्वा चैतत् पतेर् वाक्यं रोमाञ्चितशरीरिणी .९च्द्: इदम् आह पुनर् वाक्यम् अम्बा मुनिवरोत्तमाः .१०अब्: अभिन्नमालिनीकाये तत्त्वानि भुवनानि च .१०च्द्: कलाः पदानि मन्त्राश् च यथावद् अवधारिताः .११अब्: भिन्नयोनिस् तु या देव त्वयोक्ता मालिनी मम .११च्द्: तस्या अङ्गे यथैतानि संस्थितानि तथा वद .१२अब्: एवम् उक्तो महादेव्या भैरवो भूरिभोगदः .१२च्द्: स्फुरद्धिमांशुसंतानप्रकाशितदिगन्तरः .१३अब्: सुरासुरशिरोमौलिमालालालितशासनः .१३च्द्: उवाच मधुरां वाचम् इमाम् अक्लेशिताशयाम् .१४अब्: या मया कथिता देवि भिन्नयोनिस् तु मालिनी .१४च्द्: तदङ्गे संप्रवक्ष्यामि सर्वम् एतद् यथा स्थितम् .१५अब्: फे धरातत्त्वम् उद्दिष्टं दादिझान्ते ऽनुपूर्वशः .१५च्द्: त्रयोविंशत्यबादीनि प्रधानान्तानि लक्षयेत् .१६अब्: ठादौ च सप्तके सप्त पुरुषादीनि पूर्ववत् .१६च्द्: इङघेषु त्रयं विद्याद् विद्यातः सकलावधि .१७अब्: शिवतत्त्वे गकारादिनान्तान् षोडश लक्षयेत् .१७च्द्: कलाः पदानि मन्त्राश् च भुवनानि च सुन्दरि .१८अब्: पूर्ववद् वेदितव्यानि तत् सङ्ख्यार्णविभेदतः .१८च्द्: विद्यात्रयविभागेन यथेदानीं तथा शृणु .१९अब्: निष्कले पदम् एकार्णं त्र्यर्णैकार्णम् अथ द्वयम् .१९च्द्: सकले तु परिज्ञेयं पञ्चैकार्णद्वयं द्वये .२०अब्: चतुरेकाक्षरे द्वे च मायादित्रितये मते .२०च्द्: चतुरक्षरम् एकं च कालादिद्वितये मतम् .२१अब्: रञ्जके द्व्यर्णम् उद्दिष्टं प्रधाने त्र्यर्णम् इष्यते .२१च्द्: बुद्धौ देवाष्टकव्याप्त्या पदं द्व्यक्षरम् इष्यते .२२अब्: ततः पञ्चाष्टकव्याप्त्या द्व्येकद्विद्व्यक्षराणि तु .२२च्द्: विद्यापदानि चत्वारि सार्धवर्णं तु पञ्चमम् .२३अब्: एकैकसार्धवर्णानि त्रीणि तत्त्वे तु पार्थिवे .२३च्द्: पराङ्गे सर्वम् अन्यच् च वर्णमन्त्रकलादिकम् .२४अब्: सार्धेनाण्डद्वयं व्याप्तम् एकैकेन पृथग् द्वयम् .२४च्द्: अपरायाः समाख्याता व्याप्तिर् एषा विलोमतः .२५अब्: सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् .२५च्द्: सर्वातीतं विसर्गेण पराव्याप्तिर् उदाहृता .२६अब्: एतत् सर्वं परिज्ञेयं योगिना हितम् इच्छता .२६च्द्: आत्मनो वा परेषां वा नान्यथा तद् अवाप्यते .२७अब्: द्वाव् एव मोक्षदौ ज्ञेयौ ज्ञानी योगी च शाङ्करि .२७च्द्: पृथक्त्वात् तत्र [] बोद्धव्यं फलकाङ्क्षिभिः .२८अब्: ज्ञानं च त्रिविधं प्रोक्तं तत्राद्यं श्रुतम् इष्यते .२८च्द्: चिन्तामयम् अथान्यच् च भावनामयम् एव च .२९अब्: शास्त्रार्थस्य परिज्ञानं विक्षिप्तस्य श्रुतं मतम् .२९च्द्: इदम् अत्रेदम् अत्रेति इदम् अत्रोपयुज्यते .३०अब्: सर्वम् आलोच्य शास्त्रार्थम् आनुपूर्व्या व्यवस्थितम् .३०च्द्: तद्वच् चिन्तामयं ज्ञानं द्विरूपम् उपदिश्यते .३१अब्: मन्दस्वभ्यस्तभेदेन तत्र स्वभ्यस्तम् उच्यते .३१च्द्: सुनिष्पन्ने ततस् तस्मिञ् जायते भावनामयम् .३२अब्: यतो योगं समासाद्य योगी योगफलं लभेत् .३२च्द्: एवं विज्ञानभेदेन ज्ञानी प्रोक्तश् चतुर्विधः .३३अब्: संप्राप्तो घटमानश् च सिद्धः सिद्धतमो ऽन्यथा .३३च्द्: योगी चतुर्विधो देवि यथावत् प्रतिपद्यते .३४अब्: समावेशोक्तिवद् योगस् त्रिविधः समुदाहृतः .३४च्द्: तत्र प्राप्तोपदेशस् तु पारम्पर्यक्रमेण यः .३५अब्: प्राप्तयोगः स विज्ञेयस् त्रिविधो ऽपि मनीषिभिः .३५च्द्: चेतसो घटनं तत्त्वाच् चलितस्य पुनः पुनः .३६अब्: यः करोति तम् इच्छन्ति घटमानं मनीषिणः .३६च्द्: तद् एव चेतसा नान्यद् द्वितीयम् अवलम्बते .३७अब्: सिद्धयोगस् तदा ज्ञेयो योगी योगफलार्थिभिः .३७च्द्: यः पुनर् यत्र तत्रैव संस्थितो ऽपि यथा तथा .३८अब्: भुञ्जानस् तत्फलं तेन हीयते न कथञ् चन .३८च्द्: सुसिद्धः स तु बोद्धव्यः सदाशिवसमः प्रिये .३९अब्: उत्तरोत्तरवैशिष्ट्यम् एतेषां समुदाहृतम् .३९च्द्: ज्ञानिनां योगिनां चैव द्वयोर् योगविद् उत्तमः .४०अब्: यतो ऽस्य ज्ञानम् अप्य् अस्ति पूर्वो योगफलोज्झितः .४०च्द्: यतश् च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान् बुधैः .४१अब्: इत्य् एतत् कथितं सर्वं विज्ञेयं योगिपूजिते .४१च्द्: तन्त्रार्थम् उपसंहृत्य समासाद् योगिनां हितम् इति श्रीमालिनीविजयोत्तरे तन्त्रे चतुर्थो ऽधिकारः समाप्तः अथ पञ्चमो ऽधिकारः .१अब्: अथातः संप्रवक्ष्यामि भुवनाध्वानम् ईश्वरि .१च्द्: आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः .२अब्: अवीचिः कुम्भीपाकश् च रौरवश् च तृतीयकः .२च्द्: कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः .३अब्: पातालानि ततः सप्त तेषाम् आदौ महातलम् .३च्द्: रसातलं ततश् चान्यत् तलातलम् अतः परम् .४अब्: सुतलं नितलं चेति वितलं तलम् एव च .४च्द्: हाटकेन विशुद्धेन सर्वेषां शुद्धिर् इष्यते .५अब्: तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता .५च्द्: देवानाम् आश्रयो मेरुस् तन्मध्ये संव्यवस्थितः .६अब्: भुवोलोकस् तदूर्ध्वे च स्वर्लोकस् तस्य चोपरि .६च्द्: महो जनस् तपः सत्यम् इत्य् एतल् लोकसप्तकम् .७अब्: चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते .७च्द्: स्थावरः सर्पजातिश् च पक्षिजातिस् तथापरा .८अब्: मृगसंज्ञश् च पश्वाख्यः पञ्चमो ऽन्यश् च मानुषः .८च्द्: पैशाचो राक्षसो याक्षो गान्धर्वश् चैन्द्र एव च .९अब्: सौम्यश् च प्राजापत्यश् च ब्राह्मश् चात्र चतुर्दश .९च्द्: सर्वस्यैवास्य संशुद्धिर् ब्राह्मे संशोधिते सति .१०अब्: भुवनं वैष्णवं तस्मान् मदीयं तदनन्तरम् .१०च्द्: तत्र शुद्धे भवेच् छुद्धं सर्वम् एतन् न संशयः .११अब्: कालाग्निपूर्वकैर् एभिर् भुवनैः पञ्चभिः प्रिये .११च्द्: शुद्धैः सर्वम् इदं शुद्धं ब्रह्माण्डान्तर्व्यवस्थितम् .१२अब्: तद्बहिः शतरुद्राणां भुवनानि पृथक् पृथक् .१२च्द्: दश संशोधयेत् पश्चाद् एकं तन्नायकावृतम् .१३अब्: अनन्तः प्रथमस् तेषां कपालीशस् तथापरः .१३च्द्: अग्निरुद्रो यमश् चैव नैरृतो बल एव च .१४अब्: शीघ्रो निधीश्वरश् चैव सर्वविद्याधिपो ऽपरः .१४च्द्: शंभुश् च वीरभद्रश् च विधूमज्वलनप्रभः .१५अब्: एभिर् दशैकसंख्यातैः शुद्धैः शुद्धं शतं मतम् .१५च्द्: उपरिष्टात् पुरस् तेषाम् अष्टकाः पञ्च संस्थिताः .१६अब्: लकुली भारभूतिश् च दिण्ढ्याषाढी सपुष्करौ .१६च्द्: नैमिषं च प्रभासं च अमरेशम् अथाष्टकम् .१७अब्: एतत् प्रत्यात्मकं प्रोक्तम् अतो गुह्यातिगुह्यकम् .१७च्द्: तत्र भैरवकेदारमहाकालाः समध्यमाः .१८अब्: आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः .१८च्द्: भीमेश्वरमहेन्द्राट्टहासाः सविमलेश्वराः .१९अब्: कनखलं नाखलं च कुरुक्षेत्रं गया तथा .१९च्द्: गुह्यम् एतत् तृतीयं तु पवित्रम् अधुनोच्यते .२०अब्: स्थानुस्वर्णाक्षकाव् आद्यौ भद्रगोकर्णकौ परौ .२०च्द्: महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः .२१अब्: स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जराव् अपि .२१च्द्: मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ .२२अब्: स्थाण्वाष्टकम् इति प्रोक्तम् अहङ्कारावधि स्थितम् .२२च्द्: देवयोन्यष्टकं बुद्धौ कथ्यमानं मया शृणु .२३अब्: पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रम् एव च .२३च्द्: तथा सौम्यं सप्राजेशं ब्राह्मम् अष्टमम् इष्यते .२४अब्: योगाष्टकं प्रधाने तु तत्रादाव् अकृतं भवेत् .२४च्द्: कृतं च रैभवं ब्राह्मं वैष्णवं तदनन्तरम् .२५अब्: कौमारम् औमं श्रैकण्ठम् इति योगाष्टकं तथा .२५च्द्: पुरुषे वामभीमोग्रभवेशानैकवीरकाः .२६अब्: प्रचण्डोमाधवाजाश् च अनन्तैकशिवाव् अथ .२६च्द्: क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिर् एव च .२७अब्: कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे .२७च्द्: एकवीरशिखण्डीशश्रीकण्ट्ःआः कालम् आश्रिताः .२८अब्: महातेजः प्रभृतयोः मण्डलेशानसंज्ञकाः .२८च्द्: मायातत्त्वे स्थितास् तत्र वामदेवभवोद्भवौ .२९अब्: एकपिङ्गेक्षणेशानभुवनेशपुरःसराः .२९च्द्: अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः .३०अब्: विद्यातत्त्वे ऽपि पञ्चाहुर् भुवनानि मनीषिणः .३०च्द्: तत्र हालाहलः पूर्वो रुद्रः क्रोधस् तथापरः .३१अब्: अम्बिका च अघोरा च वामदेवी च कीर्त्यते .३१च्द्: ईश्वरे पिवनाद्याः स्युर् अघोरान्ता महेश्वराः .३२अब्: रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ .३२च्द्: एतानि सकले पञ्च भुवनानि विदुर् बुधाः .३३अब्: एवं तु सर्वतत्त्वेषु शतम् अष्टादशोत्तरम् .३३च्द्: भुवनानां परिज्ञेयं सङ्क्षेपान् न तु विस्तरात् .३४अब्: शुद्धेनानेन शुद्ध्यन्ति सर्वाण्य् अपि न संशयः .३४च्द्: सर्वमार्गविशुद्धौ तु कर्तव्यायां महामतिः .३५अब्: सकलावधि संशोध्य शिवे योगं प्रकल्पयेत् .३५च्द्: बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योगवित् .३६अब्: इत्य् एष कीर्तितो मार्गो भुवनाख्यस्य मे मतः इति श्रीमालिनीविजयोत्तरे तन्त्रे पञ्चमो ऽधिकारः समाप्तः अथ देहमार्गाधिकारः षष्ठः .१अब्: अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः .१च्द्: क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते .२अब्: पादाधः पञ्चभूतानि व्याप्त्या द्व्यङ्गुलया न्यसेत् .२च्द्: धरातत्त्वं च गुल्फान्तम् अबादीनि ततः क्रमात् .३अब्: तद्वत् तुन्दोपरिष्टात् तु पर्वषट्कावसानकम् .३च्द्: पुंस्तत्त्वात् कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत् .४अब्: ततो मायादितत्त्वानि चत्वारि सुसमाहितः .४च्द्: चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत् .५अब्: शिवतत्त्वं ततः पश्चात् तेजोरूपम् अनाकुलम् .५च्द्: सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् .६अब्: षट्त्रिंशत्तत्त्वभेदेन न्यासो ऽयं समुदाहृतः .६च्द्: अधुना पञ्च तत्त्वानि यथा देहे तथोच्यते .७अब्: नाभेर् ऊर्ध्वं तु यावत् स्यात् पर्वषट्कम् अनुक्रमात् .७च्द्: धरातत्त्वेन गुल्फान्तं व्याप्तं शेषम् इहाम्बुना .८अब्: द्वाविंशतिश् च पर्वाणि तदूर्ध्वं तेजसावृतम् .८च्द्: तस्माद् द्वादश पर्वाणि वायुव्याप्तिर् उदाहृता .९अब्: आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत् .९च्द्: शक्त्यादिपञ्चखण्डाध्वविधिष्व् अप्य् एवम् इष्यते .१०अब्: त्रिखण्डे कण्ठपर्यन्तम् आत्मतत्त्वम् उदाहृतम् .१०च्द्: विद्यातत्त्वम् अतोर्ध्वं च शिवतत्त्वं तु पूर्ववत् .११अब्: एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते .११च्द्: कालाग्नेर् वीरभद्रान्तं पुरषोडशकं ततः .१२अब्: गुल्फान्तं विन्यसेद् ध्यात्वा यथावद् अनुपूर्वशः .१२च्द्: तस्माद् एकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात् .१३अब्: विन्यसेत् तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम् .१३च्द्: ततः पादाङ्गुलव्याप्त्या देवयोगाष्टकं पृथक् .१४अब्: ततो ऽप्य् अर्धाङ्गुलव्याप्त्या पुरषट्कम् अनुक्रमात् .१४च्द्: चतुष्कं तु द्वये ऽन्यस्मिन्न् एकम् एकत्र चिन्तयेत् .१५अब्: उत्तरादिक्रमाद् द्व्येकभेदो विद्यादिके त्रये .१५च्द्: काले प्रत्येकम् उद्दिष्टम् एकैकं तु यथाक्रमं .१६अब्: मण्डलाधिपतीनां तु व्याप्तिर् अर्धाङ्गुला मता .१६च्द्: त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि .१७अब्: द्वितयस्य च संपूर्णा पञ्चकं समुदाहृतम् .१७च्द्: अष्टकं पञ्चकं चान्यद् एवम् एव विलक्षयेत् .१८अब्: भुवनाध्वविधाव् अत्र पूर्ववच् चिन्तयेच् छिवम् .१८च्द्: पदानि द्विविधान्य् अत्र वर्गविद्याविभेदतः .१९अब्: तेषां तन्मन्त्रवद् व्याप्तिर् यथेदानीं तथा शृणु .१९च्द्: चतुरङ्गुलम् आद्यं तु द्वे चान्ये ऽष्टाङ्गुले पृथक् .२०अब्: दशाङ्गुलानि त्रीण्य् अस्माद् एकं पञ्चदशाङ्गुलम् .२०च्द्: चतुर्भिर् अधिकैश् चान्यद् व्यापकं नवमं महत् .२१अब्: ऊनविंशतिके भेदे पदानां व्याप्तिर् उच्यते .२१च्द्: एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् .२२अब्: अष्टाङ्गुलानि चत्वारि दशाङ्गुलम् अतः परम् .२२च्द्: द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलम् अतः परम् .२३अब्: द्वादशाङ्गुलम् अन्यच् च द्वे ऽन्ये पञ्चाङ्गुले पृथक् .२३च्द्: पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी .२४अब्: व्यापकं पदम् अन्यच् च पूर्ववत् परिकीर्तितं .२४च्द्: अपरो ऽयं विधिः प्रोक्तः परापरम् अतः शृणु .२५अब्: पूर्ववत् पृथिवीतत्त्वं विज्ञेयं चतुरङ्गुलम् .२५च्द्: सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत् .२६अब्: प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववद् आदिशेत् .२६च्द्: परे ऽपि पूर्ववत् पृथ्वी त्र्यङ्गुलान्य् अपराणि च .२७अब्: चतुष्पर्व प्रधानं च शेषं पूर्ववद् आश्रयेत् .२७च्द्: द्विविधो ऽपि हि वर्णानां षड्विधो भेद उच्यते .२८अब्: तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः .२८च्द्: पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः .२९अब्: त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना .२९च्द्: इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना .३०अब्: प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा इति श्रीमालिनीविजयोत्तरे तन्त्रे देहमार्गाधिकारः षष्ठः समाप्तः मुद्राधिकारः सप्तमः .१अब्: अथातः संप्रवक्ष्यामि मुद्राख्याः शिवशक्तयः .१च्द्: याभिः संरक्षितो मन्त्री मन्त्रसिद्धिम् अवाप्नुयात् .२अब्: त्रिशूलं च तथा पद्मं शक्तिश् चक्रं सवज्रकम् .२च्द्: दण्डदंष्ट्रे महाप्रेता महामुद्रा खगेश्वरी .३अब्: महोदया कराला च खट्वाङ्गं सकपालकम् .३च्द्: हलं पाशाङ्कुशा घण्टा मुद्गरस् त्रिशिखो ऽपरः .४अब्: आवाहस्थापनीरोधा द्रव्यदा नतिर् एव च .४च्द्: अमृता योगमुद्रेति विज्ञेया वीरवन्दिते .५अब्: तर्जनीमध्यमानामा दक्षिणस्य प्रसारिताः .५च्द्: कणिष्ठाङ्गुष्ठकाक्रान्तास् त्रिशूलं परिकीर्तितम् .६अब्: पद्माकारौ करौ कृत्वा पद्ममुद्रां प्रदर्शयेत् .६च्द्: संमुखौ प्रसृतौ कृत्वा कराव् अन्तरिताङ्गुली .७अब्: प्रसृते मध्यमे लग्ने कौमार्याः शक्तिर् इष्यते .७च्द्: उत्तानवाममुष्टेस् तु दक्ष[] .८अब्: [] क्षिपेन् मुष्टिं चक्रं नारायणीप्रियम् .८च्द्: उत्तानवामकस्योर्ध्वं न्यसेद् दक्षम् अधोमुखम् .९अब्: कनिष्ठाङ्गुष्ठकौ श्लिष्टौ शेषाः स्युर् मणिबन्धगा .९च्द्: वज्रमुद्रेति विख्याता ऐन्द्रीसंतोषकारिका .१०अब्: ऊर्ध्वप्रसारितो मुष्टिर् दक्षिणो ऽङ्गुष्ठगर्भगः .१०च्द्: दण्डमुद्रेति विख्याता वैवस्वतकुलप्रिया .११अब्: वामतो वक्त्रगां कुर्याद् वाममुष्टेः कनिष्ठिकाम् .११च्द्: दंष्ट्रेयं कीर्तिता देवि चामुण्डाकुलनन्दिनी .१२अब्: वामजानुगतं पादं बुत् हस्तौ पृष्ठप्रलम्बिनौ .१२च्द्: विकृते लोचने ग्रीवा भग्ना जिह्वा प्रसारिता .१३अब्: सर्वयोगिगणस्येष्टा प्रेता योगीश्वरी मता .१३च्द्: हस्ताव् अधोमुखौ पद्भ्यां हृदयान्तं नयेद् बुधः .१४अब्: तिर्यग् मुखान्तम् उपरि संमुखाव् ऊर्ध्वगौ नयेत् .१४च्द्: महामुद्रेति विख्याता देहशोधनकर्मणि .१५अब्: सर्वकर्मकरी चैषा योगिनां योगसिद्धये .१५च्द्: बद्ध्वा पद्मासनं योगी नाभाव् अक्षेश्वरं न्यसेत् .१६अब्: दण्डाकारं तु तं तावन् नयेद् यावत् कखत्रयम् .१६च्द्: निगृह्य तत्र तत् तूर्णं प्रेरयेत् खत्रयेण तु .१७अब्: एतां बद्ध्वा महावीरः खे गतिं प्रतिपद्यते .१७च्द्: अधोमुखस्य दक्षस्य वामम् उत्तानम् ऊर्ध्वतः .१८अब्: अनामामध्यमे तस्य वामाङ्गुष्ठेन पीडयेत् .१८च्द्: तर्जन्या तत्कनिष्ठां च तर्जनीं च कनिष्ठया .१९अब्: मध्यमानामिकाभ्यां च तदङ्गुष्ठं निपीडयेत् .१९च्द्: मुद्रा महोदयाख्येयं महोदयकरी नृणाम् .२०अब्: अनामिकाकनिष्ठाभ्यां सृक्विण्यौ प्रविदारयेत् .२०च्द्: जिह्वां च लालयेन् मन्त्री हाहाकारं च कारयेत् .२१अब्: क्रुद्धदृष्टिः करालेयं मुद्रा दुष्टभयङ्करी .२१च्द्: वामस्कन्धगतो वाम मुष्टिर् उच्छ्रिततर्जनी .२२अब्: खट्वाङ्गाख्या स्मृता मुद्रा कपालम् अधुना शृणु .२२च्द्: निम्नं पाणितलं दक्षम् ईषत् संकुचिताङ्गुलि .२३अब्: कपालम् इति विज्ञेयम् अधुना हलम् उच्यते .२३च्द्: मुष्टिबद्धस्य दक्षस्य तर्जनी वाममुष्टिना .२४अब्: वक्रतर्जनिना ग्रस्ता हलमुद्रेति कीर्तिता .२४च्द्: मुष्ट्या पृष्ठगयोर् दक्ष वामयोस् तर्जनीद्वयम् .२५अब्: वामाङ्गुष्ठाग्रसंलग्नं पाशः प्रसृतकुञ्चितः .२५च्द्: हले मुष्टिर् यथा वामो दक्षहीनस् तथाङ्कुशः .२६अब्: अधोमुखस्थिते वामे दक्षिणां तर्जनीं बुधः .२६च्द्: चालयेन् मध्यदेशस्थां घण्टामुद्रा प्रिया मता .२७अब्: कराव् ऊर्ध्वमुखौ कार्याव् अन्योन्यान्तरिताङ्गुली .२७च्द्: अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपर्वगे .२८अब्: मध्यमे द्वे युते कार्ये कनिष्ठे पुरुषावधि .२८च्द्: तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते .२९अब्: मुद्गरस् त्रिशिखो ह्य् एष क्षणाद् आवेशकारकः .२९च्द्: कराभ्याम् अञ्जलिं कृत्वा अनामामूलपर्वगौ .३०अब्: अङ्गुष्ठौ कल्पयेद् विद्वान् मन्त्रावाहनकर्मणि .३०च्द्: मुष्टी द्वाव् उन्नताङ्गुष्ठौ स्थापनी परिकीर्तिता .३१अब्: द्वाव् एव गर्भगाङ्गुष्ठौ विज्ञेया संनिरोधिनी .३१च्द्: द्रव्यदा तु समाख्याता []त्र संमुखी .३२अब्: हृदये संमुखौ हस्तौ संलग्नौ प्रसृताङ्गुली .३२च्द्: नमस्कृतिर् इयं मुद्रा मन्त्रवन्दनकर्मणि .३३अब्: अन्योन्यान्तरिताः सर्वाः करयोर् अङ्गुलीः स्थिताः .३३च्द्: कनिष्ठां दक्षिणां वामे ऽनामिकाग्रे नियोजयेत् .३४अब्: दक्षिणे च तथा वामं तर्जनीमध्यमे तथा .३४च्द्: अङ्गुष्ठौ मध्यमूलस्थौ मुद्रेयम् अमृतप्रभा .३५अब्: दक्षिणं नाभिमूले तु वामस्योपरि संस्थितम् .३५च्द्: तर्जन्यङ्गुष्ठकौ लग्नौ उच्छ्रितौ योगकर्मणि .३६अब्: एवं मुद्रागणं मन्त्री बध्नीयद् धृदये बुधः .३६च्द्: सर्वासां वाचकाश् चासां ॐ ह्रीं नाम ततो नमः इति श्रीमालिनीविजयोत्तरे तन्त्रे मुद्राधिकारो सप्तमः समाप्तः .१अब्: अथातः संप्रवक्ष्यामि यजनं सर्वकामदम् .१च्द्: यस्य दर्शनमात्रेण योगिनीसंमतो भवेत् .२अब्: तत्रादौ यागसदनं शुभे क्षेत्रे मनोरमम् .२च्द्: कारयेद् अग्निकुण्डेन वर्तुलेन समन्वितम् .३अब्: पञ्चविंशतिपर्वेण समन्ताद् अर्धनाभिना .३च्द्: तुर्यांशमेखलेनापि पर्वौष्ठेन सुशोभिना .४अब्: ततः स्नात्वा जितद्वन्द्वो भावस्नानेन मन्त्रवित् .४च्द्: तच् च षड्विधम् उद्दिष्टं भस्मस्नानाद्यनुक्रमात् .५अब्: भस्मस्नानं महास्त्रेण भस्म सप्ताभिमन्त्रितम् .५च्द्: मलस्नानाय संहारक्रमेणोद्धूलयेत् तनुम् .६अब्: विद्याङ्गैः पञ्चभिः पश्चाच् छिरः प्रभृति गुण्ठयेत् .६च्द्: अभिषेकं तु कुर्वीत मूलेनैव षडङ्गिना .७अब्: ततो ऽवासाः सुवासा च हस्तौ पादौ च धावयेत् .७च्द्: आचम्य मार्जनं कुर्याद् विद्यया भूरिवर्णया .८अब्: न्यासं कृत्वा तु सामान्याम् अघमर्षं द्वितीयया .८च्द्: उपस्थानं च मालिन्या जपेच् चैकाक्षरां पराम् .९अब्: जलस्नाने ऽपि चास्त्रेण मृदं सप्ताभिमन्त्रितम् .९च्द्: पूर्ववत् तनुम् आलभ्य मलस्नानं समाचरेत् .१०अब्: विधिस्नानादिकं चात्र पूर्ववत् किं तु वारिणा .१०च्द्: साधारणविधिस्नातो विद्यात्रितयमन्त्रितम् .११अब्: तोयं विनिक्षिपेन् मूर्ध्नि मन्त्रस्नानाय मन्त्रवित् .११च्द्: रजसा गोधुतेनैव वायव्यं स्नानम् आचरेत् .१२अब्: महास्त्रम् उच्चरन् गच्छेद् ध्यानयुक् पदसप्तकम् .१२च्द्: तद् एव पुनर् आगच्छेद् अनुस्मृत्य परापराम् .१३अब्: वर्षातपसमायोगाद् दिव्यो .अप्य् एवंविधो मतः .१३च्द्: किं तु तत्र परां मन्त्री स्रवन्तीम् अमृतं स्मरेत् .१४अब्: अस्त्रेणाङ्गुष्ठमूलात् तु वह्निम् उत्थाप्य निर्दहेत् .१४च्द्: स्वतनुं प्लावयेत् पश्चात् परयैवामृतेन तु .१५अब्: सूर्यादौ मन्त्रम् आदाय गच्छेद् अस्त्रम् अनुस्मरन् .१५च्द्: यागवेश्मास्त्रसंशुद्धं विशेच् छुचिर् अनाकुलः .१६अब्: तत्र द्वारपतीन् पूज्य महास्त्रेणाभिमन्त्रितम् .१६च्द्: पुष्पं विनिक्षिपेद् ध्यात्वा ज्वलद्विघ्नप्रशान्तये .१७अब्: दशस्व् अपि ततो ऽस्त्रेण दिक्षु संकल्प्य रक्षणं .१७च्द्: प्रविशेद् यागसदनं वह्निवद् वह्निसंयुतम् .१८अब्: पूर्वास्यः सौम्यवक्त्रो वा विशेषन्यासम् आरभेत् .१८च्द्: तत्रादाव् अस्त्रमन्त्रेण कालानलसमत्विषा .१९अब्: अङ्गुष्ठाग्रात् तनुं दग्धां सबाह्याभ्यन्तरां स्मरेत् .१९च्द्: विकीर्यमाणं तद्भस्म ध्यात्वा कवचवायुना .२०अब्: शिवबिन्दुसमाकारम् आत्मानम् अनुचिन्तयेत् .२०च्द्: ततो ऽस्य योजयेच् छक्तिं सो ऽहम् इत्य् अपराजितः .२१अब्: विद्यामूर्तिं ततो दध्यान् मन्त्रेणानेन शाङ्करि .२१च्द्: दण्डाक्रान्तं महाप्राणं दण्डारूढं सनाभिकम् .२२अब्: नितम्बं तदधस्ताच् च वामस्तनम् अधः पुनः .२२च्द्: कण्ठं च वामशिखरं वाममुद्राविभूषितम् .२३अब्: बिन्द्वर्धचन्द्रखं नादशक्तिबिन्दुविभूषितम् .२३च्द्: एष पिण्डकरो देवि नवात्मक इति श्रुतः .२४अब्: सर्वसिद्धिकरश् चायं सरहस्यम् उदाहृतः .२४च्द्: एष त्र्यर्णोज्झितो .अधस्ताद् दीर्घैः षड्भिः स्वरैर् युतः .२५अब्: षडङ्गानि हृदादीनि जातिभेदेन कल्पयेत् .२५च्द्: क्षयरवलबीजैश् च दीप्तैर् बिन्दुविभूषितैः .२६अब्: वक्त्राणि कल्पयेत् पूर्वम् ऊर्ध्ववक्त्रादितः क्रमात् .२६च्द्: प्रत्यङ्गविधिसिद्ध्यर्थं ललाटादिष्व् अथो न्यसेत् .२७अब्: अ ललाटे द्वितीयं च वक्त्रे संपरिकल्पयेत् .२७च्द्: इ ई नेत्रद्वये दत्त्वा उ ऊ कर्णद्वये न्यसेत् .२८अब्: ऋ .र् नासापुटे तद्वद् ऌ .ल् गण्डद्वये तथा .२८च्द्: ए ऐ अधोर्ध्वदन्तेषु ओ-औकारौ तथोष्ठयोः .२९अब्: अं शिखायां विसर्गेण जिह्वां संपरिकल्पयेत् .२९च्द्: दक्षिणस्कन्धदोर्दण्ड कराङ्गुलिनखेषु च .३०अब्: कवर्गं विन्यसेद् वामे तद्वच् चाद्यम् अनुक्रमात् .३०च्द्: टताद्यौ पूर्ववद् वर्गौ नितम्बोर्वादिषु न्यसेत् .३१अब्: पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्य् अनुक्रमात् .३१च्द्: त्वग्रक्तमांससूत्रेषु यवर्गं परिकल्पयेत् .३२अब्: शाद्यम् अस्थिवसाशुक्रप्राणकोपेषु पञ्चकम् .३२च्द्: मूर्त्यङ्गानि ततो दत्त्वा शिवम् आवाहयेद् बुधः .३३अब्: प्राणोपरि न्यसेन् नाभिं तदूर्ध्वे दक्षिणाङ्गुलिम् .३३च्द्: वामकर्णप्रमेयोतः सर्वसिद्धिप्रदः शिवः .३४अब्: सद्भावः परमो ह्य् एषः भैरवस्य महात्मनः .३४च्द्: अङ्गान्य् अनेन कार्याणि पूर्ववत् स्वरभेदतः .३५अब्: मूर्तिः सृष्टिस् त्रितत्त्वं च अष्टौ मूर्त्यङ्गसंयुताः .३५च्द्: शिवः साङ्गश् च षोढैव न्यासः संपरिकीर्तितः .३६अब्: अस्योपरि ततः शाक्तं कुर्यान् न्यासं यथा शृणु .३६च्द्: मूर्तौ परापरां न्यस्य तद्वक्त्राणि च मालिनीम् .३७अब्: परादित्रितयं पश्चाच् छिखाहृत्पादगं न्यसेत् .३७च्द्: कवक्त्रकण्ठहृन्नाभिगुह्योरूपादगं क्रमात् .३८अब्: अघोर्याद्यष्टकं न्यस्य विद्याङ्गानि तु पूर्ववत् .३८च्द्: ततस् त्व् आवाहयेच् छक्तिं सर्वयोगिनमस्कृताम् .३९अब्: जीवः प्राणपुटान्तस्थः कालानलसमद्युतिः .३९च्द्: अतिदीप्तस् तु वामाङ्घ्रिभूषितो मूर्ध्नि बिन्दुना .४०अब्: दक्षजानुयुतश् चायं सर्वमातृगणान्वितः .४०च्द्: अनेन प्रीणिताः सर्वा ददते वाञ्छितं फलम् .४१अब्: सद्भावः परमो ह्य् एष मातृणां परिपठ्यते .४१च्द्: तस्माद् एनां जपेन् मन्त्री य इच्छेत् सिद्धिम् उत्तमाम् .४२अब्: रुद्रशक्तिसमावेशो नित्यम् अत्र प्रतिष्ठितः .४२च्द्: यस्माद् एषा पराशक्तिर् भेदेनानेन कीर्तिता .४३अब्: यावत्यः सिद्धयस् तन्त्रे सर्वाः स्युर् अनया कृताः .४३च्द्: अङ्गानि कल्पयेद् अस्याः पूर्ववत् स्वरभेदतः .४४अब्: मूर्तिः सवक्त्रा शक्तिश् च विद्यात्रितय एव च .४४च्द्: अघोर्याद्यष्टकं चेति तथा विद्याङ्गपञ्चकम् .४५अब्: साङ्गाश् चैव परा शक्तिर् न्यासः प्रोक्तो .अथ षड्विधः .४५च्द्: यामलो ऽयम् अतो न्यासः सर्वसिद्धिप्रसिद्धये .४६अब्: वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः .४६च्द्: वर्णमन्त्रविभेदेन पृथग् वा तत्फलार्थिभिः .४७अब्: यावन्तः कीर्तिता भेदैः शंभुशक्त्यणुवाचकाः .४७च्द्: तावत्स्व् अप्य् एवम् एवायं न्यासः पञ्चविधो मतः .४८अब्: किं तु बाह्यस् तु यो यत्र स तत्राङ्गसमन्वितः .४८च्द्: षष्ठः स्याद् इति सर्वत्र षोढैवायम् उदाहृतः .४९अब्: स्वानुष्ठानाविरोधेन भावाभावविकल्पनैः .४९च्द्: यागद्रव्याणि सर्वाणि कार्याणि विधिवद् बुधैः .५०अब्: ततो ऽर्घपात्रम् आदाय भावाभावविकल्पितम् .५०च्द्: ततश् चास्त्राग्निसंदग्धं शक्त्यम्बुप्लावितं शुचि .५१अब्: कर्तव्या यस्य संशुद्धिर् अन्यस्याप्य् अत्र वस्तुनः .५१च्द्: तस्यानेनैव मार्गेण प्रकर्तव्या विजानता .५२अब्: न चासंशोधितं वस्तु किञ्चिद् अप्य् अत्र कल्पयेत् .५२च्द्: तेन शुद्धं तु सर्वं यद् अशुद्धम् अपि तच् छुचि .५३अब्: तद् अम्बुना समापूर्य षड्भिर् अङ्गैः समर्प्य च .५३च्द्: अमृतीकृत्य सर्वाणि तेन द्रव्याणि शोधयेत् .५४अब्: आत्मानं पूजयित्वा तु कुर्याद् अन्तःकृतिं यथा .५४च्द्: तथा ते कथयिष्यामि सर्वयोगिगणार्चिते .५५अब्: आदावौआव् आधारशक्तिं तु नाभ्यधश् चतुरङ्गुलाम् .५५च्द्: धरां सुरोदं पोतं च कन्दश् चेति चतुष्टयम् .५६अब्: एकैकाङ्गुलम् एतत् स्याच् छूलस्यामलसारकम् .५६च्द्: ततो नालम् अनन्ताख्यं दण्डम् अस्य प्रकल्पयेत् .५७अब्: लम्बिकावधितश् चात्र शूलोर्ध्वं ग्रन्थिर् इष्यते .५७च्द्: अभित्त्वैनं महादेवि पाशजालमहार्णवम् .५८अब्: न स योगम् अवाप्नोति शिवेन सह मानवः .५८च्द्: धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च चतुष्टयम् .५९अब्: कोणेषु चिन्तयेन् मन्त्री आग्नेयादिष्व् अनुक्रमात् .५९च्द्: गात्रकाणां चतुष्कं च दिक्षु पूर्वादिषु स्मरेत् .६०अब्: ग्रन्थेर् ऊर्ध्वं त्रिशूलाधो भवितव्या चतुष्किका .६०च्द्: विद्यातत्त्वं तद् एवाहुश् छदनत्रयसंयुतम् .६१अब्: कखलम्बिकयोर् मध्ये तत् तत्त्वम् अनुचिन्तयेत् .६१च्द्: पद्माकृति कखतत्त्वम् ऐश्वरं चिन्तयेद् बुधः .६२अब्: कर्णिकाकेसरोपेतं सबीजं विकसत् सितम् .६२च्द्: पूर्वपत्रादितः पश्चाद् वामादिनवकं न्यसेत् .६३अब्: वामा ज्येष्ठा च रौद्री च काली चेति तथा परा .६३च्द्: कलविकरणी चैव बलविकरणी तथा .६४अब्: बलप्रमथनी चान्या सर्वभूतदमन्य् अपि .६४च्द्: मनोन्मनी च मध्ये ऽपि भानुमार्गेण विन्यसेत् .६५अब्: विभ्वादिनवकं चान्यद् विलोमात् परिकल्पयेत् .६५च्द्: विभुर् ज्ञानी क्रिया चेच्छा वागीशी ज्वालिनी तथा .६६अब्: वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः .६६च्द्: ब्रह्मविष्णुहराः पूर्वं ये शाक्ताः प्रतिपादिताः .६७अब्: दलकेसरमध्यस्था मण्डलानां त ईश्वराः .६७च्द्: ध्वनि [?] चार्केन्दुवह्नीनां संज्ञेया परिभावयेत् .६८अब्: ईश्वरं च महाप्रेतं प्रहसन्तं सचेतनम् .६८च्द्: कालाग्निकोटिवपुषम् इत्य् एवं सर्वम् आसनम् .६९अब्: तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् .६९च्द्: कखत्रयेण निर्यातं द्वादशान्तावसानकम् .७०अब्: चिन्तयेत् तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः .७०च्द्: सर्वाधिष्ठायकं शुक्लमाम् इत्य् एतत् परमासनम् .७१अब्: तत्रोपरि ततो मूर्तिं विद्याख्याम् अनुचिन्तयेत् .७१च्द्: आत्माख्यां च ततस् तस्यां पूर्वन्यासं शिवात्मकम् .७२अब्: ततो मध्ये परां शक्तिं दक्षिणोत्तरयोर् द्वयम् .७२च्द्: परापरां स्वरूपेण रक्तवर्णां महाबलाम् .७३अब्: इच्छारूपधरां ध्यात्वा किं चिद् उग्रां न भीषणाम् .७३च्द्: अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् .७४अब्: इच्छारूपधरां देवीं प्रणतार्तिविनाशिनीम् .७४च्द्: परां चाप्यायनीं देवीं चन्द्रकोट्ययुतप्रभाम् .७५अब्: षड्विधे ऽपि कृते शाक्ते मूर्त्यादाव् अपि चिन्तयेत् .७५च्द्: विद्याङ्गपञ्चकं पश्चाद् आग्नेय्यादिषु विन्यसेत् .७६अब्: अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रम .७६च्द्: शक्त्यङ्गानि शिवाङ्गानि तथैव विधिना स्मरेत् .७७अब्: किं तु शक्रादिदिक्ष्व् अस्त्रमन्त्रं मध्ये च लोचनम् .७७च्द्: अघोराद्यष्टकं ध्यायेद् अघोर्याद्यष्टकान्वितम् .७८अब्: सर्वासाम् आवृतत्वेन लोकपालांश् च बाह्यतः .७८च्द्: सास्त्रान् स्वमन्त्रैः संचिन्त्य जपं पश्चात् समारभेत् .७९अब्: स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत् .७९च्द्: ज्वलत्पावकसंकाशां ध्यात्वा स्वाहान्तम् उच्चरेत् .८०अब्: सकृद् एकैकशो मन्त्री होमकर्मप्रसिद्धये .८०च्द्: इत्य् एव मानसो यागः कथितः सामुदायिकः .८१अब्: एतत् त्रिशूलम् उद्दिष्टम् एकदण्डं त्रिशक्तिकम् .८१च्द्: इत्थम् एतद् अविज्ञाय शक्तिशूलं वरानने .८२अब्: बद्ध्वापि खेचरीं मुद्रां नोत्पतयत्य् अवनीतलात् .८२च्द्: इत्य् एतच् छाम्भवं प्रोक्तम् अष्टान्तं शाक्तम् इष्यते .८३अब्: तुर्यान्तम् आणवं विद्याद् इति शूलत्रयं मतम् .८३च्द्: पृथग् यागविधानेन शक्तिचक्रं विचिन्तयेत् .८४अब्: तेनापि खेचरीं बद्ध्वा त्यजत्य् एवं महीतलम् .८४च्द्: ततो ऽभिमन्त्र्य धान्यानि महास्त्रेण त्रिसप्तधा .८५अब्: निक्षिपेद् दिक्षु सर्वासु ज्वलत्पावकवत् स्मरेत् .८५च्द्: निर्विघ्नं तद् गृहं ध्यात्वा संहृत्येशदिशं नयेत् .८६अब्: पञ्चगव्यं ततः कुर्याद् वदनैः पञ्चभिर् बुधः .८६च्द्: गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा .८७अब्: मन्त्रयेद् ऊर्ध्वपर्यन्तैः षडङ्गेन कुशोदकम् .८७च्द्: मुद्रे द्रव्यामृतं बद्ध्वा तत्त्वं तस्य विचिन्तयेत् .८८अब्: तेन संप्रोक्षयेद् भूमिं स्वल्पेनान्यन्निधापयेत् .८८च्द्: वास्तुयागं ततः कुर्यान् मालिन्युच्चारयोगतः .८९अब्: पुष्पैर् अञ्जलिम् आपूर्य फकारादि समुच्चरेत् .८९च्द्: ध्यात्वा शक्त्यन्तम् अध्वानं नकारान्ते विनिक्षिपेत् .९०अब्: गन्धधूपादिकं दत्त्वा गणेशानं प्रपूजयेत् .९०च्द्: षडुत्थम् आसनं न्यस्य प्रणवेन ततोपरि .९१अब्: गाम् इत्य् अनेन विघ्नेशं गन्धपुष्पादिभिर् यजेत् .९१च्द्: अस्याङ्गानि गकारेण षड्दीर्घस्वरयोगतः .९२अब्: त्रिनेत्रं मुदितं ध्यात्वा गजास्यं वामनाकृतिम् .९२च्द्: विसर्ज्य सिद्धिकामस् तु महास्त्रम् अनुपूजयेत् .९३अब्: दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यम् एव च .९३च्द्: ऐश्वर्यं कर्णिकां चेति षडुत्थम् इदम् आसनम् .९४अब्: अस्योपरि न्यसेद् ध्यात्वा खड्गखेटकधारिणम् .९४च्द्: विकरालं महादंष्ट्रं महोग्रं भ्रूकुटीमुखम् .९५अब्: स्वाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम् .९५च्द्: स्वार्णैर् एवाङ्गषट्कं तु फट्कारपरिदीपितम् .९६अब्: तद्रूपम् एव संचिन्त्य ततो मात्रष्टकं यजेत् .९६च्द्: इन्द्राणीं पूर्वपत्रे तु सवज्रां युगपत् स्मरेत् .९७अब्: आग्नेयिं शक्तिहस्तां तु याम्यां दण्डकरां ततः .९७च्द्: नैरृतीं वरुणानीं च वायवीं च विचक्षणः .९८अब्: खड्गपाशध्वजैर् युक्तां चिन्तयेद् युगपत् प्रिये .९८च्द्: कौवेरीं मुद्गरकराम् ईशानीं शूलसंयुताम् .९९अब्: गन्धपुष्पादिभिः पूज्य स्वतन्त्रे होमम् आचरेत् .९९च्द्: आदौ च कलशं कुर्यात् सहस्राधिकमन्त्रितम् .१००अब्: सहस्रं होमयेत् तत्र ततो जप्त्वा विसर्जयेत् .१००च्द्: शतम् अष्टोत्तरं पूर्णं पश्चाद् यजनम् आरभेत् .१०१अब्: तत्रादौ कुम्भम् आदाय हेमादिमयम् अव्रणम् .१०१च्द्: सर्वमन्त्रौषधीगर्भं गन्धाम्बुपरिपूरितम् .१०२अब्: चूतपल्लववक्त्रं च स्रक्सूत्रसितकण्ठकम् .१०२च्द्: रक्षोघ्नतिलकाक्रान्तं सितवस्त्रयुगावृतम् .१०३अब्: शताष्टोत्तरसंजप्तं मूलमन्त्रप्रपूजितम् .१०३च्द्: वार्धान्य् अपि तथाभूता किं तु सास्त्रेण पूजिता .१०४अब्: विकिरैर् आसनं दत्त्वा पूर्वोक्तं तु विचक्षणः .१०४च्द्: इन्द्रादीन् पूजयेत् पश्चात् स्वदिक्षु प्रोक्तसस्वरैः .१०५अब्: अविच्छिन्नां ततो धारां वार्धान्या प्रतिपादयेत् .१०५च्द्: भ्रामयेत् कलशं पश्चाद् ब्रूयल् लोकेश्वरान् इदम् .१०६अब्: भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये .१०६च्द्: सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया .१०७अब्: नीत्वा तत्रासने पूर्वं मूर्तिभूतं घटं न्यसेत् .१०७च्द्: तस्य दक्षिणदिग्भागे वार्धानीं विनिवेशयेत् .१०८अब्: आत्ममूर्त्यादिपूज्यान्तं कुम्भे विन्यस्य मन्त्रवित् .१०८च्द्: गन्धपुष्पादिभिः पूज्य वार्धान्यां पूजयेद् इमम् .१०९अब्: गन्धैर् मण्डलकं कृत्वा ब्रह्मस्थाने विचक्षनः .१०९च्द्: तत्र संपूजयेत् षट्कं त्रिकं वाप्य् एकम् एव वा .११०अब्: कुण्डस्योल्लेखनं लेखः कुट्टनं चोपलेपनम् .११०च्द्: चतुष्पथाक्षवाटं च वज्रसंस्थापनं तथा .१११अब्: कुशास्तरणपरिधिविष्टराणां च कल्पनम् .१११च्द्: सर्वम् अस्त्रेण कूर्वीत विद्याम् ॐ ह्रीम् इति न्यसेत् .११२अब्: शिवम् ॐ इति विन्यस्य संपूज्य द्वितयं पुनः .११२च्द्: ताम्रपात्रे शरावे वा आनयेज् जातवेदसम् .११३अब्: शिवशुक्रम् इति ध्यात्वा विद्यायोनौ विनिक्षिपेत् .११३च्द्: ततस् त्व् आहूतयः पञ्च विद्याङ्गैर् एव होमयेत् .११४अब्: जननादि ततः कर्म सर्वम् एवंकृते कृतम् .११४च्द्: परापराम् अनुस्मृत्य दद्यात् पूर्णाहुतिं पुनः .११५अब्: संपूज्य मातरं वह्नेः पितरं च विसर्जयेत् .११५च्द्: चर्वादिसाधनायाग्निं समुद्धृत्य ततः पुनः .११६अब्: ज्वलितस्याथवा वह्नेश् चितिं वामेन वायुना .११६च्द्: आकृष्य हृदि संकुम्भ्य दक्षिणेन पुनः क्षिपेत् .११७अब्: पूर्णां च पूर्ववद् दद्याच् छिवाग्नेर् अपरो विधिः .११७च्द्: शिवरूपं तम् आलोक्य तस्यात्मान्तःकृतिः क्रमात् .११८अब्: कुर्याद् अन्तःकृतिं मन्त्री ततो होमं समारभेत् .११८च्द्: मूलं शतेन संतर्प्य तदङ्गानि षडङ्गतः .११९अब्: शेषाणां मन्त्रजातीनां दशांशेनैव तर्पणम् .११९च्द्: ततः प्रवेशयेच् छिष्याञ् शुचीन् स्नातानुपोषितान् .१२०अब्: प्रणम्य देवदेवेशं चतुष्टयगतं क्रमात् .१२०च्द्: पञ्चगव्यं चरुं दद्याद् दन्तधावनम् एव च .१२१अब्: हृदयेन चरोः सिद्धिर् याज्ञिकैः क्षीरतण्डुलैः .१२१च्द्: संपातं सप्तभिर् मन्त्रैस् ततः षड्भागभाजितम् .१२२अब्: शिवाग्निगुरुशिष्याणां वार्धानीकुम्भयोः समम् .१२२च्द्: दन्तकाष्ठं ततो दद्यात् क्षीरवृक्षसमुद्भवम् .१२३अब्: तस्य पातः शुभः प्राचीसौम्यैशाप्य् ओर्ध्वदिग्गतः .१२३च्द्: अशुभो ऽन्यत्र तत्रापि होमो ऽष्टशतिको भवेत् .१२४अब्: बहिःकर्म ततः कुर्याद् दिक्षु सर्वासु दैशिकः .१२४च्द्: ॐ क्षः क्षः सर्वभूतेभ्यः स्वाहेति मनुनामुना .१२५अब्: समाचम्य कृतन्यासः समभ्यर्च्य च शङ्करम् .१२५च्द्: [लचुन] गृहे शुचिः .१२६अब्: न्यासं कृत्वा तु शिष्याणाम् आत्मनश् च विशेषतः .१२६च्द्: प्रभाते नित्यकर्मादि कृत्वा स्वप्नं विचारयेत् .१२७अब्: शुभं प्रकाशयेत् तेषां अशुभे होमम् आचरेत् .१२७च्द्: ततः पुष्पफलादीनां सुवेशाभरणाः स्त्रियः .१२८अब्: आपदुत्तरणं चैव शुभदेशावरोहणम् .१२८च्द्: मद्यपानं शिरश्छेदम् आममांसस्य भक्षणम् .१२९अब्: देवतादर्शनं साक्षात् तथा विष्टानुलेपनम् .१२९च्द्: एवंविधं शुभं दृष्ट्वा सिद्धिं प्राप्नोत्य् अभीप्सिताम् .१३०अब्: एतद् एवान्यथाभूतं दुःस्वप्न इति कीर्त्यते .१३०च्द्: पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम् .१३१अब्: तन्त्रोक्तां निष्कृतिं कृत्वा द्विजत्वापादनं ततः .१३१च्द्: देवाग्निगुरुदेवीनां पूजां कृत्वा सदा बुधः .१३२अब्: एतेषाम् अनिवेद्यैव न किं चिद् अपि भक्षयेत् .१३२च्द्: देवद्रव्यं गुरुद्रव्यं चण्डीद्रव्यं च वर्जयेत् .१३३अब्: निष्फलं नैव चेष्टेत मुहूर्तम् अपि मन्त्रवित् .१३३च्द्: योगाभ्यासरतो भूयान् मन्त्राभ्यासरतो ऽपि वा .१३४अब्: इत्य् एवम् आदिसमयाञ् श्रावयित्वा विसर्जयेत् .१३४च्द्: देवदेवं ततः स्नानं शिष्याणाम् आत्मनो ऽपि वा .१३५अब्: कारयेच् छिवकुम्भेन सर्वदुष्कृतहारिणा .१३५च्द्: इत्य् एतत् सामयं कर्म समासात् परिकीर्तितम् इति श्रीमालिनीविजयोत्तरे समयाधिकारो ऽष्टमः सर्गः क्रियादिक्षाधिकारो नवमः .१अब्: अथैषां समयस्थानां कुर्याद् दीक्षां यद गुरुः .१च्द्: तदाधिवासनं कृत्वा [लचुन] .२अब्: स च पूर्वं दिशं सम्यक् सूत्रम् आस्फालयेत् ततः .२च्द्: तन्मध्यात् पूर्ववारुण्या वङ्कयेत समान्तरम् .३अब्: पूर्वापरसमासेन सूत्रेणोत्तरदक्षिणम् .३च्द्: अङ्कयेद् अपराद् अङ्काद् पूर्वाद् अपि तथैव ते .४अब्: मत्स्यमध्ये क्षिपेत् सूत्रम् आयतं दक्षिणोत्तरे .४च्द्: मतक्षेत्रार्धमानेन मध्याद् दिक्ष्व् अङ्कयेत् समम् .५अब्: तद्वद् दिक्स्थाच् च कोणेषु अनुलोमविलोमतः .५च्द्: पातयेत् तेषु सूत्राणि चतुरश्रप्रसिद्धये .६अब्: वेदाश्रिते हि हस्ते प्राक् पूर्वम् अर्धं विभाजयेत् .६च्द्: हस्तार्धं सर्वतस् त्यक्त्वा पूर्वोदग्यामदिग्गतम् .७अब्: गुणाङ्गुलसमैर् भागैः शेषम् अस्य विभाजयेत् .७च्द्: त्र्यङ्गुलैः कोष्टकैर् ऊर्ध्वैस् तिर्यक् चाष्टद्विधात्मकैः .८अब्: द्वौ द्वौ भागौ परित्यज्य पुनर् दक्षिणसौम्यगौ .८च्द्: ब्रह्मणः पार्श्वयोर् जीवाच् चतुर्थात् पूर्वतस् तथा .९अब्: भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् .९च्द्: तयोर् अन्तस् तृतीये तु दक्षिणोत्तरपार्श्वयोः .१०अब्: जीवे खण्डेन्दुयुगलं कुर्याद् अन्तर्भ्रमाद् बुधः .१०च्द्: तयोर् अपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् .११अब्: बहिर् मुखभ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् .११च्द्: तद्वद् ब्रह्मणि कुर्वीत भागभागार्धसंमितम् .१२अब्: ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर् द्वयोः .१२च्द्: द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः .१३अब्: एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसंगतं .१३च्द्: सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये .१४अब्: तदग्रपार्श्वयोर् जीवात् सूत्रम् एकान्तरे श्रितम् .१४च्द्: आदिद्वितीयखण्डेन्दु कोणात् कोणान्तम् आश्रयेत् .१५अब्: तयोर् एवापराज् जीवात् प्रथमार्धेन्दुकोणतः .१५च्द्: तद्वद् एव नयेत् सूत्रं शृङ्गद्वितयसिद्धये .१६अब्: क्षेत्रार्धे चापरे दण्डो द्विकरच्छन्नपञ्चकः .१६च्द्: द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः .१७अब्: शेषम् अन्यद् भवेद् दृश्यं पृथुत्वाद् भागसंमितम् .१७च्द्: षड्विस्तृतं चतुर्दीर्घं तदधो ऽमलसारकम् .१८अब्: वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रम् इष्यते .१८च्द्: आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् .१९अब्: हस्तायामं तदर्धं तु विस्तराद् अपि अतसमम् .१९च्द्: द्विगुणं बाह्यतः कुर्यात् ततः पद्मं यथा शृणु .२०अब्: एकैकभागमानानि कुर्याद् वृत्तानि वेदवत् .२०च्द्: दिक्ष्व् अष्टौ पुनर् अप्य् अष्टौ जीवसूत्राणि षोडश .२१अब्: द्वयोर् द्वयोः पुनर् मध्ये तत्संख्यातानि पातयेत् .२१च्द्: एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् .२२अब्: एतद् अन्तं प्रकुर्वीत ततो जीवाग्रम् आनयेत् .२२च्द्: यत्रैव कुत्र चित् सङ्गस् तत्संबन्धे स्थिरीकृते .२३अब्: तत्र कृत्वा नयेन् मन्त्री पत्राग्राणां प्रसिद्धये .२३च्द्: एकैकस्मिन् दले कुर्यात् केसराणां त्रयं त्रयम् .२४अब्: द्विगुणाष्टाङ्गुलं कार्यं तद्वच् छृङ्गकजत्रयम् .२४च्द्: ततः प्रपूजयेन् मन्त्री रजोभिः सितपूरकैः .२५अब्: रक्तैः कृष्णैस् तथापीतैर् हरितैश् च विशेषतः .२५च्द्: कर्णिकाऌपीतवर्णेन मूलमध्याग्रदेशतः .२६अब्: सितं रक्तं तथा पीतं कार्यं केसरजालकम् .२६च्द्: दलानि शुक्लवर्णानि प्रतिवारणया सह .२७अब्: पीतं तद्वच् चतुष्कोणं कर्णिकार्धसमं बहिः .२७च्द्: सितरक्तपीतकृष्णैस् तत्पादान् वह्नितः क्रमात् .२८अब्: चतुर्भिर् अपि शृङ्गाणि त्रिभिर् मण्डलम् इष्यते .२८च्द्: दण्डः स्यान् नीलरक्तेन पीतमामलसारकम् .२९अब्: रक्तं शूलं प्रकुर्वीत यत् तत् पूर्वं प्रकल्पितम् .२९च्द्: पश्चाद् द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् .३०अब्: द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् .३०च्द्: एकद्वित्रिपुरं तुल्यं सामुद्गम् अथ वोभयम् .३१अब्: कपालकण्ठशोभोप शोभादिबहुचित्रितम् .३१च्द्: विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् .३२अब्: एवम् अत्र सुनिष्पन्ने गन्धवस्त्रेण मार्जनम् .३२च्द्: कृत्वा स्नानं प्रकुर्वीत पूर्वोक्तेनैव कर्मणा .३३अब्: प्रविश्य पूर्ववन् मन्त्री उपविश्य यथा पुरा .३३च्द्: न्यस्य पूर्वोदितं सर्वं पञ्चधा भैरवात्मकम् .३४अब्: उत्तरे विन्यसेच् छृङ्गे देवदेवं नवात्मकम् .३४च्द्: मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् .३५अब्: रक्तत्वङ्मांससूत्रैस् तु वामकर्णविभूषितम् .३५च्द्: बिन्दुयुक्तं प्रमेयोतं रतिशेखरम् आदिशेत् .३६अब्: शाक्तं च पूर्ववत् कृत्वा तर्पयेत् पूर्ववद् बुधः .३६च्द्: पुनर् अभ्यर्च्य देवेशं भक्त्या विज्ञापयेद् इदम् .३७अब्: गुरुत्वेन त्वयैवाहम् आज्ञातः परमेश्वर .३७च्द्: अनुग्राह्यास् त्वया शिष्याः शिवशक्तिप्रचोदिताः .३८अब्: तद् एते तद्विधाः प्राप्तास् त्वम् एषां कुर्व् अनुग्रहम् .३८च्द्: मदीयां तनुम् आविश्य येनाहं त्वत् समो भवन् .३९अब्: करोम्य् एवम् इति प्रोक्तो हर्षाद् उत्फुल्ललोचनः .३९च्द्: ततः षड्विधम् अध्वानम् अनेनाधिष्ठितं स्मरेत् .४०अब्: सृष्ट्यादिपञ्चकर्माणि निष्पाद्यान्य् अस्य चिन्तयेत् .४०च्द्: शक्तिभिर् जीवमूर्तिः स्याद् द्विधैवास्य परापरा .४१अब्: मूर्तामूर्तत्वभेदेन माम् अप्य् एषानुतिष्ठति .४१च्द्: करणत्वं प्रयान्त्य् अस्य मन्त्रा ये हृदयादयः .४२अब्: एवंभूतं शिवं ध्यात्वा तद्गतेनान्तरात्मना .४२च्द्: भाव्यं तन्मयम् आत्मानं दशधावर्तयेच् छिवम् .४३अब्: त्रिःकृत्वा सर्वमन्त्रांश् च गर्भावरणसंस्थितान् .४३च्द्: सितोष्णीषं ततो बुद्ध्वा सप्तजप्तं नवात्मना .४४अब्: शिवहस्तं ततः कुर्यात् पाशविश्लेषकारकम् .४४च्द्: प्रक्षाल्य गन्धतोयेन हस्तं हस्तेन केन चित् .४५अब्: गन्धदिग्धो यजेद् देवं साङ्गम् आसनवर्जितम् .४५च्द्: आत्मन्य् आलभनं कुर्याद् ग्रहणं योजनं तथा .४६अब्: वियोगं च तथोद्धारं पाशच्छेदादिकं च यत् .४६च्द्: एवं पतित्वम् आसाद्य प्रपञ्चव्याप्तितः शिवम् .४७अब्: भावयेत् पृथग् आत्मानं तत्समानगुणं ततः .४७च्द्: मण्डलस्थो ऽहम् एवायं साक्षीवाखिलकर्मसु .४८अब्: होमाधिकरणत्वेन वह्नाव् अहम् अवस्थितः .४८च्द्: आ यागान्तम् अहं कुम्भे संस्थितो विघ्नशान्तये .४९अब्: शिष्यदेहे च तत्पाश विश्लेषत्वप्रसिद्धये .४९च्द्: साक्षात् स्वदेहसंस्थो ऽहं कर्तानुग्रहकर्मणः .५०अब्: इत्य् एतत् सर्वम् आलोच्य शोध्याध्वानं विचिन्तयेत् .५०च्द्: दीक्षां येनाध्वना मन्त्री शिष्याणां कर्तुम् इच्छति .५१अब्: तत्रैवालोचयेत् सर्वं यायात् पदम् अनामयम् .५१च्द्: तत्र तेनापृथग्भूत्वा पुनः संचिन्तयेद् इदम् .५२अब्: अहम् एव परं तत्त्वं मयि सर्वम् इदं जगत् .५२च्द्: अधिष्ठाता च कर्ता च सर्वस्याहम् अवस्थितः .५३अब्: तत्समत्वं गतो जन्तुर् मुक्त इत्य् अभिधीयते .५३च्द्: एवं संचिन्त्य भूयो ऽपि शोध्यम् आद्यं समाश्रयेत् .५४अब्: शिष्यमण्डलवह्नीनां तत्रैकं भावयेत् स्थितम् .५४च्द्: शोध्याध्वानं तु शिष्याणां न्यस्य देहे पुरोक्तवत् .५५अब्: स्वेन स्वेनैव मन्त्रेण स्वव्याप्तिध्यानम् आश्रयेत् .५५च्द्: आगन्तु सहजं शाक्तं बुद्ध्वादौ पाशपञ्जरं .५६अब्: बाहुकण्ठशिखाग्रेषु त्रिषु (वृत्) त्रिगुणतन्तुना .५६च्द्: स्वमन्त्रेण ततस् तत्त्वम् आवाह्येष्ट्वा प्रतर्प्य च .५७अब्: ततस् तच्छोध्ययोनीनां व्यापिनीं योनिं आनयेत् .५७च्द्: मायान्ते ऽध्वनि ताम् एव शुद्धे विद्यां विचक्षणः .५८अब्: तस्यां संतर्पणं कृत्वा शिष्यम् अस्त्रेण ताडयेत् .५८च्द्: आलभ्य हृदये विद्वाञ् छिवहस्तेन तं पुनः .५९अब्: ग्रहणं तस्य कूर्वीत रश्मिमात्रावियोगतः .५९च्द्: नाडीमार्गेण गत्वा तु हंहृन्मन्त्रपुटीकृतम् .६०अब्: कृत्वात्मस्थं ततो योनौ गर्भाधानं विचिन्तयेत् .६०च्द्: त्र्यर्णार्धाक्षरया मन्त्री सर्वगर्भक्रियान्वितम् .६१अब्: भोग्यभोक्तृत्वसामर्थ्य निष्पत्त्या जननं बुधः .६१च्द्: दक्षशृङ्गस्थया मन्त्री प्रकुर्वीत सुलोचने .६२अब्: पिबतीपूर्विकाभिश् च अस्त्राद्यैः परयापि च .६२च्द्: सम्यग् आहुतयो दद्याद् दश पञ्च विचक्षणः .६३अब्: ततो ऽस्यापरया कार्यं पाशविच्छेदनं बुधैः .६३च्द्: भुवनेशम् अथामन्त्र्य तत्त्वेश्वरम् अथापि वा .६४अब्: भोगभागा[लचुन] पश्चात् तम् इदम् आदिशेत् .६४च्द्: भुवनेश त्वया नास्य साधकस्य शिवाज्ञया .६५अब्: प्रतिबन्धः प्रकर्तव्यो यातुः पदम् अनामयम् .६५च्द्: उत्क्षेपणं ततः कुर्यात् तयैवाध्युष्टवर्णया .६६अब्: अव्याप्तिमन्त्रसंयोगत् पृथङ् मार्गविशुद्धये .६६च्द्: दद्याद् एकैकशो ध्यात्वा आहुतीनां त्रयं त्रयम् .६७अब्: ततः पूर्णाहुतिं दद्यात् परया वौषडन्तया .६७च्द्: शिशुम् उत्क्षिप्य चात्मस्थं तद्देहस्थं च कारयेत् .६८अब्: आहुतीनां त्रयं दद्याद् दत्त्वा पूर्णाहुतिं बुधः .६८च्द्: महापाशुपतास्त्रेण विलोमादिविशुद्धये .६९अब्: विसर्जयित्वा वागीशीं तत्त्वं तु तदन्तरं .६९च्द्: विलीनं भावयेच् छुद्धं अशुद्धे परमेश्वरि .७०अब्: कालान्तव्याप्तिसंशुद्धौ कृतायाम् एवम् आदरात् .७०च्द्: बाहुपाशं तु तं छित्त्वा होमयेद् आज्यसंयुतम् .७१अब्: मायातत्त्वे विशुधे तु कण्ठपाशे तथा बुधः .७१च्द्: मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः .७२अब्: क्रियास्व् अनुक्तमन्त्रासु योजयेद् अपराम् बुधः .७२च्द्: विद्यादिसकलान्ते च तद्वद् एव परापराम् .७३अब्: योययेन् नैश्वराद् ऊर्ध्वं पिबन्त्यादिकम् अष्टकम् .७३च्द्: न चापि सकलाद् ऊर्ध्वम् अङ्गषट्कं विचक्षणः .७४अब्: निष्कले परया कार्यं यत् किं चिद् विधिचोदितम् .७४च्द्: विशुद्धे सकलान्ते तु शिखां छित्त्वा विचक्षणः .७५अब्: हुत्वा चाज्यं ततः शिष्यं स्नापयेद् अनुपूर्वतः .७५च्द्: आचम्याभ्यर्च्य देवेशं स्रुवम् आपूर्य सर्पिषा .७६अब्: कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रम् अनुस्मरेत् .७६च्द्: शिवशक्तिं तथात्मानं शिष्यं सर्पिस् तथानलम् .७७अब्: एकीकुर्वञ् छनैर् गच्छेद् द्वादशान्तम् अनन्यधीः .७७च्द्: तत्र कुम्भकम् आस्थाय ध्यायन् सकलनिष्कलम् .७८अब्: तिष्ठेत् तावद् अनुद्विग्नो यावद् आज्यक्षयो भवेत् .७८च्द्: एवं युक्ते परे तत्त्वे गुरुण शिवमूर्तिना .७९अब्: न भूयः पशुतां एति दग्धमायानिबन्धनः .७९च्द्: विधिर् एष समाख्यातो दीक्षाकर्मणि भौवने .८०अब्: इतराध्वविधिं मुक्त्वा शिवयोगविधिं तथा .८०च्द्: विलोमकर्म संत्यज्य द्विगुणस् तत्त्ववर्त्मनि .८१अब्: तद्वच् च वर्णमार्गे ऽपि चतुर्धा पदवर्त्मनि .८१च्द्: अष्टधा मन्त्रमार्गे ऽपि कलाख्ये ऽपि च तद् द्विधा .८२अब्: त्रिखण्डे विंशतिगुणः स एव परिकीर्तितः .८२च्द्: इति सर्वाध्वसंशुद्धिः समासात् परिकीर्तिता .८३अब्: साधकाचार्ययोः कर्म कथ्यमानम् अतः शृणु इति श्रीमालिनीविजयोत्तरे तन्त्रे क्रियादीक्षाधिकारो नवमः समाप्तः अभिषेकाधिकारो दशमः .१अब्: अथ लक्षणसंपन्नं सिद्धिसाधनतत्परम् .१च्द्: शास्त्रज्ञं संयतं धीरम् अलुब्धम् अशठं दृढम् .२अब्: अपरीक्ष्य गुरुस् तद्वत् साधकत्वे नियोजयेत् .२च्द्: समभ्यर्च्य विधानेन पूर्ववत् परमेश्वरम् .३अब्: द्वितीये पूर्ववत् कुम्भं हेमादिमयम् अव्रणम् .३च्द्: सर्वत्र मध्यपद्मस्य दक्षिणं दलम् आश्रितम् .४अब्: नायकानां पृथङ् मन्त्रान् पूजयेत् कुसुमादिभिः .४च्द्: तं संतर्प्य सहस्रेण प्रकुर्याद् अभिषेचनम् .५अब्: भद्रपीठे शुभे स्थाप्य श्रीपर्णे दारुनिर्मिते .५च्द्: पूर्वामुखम् उदग्वक्त्रं स्नातं पुष्पाद्यलङ्कृतम् .६अब्: कृतमन्त्रतनुः सम्यक् सम्यक् च कृतमङ्गलः .६च्द्: शङ्खभेर्यादिनिर्घोषैर् वेदमङ्गलनिस्वनैः .७अब्: सर्वराजोपचारेण कृत्वा तस्याभिषेचनम् .७च्द्: सदाशिवसमं ध्यात्वा ततस् तम् अपि भूषयेत् .८अब्: पुनः संपूज्य देवेशं मन्त्रम् अस्मै ददेद् बुधः .८च्द्: पुष्पाक्षततिलोपेतः सजल[लचुन]श्वरं न्यसेत् .९अब्: सो ऽपि मूर्धनि तं तद्वन् मूर्तिम् आश्रित्य दक्षिणम् .९च्द्: अभिषिच्य ततो ऽस्त्रेण रुद्रशक्तिं प्रकाशयेत् .१०अब्: स तयालिङ्ग्य तन्मन्त्रं सहस्रेण प्रतर्पयेत् .१०च्द्: तदा प्रभृति तन्निष्ठस् तत्समानगुणो भवेत् .११अब्: आचार्यस्याभिषेको ऽयं स[लचुन]मन्त्रविधिं विना .११च्द्: किं तु तस्य [लचुन] अधिवासपदान्वितम् .१२अब्: एवम् एतत् पदं प्राप्यं दुष्प्राप्यम् अकृतात्मनाम् .१२च्द्: साधको मन्त्रसिद्ध्यर्थं मन्त्रव्रतम् उपाचरेत् .१३अब्: एवं कृत्वाभिषेकोक्तं स्नात्वा विद्याधिपं जपेत् .१३च्द्: लक्षम् एकं दशांशेन तस्य तर्पणम् आचरेत् .१४अब्: पूर्ववच् चाभिषेकं च कृत्वा ब्रह्मशिरो जपेत् .१४च्द्: तल्लक्ष्यस् तन्मयो भूत्वा लक्षद्वयम् अतन्द्रितः .१५अब्: लक्षद्वयं च रुद्राणीं चतुष्कं तु पुरुष्टुतम् .१५च्द्: लक्षाणां पञ्चकं देवि महापाशुपतं जपेत् .१६अब्: सितरक्तपीतकृष्ण विचित्राम्बरभूषणः .१६च्द्: ततः संरक्षितो मन्त्रैर् एभिर् अप्रतिमो भवेत् .१७अब्: अवाच्यः सर्वदुष्टानां मन्त्रतेजोपबृंहितः .१७च्द्: एवं चीर्णव्रतो भूत्वा यं साधयितुम् इच्छति .१८अब्: दत्त्वार्घं तस्य लक्षाणां जपेन् नवकम् आदरात् .१८च्द्: उत्तमद्रव्यहोमाच् च तद्दशांशेन तर्पणम् .१९अब्: महाक्ष्मापपलान्य् आहुर् उत्तमादीनि तद्विदः .१९च्द्: मध्यमे द्विगुणं कृत्वा त्रिगुणं कन्यसे ऽपि च .२०अब्: आज्यगुग्गुलनृस्नेहा महामांससमाः मताः .२०च्द्: दधिबिल्वपयःपद्माः क्ष्मासमाः परिकीर्तिताः .२१अब्: धात्रीदुर्वामृतामीनाः सम्यग् आज्यसमा मताः .२१च्द्: तिलाद्यैर् अथ कुर्वीत नवषट्त्रिगुणं क्रमात् .२२अब्: पूर्वम् एवम् इमं कृत्वा सिद्धेर् अर्घं ददेद् बुधः .२२च्द्: दत्त्वार्घं तु जपेत् तावद् यावत् सिद्धिर् अभीप्सिता .२३अब्: लक्षेणैकेन पृथ्वीशः सभृत्यबलवाहनः .२३च्द्: वशम् आनीयते देवि द्वाभ्यां राज्यम् अवाप्नुयात् .२४अब्: त्रिभिर् निधानसंसिद्धिश् चतुर्भिर् बलसिद्धयः .२४च्द्: पञ्चभिर् मेदिनी सर्वा षड्भिर् अप्सरसां गणः .२५अब्: सप्तभिः सप्त लोकाश् च दशभिस् तत्समो भवेत् .२५च्द्: पञ्चाशद्भिस् ततो गच्छेद् अव्यक्तान्तं महेश्वरि .२६अब्: मायान्तं षष्तिभिर् लक्षैर् ईश्वरान्तम् अशीतिभिः .२६च्द्: सकलावनिपर्यन्तं कोटिजप्तस्य सिद्ध्यति .२७अब्: अथवा वीरचित्तः स्यात् कृत्वा सेवां यथोदिताम् .२७च्द्: कृष्णभूतदिने रात्रौ विधिम् एनं समाचरेत् .२८अब्: कृत्वा पूर्वोदितं यागं हुत्वा द्रव्यम् अथोत्तरम् .२८च्द्: ऊर्ध्वकायो जपेन् मन्त्री सुनिष्कम्पोत्तरामुखः .२९अब्: तावद् यावत् समायाता योगेश्वर्यः समन्ततः .२९च्द्: कृत्वा कलकलारावम् अतिघोरं सुदारुणम् .३०अब्: भूमौ निपत्य तिष्ठन्ति वेष्ट्यान्तः साधकेश्वरम् .३०च्द्: तासां कृत्वा नमस्कारं भित्त्वा वामाङ्गम् आत्मनः .३१अब्: तदुत्थेन ततस् तासां दत्त्वार्घं तत्समो भवेत् .३१च्द्: आचार्यो ऽपि च षण्मासं मौनी प्रतिदिनं चरेत् .३२अब्: दश पञ्च च ये मन्त्राः पूर्वम् उक्ता मया तव .३२च्द्: पूर्वन्यासेन संनद्धस् त्रिकालं वह्निकार्यकृत् .३३अब्: ध्यायेत् पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः .३३च्द्: कृत्वा पूर्वोदितं यागं त्रिशक्तिपरिमण्डलम् .३४अब्: अभिषिञ्चेत् तदात्मानम् आदाव् अन्ते च दैशिकः .३४च्द्: एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविद् उत्तमः .३५अब्: निग्रहानुग्रहं कर्म कुर्वन् न प्रतिहन्यते .३५च्द्: शुद्धयोर् विन्यसेन् मूल मध्यादित्रितये त्रयम् .३६अब्: वामाङ्गुष्ठे तुले नेत्रे तर्जन्याम् अस्त्रम् एव च .३६च्द्: अक्षह्रीम् इति खण्डेन शब्दराशिं निवेशयेत् .३७अब्: नफह्रीम् इत्यनेनापि शक्तिमूर्तिं विचक्षणः .३७च्द्: विपरीतमहामुद्रा प्रयोगान् मूलम् एव च .३८अब्: स्वस्थानेषु तथाङ्गानि न्यासः सामान्य इत्य् अयम् इति श्रीमालिनीविजयोत्तरे ऽभिषेकाधिकारो दशमः समाप्तः दीक्षाधिकार एकादशः .१अब्: अथातः संप्रवक्ष्यामि दीक्षां परमदुर्लभाम् .१च्द्: भुक्तिमुक्तिकरीं सम्यक् सद्यःप्रत्ययकारिकाम् .२अब्: नास्यां मण्डलकुणादि किं चिद् अप्य् उपयुज्यते .२च्द्: न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया .३अब्: प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम् .३च्द्: प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषितः .४अब्: दीप्तां शक्तिम् अनुस्मृत्य पादाग्रान् मस्तकावधि .४च्द्: महामुद्राप्रयोगेन निर्दग्धां चिन्तयेत् तनुम् .५अब्: अनुलोमप्रयोगाच् च मालिनीम् अमृतप्रभाम् .५च्द्: चिन्तयेत् तनुनिष्पत्त्यै तद्ध्यानगतमानसः .६अब्: शोध्याध्वानं ततो देहे पूर्वोक्तम् अनुचिन्तयेत् .६च्द्: ततः संशोध्य वस्तूनि शक्त्यैवामृततां नयेत् .७अब्: परासंपुटमध्यस्थां मालिनीं सर्वकर्मसु .७च्द्: योजयेत् विधानज्ञः परां वा केवलां प्रिये .८अब्: गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये .८च्द्: ततः स्वगुरुम् आरभ्य पूजयेद् गुरुपद्धतिम् .९अब्: गणेशाधस् ततः सर्वं यजेन् मन्त्रकदम्बकम् .९च्द्: तत्पतीनां ततो ऽर्घं तत्रैव परिपूजयेत् .१०अब्: अन्त्याधः पूजयेद् विद्यां तद्वद् विद्यां महेश्वरीम् .१०च्द्: मन्त्रविद्यागणस्यान्तः कुलशक्तिं निवेशयेत् .११अब्: पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम् .११च्द्: इन्द्राणीपूर्वकं तद्वद् ऐशादिदल अन्तगम् .१२अब्: तत्रोपरि न्यसेद् देवं कूटरूपाणुनामुना .१२च्द्: जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम् .१३अब्: दक्षाङ्गुलिं ततो ऽधस्तात् ततो वामपयोधरम् .१३च्द्: नाभिकण्ठौ ततोधस्ताद् वामस्कन्धविभूषणौ .१४अब्: शिवजिह्वान्वितः पश्चात् तदूर्ध्वोष्ठेन चोपरि .१४च्द्: सर्वयोगिनिचक्राणाम् अधिपो ऽयम् उदाहृतः .१५अब्: अस्याप्य् उच्चारणाद् एव संवित्तिः स्यात् परोदिता .१५च्द्: ततो वीराष्टकं पश्चाच् छक्त्युक्तविधिना यजेत् .१६अब्: प्रभूतैर् विविधैर् इष्ट्वा गन्धधूपैः स्रगादिभिः .१६च्द्: श्रीकारपूर्वकं नाम पादान्तं परिकल्पयेत् .१७अब्: ततः शिष्यं समाहूय बहुधा सुपरीक्षितम् .१७च्द्: रुद्रशक्त्या तु संप्रोक्ष्य देवाग्रे विनिवेशयेत् .१८अब्: भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् .१८च्द्: तथैवाप्य् अर्पयेत् पुष्पं करयोर् गन्धदिग्धयोः .१९अब्: निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत् .१९च्द्: शक्तिमन्त्रितनेत्रेण बद्ध्वा नेत्रे तु पूर्ववत् .२०अब्: ततः प्रक्षेपयेत् पुष्पं सा शक्तिस् तत्करस्थिता .२०च्द्: यत्र तत् पतते पुष्पं तत्कुलं तस्य लक्षयेत् .२१अब्: मुखम् उद्घाट्य तं पश्चात् पादयोः प्रतिपातयेत् .२१च्द्: ततो ऽस्य मस्तके चक्रं हस्तयोश् चार्च्य योगवित् .२२अब्: तद्धस्तौ प्रेरयेच् छक्त्या यावन् मूर्धान्तम् आगतौ .२२च्द्: शिवहस्तविधिः प्रोक्तः सद्यःप्रत्ययकारकः .२३अब्: चरुकं दापयेत् पश्चाट् खर्जूरादिफलोद्भवम् .२३च्द्: शक्त्यालम्बां तनुं कृत्वा स्थापयेद् अग्रतः शिशोः .२४अब्: पुष्पक्षेपप्रयोगेन हस्तम् आकृष्य दक्षिणम् .२४च्द्: चरुकं ग्राहयेन् मन्त्री तद्ध्यानगतमानसः .२५अब्: शिवहस्तप्रयोगेन समारोप्य मुखं नयेत् .२५च्द्: अनेनैव विधानेन क्षीरवृक्षसमुद्भवम् .२६अब्: दन्तकाष्ठं ददेत् देवि षोडशाङ्गुलम् आयतम् .२६च्द्: एतेषां चालनान् मन्त्री शक्तिपातं परीक्षयेत् .२७अब्: मन्दतीव्रादिभेदेन मन्दतीव्रादिकान् बुधः .२७च्द्: इत्य् अयं समयी प्रोक्तः संस्थितोक्तेन वर्त्मना .२८अब्: चिकीर्षुश् च यदाऌदीक्षाम् अस्यैवार्पितमानसः .२८च्द्: तद् इष्ट्वा पूर्ववद् योगी कुलेशं तम् अनुक्रमात् .२९अब्: संपूज्य पूर्ववच् छिष्यम् ऋजुदेहे विलोकयेत् .२९च्द्: शक्तिं संचिन्त्य पादाग्रान् मस्तकान्तं विचक्षणः .३०अब्: शोध्याध्वानं ततो न्यस्य सर्वाध्वव्याप्तिभाषनाम् .३०च्द्: शक्तितत्त्वादिभेदेन पूर्वोक्तेन च वर्त्मना .३१अब्: उपविश्य ततस् तस्य विधानम् इदम् आचरेत् .३१च्द्: मूलशोध्यात् समारभ्य शक्तिं दीप्तानलप्रभाम् .३२अब्: योजयेच् छोध्यसंशुद्धि भावनागतमानसः .३२च्द्: एवं सर्वाणि शोध्यानि निर्दहन्तीम् अनामयाम् .३३अब्: शिवे संचिन्तयेल् लीनां निष्कले सकले ऽपि वा .३३च्द्: योगिना योजिता मार्गे स्वजातीयस्य पोषणम् .३४अब्: कुरुते निर्दहत्य् अन्यद् भिन्नजातिकदम्बकम् .३४च्द्: अनया शोध्यमानस्य शिष्यस्यास्य महामतिः .३५अब्: लक्षयेच् चिह्नसंघातम् आनन्दादिकम् आदरात् .३५च्द्: आनन्द उद्भवः कम्पो निद्रा घूर्णिश् च पञ्चमी .३६अब्: एवम् आविष्टया शक्त्या मन्दतीव्रादिभेदतः .३६च्द्: पाशस्तोभपशुग्रहौ प्रकुर्वीत यथेच्छया .३७अब्: गृहीतस्य पुनः कुर्यान् नियोगं शेषभुक्तये .३७च्द्: अथवा कस्य चिन् नायम् आवेशः संप्रजायते .३८अब्: तद् एनं युगपच् छक्त्या सबाह्याभ्यन्तरे दहेत् .३८च्द्: तया संदह्यमानो ऽसौ च्छिन्नमूल इव द्रुमः .३९अब्: पतते काश्यपीपृष्ठे आक्षेपं वा करोत्य् असौ .३९च्द्: यस्य त्व् एवम् अपि स्यान् न तं चैवोपलवत् त्यजेत् .४०अब्: पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्जिनः .४०च्द्: तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कारयेत् .४१अब्: इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तनम् .४१च्द्: कुलक्रमेष्टिर् आदेश्या पञ्चावस्थासमन्विता .४२अब्: बुभुक्षोस् तु प्रकुर्वीत सम्यग्योगाभिषेचनम् .४२च्द्: तत्रेष्ट्वा पूर्ववद् देहं विस्तीर्णैर् विबुधैर् बुधैः [?] .४३अब्: हेमादिदीपकान् अष्टौ घृतेनारुणवर्तिकान् .४३च्द्: कुलाष्टकेन संबोध्य शिवं शङ्खे प्रपूजयेत् .४४अब्: सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते .४४च्द्: तेनाभिषेचयेत् तं तु शिवहस्तोक्तवर्त्मना .४५अब्: आचार्यस्याभिषेको ऽयम् अधिकारपदान्वितः .४५च्द्: कुर्यात् पिण्डादिभिस् तद्वच् चतुःषष्टिं प्रदीपकान् .४६अब्: अभिषिक्तविधाव् एव सर्वयोगिगणेन तु .४६च्द्: विदितौ भवतस् तत्र गुरुर् मोक्षप्रदो भवेत् .४७अब्: अनयोः कथयेज् ज्ञानं त्रिविधं सर्वम् अप्य् अलम् .४७च्द्: स्वकीयाज्ञां ददेद् योगी स्वक्रियाकरणं प्रति इति श्रीमालिनीविजयोत्तरे तन्त्रे दीक्षाधिकार एकादशः समाप्तः धारणाधिकारो द्वादशः .१अब्: अथैतां देवदेवस्य श्रुत्वा वाचम् अतिस्फुटाम् .१च्द्: प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी .२अब्: संतोषामृतसंतृप्ता देवी देवगणार्चिता .२च्द्: प्रणम्यान्धकहन्तारं पुनर् आहेति भारतीम् .३अब्: पूर्वम् एव त्वया प्रोक्तं योगी योगं समभ्यसेत् .३च्द्: तस्याभ्यासः कथं कार्यः कथ्यतां त्रिपुरान्तक .४अब्: एवम् उक्तो जगद्धात्र्या भैरवो भयनाशनः .४च्द्: प्राह प्रसन्नगम्भीरां गिरम् एताम् उदारधीः .५अब्: योगाभ्यासविधिं देवि कथ्यमानं मया शृणु .५च्द्: स्थिरीभूतेन येनेह योगी सिद्धिम् अवाप्स्यति .६अब्: गुहायां भूगृहे वापि निःशब्दे सुमनोरमे .६च्द्: सर्वबाधाविनिर्मुक्ते योगी योगं समभ्यसेत् .७अब्: जितासनो जितमना जितप्राणो जितेन्द्रियः .७च्द्: जितनिद्रो जितक्रोधो जितोद्वेगो गतव्यथः .८अब्: लक्ष्यभेदेन वा सर्वम् अथवा चित्तभेदतः .८च्द्: धरादिशक्तिपर्यन्तं योगीशस् तु प्रसाधयेत् .९अब्: व्योमविग्रहबिन्द्वर्णभुवनध्वनिभेदतः .९च्द्: लक्ष्यभेदः स्मृतः षोढा यथावद् उपदिश्यते .१०अब्: बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च .१०च्द्: त्रिविधं कीर्तितं व्योम दशधा बिन्दुर् इष्यते .११अब्: कदम्बगोलकाकारः स्फुरत्तारकसप्रभः .११च्द्: शुक्लादिभेदभेदेन एको ऽपि दशधा मतः .१२अब्: चिञ्चिनीचीरवाकादिप्रभेदाद् दशधा ध्वनिः .१२च्द्: विग्रहः स्वाणुभेदाच् च द्विधा भिन्नो ऽप्य् अनेकधा .१३अब्: भुवनानां न सङ्ख्यास्ति वर्णानां सा शतार्धिका .१३च्द्: एकस्मिन्न् अपि साध्ये वै लक्षेद् अत्रानुषङ्गतः .१४अब्: अन्यान्य् अपि फलानि स्युर् लक्ष्यभेदः स उच्यते .१४च्द्: एकम् एव फलं यत्र चित्तभेदस् त्व् असौ मतः .१५अब्: होमदीक्षाविशुद्धात्मा समावेशोपदेशवान् .१५च्द्: यं सिषाधयिषुर् योगम् आदाव् एव समाचरेत् .१६अब्: हस्तयोस् तु पराबीजं न्यस्य शक्तिम् अनुस्मरेत् .१६च्द्: महामुद्राप्रयोगेन विपरीतविधौ बुधः .१७अब्: ज्वलद्वह्निप्रतीकाशां पादाग्रान् मस्तकान्तिकम् .१७च्द्: नमस्कारं ततः पश्चाद् बद्ध्वा हृदि धृतानिलः .१८अब्: स्वरूपेण पराबीजम् अतिदीप्तम् अनुस्मरेत् .१८च्द्: तस्य मात्रात्रयं ध्यायेत् कखत्रयविनिर्गतम् .१९अब्: ततस् तालशताद् योगी समावेशम् अवाप्नुयात् .१९च्द्: ब्रह्मघ्नो ऽपि हि सप्ताहात् प्रतिवासरम् अभ्यसेत् .२०अब्: एवम् आविष्टदेहस् तु यथोक्तं विधिम् आचरेत् .२०च्द्: यः पुनर् गुरुणैवादौ कृतावेशविधिक्रमः .२१अब्: स वासनानुभावेन भूमिकाजयम् आरभेत् .२१च्द्: गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम् .२२अब्: सम्यग् आविष्टदेहः स्याद् इति ध्यायेद् अनन्यधीः .२२च्द्: स्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम् .२३अब्: ततो गुरुत्वम् आयाति सप्तविंशतिभिर् दिनैः .२३च्द्: दिवसात् सप्तमाद् ऊर्ध्वं जडता चास्य जायते .२४अब्: षड्भिर् मासैर् जितव्याधिर् द्रुतहेमनिभो भवेत् .२४च्द्: वज्रदेहस् त्रिभिश् चाब्दैर् नवनागपराक्रमः .२५अब्: एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता .२५च्द्: आद्या पूर्वोदिते देवि भेदे पञ्चदशात्मके .२६अब्: सव्यापारं स्मरेद् देहं द्रुतहेमसमप्रभम् .२६च्द्: उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते .२७अब्: सप्ताहाद् गुरुताम् एति मासाद् व्याधिविवर्जितः .२७च्द्: षड्भिर् मासैर् धरान्तःस्थं सर्वं जानाति तत्त्वतः .२८अब्: त्रिभिर् अब्दैर् महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम् .२८च्द्: द्वितीयः कथितो भेदस् तृतीयम् अधुना शृणु .२९अब्: तद्वद् एव स्मरेद् देहं किं तु व्यापारवर्जितम् .२९च्द्: पूर्वोक्तं फलम् आप्नोति तद्वत् पातालसंयुतम् .३०अब्: चतुर्थे हृद्गतं ध्यायेद् द्वादशाङ्गुलम् आयतम् .३०च्द्: पूर्ववर्णस्वरूपेण सव्यापारम् अतन्द्रितः .३१अब्: प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर् भवेत् .३१च्द्: तद् एव स्थिरम् आप्नोति निर्व्यापारे तु पञ्चमे .३२अब्: स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णघनावृतम् .३२च्द्: निस्तरङ्गं स्मरेत् तद्वत् सप्तमे ऽपि विचक्षणः .३३अब्: द्वये ऽप्य् अत्र स्थिरीभूते भूर् भुवः स्वर् इति त्रयम् .३३च्द्: वेत्ति भुङ्क्ते च लोकानां पुरोक्तैर् एव वत्सरैः .३४अब्: सकलं हृदयान्तःस्थम् आत्मानं कनकप्रभम् .३४च्द्: स्वप्रभाद्योतिताशेष देहान्तम् अनुचिन्तयेत् .३५अब्: सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत् .३५च्द्: वेत्ति भुङ्क्ते स्थिरीभूते भेदे ऽस्मिन् नवमे बुधः .३६अब्: रविबिम्बनिभं पीतं पूर्ववद् द्वितयं स्मरेत् .३६च्द्: ब्रह्मलोकम् अवाप्नोति पूर्वोक्तेनैव वर्त्मना .३७अब्: अधःप्रकाशकं पीतं द्विरूपं पूर्ववन् महत् .३७च्द्: चिन्तयेन् मत्समो भूत्वा मल्लोकम् अनुगच्छति .३८अब्: सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम् .३८च्द्: चिन्तयेच् छतरुद्राणाम् अधिपत्वम् अवाप्नुयात् .३९अब्: इत्य् एवं पृथिवीतत्त्वम् अभ्यस्यं दशपञ्चधा .३९च्द्: योगिभिर् योगसिद्ध्यर्थं तत्फलानि बुभुक्षया .४०अब्: योग्यतावशगा जाता यस्य यत्रैव वासना .४०च्द्: स तत्रैव नियोक्तव्यो दीक्षाकाले विचक्षणैः .४१अब्: यो यत्र योजितस् तत्त्वे स तस्मान् न निवर्तते .४१च्द्: तत्फलं सर्वम् आसाद्य शिवयुक्तो ऽपवृज्यते .४२अब्: अयुक्तो ऽप्य् अध्वसंशुद्धिं संप्राप्य भुवनेशतः .४२च्द्: शुद्धः शिवत्वम् आयाति दग्धसंसारबन्धनः इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमधारणाधिकारो द्वादशः समाप्तः जलादिमहाभूतजयाधिकारस् त्रयोदशः .१अब्: अथातः सम्प्रवक्ष्यामि धारणां वारुणीम् इमाम् .१च्द्: यया संसिद्धयोगेन जलान्ताधिपतिर् भवेत् .२अब्: जलान्तःस्थं स्मरेद् देहं सितं शीतं सुवर्तुलम् .२च्द्: सबाह्याभ्यन्तरं योगी नान्यद् अस्तीति चिन्तयेत् .३अब्: एवम् अभ्यस्यतस् तस्य सप्ताहात् क्लिन्नता भवेत् .३च्द्: पित्तव्याधिपरित्यक्तो मासेन भवति ध्रुवम् .४अब्: स्निग्धाङ्गः स्निग्धदृष्टिश् च नीलकुञ्चितमूर्धजः .४च्द्: भवत्य् अब्देन योगीन्द्रस् त्रिभिर् वर्षति मेघवत् .५अब्: इत्य् एषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा .५च्द्: अधुना संप्रवक्ष्यामि भेदैर् भिन्नाम् इमां पुनः .६अब्: पूर्ववच् चिन्तयेद् देहं सव्यापारं सितं स्वकम् .६च्द्: जलोपरि स्थितं देवि तद्गतेनान्तरात्मना .७अब्: सप्ताहान् मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः .७च्द्: षण्मासाज् जायते स्थैर्यं यदि तन्मयतां गतः .८अब्: जलावरणविज्ञानम् अब्दैर् अस्य त्रिभिर् भवेत् .८च्द्: निर्व्यापारप्रभेदे ऽपि सर्वत्र वरुणोपमः .९अब्: स याति वारुणं तत्त्वं भूमिकाः क्रमशो ऽभ्यसेत् .९च्द्: पूर्ववत् कण्ठमध्यस्थम् आत्मानं द्वादशाङ्गुलम् .१०अब्: संस्मरञ् जलतत्त्वेशं प्रपश्यत्य् अचिराद् ध्रुवम् .१०च्द्: तद्दृष्टिः स्थिरताम् एति स्वरूपे पञ्चमे स्थिरे .११अब्: द्विभेदे ऽपि स्थिरीभूते चन्द्रबिम्बे घनावृते .११च्द्: तत्समानत्वम् अभ्येति ततः सकलरूपिणी .१२अब्: चिन्त्यते देहम् आपूर्य सितवर्णेन तेजसा .१२च्द्: तद् एव स्थिरताम् एति तत्र सुस्थिरतां गते .१३अब्: घनमुक्तेन्दुबिम्बाभं ततः समनुचिन्तयेत् .१३च्द्: तत्पतित्वं समभ्येति द्वितीये स्थिरतां व्रजेत् .१४अब्: अधःप्रकाशकं शुक्लं ततस् तेजो विचिन्तयेत् .१४च्द्: विद्येश्वरत्वम् आप्नोति जलावरणसंभवम् .१५अब्: स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि .१५च्द्: सर्वाधिपत्यम् आप्नोति सुस्थिरे तत्र सुस्थिरम् .१६अब्: ध्येयतत्त्वसमानत्वम् अवस्थात्रितये स्थिरे .१६च्द्: द्वितये च तदीशान संवित्तिर् उपजायते .१७अब्: द्वितये ऽन्यत्र तत्तुल्यः स्थिरो भवति योगवित् .१७च्द्: षट्के सर्वेशताम् एति द्वितये ऽन्यत्र तु च्युतिः .१८अब्: इत्य् अयं सर्वतत्त्वेषु भेदे पञ्चदशात्मके .१८च्द्: ज्ञेयो विधिर् विधानज्ञैः फलपञ्चकसिद्धिदः .१९अब्: तत् फलान्तरम् एतस्माद् उक्तं यच् चापि वक्ष्यते .१९च्द्: अनुषङ्गफलं ज्ञेयं तत् सर्वम् अविचारतः .२०अब्: इतीयं वारुणी प्रोक्ता प्रभेदैर् दशपञ्चभिः .२०च्द्: योगिनां योगसिद्ध्यर्थम् आग्नेयीम् अधुना शृणु .२१अब्: त्रिकोणं चिन्तयेद् देहं रक्तज्वालावलीधरम् .२१च्द्: स्वशरीरोत्थितो वह्निर् ज्वलन् वै सर्वदाहकः .२२अब्: सप्तभिर् दिवसैर् देवि तैक्ष्ण्यम् अस्योपजायते .२२च्द्: वातश्लेष्मभवैः सर्वैर् मासान् मुच्यति साधकः .२३अब्: निद्राहीनश् च बह्वाशी स्वल्पविण्मूत्रकृद् भवेत् .२३च्द्: इच्छया निर्दहेद् यद् यत् स्पृष्टं वस्तु ऋतुक्षयात् .२४अब्: त्र्यब्दाद् अग्निसमो भूत्वा क्रीडत्य् अग्निर् यथेच्छया .२४च्द्: सर्वं निर्दहति क्रुद्धः सशैलवनकाननम् .२५अब्: त्रिकोणमण्डलारूढम् आत्मानम् अनुचिन्तयेत् .२५च्द्: सव्यापारादिभेदेन सर्वत्रापि विचक्षणः .२६अब्: सप्ताहाद् व्याधिभिर् हीनः षण्मासाद् अग्निवद् भवेत् .२६च्द्: त्रिभिर् अब्दैः स संपूर्णं तेजस्तत्त्वं प्रपश्यति .२७अब्: यच्छक्तिभेदे यद् दृष्टं तत् तद्भेदे स्थिरीभवेत् .२७च्द्: पूर्ववत् तालुमध्यस्थम् आत्मानं ज्वलनप्रभम् .२८अब्: ध्यायन् प्रपश्यते तेजस् तत्त्वेशान् अखिलान् क्रमात् .२८च्द्: धूमाक्रान्ताग्निसंकाशं रविबिम्बसमाकृतिम् .२९अब्: ध्यायंस् तन्मध्यतस् तेजस् तत्त्वेशसमतां व्रजेत् .२९च्द्: प्रभाहततमोजालं विधूमाग्निसमप्रभम् .३०अब्: तत्रैव सकलं ध्यायेत् तत्पतित्वम् अवाप्नुयात् .३०च्द्: दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तयेत् .३१अब्: तन्मन्त्रेश्वरताम् एति तत्र सुस्थिरताम् गतः .३१च्द्: मणिप्रदीपसंकाशं तेजस् तत्र प्रकाशयेत् .३२अब्: मन्त्रेशेशत्वम् अभ्येति योगी तन्मयतां गतः .३२च्द्: सबाह्याभ्यन्तरं तेजो ध्यायन् सर्वत्र तद्गतः .३३अब्: तस्मान् न च्यवते स्थानाद् आसंहारम् अखण्डितः .३३च्द्: संहारे तु परं शान्तं पदम् अभ्येति शाङ्करम् .३४अब्: इत्य् एषा पञ्चदशधा कथिता वह्निधारणा .३४च्द्: स्वदेहं चिन्तयेत् कृष्णं वृत्तं षड्बिन्दुलाञ्छितम् .३५अब्: चलं सचूचूशब्दं च वायवीं धारणां श्रितः .३५च्द्: चलत्वं कफजव्याधिविच्छेदाद् वायुवद् भवेत् .३६अब्: षण्मासम् अभ्यसेद् योगी तद्गतेनान्तरात्मना .३६च्द्: योजनानां शतं गत्वा मुहूर्ताद् एत्य् अखेदतः .३७अब्: वत्सरैस् तु त्रिभिः साक्षाद् वायुरूपधरो भवेत् .३७च्द्: चूर्णयत्य् अद्रिसंघातं वृक्षान् उन्मूलयत्य् अपि .३८अब्: क्रुद्धश् चालयते शक्रं सभृत्यबलवाहनम् .३८च्द्: नीलाञ्जननिभं देहम् आत्मीयम् अनुचिन्तयेत् .३९अब्: पूर्वोक्तं सर्वम् आप्नोति षण्मासान् नात्र संशयः .३९च्द्: त्र्यब्दात् प्रपश्यते वायु तत्त्वं तन्मयतां गतः .४०अब्: भ्रुवोर् मध्ये स्मरेद् रूपम् आत्मनो ऽञ्जनसंनिभम् .४०च्द्: पश्यते वायुतत्त्वेशान् आशुगान् अखिलान् अपि .४१अब्: घनावृतेन्द्रनीलाभरविबिम्बसमाकृतिम् .४१च्द्: ध्यायंस् तत्समताम् एति तत्संलीनो यदा भवेत् .४२अब्: भिन्नेन्द्रनीलसंकाशं सकलं तत्र चिन्तयेत् .४२च्द्: तन्मन्त्रेशत्वम् आप्नोति ततस् तस्येशताम् अपि .४३अब्: सर्वव्यापिनि तद्वर्णे ध्याते तेजस्य् अवाप्नुयात् .४३च्द्: तदाप्रधृष्यताम् एति तत्राधोर्ध्वविसर्पिणि .४४अब्: इतीयं कथिता दिव्या धारणा वायुसम्भवा .४४च्द्: स्वदेहं वायुवद् ध्यात्वा तदभावम् अनुस्मरन् .४५अब्: दिवसैः सप्तभिर् योगी शून्यतां प्रतिपद्यते .४५च्द्: मासमात्रेण भोगीन्द्रैर् अपि दष्टो न मुह्यति .४६अब्: सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः .४६च्द्: षण्मासाद् गगनाकारः सूक्ष्मरन्ध्रैर् अपि व्रजेत् .४७अब्: वत्सरत्रितयात् साक्षाद् व्योमवच् च भविष्यति .४७च्द्: इच्छयैव महाकायः सूक्ष्मदेहस् तथेच्छया .४८अब्: अच्छेद्यश् चाप्य् अभेद्यश् च च्छिद्रां पश्यति मेदिनीम् .४८च्द्: शतपुष्परसोच्छिष्टम् ऊषागर्भखवन् निजम् .४९अब्: देहं चिन्तयतस् त्र्यब्दाद् व्योमज्ञानं प्रजायते .४९च्द्: पूर्वोक्तं च फलं सर्वं सप्ताहादिकम् आप्नुयात् .५०अब्: ललाटे चिन्तयेत् तद्वद् द्वादशाङ्गुलम् आयतम् .५०च्द्: तत्तत्त्वेशान् क्रमात् सर्वान् प्रपश्यत्य् अग्रतः स्थितान् .५१अब्: राहुग्रस्तेन्दुबिम्बाभं ध्यायंस् तत्समतां व्रजेत् .५१च्द्: सकलं चन्द्रबिम्बाभम् तत्रस्थम् अनुचिन्तयेत् .५२अब्: तन्मन्त्रेशत्वम् आप्नोति ज्योत्स्नया चेन्द्रताम् अपि .५२च्द्: तयैवाधोविसर्पिण्या सबाह्याभ्यन्तरं बुधः .५३अब्: मन्त्रेश्वरेशताम् आप्य विज्ञानम् अतुलं लभेत् .५३च्द्: तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतरूपया .५४अब्: स्वतन्त्रत्वम् अनुप्राप्य न क्व चित् प्रतिहन्यते .५४च्द्: इत्य् एवं पञ्चतत्त्वानां धारणाः परिकीर्तिताः .५५अब्: शुद्धाद्यस्था तु संवित्तिर् भूतावेशो ऽत्र पञ्चधा .५५च्द्: तास्व् एव संदधच् चित्तं विषादिक्षय आत्मनः .५६अब्: अन्यस्याम् अपि संवित्तौ यस्याम् एव निजेच्छया .५६च्द्: चेतः सम्यक् स्थिरीकुर्यात् तया तत्फलम् अश्नुते .५७अब्: एकापि भाव्यमानेयम् अवान्तरविभेदतः .५७च्द्: अन्तरायत्वम् अभ्येति तत्र कुर्यान् न संस्थितिम् .५८अब्: संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्य् उत्तमं फलम् .५८च्द्: धारणापञ्चके सिद्धे पिशाचाद्या गुणाष्टकाः .५९अब्: ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतो ऽपि वा .५९च्द्: इष्टाः पञ्चदशावस्थाः क्रमेणैव समभ्यसन् .६०अब्: त्र्यब्दाद् आद्यां प्रसाध्यान्यां द्वाभ्याम् एकेन चापराम् .६०च्द्: षण्मासात् पञ्चभिश् चान्यां चतुर्भिस् त्रिभिर् एव च .६१अब्: द्वाभ्याम् एकेन पक्षेण दशभिः पञ्चभिर् दिनैः .६१च्द्: त्रिभिर् द्वाभ्याम् अथैकेन व्यस्तेच्छोः पूर्ववत् क्रमः .६२अब्: शाश्वतं पदम् आप्नोति भुक्त्वा सिद्धिं यथेप्सिताम् इति श्रीमालिनीविजयोत्तरे तन्त्रे भूतजयाधिकारस् त्रयोदशः समाप्तः तन्मात्रधारणाधिकारश् चतुर्दशः .१अब्: अथ गन्धादिपूर्वाणां तन्मात्राणाम् अनुक्रमात् .१च्द्: धारणाः संप्रवक्ष्यामि तत्फलानां प्रसिद्धये .२अब्: पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम् .२च्द्: नासारन्ध्राग्रगं ध्यायेद् वज्रलाञ्छनलाञ्छितम् .३अब्: दशमाद् दिवसाद् ऊर्ध्वं योगिनो ऽनन्यचेतसः .३च्द्: क्वापि गन्धः समायाति द्विधाभूतो ऽप्य् अनेकधा .४अब्: ततो ऽस्य ऋतुमात्रेण शुद्धो गन्धः स्थिरीभवेत् .४च्द्: षड्भिर् मासैः स्वयं गन्ध मय एव भविष्यति .५अब्: यो यत्र रोचते गन्धस् तं तत्र कुरुते भृशम् .५च्द्: त्र्यब्दात् सिद्धिम् अवाप्नोति प्रेप्सितां पाञ्चभौतिकीम् .६अब्: तदूर्ध्वम् आत्मनो रूपं तत्र संचिन्तयेद् यदि .६च्द्: गन्धावरणविज्ञानं त्रिभिर् अब्दैर् अवाप्नुयात् .७अब्: ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम् .७च्द्: ध्यायन् प्रपश्यते सर्वान् गन्धावरणवासिनः .८अब्: धरातत्त्वोक्तबिम्बाभं तत्रैवम् अनुचिन्तयन् .८च्द्: तत्समानत्वम् अभ्येति पूर्ववद् द्वितये स्थिरे .९अब्: स्वरूपं तत्र संचिन्त्य भासयन्तम् अधःस्थितम् .९च्द्: तदीशत्वम् अवाप्नोति पूर्वोक्तेनैव वर्त्मना .१०अब्: धरातत्त्वोक्तवत् सर्वम् अत ऊर्ध्वम् अनुस्मरन् .१०च्द्: तद्रूपं फलम् आप्नोति गन्धावरणसंस्थितम् .११अब्: रसरूपाम् अतो वक्ष्ये धारणां योगिसेविताम् .११च्द्: यया सर्वरसावाप्तिर् योगिनः संप्रजायते .१२अब्: जलबुद्बुदसंकाशं राजनाड्यग्रसंस्थितं .१२च्द्: चिन्तयेद् रसतन्मात्रं जिह्वाग्राधारम् आत्मनः .१३अब्: सुशीतं षड्रसं स्निग्धं तद्गतेनान्तरात्मना .१३च्द्: ततो ऽस्य मासमात्रेण रसास्वादः प्रवर्तते .१४अब्: लवणादीन् परित्यज्य यदा मधुरतां गतः .१४च्द्: तदा तन् निगिरन् योगी षण्मासान् मृत्युजिद् भवेत् .१५अब्: जराव्याधिविनिर्मुक्तः कृष्णकेशो ऽच्युतद्युतिः .१५च्द्: जीवेद् आचन्द्रतारार्कम् अभ्यस्यंश् च क्व चित् क्व चित् .१६अब्: पूर्वोक्तबुद्बुदाकारं स्वरूपम् अनुचिन्तयन् .१६च्द्: नीरावरणविज्ञानम् आप्नोतीति किम् अद्भुतम् .१७अब्: तम् एव द्युतिसंयुक्तं ध्यायन्न् आधारवर्जितम् .१७च्द्: पश्यते वत्सरैः सर्वं रसावरणम् आश्रितम् .१८अब्: जलतत्त्वोक्तबिम्बादि तदूर्ध्वम् अनुचिन्तयन् .१८च्द्: पूर्वोक्तं सर्वम् आप्नोति रसावरणजं स्फुटम् .१९अब्: अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम् .१९च्द्: धारणां सर्वसिद्ध्यर्थं रूपतन्मात्रम् आश्रिताम् .२०अब्: एकान्तस्थो यदा योगी बहिर्मीलितलोचनः .२०च्द्: शरत्संध्याभ्रसंकाशं यत् तत् किं चित् प्रपश्यति .२१अब्: तत्र चेतः समाधाय यावद् आस्ते दशाह्निकम् .२१च्द्: तावत् स पश्यते तत्र बिन्दून् सूक्ष्मतमान् अपि .२२अब्: के चित् तत्र सिता रक्ताः पीता नीलास् तथापरे .२२च्द्: तान् दृष्ट्वा तेषु संदध्यान् मनो ऽत्यन्तम् अनन्यधीः .२३अब्: षण्मासात् पश्यते तेषु रूपाणि सुबहूनि च .२३च्द्: त्र्यब्दात् तान्य् एव तेजोभिः प्रदीप्तानि स्थिराणि च .२४अब्: तान्य् अभ्यस्यंस् ततो द्व्यब्दाद् बिम्बाकाराणि पश्यति .२४च्द्: ततो ऽब्दात् पश्यते तेजः षण्मासात् पुरुषाकृति .२५अब्: त्रिमासाद् व्यापकं तेजो मासात् सर्वं विसर्पितम् .२५च्द्: कालक्रमाच् च पूर्वोक्तं रूपावरणम् आश्रितम् .२६अब्: सर्वं फलम् अवाप्नोति दिव्यदृष्टिश् च जायते .२६च्द्: इतीयं कल्पनाशून्या धारणाकृतकोदिता .२७अब्: दशपञ्चविधो भेदः स्वयम् एवात्र जायते .२७च्द्: अतो ऽस्यां निश्चयं कुर्यात् किम् अन्यैः शास्त्रडम्बरैः .२८अब्: अतः स्पर्शवतीम् अन्यां कथयामि तवाधुना .२८च्द्: धारणां तु यया योगी वज्रदेहः प्रजायते .२९अब्: षट्कोणमण्डलान्तःस्थम् आत्मानं परिभावयेत् .२९च्द्: रूक्षम् अञ्जनसंकाशं प्रत्यङ्गस्फुरिताकुलम् .३०अब्: ततो ऽस्य दशभिर् देवि दिवसैस् त्वचि सर्वतः .३०च्द्: भवेत् पिपीलिकास्पर्शस् ततस् तम् अनुचिन्तयन् .३१अब्: वज्रदेहत्वम् आसाद्य पूर्वोक्तं पूर्ववल् लभेत् .३१च्द्: पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन्तयन् .३२अब्: स्पर्शतत्त्वावृतिज्ञानं लभन् केन निवार्यते .३२च्द्: हीनमण्डलम् आत्मानं ध्यायेत् तत्पतिसिद्धये .३३अब्: यया संसिद्धया सर्व स्पर्शवेदी भविष्यति .३३च्द्: कर्णौ पिधाय यत्नेन निमीलितविलोचनः .३४अब्: संशृणोति महाघोषं चेतस् तत्रानुसंदधेत् .३४च्द्: दीप्यते जाठरो वह्निस् ततो ऽस्य दशभिर् दिनैः .३५अब्: दूराच् छ्रवणविज्ञानं षण्मासाद् उपजायते .३५च्द्: यस् तस्यान्ते ध्वनिर् मन्दः किं चित् किं चिद् विभाव्यते .३६अब्: सकलात्मा स विज्ञेयस् तदभ्यासाद् अनन्यधीः .३६च्द्: शब्दावरणविज्ञानम् आप्नोति स्थिरतां गतम् .३७अब्: यः पुनः श्रूयते शब्दस् तदन्ते शङ्खनादवत् .३७च्द्: प्रलयाकलरूपं तद् अभ्यस्यं तत्फलेप्सुभिः .३८अब्: स एवातितराम् अन्यशब्दप्रच्छादको यदा .३८च्द्: विज्ञानाकल इत्य् उक्तस् तदासाव् अपराजिते .३९अब्: मनोह्लादकरो यो ऽन्यस् तदन्ते संविभाव्यते .३९च्द्: स मन्त्र इति विज्ञेयो योगिभिर् योगकाङ्क्षिभिः .४०अब्: ततस् तु श्रूयते यो ऽन्यः शान्तघण्टानिनादवत् .४०च्द्: स मन्त्रेश इति प्रोक्तः सर्वसिद्धिफलप्रदः .४१अब्: घण्टानादविरामान्ते यः शब्दः संप्रजायते .४१च्द्: मन्त्रेशेशपदं तद् धि सिद्धीनां कारणं महत् .४२अब्: अनिलेनाहता वीणा यादृङ् नादं विमुञ्चति .४२च्द्: तादृशो यो ध्वनिस् तत्र तं विद्याच् छाम्भवं पदं .४३अब्: पृथग् वा क्रमशो वापि सर्वान् एतान् समभ्यसेत् .४३च्द्: प्राप्नोति सर्ववित् सिद्धीः शब्दावरणम् आश्रिताः .४४अब्: इत्य् एताः कथिताः पञ्च तन्मात्राणां तु धारणाः इति श्रीमालिनीविजयोत्तरे तन्त्रे तन्मात्रधारणाधिकारश् चतुर्दशः समाप्तः अक्षधारणाधिकारः पञ्चदशः .१अब्: अथ वागिन्द्रियादीनां मनोन्तानाम् अनुक्रमात् .१च्द्: धारणाः संप्रवक्ष्यामि दशैकाञ् च समासतः .२अब्: वदनान्तर् नमःशब्दम् आत्मनश् चिन्तयेद् बुधः .२च्द्: गृहीतवाक्त्वम् अभ्येति मौनेन मधुसूदनि .३अब्: सर्वत्रास्खलिता वाणी षड्भिर् मासैः प्रवर्तते .३च्द्: सर्वशास्त्रार्थवेत्तृत्वं वत्सराद् उपजायते .४अब्: वाग् एवास्य प्रवर्तेत काव्यालङ्कारभूषिता .४च्द्: त्रिभिर् अब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते .५अब्: तत्रैव चिन्तयेद् देहं स्वकीयम् अनुरूपतः .५च्द्: भूयस् तम् एव धवलम् ईषत्तेजोवभासितम् .६अब्: रसान्तःसोमबिम्बादितेजोन्तं तम् अनुस्मरेत् .६च्द्: सर्वं फलम् अवाप्नोति वागावरणजं क्रमात् .७अब्: पाणौ चित्तं समादाय षण्मासाद् दूरसंस्थितम् .७च्द्: वस्तु गृह्णात्य् असंदेहात् त्र्यब्दात् पारे ऽपि वारिधेः .८अब्: तत्रात्मदेहपूर्वं तु पद्माभम् अनुचिन्तयन् .८च्द्: सव्यापारादिभेदेन चतुर्दशकम् आदरात् .९अब्: पुरोक्तकालनियमात् पूर्वोक्तेनैव वर्त्मना .९च्द्: सर्वं फलम् अवाप्नोति हस्तावृतिसमाश्रितम् .१०अब्: पादाव् एवंविधौ ध्यायन् वत्सरत्रयम् आदरात् .१०च्द्: मुहूर्तेन समुद्रान्ताम् अश्रान्तो भ्रमति क्षितिम् .११अब्: चतुर्दश समभ्यर्च्य स्वदेहादिकम् अभ्यसन् .११च्द्: प्राप्नोति पूर्ववत् सर्वं फलं पादावृतिस्थितम् .१२अब्: पायाव् अपि मनस्तत्त्वं स्थिरीकुर्वन्न् अवाप्स्यति .१२च्द्: मासेन तद्भवव्याधि विमुक्तिम् अविलम्बतः .१३अब्: पुण्यश्लोकत्वम् आप्नोति त्रिभिर् अब्दैर् अनादरात् .१३च्द्: चतुर्दशविधं चात्र पूर्ववत् फलम् आप्स्यति .१४अब्: स्वरूपतः स्मरेल् लिङ्गं मासमात्राज् जितेन्द्रियः .१४च्द्: षड्भिर् मासैर् अनायासाद् इच्छाकामित्वम् आप्नुयात् .१५अब्: चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः .१५च्द्: लिङ्गावरणजं सर्वं पूर्ववल् लभते फलम् .१६अब्: स्वजिह्वाम् इन्दुवर्णाभां चिन्तयेद् दशभिर् दिनैः .१६च्द्: प्राप्नोत्य् अनुभवं योगी जिह्वाभावम् इवात्मनः .१७अब्: आस्वादयति दूरस्थं षण्मासाद् एकमानसः .१७च्द्: वत्सरैस् तु त्रिभिः साक्षाल् लेढ्य् असौ परमामृतम् .१८अब्: येनासौ भवते योगी जरामरणवर्जितः .१८च्द्: अपेयादिप्रसक्तो ऽपि न पापैः परिभूयते .१९अब्: पूर्ववत् सर्वम् अन्यच् च स्वदेहाद्य् अनुचिन्तयन् .१९च्द्: फलम् आप्नोत्य् असंदेहाद् रसनावृतिसंभवम् .२०अब्: कनकाभं स्वकं घ्राणम् अनुचिन्तयतः शनैह् .२०च्द्: दिवसैर् दशभिर् घ्राणशुन्यतानुभवो भवेत् .२१अब्: षण्मासाद् गन्धम् आघ्राति दूरस्थस्यापि वस्तुनः .२१च्द्: घातयेद् गन्धम् आघ्राय यस्य रुष्टो भविष्यति .२२अब्: वत्सरैस् तु त्रिभिर् दिव्यं गन्धम् आसाद्य योगवित् .२२च्द्: जरामरणनैर्गुण्ययुक्तो दिव्यत्वम् अर्हति .२३अब्: सर्वम् अन्यद् यथोद्दिष्टं तथैव च विचिन्तयेत् .२३च्द्: क्रमिकं फलम् आप्नोति घ्राणावरणम् आस्थितम् .२४अब्: उदयादित्यसंकाशे चिन्तयंश् चक्षुषी निजे .२४च्द्: दशाहाच् चक्षुषो रक्तस्रावानुभवम् आप्स्यति .२५अब्: वेदना महती चास्य ललाटे संप्रजायते .२५च्द्: न भेतव्यं महादेवि न चाभ्यासं परित्यजेत् .२६अब्: संत्यजन्न् अन्धताम् एति तेन यत्नात् समभ्यसेत् .२६च्द्: षड्भिर् मासैर् महायोगी दिव्यदृष्टिः प्रजायते .२७अब्: छिद्रां प्रपश्यते भूमिं कटाहान्ताम् अतन्द्रितः .२७च्द्: आध्रुवान्तम् अथोर्ध्वं च करामलकवद् बुधः .२८अब्: वत्सरैस् तु त्रिभिर् योगी ब्रह्माण्डान्तं प्रपश्यति .२८च्द्: तदन्तर् योगिनीज्ञानं शरीरस्थं प्रजायते .२९अब्: स्वदेहादिकम् अन्यच् च पूर्वोक्तं पूर्ववत् स्मरन् .२९च्द्: नयनावृतिजं सर्वम् आप्नोतीति किम् अद्भुतम् .३०अब्: सर्वत्राञ्जनपत्राभां निस्तरङ्गां त्वचं स्मरन् .३०च्द्: शस्त्रैर् अपि न मासेन छेत्तुं शक्यो भविष्यति .३१अब्: षण्मासाद् अतितीव्रेण नाग्निनाप्य् एष दह्यते .३१च्द्: वत्सरत्रितयाद् योगी वज्रोपलविषाहिभिः .३२अब्: पीड्यते न कदा चित् स्याद् अजरामरतां गतः .३२च्द्: स्पर्शावृतिजविज्ञान गीतवच् च चतुर्दश .३३अब्: भेदाः सह फलैर् ज्ञेयाः पूर्वकालानुसारतः .३३च्द्: किं त्व् अत्र चिन्तयेद् देहं स्वदेहादिभिर् आवृतम् .३४अब्: संदधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः .३४च्द्: दूराच् छ्रवणविज्ञानं षण्मासाद् उपजायते .३५अब्: त्रिभिः संवत्सरैर् देवि ब्रह्माण्डान्तर् उदीरितम् .३५च्द्: शृणोति स स्फुटं सर्वं जरामरणवर्जितः .३६अब्: तत्राकाशोक्तवत् सर्वं स्वदेहाद्य् अनुचिन्तयेत् .३६च्द्: श्रोत्रावरणजं सर्वं फलम् आप्नोति पूर्ववत् .३७अब्: मनोवतीम् अतो वक्ष्ये धारणां सर्वसिद्धिदाम् .३७च्द्: यया संसिद्धया देवि सर्वसिद्धिफलं लभेत् .३८अब्: मन एव मनुष्याणां कारणं बन्धमोक्षयोः .३८च्द्: तस्मात् तद् अभ्यसेन् मन्त्री यदीच्छेन् मोक्षम् अक्षयम् .३९अब्: तद् अर्धचन्द्रसंकाशम् अधोवक्त्रं हृदि स्थितम् .३९च्द्: चिन्तयन् मासमात्रेण प्रतिभां प्रतिपत्स्यते .४०अब्: अकस्मात् पश्यते किं चिद् अकस्माच् छृणुते तथा .४०च्द्: सर्वेन्द्रियात्मकं ज्ञानं अकस्माच् च क्व चित् क्व चित् .४१अब्: स्वस्वकेन्द्रियविज्ञानं संपश्येद् वत्सरत्रयात् .४१च्द्: भवते योगयुक्तस्य योगिनः सुपरिस्फुटम् .४२अब्: स्वदेहादिकम् अप्य् अत्र पूर्वोक्तवद् अनुस्मरन् .४२च्द्: चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत् .४३अब्: इत्य् एकादश गीतानि समभ्यस्यानि ते तथा .४३च्द्: इन्द्रियाणि यतः सर्वं फलम् एषु प्रतिष्ठितम् .४४अब्: बन्धमोक्षाव् उभाव् एताव् इन्द्रियाणि जगुर् बुधाः .४४च्द्: विगृहीतानि बन्धाय विमुक्तानि विमुक्तये .४५अब्: एतानि व्यापके भावे यदा स्युर् मनसा सह .४५च्द्: विमुक्तानीति विद्वद्भिर् ज्ञातव्यानि तदा प्रिये .४६अब्: यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि .४६च्द्: संस्थितानि तदा तानि बद्धानीति प्रचक्षते .४७अब्: इत्य् अयं द्विविधो भावः शुद्धाशुद्धप्रभेदतः .४७च्द्: इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरीमते इति श्रीमालिनीविजयोत्तरे तन्त्रे ऽक्षधारणाधिकारः पञ्चदशः समाप्तः धारणाधिकारः षोडशः .१अब्: अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम् .१च्द्: महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते .२अब्: षोडशारं स्मरेच् चक्रम् आत्मदेहम् अनन्यधीः .२च्द्: एषो ऽहम् इति संचिन्त्य स्वकार्यपरिवारितम् .३अब्: अप्रधृष्यो भवेद् योगी वत्सरत्रितयेन तु .३च्द्: ममत्वम् अच्युतं तस्य भवेत् सर्वत्र कुत्र चित् .४अब्: तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन् .४च्द्: चिन्तयेत् सर्वम् एवाहं मयि सर्वम् अवस्थितम् .५अब्: ततो ऽहङ्कारविज्ञानं प्राप्नोतीति किम् अद्भुतम् .५च्द्: हृच्चक्रे समनुध्यायन् मत्स्वरूपम् अतन्द्रितः .६अब्: अविलम्बम् अवाप्नोति गर्वावरणजं फलम् .६च्द्: बिम्बादिकं क्रमात् सर्वं चिन्तयन् नीललोहितम् .७अब्: तद्भवं सर्वम् आप्नोति दशावस्थाप्रचोदितम् .७च्द्: इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा .८अब्: उद्यदादित्यबिम्बाभं हृदि पद्मम् अनुस्मरन् .८च्द्: धर्मादिभावसंयुक्तम् अष्टपत्रं सकर्णिकम् .९अब्: मासेन स्थिरबुद्धिः स्यात् षड्भिः श्रुतिधरो भवेत् .९च्द्: त्रिभिर् अब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते .१०अब्: स्वां तत्र चिन्तयेन् मूर्तिं बुद्धितत्त्वं प्रपश्यति .१०च्द्: तदीशज्ञानम् आप्नोति ब्रह्माणम् अनुचिन्तयन् .११अब्: वेदान् उद्गिरते सुप्तः समाधिस्थो ऽथवा मुनिः .११च्द्: सुस्थिरास् ते सदाभ्यासाद् अनधीता अपि स्फुटम् .१२अब्: बिम्बादिकं क्रमात् सर्वं पूर्वोक्तम् अनुचिन्तयन् .१२च्द्: प्राप्नोति ब्राह्मम् ऐश्वर्यं बुद्ध्यावरणम् आश्रितम् .१३अब्: हृदि बिम्बं रवेर् ध्यायेत् तदन्तः सोममण्डलम् .१३च्द्: एवम् अभ्यसतस् तस्य षण्मासाद् उपजायते .१४अब्: दिव्यचक्षुर् अनायासात् सिद्धिः स्याद् वत्सरत्रयात् .१४च्द्: स्वदेहं चिन्तयंस् तत्र गुणज्ञानम् अवाप्स्यति .१५अब्: लिङ्गाकारं स्मरन् दीप्तं तदीशत्वम् अवाप्नुयात् .१५च्द्: बिम्बादि पूर्ववद् ध्यायन् दशकं दशकात्मकम् .१६अब्: फलम् आप्नोत्य् असंदेहाद् गुणावरणसंस्थितम् .१६च्द्: चतुर्विंशत्य् अमी प्रोक्ताः प्रत्येकं दशपञ्चधा .१७अब्: धारणाः क्ष्मादितत्त्वानां समासाद् योगिनां हिताः .१७च्द्: त्रयोदशात्मके भेदे षड् अन्याः संस्थिता यथा .१८अब्: योगिनाम् अनुवर्ण्यन्ते तथा योगप्रसिद्धये .१८च्द्: देहं मुक्त्वा स्वरूपेण नान्यत् किं चिद् इति स्मरेत् .१९अब्: सितपद्मासनासीनं मण्डलत्रितयोपरि .१९च्द्: एवम् अत्र स्थिरीभूते मासमात्रेण योगवित् .२०अब्: सर्वव्याधिविनिर्मुक्तो भवतीति किम् अद्भुतम् .२०च्द्: षण्मासाद् अस्य विज्ञानं जायते पृथिवीतले .२१अब्: अब्दाज् जरादिनिर्मुक्तस् त्रिभिः पुंस्तत्त्वदृग् भवेत् .२१च्द्: हृदधः पङ्कजे ऽत्रैव द्वादशार्धाङ्गुलां तनुम् .२२अब्: हृदन्तां भावयेत् स्वाक्यां षण्मासान् मृत्युजिद् भवेत् .२२च्द्: त्रिभिर् अब्दैः समाप्नोति पुंस्तत्त्वेश्वरतुल्यताम् .२३अब्: बिम्बादौ पूर्ववत् सर्वं तत्र संचिन्तिते सति .२३च्द्: फलम् आप्नोत्य् असंदेहात् पुरुषावरणस्थितम् .२४अब्: एतद् वेदान्तविज्ञानं समासाद् उपवर्णितम् .२४च्द्: कपिलस्य पुरा प्रोक्तम् एतद् विस्तरशो मया .२५अब्: शरत्संध्याभ्रसंघाभं स्वदेहम् अनुचिन्तयन् .२५च्द्: वीतरागत्वम् अभ्येति षड्भिर् मासैर् न संशयः .२६अब्: जरामरणनिर्मुक्तो वर्षेणैवोपजायते .२६च्द्: त्र्यब्दाज् ज्ञानम् अवाप्नोति रागावरणजं महत् .२७अब्: रक्तं संचिन्तयेद् देहं संपूर्णाभ्रोपरिस्थितम् .२७च्द्: मासषट्कम् अनुद्विग्नो वीतरागत्वसिद्धये .२८अब्: स्मरन् संवत्सरे सम्यङ् मृत्युना न प्रपीड्यते .२८च्द्: त्रिभिर् अब्दैर् जितद्वन्द्वो रागे च समतां व्रजेत् .२९अब्: रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि .२९च्द्: ध्यायन् फलम् अवाप्नोति पूर्वोक्तम् अखिलं क्रमात् .३०अब्: बिम्बादि चात्र पूर्वोक्तम् अनुचिन्तयतो मुहुः .३०च्द्: फलं भवति निःशेषं रञ्जकावृतिसंभवम् .३१अब्: हृदि पद्मं सितं ध्यायेद् द्व्यष्टपत्रं सकेसरम् .३१च्द्: सर्वामृतमयं दिव्यं चन्द्रकल्पितकर्णिकम् .३२अब्: निश्चलं तत्र संयम्य चेतो निद्रान्तम् आत्मनः .३२च्द्: ततो यत् पश्यते स्वप्ने तथ्यं तत् तस्य जायते .३३अब्: एवम् अभ्यसतस् तस्य बुद्धिपद्मोदितं फलम् .३३च्द्: सर्वं प्रजायते तस्य तत्कालक्रमयोगतः .३४अब्: चतुरङ्गुलदेहादि सर्वं तत्र विचिन्तयन् .३४च्द्: पूर्ववत् सर्वम् आप्नोति विद्यातत्त्वसमुद्भवम् .३५अब्: हृदयाद् एकम् एकं तु व्यतिक्रम्यार्धम् अङ्गुलम् .३५च्द्: पृथक् चक्रत्रयं ध्यायेद् रक्तनीलासितं क्रमात् .३६अब्: तत्रत्यद्व्येकपर्वं तु पुरुषं तत्समद्युतिम् .३६च्द्: बिम्बादिकं च यत् प्रोक्तं तत्त्वत्रयम् इदं महत् .३७अब्: त्रयोदशात्मकं भेदम् एतदन्तं विदुर् बुधाः .३७च्द्: एकादशप्रभेदेन तत्त्वद्वयम् अथोच्यते .३८अब्: कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम् .३८च्द्: ध्यायेत् स्वरूपम् आत्मीयं दीप्तनेत्रोपलब्धवत् .३९अब्: क्षित्यादिकालतत्त्वान्ते यद् वस्तु स्थितम् अध्वनि .३९च्द्: सर्वं प्रसाध्य योगीन्द्रो न कालेनाभिभूयते .४०अब्: बिम्बादिके ऽपि तत्रस्थे योगिनाम् अनुचिन्तिते .४०च्द्: भवतीति किलाश्चर्यम् अनायासेन तत्फलम् .४१अब्: कण्ठाकाशे स्थिरं चेतः कुर्वन् योगी दिने दिने .४१च्द्: मायोत्थं फलम् आप्नोति बिम्बादाव् अपि तत्रगे .४२अब्: कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत् .४२च्द्: चिन्तयन् न पुनर् याति मायादेर् वशवर्तिताम् .४३अब्: तद् एव तत्र स्वर्भानुमुक्तवत् परिचिन्तयन् .४३च्द्: तेजोदेहादिकं चापि प्राप्नोति परमेशताम् .४४अब्: मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत् .४४च्द्: समस्तमन्त्रचक्रस्य रूपं यत् सामुदायिकम् .४५अब्: ततः कालक्रमाद् योगी मन्त्रत्वम् अधिगच्छति .४५च्द्: अनुषङ्गफलं चात्र पूर्वोक्तं सर्वम् इष्यते .४६अब्: मूर्तिं तत्रैव संचिन्त्य मन्त्रेशत्वम् अवाप्नुयात् .४६च्द्: तदधोदीपकं तेजो ध्यात्वा तत्पतितां व्रजेत् .४७अब्: सबाह्याभ्यन्तरं तस्माद् अधोर्ध्वं व्यापि च स्मरन् .४७च्द्: तेजो मन्त्रेश्वरेशानपदान् न च्यवते नरः .४८अब्: बद्ध्वा पद्मासनं योगी पराबीजम् अनुस्मरन् .४८च्द्: भ्रुवोर् मध्ये न्यसेच् चित्तं तद्बहिः किं चिद् अग्रतः .४९अब्: निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते .४९च्द्: पश्यते पुरुषं तत्र द्वादशाङ्गुलम् आयतम् .५०अब्: तत्र चेतः स्थिरं कुर्यात् ततो मासत्रयोपरि .५०च्द्: सर्वावयवसंपूर्णं तेजोरूपम् अचञ्चलम् .५१अब्: प्रसन्नम् इन्दुसंकाशं पश्यति दिव्यचक्षुषा .५१च्द्: तं दृष्ट्वा पुरुषम् दिव्यं कालज्ञानं प्रवर्तते .५२अब्: अशिरस्के भवेन् मृत्युः षण्मासाभ्यन्तरेण तु .५२च्द्: वञ्चनं तत्र कुर्वीत यत्नात् कालस्य योगवित् .५३अब्: ब्रह्मरन्ध्रोपरि ध्यायेच् चन्द्रबिम्बम् अकल्मषम् .५३च्द्: स्रवन्तम् अमृतं दिव्यं स्वदेहापूरकं बहु .५४अब्: तेनापूरितम् आत्मानं चेतोनालानुसर्पिणा .५४च्द्: सबाह्याभ्यन्तरं ध्यायन् दशाहान् मृत्युजिद् भवेत् .५५अब्: महाव्याधिविनाशे ऽपि योगम् एनं समभ्यसेत् .५५च्द्: प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गगम् अनुस्मरन् .५६अब्: धूम्रवर्णं यदा पश्येन् महाव्याधिस् तदा भवेत् .५६च्द्: कृष्णे कुष्ठम् अवाप्नोति नीले शीतलिकाभयम् .५७अब्: हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम् .५७च्द्: यद् यद् अङ्गं न पश्येत तत्र तद्व्याधिम् आदिशेत् .५८अब्: आत्मनो वा परेषां वा योगी योगपथे स्थितः .५८च्द्: वर्षैस् तु पञ्चभिः सर्वम् विद्यातत्त्वान्तम् ईश्वरि .५९अब्: वेत्ति भुङ्क्ते च सततं न च तस्मात् प्रहीयते .५९च्द्: तत्रस्थे तेजसि ध्याते सर्वदेहविसर्पिणि .६०अब्: पूर्वोक्तं सर्वम् आप्नोति तत्कालक्रमयोगतः .६०च्द्: अथोर्ध्वव्यापिनि ध्याने तत्र तस्माद् अखण्डितः .६१अब्: सर्वमन्त्रेश्वरेशत्वान् न भूयो ऽपि निवर्तते .६१च्द्: एवं ललाटदेशे ऽपि महादीप्तम् अनुस्मरन् .६२अब्: प्रपश्यत्य् अचिराद् एव वर्णाष्टकयुतं क्रमात् .६२च्द्: इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति .६३अब्: राजावर्तनिभं चान्यत् तथा वैडूर्यसंनिभम् .६३च्द्: पुष्परागनिभं चान्यत् प्रवालकसमद्युति .६४अब्: पद्मरागप्रतीकाशम् अन्यच् चन्द्रसमद्युति .६४च्द्: तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्तते .६५अब्: विहारपादचारादि ततः सर्वं प्रवर्तते .६५च्द्: अधोर्ध्वं व्यापिनि ध्याते न तस्माच् च्यवते पदात् .६६अब्: इत्य् एतत् सर्वम् आख्यातं लक्ष्यभेदव्यवस्थितम् .६६च्द्: अधुना चित्तभेदो ऽपि समासाद् उपदिश्यते .६७अब्: पिशाचानन्तपर्यन्तगुणाष्टकसमीहया .६७च्द्: तत्तद्रूपगुणं कुर्यात् सम्यग् ईशे स्थिरं मनः .६८अब्: इतीश्वरपदान्तस्य मार्गस्यास्य पृथक् पृथक् .६८च्द्: यथोपासा तथाख्याता योगिनां योगसिद्धये इति श्रीमालिनीविजयोत्तरे तन्त्रे धारणाधिकारः षोडशः समाप्तः सप्तदशः षडङ्गयोगाधिकारः .१अब्: अथैतत् सर्वम् उद्दिष्टं यदि न स्फुटतां व्रजेत् .१च्द्: स्फुटीकृते ऽस्थिरे तत्र न मनस् तिष्ठते स्फुटम् .२अब्: गतिभङ्गं ततस् तस्य प्राणायामेन कारयेत् .२च्द्: स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः .३अब्: पूरकः कुम्भकश् चैव रेचको ह्य् अपकर्षकः .३च्द्: उत्कर्षः पञ्चमो ज्ञेयस् तदभ्यासाय योगिभिः .४अब्: पूरकः पूरणाद् वायोर् द्वेधा षोढा च गीयते .४च्द्: स्वभावपूरणाद् एको विरेच्यान्यः प्रपूरितः .५अब्: नासामुखोर्ध्वतालूनां रन्ध्रभेदाद् विभिद्यते .५च्द्: भिन्नः षोढात्वम् अभ्येति पुनर् भेदैर् अनन्तताम् .६अब्: कुम्भः पञ्चविधो ज्ञेयस् तत्रैकः पूरिताद् अनु .६च्द्: विधृतो रेचकात् पश्चाद् द्वितीयः परिकीर्तितः .७अब्: द्वयोर् अन्ते द्वयं चान्यत् स्वभावस्थश् च पञ्चमः .७च्द्: स्थानान्तरप्रभेदेन गच्छत्य् एषो ऽप्य् अनन्तताम् .८अब्: रेचकः पूर्ववज् ज्ञेयो द्विधाभूतः षडात्मकः .८च्द्: स्थानसंस्तम्भितो वायुस् तस्माद् उत्कृष्य नीयते .९अब्: यो ऽन्यप्रदेशसंप्राप्त्यै स उत्कर्षक इष्यते .९च्द्: तस्माद् अपि पुनः स्थानं यतो नीतस् तदाहृतः .१०अब्: अपकर्षक इत्य् उक्तो द्वाव् अप्य् एताव् अनेकधा .१०च्द्: एषाम् अभ्यसनं कुर्यात् पद्मकाद्यासनस्थितः .११अब्: अधमः सकृदुद्घातो मध्यमो द्विगुणो मतः .११च्द्: ज्येष्ठः स्याद् यस् त्रिरुद्घातः स च द्वादशमात्रकः .१२अब्: त्रिर्जानुवेष्टनान् मात्रा त्रिगुणाच् छोटिकात्रयात् .१२च्द्: अजितां नाक्रमेन् मात्रां वायुदोषनिवृत्तये .१३अब्: प्रत्यङ्गधारणाद् वायुं न च चक्षुषि धारयेत् .१३च्द्: नाभिहृत्तालुकान्तस्थे विधृते मरुति क्रमात् .१४अब्: चतस्रो धारणा ज्ञेयाः शिख्यम्ब्वीशामृतात्मिकाः .१४च्द्: यद् यत्र चिन्तयेद् द्रव्यं तत् तत् सर्वगतं स्मरेत् .१५अब्: बिन्दुनादात्मकं रूपम् ईशानी धारणा श्रिता .१५च्द्: अमृतायां स्मरेद् इन्दुं कालत्यागोक्तवर्त्मना .१६अब्: धारणाभिर् इहैताभिर् योगी योगपथे स्थितः .१६च्द्: हेयं वस्तु परित्यज्य यायात् पदम् अनामयम् .१७अब्: त्रिवेदद्वीन्दुसङ्ख्यातसमुद्घातास् त्व् इमा मताः .१७च्द्: एताभिर् अप्य् अधो ऽप्य् उक्तं फलं प्राप्नोत्य् अनुत्तमम् .१८अब्: योगाङ्गत्वे समाने ऽपि तर्को योगाङ्गम् उत्तमम् .१८च्द्: हेयाद्यालोचनात् तस्मात् तत्र यत्नः प्रशस्यते .१९अब्: मार्गे चेतः स्थिरीभूतं हेये ऽपि विषयेच्छया .१९च्द्: प्रेर्य तेनानयेत् तावद् यावत् पदम् अनामयम् .२०अब्: तदर्थभावनायुक्तं मनो ध्यानम् उदाहृतम् .२०च्द्: तद् एव परमं ज्ञानं भावनामयम् इष्यते .२१अब्: मुहूर्ताद् एव तत्रस्थः समाधिं प्रतिपद्यते .२१च्द्: तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्य् अभीप्सितम् .२२अब्: यत् किं चिच् चिन्तयेद् वस्तु नान्यत्वं प्रतिपद्यते .२२च्द्: तेन तन्मयताम् आप्य भवेत् पश्चाद् अभाववत् .२३अब्: पञ्चताम् इव संप्राप्तस् तीव्रैर् अपि न चाल्यते .२३च्द्: ततः शब्दादिभिर् योगी योगिनीकुलनन्दनः .२४अब्: इत्य् अनेन विधानेन प्रत्याहृत्य मनो मुहुः .२४च्द्: प्राणायामादिकं सर्वं कुर्याद् योगप्रसिद्धये .२५अब्: सर्वम् अप्य् अथवा भोगं मन्यमानो विरूपकम् .२५च्द्: स्वशरीरं परित्यज्य शाश्वतं पदम् ऋच्छति .२६अब्: तदा पूर्वोदितं न्यासं कालानलसमप्रभम् .२६च्द्: विपरीतविधानेन कुर्यात् स्कृक्छिन्दियुग्गतम् .२७अब्: आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम् .२७च्द्: पूरयेद् वायुना देहम् अङ्गुष्ठान् मस्तकान्तिकम् .२८अब्: तम् उत्कृष्य ततो ऽङ्गुष्ठाद् ब्रह्मरन्ध्रान्तम् आनयेत् .२८च्द्: छेदयेत् सर्वमर्माणि मन्त्रेणानेन योगवित् .२९अब्: जीवम् आदिद्विजारूढं शिरोमालादिसंयुतम् .२९च्द्: कृत्वा तदग्रे कुर्वीत द्विजम् आद्यम् अजीवकम् .३०अब्: इत्य् एषा कथिता काल रात्रिर् मर्मनिकृन्तनी .३०च्द्: नैनां समुच्चरेद् देवि य इच्छेद् दीर्घजीवितम् .३१अब्: शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना .३१च्द्: एवं प्रत्ययम् आलोच्य मृत्युजिद्ध्यानम् आश्रयेत् .३२अब्: निपीड्य तं ततस् तत्र बिन्दुनादादिचिन्तकः .३२च्द्: वेगाद् उत्कृष्य तत्रस्थं कालरात्र्या विसर्जयेत् .३३अब्: अनेन क्रमयोगेन अने योजितः परमे पदे .३३च्द्: समय्य् अपि महादेवि दीक्षोक्तं फलम् अश्नुते .३४अब्: [लचुन] सिद्धयोगेश्वरीमते .३४च्द्: तत्सकाशाद् भवेत् सिद्धिः सर्वमन्त्रोक्तलक्षणा .३५अब्: तद् एव मन्त्ररूपेण मनुष्यैः समुपास्यते .३५च्द्: एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते .३६अब्: अभक्तस्य गुहस्यापि नाख्येयो जातुचित् त्वया .३६च्द्: उदरं सर्वम् आपूर्य ब्रह्मरन्ध्रान्तम् आगतम् .३७अब्: वायुं भ्रमणयोगेन ततस् तं प्रेरयेत् तथा .३७च्द्: यावत् प्राणप्रदेशान्तं योगिनां मनसेप्सितम् .३८अब्: प्राप्यते पुनर् आवृत्य तथैव नाभिमण्डलम् .३८च्द्: एवं समभ्यसेत् तावद् यावद् वासरसप्तकम् .३९अब्: तदाप्रभृति संयुक्तः कर्षयेत् त्रिदशान् अपि .३९च्द्: अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम् .४०अब्: गृह्णीयाद् योगयुक्तात्मा किम् अन्यैः क्षुद्रशासनैः .४०च्द्: प्रथमं महती घूर्णिर् अभ्यासात् तस्य जायते .४१अब्: ततः प्रकम्पो देवेशि ज्वलतीव ततो ऽप्य् अणुः इति श्रीमालिनीविजयोत्तरे तन्त्रे सप्तदशो योगाङ्गाधिकारः समाप्तः परमविद्याधिकारो ऽष्टादशः .१अब्: शृणु देवि परं गुह्यम् अप्राप्यम् अकृतात्मनाम् .१च्द्: यन् न कस्य चिद् आख्यातं तद् अद्य कथयामि ते .२अब्: सर्वम् अन्यत् परित्यज्य चित्तम् अत्र निवेशयेत् .२च्द्: मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् .३अब्: यजेद् आध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् .३च्द्: बहिर् लिङ्गस्य लिङ्गत्वम् अनेनाधिष्ठितं यतः .४अब्: अतः प्रपूजयेद् एतत् परमाद्वैतम् आश्रितः .४च्द्: अनुध्यानेन देवेशि परेण परमाणुना .५अब्: यो ऽनुध्यातः स एवैतल् लिङ्गं पश्यति नापरः .५च्द्: यद् एतत् स्पन्दनं नाम हृदये समवस्थितम् % .६अब्: तत्र चित्तं समाधाय कम्प उद्भव एव च .६च्द्: तत्र प्रशान्तिम् आप्नोति मासेनैकेन योगवित् .७अब्: हृदयाद् उत्थितं लिङ्गं ब्रह्मरन्ध्रान्तम् ईश्वरि .७च्द्: स्वप्रभोद्द्योतिताशेषदेहान्तम् अमलद्युति .८अब्: तत्रैव पश्यते सर्वं मन्त्रजालं महामतिः .८च्द्: तन्मस्तकं समारुह्य मासमात्रम् अनन्यधीः .९अब्: ततस् तत्र सुनिष्पन्ने षण्मासात् सर्वसिद्धयः .९च्द्: एतल् लिङ्गम् अविज्ञाय यो लिङ्गी लिङ्गम् आश्रयेत् .१०अब्: वृथाऌपरिश्रमस् तस्य न लिङ्गफलम् अश्नुते .१०च्द्: शैवम् एतन् महालिङ्गम् आत्मलिङ्गे [न] सिद्ध्यति .११अब्: सिद्धे ऽत्र लिङ्गवल् लिङ्गी लिङ्गस्थो लिङ्गवर्जितः .११च्द्: भवतीति किम् आश्रयम् एतस्माल् लिङ्गलिङितः .१२अब्: अनेन लिङ्गलिङ्गेन यदा योगी बहिर् व्रजेत् .१२च्द्: तदा लिङ्गीति विज्ञेयः पुरान्तं लिङ्गम् इष्यते .१३अब्: एतस्माल् लिङ्गविज्ञानाद् योगिनो लिङ्गिताः स्मृताः .१३च्द्: अनेनादिष्ठिताः मन्त्राः शान्तरौद्रादिभेदतः .१४अब्: भवन्तीति किमाश्चर्यं तद्भावगतचेतसः .१४च्द्: रौद्रं भावं सम्श्रित्य यदि योगं समभ्यसेत् .१५अब्: दुर्निरीक्ष्यो भवेत् सर्वैः सदेवासुरमानुषैः .१५च्द्: गमागमविनिर्मुक्तः सर्वदृष्टिर् अकातरः .१६अब्: मुहूर्तं तिष्ठते यावत् तावद् एवेशम् आप्नुयात् .१६च्द्: आविष्टः पश्यते सर्वं सूर्यकोटिसमद्युति .१७अब्: यत् तद् अक्षरम् अव्यक्तं शैवं भैरवम् इत्य् अपि .१७च्द्: तं दृष्ट्वा वत्सरार्धेन योगी सर्वज्ञताम् इयात् .१८अब्: य एवैनं समासाद्य यस् तृप्तिम् अधिगच्छति .१८च्द्: न च कृत्रिमयोगेषु स मुक्तः सर्वबन्धनैः .१९अब्: प्राणायामादिकैर् लिङ्गैर् योगाः स्युः कृत्रिमा मताः .१९च्द्: तेन ते ऽकृतकस्यास्य कलां नार्हन्ति षोडशीम् .२०अब्: एतत् समभ्यसन् योगी दिव्यचिह्नानि पश्यति .२०च्द्: उपविष्ट ऋजुर् योगी न किञ् चिद् अपि चिन्तयेत् .२१अब्: मुहूर्तान् निर्दहेत् सर्वं देहस्थम् अकृतं कृतम् .२१च्द्: दह्यमानस्य तस्येह प्रकम्पानुभवो भवेत् .२२अब्: ततस् तत्र स्थिरीभूते ज्योतिर् अन्तः प्रकाशते .२२च्द्: तां दृष्ट्वा परमां दीप्तिं दिव्यज्ञानं प्रवर्तते .२३अब्: स्वतन्त्रशिवताम् एति भुञ्जानो विषयान् अपि .२३च्द्: अनिमीलितदिव्याक्षो यावद् आस्ते मुहूर्तकम् .२४अब्: तस्मात् सर्वगतं भावम् आत्मनः प्रतिपद्यते .२४च्द्: तम् एव भावयेद् यत्नात् सर्वसिद्धिफलेप्सया .२५अब्: ततस् तं भावयेद् योगी कम्पमानो ऽत्यनुल्बणम् .२५च्द्: ततः प्रपश्यते तेजो ललाटाग्रे समन्ततः .२६अब्: दृष्ट्वा तत्परमं तेजो दिव्यज्ञानम् अवाप्नुयात् .२६च्द्: षड्भिर् मासैर् अनायासाद् वत्सरेण प्रसिद्ध्यति .२७अब्: शिवतुल्यबलो भूत्वा यत्रेष्टं तत्र गच्छति .२७च्द्: चेतः सर्वगतं कृत्वा मुहूर्ताद् एव योगवित् .२८अब्: शक्यावेशम् अवाप्नोति प्रकम्पानुभवात्मकम् .२८च्द्: ततस् तत्र स्थिरीभूते मासमात्रेण योगवित् .२९अब्: शाक्तं प्रपश्यते तेजः सबाह्याभ्यन्तरे स्थिरम् .२९च्द्: तत्र सम्यक् सुनिष्पन्ने सर्वेन्द्रियजम् आदरात् .३०अब्: तत्र स्फुटम् अवाप्नोति विज्ञानम् अनिवारितम् .३०च्द्: सर्वगं चात्र विज्ञेयं यद् अक्षर्थेन संगतम् .३१अब्: एवमेवेदम् आख्यातं तत्त्वं पर्यायभेदतः .३१च्द्: कर्मेन्द्रियाणि बुद्ध्यन्तं परित्यज्य समस्तकम् .३२अब्: भावयेत् परमां शक्तिं सर्वत्रैव विचक्षणः .३२च्द्: निश्चलं तु मनः कृत्वा यावत् तन्मयतां गतः .३३अब्: तावत् सर्वगत भावं क्षणमात्रात् प्रपद्यते .३३च्द्: निर्दह्य पाशजालानि यथेष्टं फलम् आप्नुयात् .३४अब्: तस्मात् समभ्यसेद् एनं कृत्वा निश्चयम् आत्मनः .३४च्द्: यत्राधारविनिर्मुक्तो जीवो लयम् अवाप्स्यति .३५अब्: तत्स्थानं सर्वमन्त्राणाम् उत्पत्तिक्षेत्रम् इष्यते .३५च्द्: द्विविधं तत्परिज्ञेयं बाह्याभ्यन्तरभेदतः .३६अब्: प्रयातवाधिकाऌमात्रा सा ज्ञेया सर्वसिद्धिदा .३६च्द्: अथवा गच्छतस् तस्य स्वप्नवृत्त्या विचक्षणः .३७अब्: निरोधं मध्यमे स्थाने कुर्वीत क्षणमात्रकम् .३७च्द्: पश्यते तत्र चिच्छक्तिं तुटिमात्राम् अखण्डिताम् .३८अब्: तद् एव परमं तत्त्वं तस्माज् जातम् इदं जगत् .३८च्द्: स एव मन्त्रदेहस् तु सिध्हयोगीश्वरीमते .३९अब्: तेनैवालिङ्गिता मन्त्राः सर्वसिद्धिफलप्रदाः .३९च्द्: ईषद्व्यावृत्तवर्णस् तु हेयोपादेयवर्जितः .४०अब्: यां संवित्तिम् अवाप्नोति शिवतत्त्वं तद् उच्यते .४०च्द्: तत्र चित्तं स्थिरीकुर्वन् सर्वज्ञत्वम् अवाप्नुयात् .४१अब्: तत्रैव दिव्यचिह्नानि पश्यते च न संशयः .४१च्द्: यत्रैव कुत्र चिद् गात्रे विकार उपजायते .४२अब्: संकल्पपूर्वको देवि तत् तत्त्वं तत्त्वम् उत्तमम् .४२च्द्: तद् अभ्यसेन् महायोगी सर्वज्ञत्वजिगीषया .४३अब्: प्राप्नोति परमं स्थानं भुक्त्वा सिद्धिं यथेप्सिताम् .४३च्द्: गन्धपुष्पादिभिर् योगी नित्यम् आत्मानम् आदरात् .४४अब्: ब्रह्मरन्ध्रप्रदेशे तु पूजयेद् भावतो ऽपि वा .४४च्द्: द्रवद्द्रव्यसमायोगात् स्नपनं तस्य जायते .४५अब्: गन्धपुष्पादिगन्धस्य ग्रहणं यजनं मतम् .४५च्द्: षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पते .४६अब्: यम् एवोच्चारयेद् वर्णं स जपः परिकीर्तितः .४६च्द्: तत्र चेतः समाधाय दह्यमानस्य वस्तुनः .४७अब्: ज्वालनतस् तिष्ठते यावत् तावद् धोमः कृतो भवेत् .४७च्द्: यद् एव पश्यते रूपं तद् एव ध्यानम् इष्यते .४८अब्: प्रसङ्गाद् इदम् उद्दिष्टम् अद्वैतयजनं महत् .४८च्द्: उदयार्कसमाभासम् ऊर्ध्वद्वारे मनः स्थिरम् .४९अब्: हृदि वाऌतत् तथा कुर्याद् द्वादशान्ते ऽथवाप्नुयात् .४९च्द्: ततो मासार्धमात्रेण तद्रूपम् उपलभ्यते .५०अब्: उपलब्धं तद् अभ्यस्य सर्वज्ञत्वाय कल्पते .५०च्द्: वस्त्रेण मुखम् आच्छाद्य योगी लक्ष्ये नियोजयेत् .५१अब्: नाभिकन्दाद् अधस्तात् तु यावत् तत्त्वं शिखाव् अधि .५१च्द्: सूक्ष्मतारकसंकाशं रश्मिज्वालाकरालितम् .५२अब्: प्राणशक्त्यवसाने तु पश्यते रूपम् आत्मनः .५२च्द्: तद् एवाभ्यासतो देवि विकासम् उपगच्छति .५३अब्: तन्मुखं सर्वमन्त्राणां सर्वतन्त्रेषु पठ्यते .५३च्द्: ततो ऽस्य मासमात्रेण का चित् संवित्तिर् इष्यते .५४अब्: यतः सर्वं विजानाति हृदये संव्यवस्थितं .५४च्द्: तां ज्ञात्वा कस्य चिद् योगी न सम्यक् प्रतिपादयेत् .५५अब्: अध्यायात् कथनं कुर्यान् नाकाले मृत्युम् आप्नुयात् .५५च्द्: मृतो ऽपि श्वभ्रसंघाते क्रमेण परिपच्यते .५६अब्: एवं ज्ञात्वाऌमहादेवि स्वहितं समुपार्जयेत् .५६च्द्: शिष्यो ऽप्य् अन्यायतो गृह्णन् नरकं प्रतिपद्यते .५७अब्: न च तत्कालम् आप्नोति वचस् त्व् अवितथं मम .५७च्द्: न्यायेन ज्ञानम् आसाद्य पश्चान् न प्रतिपद्यते .५८अब्: तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः .५८च्द्: ध्यात्वा तम् अग्रतः स्थाप्य स्वरूपेणैव योगवित् .५९अब्: षड्विधं विन्यसेन् मार्गं तस्य देहे पुरोक्तवत् .५९च्द्: ततस् तं दीपम् आलोक्य तदङ्गुष्ठाग्रतः क्रमात् .६०अब्: नयेत् तेजः समाहृत्य द्वादशान्तम् अनन्यधीः .६०च्द्: ततस् तं तत्र संचिन्त्य शिवेनैकत्वम् आगतम् .६१अब्: तत्र ध्यायेत् तमोरूपं तिरोभावनशीलनम् .६१च्द्: पतन्तीं तेन मार्गेण ह्य् अङ्गुष्ठाग्रान्तम् आगताम् .६२अब्: सबाह्याभ्यन्तरं ध्यायेन् निविडाञ्जनसप्रभाम् .६२च्द्: अनेन विधिना तस्य मूढबुद्धेर् दुरात्मनः .६३अब्: विज्ञानमन्त्रविद्याद्या न कुर्वन्त्य् उपकारिताम् .६३च्द्: चित्ताभिसन्धिमात्रेण ह्य् अदृष्टस्यापि जायते .६४अब्: कथं चिद् उपलब्धस्य नित्यम् एवापकारिणः .६४च्द्: अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यम् अग्रतः .६५अब्: स्वर्भानुरूपया शक्त्या ग्रस्तं तम् अनुचिन्तयेत् .६५च्द्: अपराधसहस्रैस् तु कोपेन मह्तान्वितह् .६६अब्: विधिम् एनं प्रकुर्वीत क्रीडार्थं न तु जातु चित् .६६च्द्: अनेन विधिना भ्रष्टो विज्ञानाद् अपरेण च .६७अब्: न शक्यो योजितुं भूयो यावत् तेनैव नोद्धृतः .६७च्द्: करुणाकृष्टचित्तस् तु तस्य कृत्वा विशोधनम् .६८अब्: प्राणायामादिभिस् तीव्रैः प्रायश्चित्तैऋ विधिश्रुतैः .६८च्द्: ततस् तस्य प्रकुर्वीत दीक्षां पूर्वोक्तवर्त्मना .६९अब्: ततः सर्वम् अवाप्नोति फलं तस्माद् अनन्यधीः .६९च्द्: एवं ज्ञात्वा प्रयत्नेन गुरुम् आसादयेत् सुधीः .७०अब्: यतः संतोष उत्पन्नः शिवज्ञानामृतात्मकः .७०च्द्: न तस्यान्वेषयेद् वृत्तं शुभं वा यदि वाशुभम् .७१अब्: स एव तद् विजानाति युक्तं वायुक्तम् एव वा .७१च्द्: अकार्येषु यदा सक्तः प्राणद्वयापहारिषु .७२अब्: तदा निवारणीयो ऽसौ प्रणतेन विपश्चिता .७२च्द्: तेनातिवार्यमाणो ऽपि यद्य् असौ न निवर्तते .७३अब्: तदान्यत्र क्व चिद् गत्वा शिवम् एवानुचिन्तयेत् .७३च्द्: एष योगविधिः प्रोक्तः समासाद् योगिनां हितः .७४अब्: नात्र शुद्धिर् न चाशुद्धिर् न भक्ष्यादिविचारणम् .७४च्द्: न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च .७५अब्: न चापि तत्परित्यागो निष्परिग्रहतापि वा .७५च्द्: सपरिग्रहता वापि जटाभस्मादिसंग्रहः .७६अब्: तत्त्यागो न व्रतादीनां चरणाचरणं च यत् .७६च्द्: क्षेत्रादिसंप्रवेशश् च समयादिप्रपालनम् .७७अब्: परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् .७७च्द्: नास्मिन् विधीयते किं चिन् न चापि प्रतिषिध्यते .७८अब्: विहितं सर्वम् एवात्र प्रतिषिद्धम् अथापि वा .७८च्द्: किं त्व् एतद् अत्र देवेशि नियमेन विधीयते .७९अब्: तत्त्वे चेतः स्थिरीकार्यं सुप्रयत्नेन योगिना .७९च्द्: तच् च यस्य यथैव स्यात् स तथैव समाचरेत् .८०अब्: तत्त्वे निश्चलचित्तस् तु भुञ्जानो विषयान् अपि .८०च्द्: न संस्पृश्येत दोषैः स पद्मपत्रम् इवाम्भसा .८१अब्: विषापहारिमन्त्रादिसंनद्धो भक्षयन्न् अपि .८१च्द्: विषं न मुह्यते तेन तद्वद् योगी महामतिः .८२अब्: इत्य् एतत् कथितं देवि किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे परमविद्याधिकारो ऽष्टादशः कुलचक्राधिकार एकोनविंशः .१अब्: अथैनं परमं योगविधिम् आकर्ण्य शाङ्करी .१च्द्: पुनर् आह प्रसन्नास्या प्रणिपत्य जगद्गुरुम् .२अब्: साध्यत्वेन श्रुता देव भिन्नयोनिस् तु मालिनी .२च्द्: विद्यात्रयं सविद्याङ्गं विधिवच् चावधारितम् .३अब्: अधुना श्रोतुम् इच्छामि ह्य् अभिन्ना साध्यते कथम् .३च्द्: हिताय साधकेन्द्राणां प्रसादाद् वक्तुम् अर्हसि .४अब्: एवम् उक्तो महेशान्या जगतां पतिर् आदरात् .४च्द्: विकसद्वदनाम्भोजः प्रत्युवाच वचो ऽमृतम् .५अब्: आरिराधयिषुः शंभुं कुलोक्तविधिना बुधः .५च्द्: कुलचक्रं यजेद् आदौ बुधो दीक्षोक्तवर्त्मना .६अब्: ततो जपेत् पराम् शक्तिं लक्षम् एकम् अखण्डितम् .६च्द्: पराबीजपुटान्तःस्थां न द्रुतां न विलम्बिताम् .७अब्: तद्वत् खण्डाष्तकं चास्या लक्षं लक्षम् अखण्डितम् .७च्द्: जपेत् कुलेश्वरस्यापि लक्षषट्कम् अनन्यधीः .८अब्: होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः .८च्द्: नित्यानुस्मृतिशीलस्य वाक्सिद्धिः संप्रजायते .९अब्: स्वकुले जपयुक्तस्य अशक्तस्यापि साधने .९च्द्: भवन्ति कन्यसा देवि संसारे भोगसंपदः .१०अब्: शक्तस् तु साधयेत् सिद्धिं मध्यमाम् उत्तमाम् अपि .१०च्द्: कृतसेवाविधिः पृथ्वीं भ्रमेद् उद्भ्रान्तपन्त्रिवत् .११अब्: नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै .११च्द्: ग्रामे ऽपि चैकरात्रं तु स्थित्वैनं विधिम् आचरेत् .१२अब्: यन् नामाद्यक्षरं यत्र वर्गे तत् तस्य वस्तुनः .१२च्द्: कुलम् उक्तं विधानज्ञैर् नगरादेर् न संशयः .१३अब्: या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता .१३च्द्: सैव तस्य पतित्वेन ध्येया पूज्या च साधकैः .१४अब्: तस्य किं चित् समासाद्य नगरादिकम् आदरात् .१४च्द्: स्वदिग्वर्गस्थितो भूत्वा चक्रं योज्य निजोदये .१५अब्: अवा [लचुन] समेकैक उदिते [लचुन] .१५च्द्: देवता माहेश्वर [लचुन] .१६अब्: क्रमेणैव यथा रात्रौ [लचुन] तथाऌदिवा .१६च्द्: स्वदिशि स्वोदये वर्गं तम् एवानुस्मरेद् बुधः .१७अब्: तिष्ठेद् अन्योदयं यावत् ततः स्वां दिशम् आश्रयेत् .१७च्द्: स्वकुलं चिन्तयन् यायात् तद्देशकुलम् एव वा .१८अब्: यावद् अन्यां दिशं मन्त्री ततस् तद् अनुचिन्तयेत् .१८च्द्: एवं यावत् स्वकं स्थानं कुलचक्रोक्तवर्त्मना .१९अब्: भ्रमित्वा पुनर् आयाति पूर्वकालक्रमेण च .१९च्द्: तावद् आगत्य देवेशि तदेशकुलनायिका .२०अब्: ददेद् भक्ष्यादिकं किं चिद् दापयेद् वाथ केन चित् .२०च्द्: अनेन विधिना युक्तो गुप्ताचारो दृढव्रतः .२१अब्: योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति .२१च्द्: दुष्करो ऽयं विधिर् देवि सत्त्वहीनैर् नराधमैः .२२अब्: सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः .२२च्द्: अथैकस्मिन्न् अपि ग्रामे पत्तने नगरे ऽपि वा .२३अब्: तद् दिग्भागं समाश्रित्य तद् एवजपते कुलम् .२३च्द्: त्रिभिर् अब्दैर् अनायासात् साधयेद् उत्तमं फलम् .२४अब्: लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः .२४च्द्: अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम् .२५अब्: चेतसा भ्रमणं कुर्यात् सर्वकालक्रमेण तु .२५च्द्: ततो ऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम् .२६अब्: आविर्भवत्य् असंदेहात् स्वविज्ञानप्रकाशकम् .२६च्द्: तेनाविर्भूतमात्रेण योगी योगिकुले कुली .२७अब्: भवेद् अपि पतिर् देवि योगिनां परमेश्वरि .२७च्द्: अथवा चिन्तयेद् देवि यकारादिक्रमाष्टकम् .२८अब्: स्वरूपेण प्रभाकारकरालाकुलविग्रहम् .२८च्द्: तस्य मध्ये कुलेशानं स्वबोधकम् अनुस्मरन् .२९अब्: सर्वम् एव च तत्पश्चाच् चक्रं दीपशिखाकृतिम् .२९च्द्: संभूतं चिन्तयेद् योगी योगिनीपदकाङ्क्षया .३०अब्: एतस्मिन् व्यक्तिम् आपन्ने पिण्डस्थं बुद्ध उच्यते .३०च्द्: ततो ऽस्याकस्मिकी देवि महामुद्रोपजायते .३१अब्: शृङ्गारवीरकारुण्यशोककोपादयस् तथा .३१च्द्: प्रबुद्धम् एतद् उद्दिष्टं पिण्डस्थम् अमरार्चिते .३२अब्: दिवसैर् अभियुक्तस्य ततो ऽस्य बहुभिर् दिनैः .३२च्द्: धरादितत्त्वभावानां संवित्तिर् उपजायते .३३अब्: सुप्रबुद्धं तद् इच्छन्ति पिण्डस्थं ज्ञानम् उत्तमम् .३३च्द्: चक्रं च त्रिगुणाष्टारम् अथवा तत्र चिन्तयेत् .३४अब्: कादिहान्ताक्षराक्रान्तं पूर्वरूपं सबिन्दुकम् .३४च्द्: तत्रापि पूर्ववत् सर्वं कुर्वन्न् एतद् फलं लभेत् .३५अब्: आदिवर्णान्वितं वाथ षोडशारम् अनुस्मरन् .३५च्द्: मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः .३६अब्: द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके .३६च्द्: यतः पिण्डत्वम् आयान्ति तेनासौ पिण्ड उच्यते .३७अब्: तत्र स्थितं तु यज् ज्ञेयं पिण्डस्थं तद् उदाहृतम् .३७च्द्: अ [लचुन] मल [लचुन] त्केश [लचुन] कम् .३८अब्: विज्वरत्वम् अवाप्नोति वत्सरेण यदृच्छया .३८च्द्: चक्रपञ्चकम् एतद् धि पूर्ववद् धृदये स्थितम् .३९अब्: पदस्थम् इति शंसन्ति चतुर्व्हेदं विचक्षणाः .३९च्द्: यत्रार्थावगतिर् देवि तत् स्थानंपदम् उच्यन्ते .४०अब्: चतुष्कम् अत्र विज्ञेयं भेदं पञ्चदशात्मकम् .४०च्द्: सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत् .४१अब्: जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः .४१च्द्: व्याप्ताव् अपि प्रसिद्धायां मायाधस्तत्त्वगोचरः .४२अब्: वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति .४२च्द्: पदस्थे किं तु चन्द्राभं प्रदीपाभं न चिन्तयेत् .४३अब्: एतद् एवामृतौघेन देहम् आपूरयत् स्वकम् .४३च्द्: चिन्तितं मृत्युनाशाय भवतीति किम् अद्भुतम् .४४अब्: उपलक्षणम् एतत् ते चन्द्रबिम्बाद्युदीरितम् .४४च्द्: येन येनैव रूपेण चिन्त्यते परमेश्वरी .४५अब्: पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा .४५च्द्: रूपम् ऐश्वरम् इच्छन्ति शिवस्याशिवहारिणः .४६अब्: यद्भ्रूमध्यस्थितं यस्मात् तेन तत्रव्यवस्थितम् .४६च्द्: पञ्चकं सूर्यसंकाशं रूपस्थम् अभिधीयते .४७अब्: तत्रापि पूर्ववत् सिद्धिर् ईश्वरान्तपदोद्भवा .४७च्द्: रूपातीतं तु देवेशि प्राग् एवोक्तम् अनेकधा .४८अब्: इत्य् एषा कुलचक्रस्य समासाद्व्याप्तिर् उत्तमा .४८च्द्: कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरीमते .४९अब्: सर्वदाथ विभेदेन पृथग्वर्णविभेदतः .४९च्द्: विद्यादिसर्वसंसिद्ध्यै योगिनां योगम् इच्छन्ति .५०अब्: भूयो ऽपि संप्रदायेन वर्णभेदश् च कीर्त्यते .५०च्द्: स्त्रीरूपां हृदि संचिन्त्य सितवस्त्रादिभूषिताम् .५१अब्: नाभिचक्रोपविष्टाम् तु चन्द्रकोटिसमप्रभाम् .५१च्द्: बीजं यत् सर्वशास्त्राणां तत् तदा स्याद् अनारतम् .५२अब्: स्वकीयेनैव वक्त्रेण निर्गच्छत् प्रविचिन्तयेत् .५२च्द्: तारहारलताकारं विस्फुरत्किरणाकुलम् .५३अब्: वर्णैस् तारकसंकाशैर् आरब्धम् अमिताद्युति .५३च्द्: मासार्धाच् छास्त्रसंघातम् उद्गिरत्य् अनिवारितम् .५४अब्: स्वप्ने मासात् समाधिस्थः षड्भिर् मासैर् यथेच्छया .५४च्द्: उच्छिन्नान्य् अपि शास्त्राणि ग्रन्थतश् चार्थतो ऽपि वा .५५अब्: जानाति वत्सराद् योगी यदि तन्मयतां गतः .५५च्द्: अनुषङ्गफलं चैतत् समासाद् उपवर्णितम् % . .५६अब्: विद्येश्वरसमानत्वसिद्धिर् अन्याश् च सिद्धयः .५६च्द्: प्रतिवर्नविभेदेन यथेदानीं तथोच्यते .५७अब्: ध्यातव्या योगिभिर् नित्यं तत्तत्फलबुभुक्षुभिः .५७च्द्: विन्यासक्रमयोगेन त्रिविधेनापि वर्त्मना .५८अब्: यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः .५८च्द्: तं तत्रैव समाधाय स्वरूपेणैव योगवित् इति श्रीमालिनीविजयोत्तरे कुलचक्राधिकर एकोनविंशः समाप्तः सर्वमन्त्रनिर्णयो विंशो ऽधिकारः .१अब्: अथ पिण्डादिभेदेन शाक्तं विज्ञानम् उच्यते .१च्द्: योगिनां योगसिद्ध्यर्थं संक्षेपान् न तु विस्तरात् .२अब्: पिण्डं शरीरम् इत्य् उक्तं तद्वच् छक्तिशिवात्मनोः .२च्द्: ब्रह्मानन्दो बलं तेजो वीर्यम् ओजश् च कीर्त्यते .३अब्: अज्ञानेन निरुद्धं तद् अनाद्येव सदात्मनः .३च्द्: तदाविर्भूतये सर्वम् अनिरुद्धं प्रवर्तते .४अब्: तेनाविर्भाव्यमानं तत् पूर्वावस्थां परित्यजत् .४च्द्: याः संवित्तीर् अवाप्नोति ता अधस्तात् प्रकीर्तिताः % .५अब्: तद् एव पदम् इच्छन्ति सर्वार्थावगतिर् यतः .५च्द्: तस्मात् संजायते नित्यं नित्यम् एव शिवात्मनोः .६अब्: तद् एव रूपम् इत्य् उक्तम् आत्मनश् च विनश्वरम् .६च्द्: रूपातीतं तद् एवाहुर् यतोक्षाविषयं परम् .७अब्: भावनां तस्य कुर्वीत नमस्कृत्य गुरुं बुधः .७च्द्: तावद् आलोचयेद् वस्तु यावत् पदम् अनामयम् .८अब्: नैवं न चैवं नाप्य् एवं नापि चैवम् अपि स्फुटम् .८च्द्: चेतसा योगयुक्तेन यावत् तद् इदम् अप्य् अलम् .९अब्: कृत्वा तन्मयम् आत्मानं सर्वाक्षार्थविवर्जितम् .९च्द्: मुहूर्तं तिष्ठते यावत् तावत् कम्पः प्रजायते .१०अब्: भ्रमणोद्भवनिद्राश् च किं चिद् आनन्द इत्य् अपि .१०च्द्: तत्र यत्नेन संदध्याच् चेतः परफलेच्छया .११अब्: तद् एतद् आत्मनो रूपं शिवेन प्रकटीकृतम् .११च्द्: यत्र तु यच् च विज्ञेयं शिवात्मकम् अपि स्थितम् .१२अब्: तद्रूपोद्बलकत्वेन स्थितिम् इत्य् अवधारयेत् .१२च्द्: तत्समभ्यसतो नित्यं स्थूलपिण्डाद्य् उपाश्रयात् .१३अब्: चतुर्भेदत्वम् आयाति भक्त्याभिन्नम् अपि स्वतः .१३च्द्: स्थूलपिण्डे द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः .१४अब्: भौतिकं बाह्यम् इच्छन्ति द्वितीयं चातिवाहिकम् .१४च्द्: तत्राद्योपाश्रयाद् योगी ससंवित्तिर् अपि स्फुटान् .१५अब्: बाह्यार्थान् संप्रगृह्णाति किं चिद् आध्यात्मिकान् अपि .१५च्द्: द्वितीयोपाश्रयात् तत्त्वभावार्थान् संप्रपद्यते .१६अब्: ईशते च स्वदेहान्तः पीठक्षेत्रादिकं स्फुटम् .१६च्द्: स्वरूपालोचनाद् अस्य यत् किं चिद् उपजायते .१७अब्: तत्र चेतः स्थिरीकुर्वंस् तद् एव सकलं लभेत् .१७च्द्: तेन तत्र न कुर्वीत चैतद् उत्तमवाञ्छया .१८अब्: पिण्डद्वयविनिर्मुक्ता किं चित् तद्वासनान्विता .१८च्द्: विज्ञानकेवलान्तस्था पदम् इत्य् अभिधीयते .१९अब्: यत एताम् अनुप्राप्तो विज्ञानक्रमयोगतः .१९च्द्: रूपोदयातिविज्ञानपदत्वं प्रतिपद्यते .२०अब्: एतच् चतुर्विधं ज्ञेयं चतुर्धार्थप्रतिश्रयात् .२०च्द्: स च तत्त्वादिसंवित्तिपूर्वस् तत्पतितावधिः .२१अब्: पदभावविनिर्मुक्ता किं चित् तदनुवर्जिता .२१च्द्: अवस्था स्वस्वरूपस्य प्रकाशकरणी यतः .२२अब्: तेन सारूप्यम् इत्य् उक्ता रूपस्थं यत् तदान्वितम् .२२च्द्: उदितादिप्रभेदेन तद् अप्य् उक्तं चतुर्विधं .२३अब्: ज्ञानोदया च देवेशि ममत्वात् तत्फलप्रदम् .२३च्द्: अमुना क्रमयोगेन अन्तरा येषु संदधत् .२४अब्: चेतः शुद्धम् अवाप्नोति रूपातीतं परं पदम् .२४च्द्: चतुर्विधं तद् अप्य् उक्तं संवित्तिफलभेदतः .२५अब्: त्रिविधं तत् समभ्यस्य सर्वसिद्धिफलेच्छया .२५च्द्: चतुर्थात् तु तनुं व्यक्त्वा तत्क्षणाद् अपवृज्यते .२६अब्: इति पिण्डादि भेदेन शिवज्ञानम् उदाहृतम् .२६च्द्: योगाभ्यासविधानेन मन्त्रविद्यागणं शृणु .२७अब्: पूर्वोक्तविधिसंनद्धः प्रदेशे पूर्वचोदिते .२७च्द्: नाभ्यादिपञ्चदेशानां परार्णं क्वापि चिन्तयेत् .२८अब्: स्वरूपेण प्रभाभारप्रकाशिततनूदरम् .२८च्द्: दीप्तिभिस् तस्य तीव्राभिर् आ ब्रह्मभुवनं ततः .२९अब्: एवं संस्मरतस् तस्य दिवसैः सप्तभिः प्रिये .२९च्द्: रुद्रशक्तिसमावेशः सुमहान् संप्रजायते .३०अब्: आविष्टो बहुवाक्यानि संस्कृतादीनि जल्पति .३०च्द्: महाहास्यं तथा गेयं शिवरुदितम् एव च .३१अब्: करोत्य् आविष्टचित्तस् तु न तु जानाति किं चन .३१च्द्: मासेनैवं यदा मुक्तो यत्र यत्रावलोकयेत् .३२अब्: तत्र तत्र दिशः सर्वा ईक्षते किरणाकुलाः .३२च्द्: यां याम् एव दिशं षड्भिर् मासैर् युक्तस् तु वीक्षते .३३अब्: नानाकाराणि रूपाणि तस्यां तस्यां प्रपश्यति .३३च्द्: न तेषु संदधेच् चेतः न चाभ्यासं परित्यजेत् .३४अब्: कुर्वन्न् एतद्विधं योगी भीरुर् उन्मत्तको भवेत् .३४च्द्: वीरः शक्तिम् पुनर् याति प्रमादात् तद्गतो ऽपि सन् .३५अब्: वत्सराद् योगसंसिद्धिं प्राप्नोति मनसेप्सिताम् .३५च्द्: परापराम् अथैतस्या अपरां वा यथेच्छया .३६अब्: सद्भावं मातृसंघस्य हृदयं भैरवस्य वा .३६च्द्: नवात्मानम् अपि ध्यायेद् रतिशेखरम् एव वा .३७अब्: अघोर्याद्यष्टकं वापि माहेश्यादिकम् एव वा .३७च्द्: अमृतादिप्रभेदेन रुद्रान् वा शक्तयो ऽपि वा .३८अब्: सर्वे तुल्यबलाः प्रोक्ता रुद्रशक्तिसमुद्भवाः .३८च्द्: अथवामृतपूर्णानां प्रभेदः प्रोच्यते परः .३९अब्: प्राणस्थं परयाक्रान्तं प्रत्येकम् अपि दीपितम् .३९च्द्: विद्यां प्रकल्पयेन् मन्त्रं प्राणाक्रान्तं परासनम् .४०अब्: द्वादशारस्य चक्रस्य षोडशारस्य वा स्मरेत् .४०च्द्: अष्टारस्याथवा देवि तस्य त्रेधा शतस्य वा .४१अब्: षडरस्याथवा मन्त्री यथा सर्वं तथा शृणु .४१च्द्: संक्षेपाद् इदम् आख्यातं सार्धं चक्रशतद्वयम् .४२अब्: एतत् त्रिगुणातां याति स्त्रीपुंयामलभेदतः .४२च्द्: शान्त्यादिकर्मभेदेन प्रत्येकं द्वादशात्मताम् .४३अब्: दक्षश् चण्डो हरः शौण्डी प्रमथो भीममन्मथौ .४३च्द्: शकुनिः सुमतिर् नन्दो गोपालो ऽथ पितामहः .४४अब्: नन्दा भद्रा जया काली कराली विकृतानना .४४च्द्: क्रोष्टकी भीममुद्रा च वायुवेगा हयानना .४५अब्: गम्भीरा घोषणी चैव द्वादशैताः प्रकीर्तिताः .४५च्द्: आग्नेय्यादिचतुष्कोणा ब्रह्माण्याद्या अपि प्रिये .४६अब्: सिद्धिर् ऋद्धिस् तथा लक्ष्मीर् दीप्तिर् माला शिखा शिवा .४६च्द्: सुमुखी वामनी नन्दा हरिकेशी हयानना .४७अब्: विश्वेशी च सुमाख्या च एता वा द्वादश क्रमात् .४७च्द्: एतासां वाचका ज्ञेयाः स्वराः षण्ठविवर्जिताः .४८अब्: षोडशारे ऽमृताद्याश् च स्त्रीपुंपाठप्रभेदतः .४८च्द्: श्रीकण्ठो ऽनन्तसूक्ष्मौ च त्रिमूर्तिः शर्वरीश्वरः .४९अब्: अर्घेशो भारभूतिश् च स्थितिः स्थाणुर् हरस् तथा .४९च्द्: झिण्ठीशो भौतिकश् चैव सद्योजातस् तथापरः .५०अब्: अनुग्रहेश्वरः क्रूरो महासेनो ऽथ षोडश .५०च्द्: सिद्धिर् ऋद्धिर् द्युतिर् लक्ष्मी मेघा कान्तिः स्वधा धृतिः .५१अब्: दीप्तिः पुष्टिर् मतिः कीर्तिः संस्थितिः सुगतिः स्मृतिः .५१च्द्: सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः .५२अब्: षोडशारे स्वरा ज्ञेया वाचकत्वेन सर्वतः .५२च्द्: अघोराद्यास् तथाष्टारे अघोर्याद्याश् च देवताः .५३अब्: माहेश्याद्यास् तथा देवि चतुर्विंशत्य् अतः शृणु .५३च्द्: नन्दादिकाः क्रमात् सर्वा ब्रह्माण्याद्यास् तथैव च .५४अब्: संवर्तो लकुलीकश् च भृगुः श्वेतो बकस् तथा .५४च्द्: खड्गी पिनाकी भुजगो नवमो बलिर् एव च .५५अब्: महाकालो द्विरण्डश् च च्छगलाण्डः शिखी तथा .५५च्द्: लोहितो मेषमीनौ च त्रिदण्ड्याषाढिनामकौ .५६अब्: उमाकान्तो ऽर्धनारीशो दारुको लाङ्गली तथा .५६च्द्: तथा सोमेशशर्माणौ चतुर्विम्शत्य् अमी मताः .५७अब्: कादिभान्ताः परिज्ञेया अष्टारे याद्यम् अष्टकम् .५७च्द्: मकारो बिन्दुरूपस्थः सर्वेषाम् उपरि स्थितः .५८अब्: जुंकारो ऽथ तथा स्वाहा षडरे षट् क्रमेण तु .५८च्द्: बलिश् च बलिनन्दश् च दशग्रीवो हरो हयः .५९अब्: माधवश् च महादेवि षष्ठः संपरिकीर्तितः .५९च्द्: विश्वा विश्वेश्वरी चैव हाराद्री वीरनायिका [हारौद्री?] .६०अब्: अम्बा गुर्वेति योगिन्यो बीजैस् तैर् एव षट् स्मृताः .६०च्द्: अन्योन्यवलिताः सर्वे स्वाम्यावरणभेदतः .६१अब्: अकारादिक्षकारान्ताः सर्वसिद्धिफलप्रदाः .६१च्द्: ध्यानाराधनयुक्तानां योगिनां मन्त्रिणाम् अपि .६२अब्: अथवा सर्वचक्राणां मध्ये विद्यां यथेप्सिताम् .६२च्द्: मन्त्रं वा पूर्वम् उद्दिष्टं जपन् ध्यायन् प्रसिद्ध्यति .६३अब्: इति संक्षेपतः प्रोक्तं सर्वकामफलप्रदम् इति श्रीमालिनीविजयोत्तरे सर्वमन्त्रनिर्णयो नाम विंशतितमो ऽधिकारः समाप्तः चन्द्राकृष्ट्यधिकार एकविंशतितमः .१अब्: अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम् .१च्द्: व्याधिमृत्युविनाशाय योगिनाम् उपवर्ण्यते .२अब्: षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके .२च्द्: स्वरूपेण परां तत्र स्रवन्तीम् अमृतं स्मरेत् .३अब्: पूर्वन्यासेन संनद्धः क्षणम् एकं विचक्षणः .३च्द्: ततस् तु रसनां नीत्वा लम्बके विनियोजयत् .४अब्: स्रवन्तम् अमृतं दिव्यं चन्द्रबिम्बसितं स्मरेत् .४च्द्: मुखम् आपूर्यते तस्य किं चिल् लवणवारिणा .५अब्: लोहगन्धेन तच् चात्र न पिबेत् किं तु निक्षिपेत् .५च्द्: एवं समभ्यसेत् तावद् यावत् तत् स्वादु जायते .६अब्: जराव्याधिविनिर्मुक्तो जायते तत्पिबंस् ततः .६च्द्: षड्भिर् मासैर् अनायासाद् वत्सरान् मृत्युजिद् भवेत् .७अब्: तत्र स्वादुनि संजाते तदाप्रभृति तत्रगम् .७च्द्: यद् एव चिन्तयेद् द्रव्यं तेनास्यापूर्यते मुखम् .८अब्: रुधिरं मदिरं वाथ वसां वा क्षीरम् एव वा .८च्द्: घृततैलादिकं वाथ द्रवद्द्रव्यम् अनन्यधीः .९अब्: अथान्यं संप्रवक्ष्यामि संक्रान्तिविधिम् उत्तमम् .९च्द्: मृते जीवच्छरीरे तु प्रविशेद् योगविद्यया .१०अब्: निवातस्थो जितप्राणो जितासनविधिक्रमः .१०च्द्: कुर्वीत वायुनावेशम् अर्कतूले शनैः शनैः .११अब्: स्वादाकृष्टिविधिं यावद् गुडे निम्बे च कारयेत् .११च्द्: श्रीखण्डगुडकर्पूरैस् ततः कृत्वाकृतिम् शुभाम् .१२अब्: प्रगुणाम् अगुण[लचुन]न्यङ्गेषु संदधत् .१२च्द्: न्यासं कृत्वापि तत्रापि वेधं कुर्याच् छनैः शनैः .१३अब्: निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम् .१३च्द्: घट्टनं नाम विज्ञेयम् अङ्गप्रत्यङ्गचालनम् .१४अब्: एवम् अभ्यसतस् तस्य योगयुक्तस्य योगिनः .१४च्द्: चलते प्रतिमा सा तु धावते चापि संमुखी .१५अब्: पुनस् तां प्रेरयेत् तावद् यावत् स्वस्थानम् आगतम् .१५च्द्: पतितां चालयेद् भूय उत्तानां पार्श्वतः स्थितः .१६अब्: एवं सर्वात्मनस् तावद् यावत् स्ववशतां गताम् .१६च्द्: ततः प्रभृत्य् असौ योगी प्रविशेद् यत्र रोचते .१७अब्: मृते जीवच्छरीरे वा संक्रान्त्याक्रान्तिभेदतः .१७च्द्: प्रक्षिप्य जलवच् छक्तिजालम् सर्वाङ्गसंधिषु .१८अब्: प्रत्यङ्गम् अङ्गतस् तस्य शक्तिं तेनाक्रमेद् बुधः .१८च्द्: स्वकीयं रक्षयेद् देहम् आक्रान्ताव् अन्यथा त्यजेत् .१९अब्: बहून्य् अपि शरीराणि दृढलक्ष्यो यदाऌभवेत् .१९च्द्: तदाऌगृह्णात्य् असंदेहं युगपत् संत्यजन्न् अपि .२०अब्: अथापरं प्रवक्ष्यामि सद्यःप्रत्ययकारकम् .२०च्द्: समाधानामृतं दिव्यं योगिनां मृत्युनाशनम् .२१अब्: चन्द्राकृष्टिकरं नाम मासाद् वाऌयोगभोगदम् .२१च्द्: शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरोचिषि .२२अब्: स्नातः शुचिर् निराहारः कृतपूजाविधिर् बुधः .२२च्द्: न्यसेच् चन्द्रे कलाजालं परया समधिष्ठितम् .२३अब्: सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः .२३च्द्: एकचित्तः प्रशान्तात्मा शिवसद्भावभावितः .२४अब्: तावद् आलोकयेच् चन्द्रं यावद् अस्तम् उपागतम् .२४च्द्: ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः .२५अब्: एवं दिने दिने कुर्याद् यावत् पञ्चदशी भवेत् .२५च्द्: शेषां रात्रिं स्वपेद् ध्यायंशॢचन्द्रबिम्बगतां पराम् .२६अब्: पौर्णमासीं तथा योगी अर्धरात्र उपस्थितः .२६च्द्: जने निःशब्दतां याते प्रसुप्ते सर्वजन्तुभिः .२७अब्: चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम् .२७च्द्: सिताम्बरपरीधानां सितचन्दनचर्चिताम् .२८अब्: मौक्तिकाभरणोपेतं सुरूपां नवयौवनाम् .२८च्द्: आप्यायनकरीं देवीं समन्ताद् अमृतस्रवाम् .२९अब्: राजीवासनसंस्थां च योगनिद्राम् अवस्थिताम् .२९च्द्: चन्द्रबिम्बे परां देवीं ईक्षते नात्र संशयः .३०अब्: ततस् तां चेतसा व्याप्य तावद् आकर्षयेत् सुधीः .३०च्द्: यावन् मुखाग्रम् आयाता तत्र कुर्यात् स्थिरं मनः .३१अब्: ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा .३१च्द्: निगिरेत् तां समाकृष्य भूयो हृदि विचिन्तयेत् .३२अब्: तया प्रविष्टया देहं योगी दुःखविवर्जितः .३२च्द्: शक्तितुल्यबलो भूत्वा जीवेद् आचन्द्रतारकम् .३३अब्: एको ऽप्य् अनेकधात्मानं संविभज्य निजेच्छया .३३च्द्: त्रैलोक्यं यौगपद्येन भुनक्ति वशतां गतम् .३४अब्: आसाद्य विपुलान् भोगान् प्रलये समुपस्थिते .३४च्द्: परम् अभ्येति निर्वाणं दुष्प्रापम् अकृतात्मनाम् .३५अब्: अथवा तन् न शक्नोति गगने परिचिन्तितुम् .३५च्द्: प्रतिबिम्बे तथा ध्यायेद् उदकादिषु पूर्ववत् .३६अब्: तत् पीत्वाऌमनसा शेषां स्वपेद् रात्रिम् अनुस्मरन् .३६च्द्: पूर्वोक्तं समवाप्नोति षड्भिर् मासैर् अखण्डितम् इति श्रीमालिनीविजयोत्तरे तन्त्रे चन्द्राकृष्ट्यधिकार एकविंशतितमः समाप्तः सूर्याकृष्ट्यधिकारो द्वाविंशतितमः .१अब्: अथान्यं परमं गुह्यं कथयामि तव प्रिये .१च्द्: यन् न कस्य चिद् आख्यातं योगामृतम् अनुत्तमम् .२अब्: सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम् .२च्द्: सम्यङ् मासचतुष्केण दिनाष्टाभ्यधिकेन तु .३अब्: प्रहर्स्याष्टमो भागो नाडिकेत्य् अभिधीयते .३च्द्: तत्पादक्रमवृद्ध्या तु प्रतिवासरम् अभ्यसेत् .४अब्: उदयास्तमयं यावद् यत्र सूर्यः प्रदृश्यते .४च्द्: प्रदेशे तत्र विजने सर्वबाधाविवर्जिते .५अब्: अहोरात्रोषितो योगी मकरस्थे दिवाकरे .५च्द्: शुचिर् भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः .६अब्: भानुबिम्बे न्यसेच् चक्रम् अष्टषड्द्वादशारकम् .६च्द्: शिवशक्तिघनोपेतं भैरवाष्टकसंयुतम् .७अब्: वर्षादिऋतुसंयुक्तं मासैरृक्षादिभिर् युतम् .७च्द्: अष्टारं चिन्तयेद् बिम्बे शेषं रश्मिषु चिन्तयेत् .८अब्: तत्र चित्तं समाधाय प्रोक्तकालं विचक्षणः .८च्द्: अनिमीलितनेत्रस् तु भानुबिम्बं निरीक्षयेत् .९अब्: ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः .९च्द्: प्रविशेद् अन्धकारान्तर्भुवनं निरुपद्रवम् .१०अब्: तत्रोन्मीलितनेत्रस् तु बिम्बाकारं प्रपश्यति .१०च्द्: संधाय तत्र चैतन्यं तिष्ठेद् यावन् न पश्यति .११अब्: नष्टे ऽपि चेतसा शेषं तिष्ठेत् कालम् अनुस्मरन् .११च्द्: एवं मासेन देवेशि स्थिरं तद् उपजायते .१२अब्: मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः .१२च्द्: त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम् .१३अब्: प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि .१३च्द्: प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्वरम् .१४अब्: उपलब्धं समाकृष्य मुखाग्रे स्थिरतां नयेत् .१४च्द्: आपीय पूर्ववत् पश्चाद् वृत्तिं निश्चलतां नयेत् .१५अब्: तत्र तेन सहात्मानम् एकीकृत्य मुहूर्तकम् .१५च्द्: यावत् तिष्ठति देवेशि तावत् संत्यजति क्षितिम् .१६अब्: पश्यतो जनवृन्दस्य याति सूर्येन चैकतः .१६च्द्: अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः .१७अब्: शिवाद्यवनिपर्यन्तं न क्व चित् प्रतिहन्यते .१७च्द्: भुक्त्वा तु विपुलान् भोगान् निष्कले लीयते परे .१८अब्: तद् एतत् खेचरीचक्रं यत्र खेचरतां व्रजेत् .१८च्द्: सिद्धयोगेश्वरीतन्त्रे सरहस्यम् उदाहृतम् .१९अब्: अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम् .१९च्द्: देहं चिन्तयतः पूर्वं फलं स्यान् निश्चितात्मनः .२०अब्: उच्चरन् फादिनान्तां वा ध्वनिज्योतिर्मरुद्द्युताम् .२०च्द्: विश्राम्य मस्तके चित्तं क्षणम् एकं विचक्षणः .२१अब्: त्रिशूलेन प्रयोगेन सद्यस् त्यजति मेदिनीम् .२१च्द्: एवं समभ्यसन् मासाच् चक्रवद् भ्रमति क्षितौ .२२अब्: मुहूर्तं स्पृशते भूमिं मुहूर्ताच् च नभस्तलम् .२२च्द्: शिवारावादि कुरुते वलनास्फोटनानि च .२३अब्: मुद्राबन्धादिकं वाथ भाषा वाऌवक्त्य् अनेकधा .२३च्द्: षण्मासान् मेदिनीं त्यक्त्वा समाधिस्थो दृढेन्द्रियः .२४अब्: तिष्ठते हस्तमात्रेण गगने योगचिन्तकः .२४च्द्: पश्यते योगिनीवृन्दम् अनेकाकारलक्षणम् .२५अब्: संवत्सरेण युक्तात्मा तत्समानः प्रजायते .२५च्द्: पश्यताम् एव लोकानां तेजोभिर् भासयन् दिशः .२६अब्: यात्य् उत्कृष्य महीपृष्ठात् खेचरीणां पतिर् भवेत् .२६च्द्: मुद्रा खगेश्वरी नाम कथिता योगिनीमते .२७अब्: जागरित्वाथ वा योगी त्र्यहोरात्रम् अतन्द्रितः .२७च्द्: चतुर्थे ऽह्नि निशारम्भे पूजयित्वा महेश्वरम् .२८अब्: ततो ऽन्धकारे बहुले कृतरक्षाविधिर् बुधः .२८च्द्: भ्रुवोर् मध्ये समाधाय क्षणं चेतः प्रपश्यति .२९अब्: तेजो रूपप्रतीकाशं पर्यङ्कासनम् आस्थितः .२९च्द्: प्रयोगं त्व् एव सततं योगयुक्तः समभ्यसेत् .३०अब्: पश्यते मासमत्रेण गृहान्तर्वस्तु यत् स्थितम् .३०च्द्: द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः पत्तनसंस्थितम् .३१अब्: चतुर्भिर् विषयान्तःस्थं पञ्चभिर् मण्डलावधि .३१च्द्: षड्भिर् मासैर् महायोगी च्छिद्रं पश्यति मेदिनीम् .३२अब्: सर्वज्ञत्वम् अवाप्नोति वत्सरान् नात्र संशयः .३२च्द्: योगिनीसिद्धसङ्घस्य सद्भावव्याप्तिसंस्थितम् .३३अब्: पश्यते योगयुक्तात्मा तत्समानश् च जायते .३३च्द्: अनेनैव विधानेन स्वस्तिकासनसंस्थितः .३४अब्: बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपम् अनुस्मरेत् .३४च्द्: तेनापि सर्वं पुर्वोक्तं व्याप्नोति फलम् उत्तमम् इति श्रीमालिनीविजयोत्तरे तन्त्रे सूर्याकृष्ट्यधिकार द्वाविंशतितमः समाप्तः त्रयोविंशतितमो ऽधिकारः .१अब्: अथातः परमं गुह्यं कथयामि तवाधुना .१च्द्: सद्योपलब्धिजनकं योगिनां योगसिद्धये .२अब्: पूर्वन्यासेन संनद्धश् चित्तं श्रोत्रे निवेशयेत् .२च्द्: निवाते स्वल्पवाते वा बाह्यशब्दविवर्जिते .३अब्: ततस् तत्र शृणोत्य् एष योगी ध्वनिम् अनावृतम् .३च्द्: सुविशुद्धस्य कांस्यस्य हतस्येह मुहुर् मुहुः .४अब्: यम् आक्र्ण्य महादेवि पुण्यपापैः प्रमुच्यते .४च्द्: तत्र संधाय चैतन्यं षण्मासाद् योगवित्तमः .५अब्: रुतं पक्षिगणस्यापि प्रस्फुटं वेत्त्य् अयत्नतः .५च्द्: दूराच् छ्रवणविज्ञानं वत्सरेणास्य जायते .६अब्: सर्वकामफलावाप्तिर् वत्सरत्रितयेन च .६च्द्: सिद्ध्यतीति किम् आश्चार्यम् अनायासेन सिद्ध्यति .७अब्: अथवा ग्रहणे मासि कृत्वा सूर्यं तु पृष्ठतः .७च्द्: पूर्वन्यासेन संनद्धः किं चिद् भित्तिमदाश्रितः .८अब्: लक्षयेद् आत्मनश् छायां मस्तकोर्ध्वम् अनाहतम् .८च्द्: धूमवर्तिविनिष्क्रान्तां तद्गतेनान्तरात्मना .९अब्: याति तन्मयतां तत्र योगयुक्तो यथा यथा .९च्द्: तथा तथास्य महती साऌवित्तिर् उपजायते .१०अब्: ततस् तत्र महातेजह् स्फुरत्किरणसंनिभम् .१०च्द्: पश्यते यत्र दृष्टे ऽपि सर्वपापक्षयो भवेत् .११अब्: तद् अस्याभ्यासतो मासात् सर्वत्र प्रविसर्पति .११च्द्: ज्वालामालाकुलाकारा दिशः सर्वाः प्रपश्यति .१२अब्: षण्मासम् अभ्यसन् योगी सर्वज्ञत्वम् अवाप्नुयात् .१२च्द्: अब्दं दिव्यतनुर् भूत्वा शिववन् मोदते चिरम् .१३अब्: अथ जात्यः प्रवक्ष्यन्ते सपूर्वासनशाश्वताः .१३च्द्: ह्रीं क्ष्लां क्ष्वीं वं तथाऌक्षं च पञ्चकस्य यथाक्रमम् .१४अब्: हं यं रं लं तथा वं च पञ्चकस्यापरस्य च .१४च्द्: ऋं .र्ं ऌं .ल्ं तथा ॐ औं हः अं आकर्णिकावधौ .१५अब्: केसरेषु भकारान्ता हं हां हिं हीं च हुं तथा .१५च्द्: हूं हें हैं च दलेष्व् एवं स्वसंज्ञाभिश् च शक्तयः .१६अब्: मण्डलत्रितये शेषं सूक्ष्मं प्रेतस्य कल्पयेत् .१६च्द्: ज्रकारं शूलशृङ्गाणाम् इत्य् एतत् परिकीर्तितम् .१७अब्: अनुक्तासनयोगेषु सर्वत्रैव प्रकल्पयेत् .१७च्द्: नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः\तेस्तिम्{\स्वच्छन्दतन्त्र .} .१८अब्: प्रायश्चित्तेषु सर्वेषु जपेन् मालाम् अखण्डिताम् .१८च्द्: भिन्नां वाप्य् अथवाभिन्नाम् अतिक्रमबलाबलम् .१९अब्: सकृज्जपात् समारभ्य यावल् लक्षत्रयं प्रिये .१९च्द्: प्राणवृत्तिनिरोधेन ततः परतरं क्व चित् .२०अब्: सदा भ्रमणशीलानां पीठक्षेत्रादिकं बहिः .२०च्द्: प्रयोगं संप्रवक्ष्यामि सुखसिद्धिफलप्रदम् .२१अब्: नासाक्रान्तं महाप्राणं दण्डरूपं सबिन्दुकम् .२१च्द्: तद्वद् गुह्यं च कुर्वीत विद्येयं द्व्यक्षरा मता .२२अब्: अस्याः पूर्वोक्तविधिना कृतसेवः प्रसन्नधीः .२२च्द्: पीठादिकं भ्रमेत् सिद्ध्यै नान्यथा वीरवन्दिते .२३अब्: तत् प्रदेशं समासाद्य मन्त्रैर् आत्मानम् आदरात् .२३च्द्: विद्यया वेष्तयेत् स्थानं रक्तसूत्रसमानया .२४अब्: बहुधानन्यचित्तस् तु सबाह्याभ्यन्तरं बुधः .२४च्द्: ततस् तत्र क्व चित् क्षेत्रे योगिन्यो भीमविक्रमाः .२५अब्: समागत्य प्रयच्छन्ति संप्रदायं स्वकं स्वकम् .२५च्द्: येनासौ लब्धमात्रेण संप्रदायेन सुव्रते .२६अब्: तत्समानबलो भूत्वा भुङ्क्ते भोगान् यथेप्सितान् .२६च्द्: अथवा कृतसेवस् तु लक्षम् एकं जपेत् सुधीः .२७अब्: तर्पयित्वा दशांशेन क्षुद्रकर्मसु योजयेत् .२७च्द्: तत्रोच्चारितमात्रेयं विषक्षयकरी भवेत् .२८अब्: चक्रवभ्रममाणैषा योनौ रक्तां विचिन्तयेत् .२८च्द्: गमागमक्रमाद् वापि विन्द[लचुन]वारिता .२९अब्: तत्रस्थश् चाशु संघातविघाताकुञ्चनेन तु .२९च्द्: क्षणाद् अनन्यचित्तस् तु क्षोभयेद् उर्वशीम् अपि .३०अब्: कृतसेवविधिर् वाथ लक्षत्रयजपेन तु .३०च्द्: महतीं श्रियम् आधत्ते पद्मश्रीफलतर्पिता .३१अब्: षडुत्थासनसंस्थाना साधिताप्य् उक्तवर्त्मना .३१च्द्: सर्वसिद्धिकरी देवी मन्त्रिणाम् उपजायते .३२अब्: शूलपद्मविधिं मुक्त्वा नवात्माद्यं च सप्तकम् .३२च्द्: षडुत्थम् आसनं दद्यात् सर्वचक्रविधौ बुधः .३३अब्: कुद्रा च महती योज्या हृद्बीजेनोपचारकम् .३३च्द्: अथान्यत् संप्रवक्ष्यामि स्वप्नज्ञानम् अनुत्तमम् .३४अब्: हृच्चक्रे तन्मयो भूत्वा रात्रौ रात्राव् अनन्यधीः .३४च्द्: मासाद् ऊर्ध्वं महादेवि स्वप्ने यत् किंचिद् ईक्षते .३५अब्: तत् तथ्यं जायते तस्य ध्यानयुक्तस्य योगिनः .३५च्द्: तत्रैव यदि कालस्य नियमेन रतो भवेत् .३६अब्: तदा प्रथमयामे तु वत्सरेण शुभाशुभम् .३६च्द्: षट्त्रिमासेन क्रमशो द्वितीयादिष्व् अनुक्रमात् .३७अब्: अरुणोदयवेलायां दशाहेन फलं लभेत् .३७च्द्: संकल्पपूर्वके ऽप्य् एवं परेषाम् आत्मनो ऽपि वा .३८अब्: क्व चित् कार्ये समुत्पन्ने सुप्तज्ञानम् उपाक्रमेत् .३८च्द्: इत्य् एतत् कथितं देवि सिद्धयोगीश्वरीमतम् .३९अब्: नातः परतरं ज्ञानं शिवाद्यवनिगोचरे .३९च्द्: य एवं तत्त्वतो वेद स शिवो नात्र संशयः .४०अब्: तस्य पादरजः मूर्ध्नि धृतं पापप्रशान्तये .४०च्द्: एतच् छ्रुत्वा महादेवी परं संतोषम् आगता .४१अब्: एवं क्षमापयाम् आस प्रणिपत्य पुनः पुनः .४१च्द्: इति वः सर्वम् आख्यातं मालिनीविजयोत्तरम् .४२अब्: ममैतत् कथितं देव्या योगामृतम् अनुत्तमम् .४२च्द्: भवद्भिर् अपि नाख्येयम् अशिष्याणाम् इदं महत् .४३अब्: न चापि परशिष्याणाम् अपरीक्ष्य प्रयत्नतः .४३च्द्: सर्वथैतत् समाख्यातं योगाभ्यासरतात्मनाम् .४४अब्: प्रयातानां विनीतानां शिवैकार्पितचेतसाम् .४४च्द्: कार्तिकेयात् समासाद्य ज्ञानामृतम् इदं महत् .४५अब्: मनयो योगम् अभ्यस्य परां सिद्धिम् उपागताः इति श्रीमालिनीविजयोत्तरे तन्त्रे त्रयोविंशतितमो ऽधिकारः समाप्तः समाप्तं चेदं मालिनीविजयोत्तरं नाम महातन्त्रम्