अयं दुःखव्रातव्रतपरिगमे पारणविधिर् महासौख्यासारप्रसरणरसे दुर्दिनम् इदम् यद् अन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर् विभोः स्तोत्रे शश्वत् प्रतिफलति चेतो गतभयम् अग्क्स्_१ विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये विमृष्टश् च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रे ऽहम् इह सततं यत्नरहितः अग्क्स्_२ अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाज् अनामृष्टः स्वात्मेत्य् अपि हि न विना ऽमर्शनविधेः शिवश् चासौ स्वात्मा स्फुरद् अखिलभावैकसरसस् ततो ऽहम् त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः अग्क्स्_३ विचित्रैर् जात्यादिभ्रमणपरिपाटीपरिकरैर् अवाप्तम् सार्वज्ञं हृदय यद् अयत्नेन भवता तद् अन्तस् त्वद्बोधप्रसरसरणीभूतमहसि स्फुटम् वाचि प्राप्य प्रकटय विभोः स्तोत्रम् अधुना अग्क्स्_४ विधुन्वानो बन्धाभिमतभवमार्गस्थितिम् इमां रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात् पिबन् भावान् एतान् वरद मदमत्तो ऽस्मि सुखितः अग्क्स्_५ भव प्राज्यैश्वर्यप्रथितबहुशक्तेर् भगवतो विचित्रं चारित्रं हृदयम् अधिशेते यदि ततः कथं स्तोत्रं कुर्याद् अथ च कुरुते तेन सहसा शिवैकात्म्यप्राप्तौ शिवनतिर् उपायः प्रथमकः अग्क्स्_६ ज्वलद्रूपं भास्वत्पचनम् अथ दाहं प्रकटनम् विमुच्यान्यद् वह्नेः किम् अपि घटते नैव हि वपुः स्तुवे संविद्रश्मीन् यदि निजनिजांस् तेन स नुतो भवेन् नान्यः कश्चिद् भवति परमेशस्य विभवः अग्क्स्_७ विचित्रारम्भत्वे गलितनियमे यः किल रसः परिच्छेदाभावात् परमपरिपूर्णत्वम् असमम् स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर् धर्मौघैः परचितिर् अनर्घोचितगुणा अग्क्स्_८ इतीदृक्षैर् रूपैर् वरद विविधं ते किल वपुर् विभाति स्वांशे ऽस्मिन् जगति गतभेदं भगवतः तद् एवैतत्स्तोतुं हृदयम् अथ गीर्बाह्यकरणप्रबन्धाश् च स्युर् मे सततम् अपरित्यक्तरभसः अग्क्स्_९ तवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर् विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां शशाङ्कार्काग्नीनां युगपद् उदयापायविभवाः अग्क्स्_१० अतश् चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः शश्वद् व्रजति न विभेदं कथम् अपि तद् एतस्यां भूमाव् अकुलम् इति ते यत् किल पदं तदेकाग्रीभूयान् मम हृदयभूर् भैरव विभो अग्क्स्_११ अमुष्मात् संपूर्नात् वत रसमहोल्लाससरसान् निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः अनर्घं स्वातन्त्र्यं तव तदिदम् अत्यद्भुतमयीं भवच्छक्तिं स्तुन्वन् विगलितभयो ऽहं शिवमयः अग्क्स्_१२ इदन्तावद् रूपं तव भगवतः शक्तिसरसं क्रमाभावाद् एव प्रसभविगलत् कालकलनम् मनःशक्त्या वाचाप्य् अथ करणचक्रैर् बहिर् अथो घटाद्यैस् तद्रूपं युगपद् अधितिष्ठेयम् अनिशम् अग्क्स्_१३ क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं भूयासं समधिशयितुं व्यग्रहृदयः अग्क्स्_१४ पुरा सृष्टिर् लीना हुतवहमयी यात्र विलसेत् परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसताम् अग्क्स्_१५ विसृष्टे भावांशे बहिर् अतिशयास्वादविरसे यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद् रक्तापानक्रमघटितगोष्ठीगतघृणम् अग्क्स्_१६ बहिर् वृत्तिं हातुं चितिभुवम् उदारां निवसितुं यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः स्थितेर् नाशं देवी कलयति तदा सा तव विभो स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा अग्क्स्_१७ जगत्संहारेण प्रशमयितुकामः स्वरभसात् स्वशङ्कातङ्काख्यं विधिम् अथ निषेधं प्रथयसि यमं सृष्ट्वेत्थं त्वं पुनर् अपि च शङ्कां विदलयन् महादेवी सेयं मम भवभयं संदलयताम् अग्क्स्_१८ विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते लोकाचारे गलितविभवे शास्त्रनियमे अनन्तं भोग्यौघं ग्रसितुम् अभितो लंपटरसा विभो संहाराख्या मम हृदि भिदांशं प्रहरतु अग्क्स्_१९ तदित्थं देवीभिः सपदि दलिते भेदविभवे विकल्पप्राणासौ प्रविलसति मातृस्थितिर् अलम् अतः संहारांशम् निजहृदि विमृश्य स्थितिमयी प्रसन्ना स्यान् मृत्युप्रलयकरणी मे भगवती अग्क्स्_२० तदित्थं ते तिस्रो निजविभवविस्फारणवशाद् अवाप्ताः षट्चक्रक्रमकृतपदं शक्तय इमाः क्रमाद् उन्मेषेण प्रविदधति चित्रां भवदशाम् इमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः अग्क्स्_२१ इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीम् इमां बोधैकान्तद्रुतिरसमयीम् चापि विदधे तदित्थं संरोधं द्रुतिम् अथ विलुप्याशुभततीर् यथेष्टं चाचारं भजति लसतां सा मम हृदि अग्क्स्_२२ क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीम् अवाप्तस्य स्फारं निजनिजरुचा संहरति या इयं मार्त.ङ्दस्य स्थितिपदयुजः सारम् अखिलम् हठाद् आकर्षन्ती कृशतु मम भेदं भवभयात् अग्क्स्_२३ समग्राम् अक्षालीं क्रमविरहिता सात्मनि मुहुर् निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा परा दिव्यानन्दं कलयितुम् उदारादरवती प्रसन्ना मे भूयात् हृदयपदवीं भूषयतु च अग्क्स्_२४ प्रमाणे संलीने शिवपदलसद्वैभववशात् शरीरप्राणादिर् मितकृतकमातृस्थितिमयः यदा कालोपाधिः प्रलयपदम् आसादयति ते तदा देवी यासौ लसति मम सा स्याच् छिवमयी अग्क्स्_२५ प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो बहिर्लीनात्यन्तम् प्रसरति समाच्छादकतया ततो ऽप्य् अन्तःसारे गलितरभसाद् अक्रमतया महाकाली सेयं मम कलयतां कालम् अखिलम् अग्क्स्_२६ ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं विच्छिद्याशु स्थितिमतिरसात् संविदधति प्रमाणं मातारं मितिम् अथ समग्रं जगद् इदं स्थितां क्रोडीकृत्य श्रयतु मम चित्तं चितिम् इमाम् अग्क्स्_२७ अनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस् ताः तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् अग्क्स्_२८ इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् आकर्ण्य देव यदि मे व्रजसि प्रसादम् तेनाशु सर्वजनतां निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः अग्क्स्_२९ षट्षष्टिनाम् एके वर्षे नवम्याम् असिते ऽहनि मया ऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः इति श्री अभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम्